कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/पञ्चदशः सर्गः(सुरसैन्यसङ्घट्टः)

← चतुर्दशः सर्गः(सेनाप्रयाणः) कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
पञ्चदशः सर्गः(सुरसैन्यसङ्घट्टः)
कालिदासः
षोडशः सर्गः(सैन्यसङ्ग्रामः) →

पञ्चदशः सर्गः।

 सेनापति नन्दनमन्धकद्विषो यु[]धे पुरस्कृत्य बलस्य शात्रवः ।
 सैन्यैरुपैतीति सुरद्विषां पुरोऽभूत्किंवदन्ती हृ[]दयप्रकम्पिनी ॥१॥

 सेनापतिमिति ॥ बलस्य बलनामकराक्षसस्य शात्रवः शत्रुरेव शात्रवः । प्रज्ञादित्वात्स्वार्थेऽण् । इन्द्रः । सेनापतिं पृतनाधिपम् । अन्धकद्विषो हरस्य नन्दनं पुत्रं कार्तिकेयं पुरस्कृत्याग्रे कृत्वा सैन्यैः सह युधे युद्धाय, युद्धं कर्तुमिति यावत् । 'क्रियार्थ-'(पा.२।३।१४ ) इत्यादिना चतुर्थी । उपैत्यायाति । इत्येवंभूता हृदयप्रकम्पिनी हृदयं वेपयन्ती किंवदन्ती जनश्रुतिः । 'किंवदन्ती जनश्रुतिः' इत्यमरः । सुरद्विषां दैत्यानां तारकनगरनिवासिनां पुरोऽग्रेऽभूत् । सर्गेऽस्मिन्निन्द्रवंशोपजाती वृत्ते ॥ १॥

 []मूप्रभुं मन्मथमर्दनात्मजं विजित्व[]रीभिर्विजयश्रिया श्रितम् ।
 श्रुत्वा सुराणां पृतनाभि[]रागतं चित्ते[] चिरं चुक्षुभिरे महासुराः ॥२॥

 चमूप्रभुमिति ॥ महासुरास्तारकनगरनिवासिनो दैत्या विजयश्रिया विजयलक्ष्म्या श्रितं सेवितम् । एतेनास्य कादाचित्कोऽपि पराभवो न भवतीति ध्वनितम् । अत एव चमूप्रभुं सेनाधिपं मन्मथमर्दनस्य शिवस्यात्मजम् । अनेन यदीयः पिता सकलभुवनजेतुर्मकरध्वजस्यापि प्लोषिता, अतोऽस्य किं वक्तव्यम् ? 'कार्य निदानाद्धि गुणानधीते', 'प्रवर्तितो दीप इव प्रदीपात्' इत्यादिन्यायेन तारकेणाप्ययं दुर्जेय इति ध्वनितम् । तं कार्तिकेयं विजित्वरीभिर्जयशीलाभिः । जयतेः 'इण्नशजिसतिभ्यः क्करप्'(पा.३।२।१६३) इति क्करपि परे 'हस्वस्य पिति-'(पा. ६।१।७१) इति तुकि कृते 'टिड्ढाणञ्-'(पा.४।१।१५) इत्यनेन ङीप् । सुराणां देवानां पृतनाभिः सेनाभिः सहागतमायातं श्रुत्वा चिरं बहुकालपर्यन्तं चित्ते मनसि चुक्षुभिरे संचेलुः, बिभ्युरित्यर्थः । 'क्षुभ संचलने', कर्तरि लिट् । अत्र वाच्यापेक्षया व्यङ्गयार्थस्याधिकचमत्कृतिजनकत्वाद्ध्वनिः ॥ २ ॥

 समेत्य दैत्याधिपतेः पु[]रे स्थिताः किरीटबद्धाञ्जलयः प्रणम्य ते ।
 न्यवेदयन्मन्मथश[]त्रुसूनुना युयुत्सुना जम्भ[]जितं स[१०]हागतम् ॥३॥

