कुमारसम्भव

अस्त्य् उत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः॥१.१॥

यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश् च पृथूपदिष्टां दुदुहुर् धरित्रीम्॥१.२॥

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्व् इवाङ्कः॥१.३॥

यश् चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर् बिभर्ति । बलाहकच्छेदविभक्तरागाम् अकालसंध्याम् इव धातुमत्ताम्॥१.४॥

आमेखलं संचरतां घनानां च्छायाम् अधःसानुगतां निषेव्य । उद्वेजिता वृष्टिभिर् आश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः॥१.५॥

पदं तुषारस्रुतिधौतरक्तं यस्मिन्न् अदृष्ट्वापि हतद्विपानाम् । विदन्ति मार्गं नखरन्ध्रमुक्तैर् मुक्ताफलैः केसरिणां किराताः॥१.६॥

न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणाम् अनङ्गलेखक्रिययोपयोगम्॥१.७॥

यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन । उद्गास्यताम् इच्छति किंनराणां तानप्रदायित्वम् इवोपगन्तुम्॥१.८॥

कपोलकण्डूः करिभिर् विनेतुं विघट्टितानां सरलद्रुमाणाम् । यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति॥१.९॥

वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्याम् अतैलपूराः सुरतप्रदीपाः॥१.१०॥

उद्वेजयत्य् अङ्गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमे ऽपि यत्र । न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिम् अश्वमुख्यः॥१.११॥

दिवाकराद् रक्षति यो गुहासु लीनं दिवा भीतम् इवान्धकारम् । क्षुद्रे ऽपि नूनं शरणं प्रपन्ने ममत्वम् उच्चैःशिरसां सतीव॥१.१२॥

लाङ्गूलविक्षेपविसर्पिशोभैर् इतस् ततश् चन्द्रमरीचिगौरैः । यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश् चमर्यः॥१.१३॥

यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किंपुरुषाङ्गनानाम् । दरीगृहद्वारविलम्बिबिम्बास् तिरस्करिण्यो जलदा भवन्ति॥१.१४॥

भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः । यद् वायुर् अन्विष्टमृगैः किरातैर् आसेव्यते भिन्नशिखण्डिबर्हः॥१.१५॥

सप्तर्षिहस्तावचितावशेषाण्य् अधो विवस्वान् परिवर्तमानः । पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्य् ऊर्ध्वमुखैर् मयूखैः॥१.१६॥

यज्ञाङ्गयोनित्वम् अवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च । प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयम् अन्वतिष्ठत्॥१.१७॥

स मानसीं मेरुसखः पित्ṝ्णां कन्यां कुलस्य स्थितये स्थितिज्ञः । मेनां मुनीनाम् अपि माननीयाम् आत्मानुर्ऊपां विधिनोपयेमे॥१.१८॥

कालक्रमेणाथ तयोः प्रवृत्ते स्वर्ऊपयोग्ये सुरतप्रसङ्गे । मनोरमं यौवनम् उद्वहन्त्या गर्भो ऽभवद् भूधरराजपत्न्याः॥१.१९॥

असूत सा नागवधूपभोग्यं मैनाकम् अम्भोनिधिबद्धसख्यम् । क्रुद्धे ऽपि पक्षच्छिदि वृत्रशत्राव् अवेदनाज्ञं कुलिशक्षतानाम्॥१.२०॥

अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी । सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे॥१.२१॥

सा भूधराणाम् अधिपेन तस्यां समाधिमत्याम् उदपादि भव्या । सम्यक्प्रयोगाद् अपरिक्षतायां नीताव् इवोत्साहगुणेन संपत्॥१.२२॥

प्रसन्नदिक् पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि । शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव॥१.२३॥

तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे । विदूरभूमिर् नवमेघशब्दाद् उद्भिन्नया रत्नशलाकयेव॥१.२४॥

दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा । पुपोष लावण्यमयान् विशेषाञ् ज्योत्स्नान्तराणीव कलान्तराणि॥१.२५॥

तां पार्वतीत्य् आभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव । उ मेति मात्रा तपसो निषिद्धा पश्चाद् उमाख्यां सुमुखी जगाम॥१.२६॥

महीभृतः पुत्रवतो ऽपि दृष्टिस् तस्मिन्न् अपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर् हि चूते द्विरेफमाला सविशेषसङ्गा॥१.२७॥

प्रभामहत्या शिखयेव दीपस् त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश् च विभूषितश् च॥१.२८॥

मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश् च । रेमे मुहुर् मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये॥१.२९॥

तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तम् इवात्मभासः । स्थिरोपदेशाम् उपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः॥१.३०॥

असंभृतं मण्डनम् अङ्गयष्टेर् अनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तम् अस्त्रं बाल्यात् परं साथ वयः प्रपेदे॥१.३१॥

उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर् भिन्नम् इवारविन्दम् । बभूव तस्याश् चतुरस्रशोभि वपुर् विभक्तं नवयौवनेन॥१.३२॥

