← एकादशः सर्गः कुमारसम्भवम्
द्वादशः सर्गः
कालिदासः
त्रयोदशः सर्गः →

अथ प्रपेदे त्रिदशैरशेषैः क्रूरासुरोपप्लवदुःखितात्मा ।
पुलोमपुत्रीदयितोऽन्धकारिं पत्त्रीव तृष्णातुरितः पयोदम् ।। १२.१ ।।

दृप्तारिसंत्रासखिलीकृतात्स कथंचिदम्भोदविहारमार्गात् ।
अवातताराभिगिरिं गिरीशगौरीपदन्यासविशुद्धमिन्द्रः ।। १२.२ ।।

संक्रन्दनः स्यन्दनतोऽवतीर्य मेघात्मनो मातलिदत्तहस्तः ।
पिनाकिनोऽथालयमुच्चचाल शुचौपिपासाकुलितो यथाम्भः ।। १२.३ ।।

इतस्ततोऽथ प्रतिबिम्बभाजं विलोकमानः स्फटिकाद्रिभूमौ ।
आत्मानमप्येकमनेकधा स व्रजन्विभोरास्पदमाससाद ।। १२.४ ।।

विचित्रचञ्चन्मणिभङ्गिसङ्गं सौवर्णदण्डं दधतातिचण्डम् ।
स नन्दिनाधिष्ठितमध्यतिष्ठत्सौधाङ्गणद्वारमनङ्गशत्रोः ।। १२.५ ।।

ततः स कक्षाहितहेमदण्डो नन्दी सुरेन्द्रं प्रतिपद्य सद्यः ।
प्रतोषयामास सुगौरवेण गत्वा शशंस स्वयमीश्वरस्य ।। १२.६ ।।

भ्रूसंज्ञयानेन कृताभ्यनुज्ञः सुरेश्वरं तं जगदीश्वरेण ।
प्रवेशयामास सुरैः पुरोगः समं स नन्दी सदनं सदस्य ।। १२.७ ।।

स चण्डिभृङ्गिप्रमुखैर्गरिष्ठैर्गणैरनेकैर्विविधस्वरुपैः ।
अधिष्ठितं संसदि रत्नमय्यां सहस्रनेत्रः शिवमालुलोके ।। १२.८ ।।

कपर्दमुद्बद्धमहीनमूर्धरत्नांशुभिर्भासुरमुल्लसद्भिः ।
दधानमुच्चैस्तरमिद्धधातोः सुमेरुश्रृङ्गस्य समत्वमाप्तम् ।। १२.९ ।।

बिभ्राणमुत्तुङ्गतरङ्गमालां गङ्गां जटाजूटतटं भजन्तीम् ।
गौरीं तदुत्सङ्गजुषं हसन्तीमिव स्वफेनैः शरदभ्रशुभ्रैः ।। १२.१० ।।

गङ्गातरङ्गप्रतिबिम्बितैः स्वैर्बहूभवन्तं शिरसा सुधांशुम् ।
चलन्मरीचिप्रचयैस्तुषारगौरैर्हिमद्योतितमुद्वहन्तम् ।। १२.११ ।।

भालस्थले लोचनमेधमानधामाधरीभूतरवीन्दुनेत्रम् ।
युगान्तकालोचितहव्यवाहं मीनध्वजप्लोषणमादधानम् ।। १२.१२ ।।

महार्हरत्नाञ्चितयो रुदारं स्फुरत्प्रभामण्डलयोः समन्तात् ।
कर्णस्थिताभ्यां शशिभास्कराभ्यामुपासितं कुण्डलयोश्छलेन ।। १२.१३ ।।

स्वबद्धया कण्ठिकयेव नीलमाणिक्यमय्या कुतुकेन गौर्याः ।
नीलस्य कण्ठस्य परिस्फुरन्त्या कान्त्या महत्या सुविराजमानम् ।। १२.१४ ।।

कालार्दितानां त्रिदशासुराणां चितारजोभिः परिपाण्डुरंगम् ।
महन्महेभाजिनमुद्गताभ्रप्रालेयशैलश्रियमुद्वहन्तम् ।। १२.१५ ।।