 समेत्येति ॥ दैत्याधिपतेस्तारकस्य पुरे नगरे स्थितास्ते महासुराः समेत्य समुदित्य, संघीभूयेति यावत् । तथा किरीटेषु मुकुटेषु बद्धोऽञ्जलिर्यैस्तथा सन्तः प्रणम्य युयुत्सुना योद्धुमिच्छुना मन्मथशत्रोः शिवस्य सूनुना पुत्रेण कुमारेण सहागतं जम्भजितमिन्द्रं न्यवेदयन्, स शंभुपुत्रो महेन्द्र आगत इति निवेदितवन्त इत्यर्थः ॥३॥

 दासीकृताशेषजगत्त्रयं न[११] मां जिगाय युद्धे कतिशः शचीपतिः ।
 गिरीशपुत्रस्य बलेन सांप्रतं ध्रुवं विजेतेति[१२][१३] काकुतोऽहसत् ॥४॥

 दासीकृतेति ॥ दासीकृतं भृत्यीकृतम् । 'दासो भृत्ये च शूद्रे च' इति मेदिनी । अशेषजगत्त्रयं समस्तलोकत्रितयं येन तथाभूतं मां शचीपतिरिन्द्रः कतिशः कतिवारं युद्धे न जिगाय जयति स्म, अपि त्वनेकवारं जिगायेति काकुः । जयनिषेधस्य काक्काश्रितत्वाजयनिषेध एव ध्वन्यते । सांप्रतं वर्तमानकाले गिरीशपुत्रस्य कुमारस्य बलेन वीर्येण, तदाश्रयेणेत्यर्थः । ध्रुवं निश्चयेन विजेता विजेष्येत इति स तारकः काकुतः काक्काऽहसज्जहास, कदाचिदपि न विजेष्यत इति ध्वन्यते ॥ ४ ॥

 ततः क्रुधा विस्फुरिताधराधरः स तारको दर्पितदोर्बलोद्धतान् ।
 युधे त्रिलोकीजयकेलिलालसः सेनापतीन्सनहनार्थमादिशत् ।।५।।

 तत इति ॥ ततोऽनन्तरं क्रुधा क्रोधेन निमित्तेन विस्फुरित उच्छसितोऽधरो- Sनूर्ध्व ओष्ठो यस्य । प्रसिद्धं चैतद्यत्क्रोधवशादधरविस्फुरणम् । तथाऽधरो हीनः, नीच इति यावत् । 'अधरस्तु पुमानोष्ठे हीनेऽनूर्ध्वे च वाच्यवत्' इति मेदिनी। विस्फुरिताधरश्चासावधरश्चेति विशेषणसमासः । तथा त्रिलोक्या जय एव केलिः क्रीडा तस्यां लालसेच्छा यस्य । अनायासेनैव त्रिलोकी जेष्यामीत्यभिमानवानि- त्यर्थः । एवंभूतः स तारकोऽसुरो दर्पिताः संजातदर्पस्तथा दोर्बलेन भुजबलेनो- द्धतान्प्रगल्भान्सेनापतीन्सेनाधिपान् युधे युद्धाय, युद्धं कर्तुमित्यर्थः । संनहनार्थं संनद्वीभवनार्थं चादिशदाजज्ञे । 'युद्धे' इति पाठे युद्धे विषये त्रिलोकीजयके विलास इत्यन्वयितव्यम् ॥ ५ ॥

 महाचमूनामधिपाः समन्ततः संनह्य सद्यः सुतरामुदायुधाः ।
 तस्थुर्विनम्रक्षितिपालसंकुले तँदङ्गनद्वारवरप्रकोष्टके ॥६॥

 महेति ॥ उदायुधा उद्धृतान्यायुधानि शस्त्राणि यैरेवंभूता महाचमूनां महतीनां सेनानामधिपाः स्वामिनः सद्यस्त्वरितं सुतरां संनह्य संनद्धा भूत्वा विनम्रा ये क्षितिपाला राजानस्तैः संकुले व्याप्ते तस्य तारकस्य यदङ्गनद्वारं चत्वरप्रवेशद्वारं तस्य वरः श्रेष्ठो यः प्रकोष्ठकोऽन्तरम् , मध्यमिति यावत् । 'प्रकोष्ठो मणिबन्धे स्यात् कूर्परस्यान्तरेऽपि च । भूपकक्षान्तरेऽपि स्यात्' इति मेदिनी। तत्र समन्ततः सर्वतस्तस्थुः, नृपं प्रतीक्षमाणा इति शेषः । 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः ॥ ६॥