अभ्युन्नताङ्गुष्ठनखप्रभाभिर् निक्षेपणाद् रागम् इवोद्गिरन्तौ । आजह्रतुस् तच्चरणौ पृथिव्यां स्थलारविन्दश्रियम् अव्यवस्थाम्॥१.३३॥

सा राजहंसैर् इव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलुब्धैर् आदित्सुभिर् नूपुरसिञ्जितानि॥१.३४॥

वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस् तदीये । शेषाङ्गनिर्माणविधौ विधातुर् लावण्य उत्पाद्य इवास यत्नः॥१.३५॥

नागेन्द्रहस्तास् त्वचि कर्कशत्वाद् एकान्तशैत्यात् कदलीविशेषाः । लब्ध्वापि लोके परिणाहि र्ऊपं जातास् तदूर्वोर् उपमानबाह्याः॥१.३६॥

एतावता नन्व् अनुमेयशोभं काञ्चीगुणस्थानम् अनिन्दितायाः । आरोपितं यद् गिरिशेन पश्चाद् अनन्यनारीकमनीयम् अङ्कम्॥१.३७॥

तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः । नीवीम् अतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेर् इवार्चिः॥१.३८॥

मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानम् इव प्रयुक्तम्॥१.३९॥

अन्योन्यम् उत्पीडयद् उत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरम् अप्य् अलभ्यम्॥१.४०॥

शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाव् इति मे वितर्कः । पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन॥१.४१॥

कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः॥१.४२॥

चन्द्रं गता पद्मगुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीम् अभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिम् अवाप लक्ष्मीः॥१.४३॥

पुष्पं प्रवालोपहितं यदि स्यान् मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततो ऽनुकुर्याद् विशदस्य तस्यास् ताम्रौष्ठपर्यस्तरुचः स्मितस्य॥१.४४॥

स्वरेण तस्याम् अमृतस्रुतेव प्रजल्पितायाम् अभिजातवाचि । अप्य् अन्यपुष्टा प्रतिकूलशब्दा श्रोतुर् वितन्त्रीर् इव ताड्यमाना॥१.४५॥

प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितम् आयताक्ष्या । तया गृहीतं नु मृगाङ्गनाभ्यस् ततो गृहीतं नु मृगाङ्गनाभिः॥१.४६॥

तस्याः शलाकाञ्जननिर्मितेव कान्तिर् भ्रुवोर् आनतलेखयोर् या । तां वीक्ष्य लीलाचतुराम् अनङ्गः स्वचापसौन्दर्यमदं मुमोच॥१.४७॥

लज्जा तिरश्चां यदि चेतसि स्याद् असंशयं पर्वतराजपुत्र्याः । तं केशपाशं प्रसमीक्ष्य कुर्युर् वालप्रियत्वं शिथिलं चमर्यः॥१.४८॥

सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । सा निर्मिता विश्वसृजा प्रयत्नाद् एकस्थसौन्दर्यदिदृक्षयेव॥१.४९॥

तां नारदः कामचरः कदा चित् कन्यां किल प्रेक्ष्य पितुः समीपे । समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य॥१.५०॥

गुरुः प्रगल्भे ऽपि वयस्य् अतो ऽस्यास् तस्थौ निवृत्तान्यवराभिलाषः । ऋते कृशानोर् न हि मन्त्रपूतम् अर्हन्ति तेजांस्य् अपराणि हव्यम्॥१.५१॥

अयाचितारं न हि देवदेवम् अद्रिः सुतां ग्राहयितुं शशाक । अभ्यर्थनाभङ्गभयेन साधुर् माध्यस्थ्यम् इष्टे ऽप्य् अवलम्बते ऽर्थे॥१.५२॥

यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज । तदाप्रभृत्य् एव विमुक्तसङ्गः पतिः पशूनाम् अपरिग्रहो ऽभूत्॥१.५३॥

स कृत्तिवासास् तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु । प्रस्थं हिमाद्रेर् मृगनाभिगन्धि किं चित् क्वणत्किंनरम् अध्युवास॥१.५४॥

गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर् दधानाः । मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु॥१.५५॥

तुषारसंघातशिलाः खुराग्रैः समुल्लिखन् दर्पकलः ककुद्मान् । दृष्टः कथं चिद् गवयैर् विविग्नैर् असोढसिंहध्वनिर् उन्ननाद॥१.५६॥

तत्राग्निम् आधाय समित्समिद्धं स्वम् एव मूर्त्यन्तरम् अष्टमूर्तिः । स्वयं विधाता तपसः फलानाम् केनापि कामेन तपश् चचार॥१.५७॥

अनर्घ्यम् अर्घ्येण तम् अद्रिनाथः स्वर्गौकसाम् अर्चितम् अर्चयित्वा । आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम्॥१.५८॥

प्रत्यर्थिभूताम् अपि तां समाधेः शुश्र्ऊषमाणां गिरिशो ऽनुमेने । विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः॥१.५९॥

अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री । गिरिशम् उपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः॥१.६०॥