पाणिस्थितब्रह्मकपालपात्रं वैकुण्ठभाजापि निषेध्यमाणाम् ।
नरास्थिखण्डाभरणं रणान्तमूलं त्रिशूलं कलयन्तमुच्चैः ।। १२.१६ ।।

पुरातनीं ब्रह्मकपालमालां कण्ठे वहन्तं पुनराश्वसन्तीम् ।
उद्गीतवेदां मुकुटेन्दुवर्षत्सुधा भरौघाप्लवलब्धसंज्ञाम् ।। १२.१७ ।।

सलीलमङ्कस्थितया गिरीन्द्रपुत्र्या नवाष्टापदवल्लिभासा ।
विराजमानं शरदभ्रखण्डं परिस्फुरन्त्याचिररोचिषेव ।। १२.१८ ।।

दृप्ताऽन्धकप्राणहरं पिनाकं महासुरस्त्रीविधवत्वहेतुम् ।
करेण गृह्णान्तमगृह्यमन्यैः पुरास्मरप्लोषणकेलिकारम् ।। १२.१९ ।।

भद्रासनं काञ्चनपादपीठं महार्हमाणिक्यविभङ्गिचित्रम् ।
अधिष्ठितं चन्द्रमरीचिगौरैरुद्वीज्यमानं चमरैर्गणाभ्याम् ।। १२.२० ।।

शस्त्रास्त्रविद्याभ्यसनैकसक्ते सविस्मयैरेत्य गणैः सुदृष्टे ।
नीराज्यमाने स्फटिकाचलेन सानन्दनिर्दिष्टदृशं कुमारे ।। १२.२१ ।।

तथाविधं शैलसुताधिनाथं पुलोमपुत्रीदयितो निरीक्ष्य ।
आसीत्क्षणं क्षोभपरो नु कस्य मनो न हि क्षुभ्यति धामधाम्नि ।। १२.२२ ।।

विकरस्वराभ्भोजवनश्रिया तं दृशं सहस्रेण निरीक्षमाणः ।
रोमालिभिः स्वर्गपतिर्बभासे पुष्पोत्कराकीर्णइवाम्रशाखी ।। १२.२३ ।।

दृष्ट्वा सहस्रेण दृशां महेशमभूत्कृतार्थोऽतितरां महेन्द्रः ।
सर्वाङ्गजातं तदथो विरुपमिव प्रियाकोपकरं विवेद ।। १२.२४ ।।

ततः कुमारं कनकाद्रिसारं पुरंदरः प्रेक्ष्य धृतास्त्रशस्त्रम् ।
महेश्वरोपान्तिकवर्तमानं शत्रोर्जयाशां मनसा बबन्ध ।। १२.२५ ।।

श्रीनीलकण्ठ द्युपतिः पुरोऽस्ति त्वयि प्रणामावसरं प्रतीच्छन् ।
सहस्रनेत्रेऽत्र भव त्रिनेत्र दृष्ट्या प्रसाद प्रगुणो महेश ।। १२.२६ ।।

इति प्रबद्धाञ्जलिरेत्य नन्दी निधाय कक्षामभिः हेम नेत्रम् ।
प्रसादपात्रं पुरतो भविष्णुरथ स्मरारातिमुवाच वाचम् ।। १२.२७ ।।

पुरा सुरेन्द्रं सुरसङ्घसेव्यं त्रिलोकसेव्यस्त्रिपुरासुरारिः ।
प्रीत्या सुधासारनिधारिणेव ततोऽनुजग्राह विलोकनेन ।। १२.२८ ।।

किरीटकोटिच्युतपारिजात पुष्पोत्करेणानमितेन मूर्ध्ना ।
स्वर्गैकवन्द्यो जगदेकवन्द्यं तं देवदेवं प्रणनाम देवः ।। १२.२९ ।।