पाठा०-१ अधरच्छदः. २ बलात् ; निजान्. ३ युद्धे. ४ तदङ्गणद्वारि

बहिःप्रकोष्ठके; तदङ्गणद्वारबहिःप्रकोष्ठके,

 स द्वारपालेन पुरः प्रदर्शितान्कृतानतीन्बा[१४]हुवरानधिष्ठितान्[१५]
 महाहवाम्भोधिविधूननोद्धतान्द[१६]दर्श राजा पृ[१७]तनाधिपान्बहू[१८]न् ॥७॥

 स इति ॥ स राजा तारकः पुरोऽग्रे द्वारपालेन प्रदर्शितान्कृतानतीन्बाहुवरान् बाहवो वराः श्रेष्ठा येषां तथोक्तानधिष्ठितान्, द्वार इति शेषः । महाहवरूपिणोऽम्भोधेः समुद्रस्य विधूनने कम्पन उद्धतान्प्रगल्भान्, महावीरानित्यर्थः । 'सङ्ग्रामाभ्यागमाहवाः' इत्यमरः । बहून्पृतनाधिपान्सेनापतीन् ददर्श दृष्टवान् । 'अदभ्रं बहुलं बहु' इत्यमरः ॥ ७ ॥

 [१९]ली बलारातिबलातिशातनं दिग्दन्तिना[२०]दरवनाशनखनम् ।
 महीध[२१]राम्भोधिनवारितक्रमं ययौ रथं घोरमथाधिरुह्य सः॥८॥

 बलीति ॥ अथानन्तरं बली वीर्यवान् स तारको बलारातेरिन्द्रस्य संबन्धिनो बलस्य सैन्यस्य । 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः' इति मेदिनी । अतिशातनं तनूकर्तारम्, हन्तारमित्यर्थः । दिग्दन्तिनामैरावतादीनां नादद्रवयोर्घोषमदयोर्नाशनो नाशकः स्वनो घोषो यस्य तम् यदीयघोषवशाद्दिग्दन्तिनोऽपि तूष्णीं शुष्कमदाश्च भवन्तीति भावः । महीधरेषु पर्वतेप्वम्भोधिषु च नवारितक्रममनिवारितसंचारम् । नशब्देन सह 'सुप्सुपा-'(पा.२।१।४ ) इति समासः। घोरं भीमं स्थमधिरुह्य ययौ जगाम, प्रतस्थ इति यावत् ॥ ८ ॥

 युगक्षयक्षुब्धपयोधिनिःस्वनाश्वलत्पताकाकुलवारितातपाः ।
 धरारजोग्रस्तदिगन्तभास्कराः प[२२]तिं प्रयान्तं पृतनास्तमन्वयुः ॥९॥

 युगेति ॥ युगक्षये प्रलयकाले क्षुब्धः संचलितो यः पयोधिः समुद्रस्तस्य निःस्वन इव निःस्वनो यासाम् , प्रलयकालोद्वेलीभूतसागरसदृशघोरघोषा इत्यर्थः । चलन्तीनां पताकानां वैजयन्तीनाम् । 'पताका वैजयन्त्यां स्यात् सौभाग्ये नाटकाङ्कयोः' इति मेदिनी । कुलेन समूहेन वारितातपा दूरीकृतघर्मा धराया भूमे रजोभिर्ग्रस्ता दिगन्तानि दिक्प्रान्तानि भास्करश्च याभिस्तथाभूताः पृतनाः सेनाः कर्त्र्यः । प्रयान्तं प्रतिष्ठमानं तं पति तारकासुरमन्वयुः, अनुजग्मुरित्यर्थः ॥ ९ ॥

 चमूरजः प्राप दिगन्तदन्तिनां महासुरस्याभिसुरं प्र[२३]सर्पिणः ।
 दन्तप्रकाण्डेषु सितेषु शुभ्रतां कुम्भेषु दाना[२४]म्बुधनेषु पङ्कताम् ॥१०॥

 चमूरज इति ॥ अभिसुरं सुरसंमुखं प्रसर्पिणः प्रतिष्ठमानस्य महासुरस्य तारकस्य संबन्धिनीनां चमूनां रजो रेणुः । दिगन्तदन्तिनामैरावतादीनां सितेषु शुभ्रेषु दन्तप्रकाण्डेषु, दन्तरूपासु शाखास्वित्यर्थः। 'प्रकाण्डो न स्त्री विटपे मूलशाखान्तरे तयोः' इति मेदिनी । शुभ्रतां पाण्डुतां दानाम्बुना मदजलेन घनेषु सघनेषु कुम्भेषु मूर्धान्तरेषु, गण्डस्थलेष्विति यावत् । 'कुम्भो राश्यन्तरे हस्तिमूर्धान्ते राक्षसान्तरे' इति मेदिनी । पङ्कतां कर्दमताम् । 'पकोऽस्त्री कर्दमे पापे' इति मेदिनी । प्राप । धवलिमाश्रयीभूतसंबन्धेन युक्तं हि धवलत्वमिति भावः । अन्यत्स्फुटम् ॥ १० ॥

 महीभृतां कन्दरदारणोल्बणैस्तद्वाहिनीनां पटहस्वनैर्घनैः ।
 [२५]द्वेलिताश्रुक्षुभिरे महार्णवा नभःस्रवन्ती सहसाभ्य[२६]वर्धत ॥ ११ ॥

 महीभृतामिति ॥ महीभृतां पर्वतानां संबन्धिनो ये कन्दरा दर्यः । 'दरी तु कन्दरो वा स्त्री' इत्यमरः । तेषां दारणे स्फोटन उल्बणैरुद्भटैः, आत्मव्याप्तिवशात्स्फोटद्भिरिव भासमानैरित्यर्थः । तथा घनैर्दृढैः, कठोरैरिति यावत् । 'धनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्तादौ घनायेषु विस्तारे लोहमुद्गरे । त्रिषु सान्द्रे दृढे च' इति मेदिनी । तद्वाहिनीनां तारकसेनानां संबन्धिनो ये पटहा आनकाः । 'पटहो ना समारम्भ आनके पुंनपुंसकम्' इति मेदिनी । तेषां स्वनैः कर्तृभिः । उद्वेलिता वेलामतिक्रामिता महार्णवा महान्तः समुद्राश्चक्षुभिरे संचेलुः, पटहध्वनिजनितभयादिति भावः । तथा नभःस्रवन्त्याकाशगङ्गा च सहसाऽकस्सादभ्यवर्धत, अतिवेला बभूवेत्यर्थः ॥ ११ ॥

 सुरारिनाथस्य महाचमूखनैर्विगाह्यमाना तुमुलैः सुरापगा ।
 अभ्युच्छ्रि[२७]तैरूर्मिशतैश्च वारिजैरक्षालयन्नाकनिकेत[२८]नावलीम् ॥१२॥

 सुरारिनाथस्येति ॥ तुमुलैः संकुलैः । 'तुमुलः कलिवृक्षे ना तुमुलं रणसंकुले' इति मेदिनी । सुरारिरेव नाथो राजा तस्य । यद्वा,-सुरारीणां नाथो राजा तस्य । संबन्धिनीनां महाचमूनां स्वनैः शब्दैर्विगाह्यमाना व्याप्यमाना सुरापगा मन्दाकिनी अभ्युच्छ्रितैरभ्युत्पतितैर्वारिजर्वारिजानि कमलानि विद्यन्ते येषु तैः- कमलसहितैरित्यर्थः । 'अर्शआदिभ्य-'(पा.५।२।१२७) इत्यच् । ऊर्मिशतैस्तरङ्गशतैश्च।'भङ्गस्तरङ्ग उर्मिर्वा' इत्यमरः । नाकनिकेतनावलीं स्वर्गवेश्मपङ्किमक्षाल, यन्ममार्ज ॥ १२ ॥