अनेकलोकैकनमस्क्रियार्हं महेश्वरं तं त्रिदशेश्वरः स ।
भक्त्या नमस्कृत्य कृतार्थतायाः पात्रं पवित्रं परमं बभूव ।। १२.३० ।।

सुभक्तिभाजामधि पादपीठं प्रान्तक्षितिं नम्रतरैः शिरोभिः ।
ततः प्रणेमुः पुरतो गणानां गणाः सुराणां क्रमतः पुरारिम् ।। १२.३१ ।।

गणोपनीते प्रभुणोपदिष्टः शुभासने हेममये पुरस्तात् ।
प्रापोपविश्य प्रमुदं सुरेन्द्रः प्रभुप्रसादो हि मुदे न कस्य ।। १२.३२ ।।

क्रमेण चान्येऽपि विलोकनेन संभाविताः सस्मितमीश्वरेण ।
उपाविशंस्तोषविशेषमाप्ता दृग्गोचरे तस्य सुराः समग्राः ।। १२.३३ ।।

अथाह देवो बलवैरिमुख्यान् गीर्वाणवर्गान्करुणार्द्रचेताः ।
कृताञ्जलीकान्सुराभिसूतान्ध्वस्तश्रियः श्रान्तमुखानवेक्ष्य ।। १२.३४ ।।

अहो बतानन्तपराक्रमाणां दिवौकसो वीरवरायुधानाम् ।
हिमोदबिन्दुग्लपितस्य किं यः पद्मस्य दैन्यं दधते मुखानि ।। १२.३५ ।।

स्वर्गौकसः स्वर्गपरिच्युताः किं स्वपुण्यराशौ सुमहत्तमेऽपि ।
चिह्नं चिरोढं न तु यूयमेते निजाधिपत्यस्य परित्यजध्वम् ।। १२.३६ ।।

दिवौकसो देवगृहं विहाय मनुष्यसाधारणतामवाप्ताः ।
यूयं कुतः कारणतश्चरध्वं महीतले मानभृतो महान्तः ।। १२.३७ ।।

अनन्यसाधारणसिद्धमुच्चैस्तद्दैवतं धाम निकामरम्यम् ।
कस्माद कस्मान्निरगाद्भवद्भ्यश्चिरार्जितं पुण्यमिवा पचारात् ।। १२.३८ ।।

दिवौकसो वो हृदयस्य कस्मात्तयाविधं धैर्यमहार्यमार्याः ।
अगादगाधस्य जलाशयस्य ग्रीष्मातितापादिवशादिवाम्भः ।। १२.३९ ।।

सुराः सुराधीशपुरःसराणां समीयुषां वः सममातुराणाम् ।
तद्ब्रूत लोकत्रयजित्वरात्किं महासुरात्तारकतो विरुद्धम् ।। १२.४० ।।

पराभवं तस्य महासुरस्य निषेद्धुमेकोऽहमलंभविष्णुः ।
दावानलप्लोषविपत्तिमन्यो महाम्बुदात्किं हरते वनानाम् ।। १२.४१ ।।

इतीरिते मन्मथमर्दनेन सुराः सुरेन्द्रप्रमुखा मुखेषु ।
सान्द्रप्रमोदाश्रुतरङ्गितेषु दधुः श्रियं सत्वरमाश्वसन्तः ।। १२.४२ ।।

ततो गिरीशस्य गिरां विरामे जगाद लब्धेऽवसरे सुरेन्द्रः ।
भवन्ति वाचोऽवसरे प्रयुक्ता ध्रुवं फलाविष्टमहोदयाय ।। १२.४३ ।।

ज्ञानप्रदीपेन तमोपहेनाविनश्वरेणास्खलितप्रभेण ।
भूतं भवद्भावि च यच्च किंचित्सर्वज्ञ सर्वं तव गोचरं तत् ।। १२.४४ ।।

दुर्वारदोरुद्यमदुःसहेन यत्तारकेणामरघस्मरेण ।
तदीशतामाप्तवता निरस्ता वयं दिवोऽमी वद किं न वेत्सि ।। १२.४५ ।।