 अथ प्रयाणाभिमुखस्य नाकिनां द्विषः[२९] पुरस्तादशुभोपदेशिनी ।
 अगा[३०]धदुःखाम्बुधिमध्यमञ्जनं बभूव चोत्पातपरम्परा तव ॥१३॥

 अथेति ॥ अथानन्तरं प्रयाणाभिमुखस्य प्रस्थानसंमुखस्य नाकिनां देवानां द्विषो वैरिणस्तारकस्य पुरस्तादग्रे 'भो तारक ! तव त्वत्कर्मकम् । अगाधोऽतलस्पर्शः । 'अगाधमतलस्पर्शे त्रिषु श्वभ्रे नपुंसकम्' इति मेदिनी । यो दुःखाम्बु. धिर्दुःखसमुद्रस्तन्मध्ये मज्जनं भविष्यति' इत्येवमशुभोपदेशिन्यशुभवादिन्युत्पातपरम्परा दुःशकुनपङ्किर्बभूव ॥ १३ ॥

 इतः परम् 'आगामि-' इत्यादिभिरेकादशभिरुत्पातपरम्परामेव प्रपञ्चयति-

 [३१]गामिदैत्याशनकेलिकाङ्क्षिणी कु[३२]पक्षिणां घोरतरा परम्परा ।
 दधौ पदं व्योम्नि सुरारिवाहिनीरुपर्युपर्येत्यनिवारितातपा॥१४॥

 तत्र आगामीति ॥ घोरतरातिशयभयानका कुपक्षिणां गृध्रादीनां कपोतादीनां वा परम्परा । आगामि भविष्यद्यदैत्यस्याशनकेलिर्भोजनक्रीडा तत्काङ्क्षतीति तथाभूता। तथा सुरारिवाहिनीस्तारकसेना उपर्युपरि । 'उपर्यध्यवसः सामीप्ये'(पा. ८।१।७) इति द्विर्भावः, तद्योगे द्वितीया । तदुक्तं वामनेन (काव्या.सू. ५।२।८५)--'उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया' इति । अनिवारितातपा न निवारितधर्मा च सती व्योझ्याकाशे पदं स्थानं दधौ धृतवती । अनेन पद्येन प्रयाणानौचित्यद्योतकमुत्पातद्वयं वर्णितम् । तथा हि – आकस्मिकोपरि वृत्तिः आतपानिवृत्तिश्च । तस्मात् सर्वथैवास्य मरणं भविष्यतीति सूच्यते ॥ १४ ॥

 मुहुर्विभग्नातपवारणध्वजश्वलद्धराधूलिकलाकुलेक्षणः ।
 धूताश्वमातङ्गमहारथाकरानवेक्षणोऽभूत्प्रसभं प्रभञ्जनः ॥ १५ ॥

 मुहुरिति ॥ विभग्ना त्रोटिता आतपवारणसहिता ध्वजा येन । चलन्त्यो विसरन्त्यो या धराधूलयः पृथिवीरजांसि तासां कुलेन साधनीभूतेनाकुलानि व्याकुलीकृतानीक्षणानि लोकनेत्राणि येन । तथा धूतस्य कम्पितस्य । नभसि भ्रमितस्येति यावत् । अश्वानां मातङ्गानां महारथानां चाकरस्य निकरस्य । 'आकरो निकरे रत्नस्थाने श्रेष्ठे च कथ्यते' इति मेदिनी । अनवेक्षणमदर्शनं येन । आच्छा- दितसकलसेनाङ्गः प्रभञ्जनो वायुः । 'पवमानप्रभञ्जनाः' इत्यमरः । अभूदुत्पन्नः । "मुहुः,' 'प्रसभम्' इत्यस्य विशेषणत्रयेऽपि संबन्धः । अयं तृतीय उत्पातः ॥ १५ ॥

 सद्योविभिन्नाञ्जनपुञ्जतेजसो मुखैर्विषाग्निं विकिरन्त उच्चकैः ।
 पुरः पथोऽतीत्य महाभुजंगमा भयंकराकारभृतो भृशं ययुः ॥१६॥

 सद्य इति ॥ सद्योविभिन्नं तत्क्षणपतितं यदञ्जनं कज्जलम् । 'अञ्जनं कज्जले चाक्तौ सौवीरे च रसान्तरे' इति मेदिनी । तस्य पुञ्ज इव निकर इव तेजो ध्यम येषाम् । नूतनपातितकज्जलसमूहश्यामभास इत्यर्थः । उच्चकैर्महान्तः, विस्तीर्णा इति यावत् । तथा भृशं भयंकराकारभृतः, अतिभीषणस्वरूपधारिण इत्यर्थः । महाभुजंगमा महान्तः सर्पाः पुरोऽग्रे विषाग्निं गरलरूपमग्निम् । 'क्ष्वेडस्तु गरलं विषम्' इत्यमरः । विकिरन्तो विक्षिपन्तः सन्तः पथः सैन्यगन्तव्यमार्गानतीत्य. पूर्वविहितात्मसंबन्धेन वियोज्य ययुः । चतुर्थोऽयमुत्पातः ॥ १६ ॥

 मिलन्महाभीमभुजंगभीषणं प्रभुर्दिनानां परिवेषमादधौ ।
 महासुरस्य द्विषतोऽतिमत्सरादिवान्तमासूचयितुं भयंकरः ॥१७॥

पाठा०-१ विभिन्न. २ धुताश्वमातङ्गमहारथव्रजोऽनवेक्षणोऽभूत् ; जनाश्व- मातङ्गमहारथव्रजानवेक्षमाणः. ३ संनिभाः. ४ परोत्पात. ५ नु मत्सरात् ; न मत्सरात्. ६ आत्तमास्यं प्रयतुर्भयंकरम् ; आत्तमास्यप्रयतुर्भयंकराः.  मिलदिति ॥ दिनानां प्रभुः सूर्यो द्विषतः शत्रुभूतस्य । "द्विषट्वेषणदुर्हृदः' इत्यमरः । महासुरस्य तारकस्यान्तं विनाशम् , मरणमिति यावत् । 'अन्तः स्वरूपे नाशे ना स्त्री शेषे चान्तिके त्रिषु' इति मेदिनी। आसूचयितुं ज्ञापयितुं मिलन्तः संयुजन्तः । तथा महाभीमा अतिभयंकरा ये भुजंगाः सर्पास्तैर्भीषणं भयदं परिवेषं परिधिं कुण्डलाकारम् । 'परिवेषस्तु परिधिरुपसूर्यकमण्डले' इत्यमरः । अतिमत्स रादिवादधौ धृतवान् । विनाशरूपफलसूचकपरिवेषाधाने मत्सरस्य हेतुत्वाभावेऽपि हेतुत्वकल्पनाद्धेतूत्प्रेक्षा । अत एव भयंकरो विभीषकः । 'मेघर्ति-'(पा. ३।२।४३) इति खश् । पञ्चमोऽयमुत्पातः ॥ १७ ॥

 त्विषामधीशस्य पुरोऽधिमण्डलं शिवाः समेताः परुष ववासिरे ।
 सुरारिराजस्य रणान्तशोणितं प्रसह्य पातुं द्रुतमुत्सुका इव ॥१८॥

 त्विषामिति ॥ त्विषां तेजसामधीशस्य रवेरधिमण्डलम् । मण्डल इत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । समेताः समुदिताः शिवाः क्रोष्ट्रयः । 'शिवा झाटामलौ- षधौ । अभयामलकीगौरीकोष्ट्रीसशकफलसु च' इति विश्वः । सुरारिराजस्य तार- कस्य संबन्धिनि रणान्ते सङ्ग्रामसमीपे यच्छोणितं रक्तं द्रुतं शीघ्रं प्रसह्य बलात्पातुं पानं कर्तुमुत्सुका इव परुषं कठोरं यथा तथा ववासिरे चुक्रुशुः । अत्रोत्पात- द्वयम् । मार्तण्डमण्डलाधिकरणकं शिवासमुदितत्वं तत्कर्तृककठोररुदितं चेति । षष्ठसप्तमावेतावुत्पातौ ॥ १८ ॥

 दिवापि तारास्तरलास्तरस्विनीः परापतन्तीः परितोऽथ वाहिनीः।
 विलोक्य लोको मनसा व्यचिन्तयत्प्राणव्ययान्तं व्यसनं सुरद्विषः।।