विधेरमोघं स वरप्रसादमासाद्य सद्यस्त्रिजगज्जिगीषुः ।
सुरानशेषानहकप्रमुख्यान्दोर्दण्डचण्डो मनुते तृणाय ।। १२.४६ ।।

स्तुत्या पुरास्माभिरुपासितेन पितामहेनेति निरुपितं नः ।
सेनापतिः संयति दैत्यमेतं पुरः स्मरारातिसुतो निहन्ति ।। १२.४७ ।।

अहो ततोऽनन्तरमद्ययाव त्सुदुःसहां तस्य पराभवार्तिम् ।
विषेहिरे हन्त हृदन्तशल्यमाज्ञानिवेशं त्रिदिवौकसौऽमी ।। १२.४८ ।।

निदाघधामक्लमविक्लवानां नवीनमम्भोदमिवौषधीनाम् ।
सुनन्दनं नन्दनमात्मनो नः सेनान्यमेतं स्वयमादिश त्वम् ।। १२.४९ ।।

त्रैलोक्यलक्ष्मीहृदयैकशल्यं समूलमुत्खाय महासुरं तम् ।
अस्माकमेषां पुरतो भवन्स दुःखापहारं युधि यो विधत्ते ।। १२.५० ।।

महाहवे नाथ तवास्य सूनोः शस्त्रैः शितैः कृत्तशिरोधराणाम् ।
महासुराणां रमणीविलोपैर्दिशो दशैता मुखरीभवन्तु ।। १२.५१ ।।

महारणक्षोणिपशूपहारीकृतेऽसुरे तत्र तवात्मजेन ।
बन्दिस्थितानां सुदृशां करोतु वेणिप्रमोक्षं सुरलोक एषः ।। १२.५२ ।।

इत्थं सुरेन्द्रे वदति स्मरारिः सुरारिदुश्चेष्टितजातरोषः ।
कृतानुकम्पस्त्रिदशेषु तेषु भूयोऽपि भूताधिपतिर्बभाषे ।। १२.५३ ।।

अहो अहो देवगणाः सुरेन्द्रमुख्याः शृणुध्वं वचनं ममैते ।
विचेष्टते शंकर एष देवः कार्याय सज्जो भवतां सुताद्यैः ।। १२.५४ ।।

पुरा मयाकारि गिरीन्द्रपुत्र्याः प्रतिग्रहोऽयं नियतात्मनापि ।
तत्रैष हेतुः खलु तद्भवेन वीरेण यद्वध्यत एष शत्रुः ।। १२.५५ ।।

अत्रोपपन्नं तदमी नियुज्य कुमारमेनं पृतनापतित्वे ।
निघ्नन्तु शत्रुं सुरलोकमेष भुनक्तु भूयोऽपि सुरैः सहेन्द्रः ।। १२.५६ ।।

इत्युदीर्य भगवांस्तमात्मजं घोरसंगरमहोत्सवोत्सुकम् ।
नन्दनं हि जहि देवविद्विषं संयतीति निजगाद शंकरः ।। १२.५७ ।।

शासनं पशुपतेः स कुमार स्वीचकार शिरसावनतेन ।
सर्वथैव पितृभक्तिरतानामेष एव परमः खलु धर्मः ।। १२.५८ ।।

असुरयुद्धविधौ विबुधेश्वरे पशुपतौ वदतीति तवात्मजम् ।
गिरीजया मुमुदे सुतविक्रमे सति न नन्दति का खलु वीरसूः ।। १२.५९ ।।

सुरपरिवृढः प्रौढं वीरं कुमारमुमापते-
?र्बलवदमरारातिस्त्रीणां दृगञ्जनभञ्जनम् ।
जगदभयदं सद्यः प्राप्य प्रमोदपरोऽभवद्-
ध्रुवमभिमते पूर्णे को वा मुदा न हि माद्यति ।। १२.६० ।।

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदाससकृतौ कुमारसंभवे महाकाव्ये
कुमारसैनापत्यवर्णनं नाम द्वादशः सर्गः ।।