 दिवापीति ॥ अथ दिवापि दिनेऽपि तरलाश्चञ्चलाः तरस्विनीर्वेगवतीः। 'रंह- स्तरसी तु स्यः स्यदः' इत्यमरः । तारा नक्षत्राणि, वाहिनीः परितः 'अभितःपरितः- समया-' (पा. ५।४।६० ) इत्यादिना द्वितीया । परापतन्तीर्विलोक्य लोको मनसा सुरद्विषः संबन्धि प्राणव्ययान्तं प्राणनाशावधि व्यसनं व्यचिन्तयत् । प्राणनाशा- वधि राज्ञो दुःखं भविष्यतीति चिन्तयामासेत्यर्थः । अष्टमोऽयमुत्पातः ॥ १९ ॥

पाठा०-१ अभिमण्डलम्. २ सुराधिराजस्य. ३ तदानिशम्. ४ अभिवाहि-

नीम्. ५ लोकाः, ६ व्यचिन्तयन् ; ७ प्राणात्ययान्तं व्यसनम्,

 ज्वलद्भिरुच्चैरभितः प्रभाभरैरुद्भासिताशेषदिगन्तराम्बरम् ।
 रवेण रौद्रेण हृदन्तदारणं पपात वज्रं नभसो निरम्बुदात् ॥२०॥

 ज्वलद्भिरिति ॥ निरम्बुदादनुभूतमेघान्नभसो व्योम्नः सकाशादभितो ज्वलद्भिः प्रस्फुरद्भिः प्रभाभरैः कान्तिसमूहैः कृत्वा । उचैरतिशयितं यथा तथोद्भासितानि प्रकाशितान्यशेषदिगन्तराम्बराणि समस्तदिशां प्रान्तगगनानि येन । तथा रौद्रेण भयानकेन रवेण घोषेण हृदन्तस्योरोमध्यस्य दारणं विदारकं वज्रं स्फूर्जथुः पपात । 'स्फूर्जथुर्वज्रनिर्घोषः' इत्यमरः । अत्राप्युत्पातद्वयम् । अम्बुद- सांनिध्याभावेऽपि वज्रदर्शनं तत्पातश्चेति । एवं नवमदशमावुत्पातावुक्तौ ॥ २० ॥

 ज्वलद्भिरङ्गारचयैर्नभस्तलं ववर्ष गाढं सह शोणितास्थिभिः ।
 धूमं ज्वलन्त्यो व्यसृजन्मुखै रजो दधुर्दिशो रासभकण्ठधूसरम् २१

 ज्वलद्भिरिति ॥ नभस्तलम् , निरम्बुदं सदिति शेषः । ज्वलद्भिरङ्गारचयैः काष्ठशकलसमूहैः । तथा शोणितास्थिभिश्च सह गाढं दृढम् , बह्विति यावत् । ववर्ष, ज्वलदङ्गाररुधिरास्थिगर्भितं जलं ववर्पेत्यर्थः । अम्बुदसांनिध्याभावेऽपि वृष्टिः । एकादशतमोऽयमुत्पातः । साप्यङ्गारादिमिश्रितेति द्वादशतमः । अत एव ज्वलन्त्यो दिशो रासभकण्ठधूसरं खरगलसदृशधूसरवर्णम् । 'रासभो गर्दभे क्षुदजन्तुरोगप्रभेदयोः' इति मेदिनी । धूम धूमरूपं रजो रेणुं मुखैः प्रारम्भदेशैः व्यसृजंस्तत्यजुः । त्रयोदशतमोऽयमुत्पातः ॥ २५ ॥

 निर्घातघोषो गिरिशृङ्गशातनो घनोऽम्बराशाकुहरोदरंभरिः।
 बभूव भूम्ना श्रुतिभित्तिभेदनः प्रकोपिकालार्जितगर्जितर्जनः॥२२॥

 निर्घातेति ॥ प्रकोपिना प्रकृष्टरोषेण कालेन यमेनार्जितोत्पादिता गर्जिनी गर्जनां कुर्वती तर्जनाऽपकारगीर्यत्र । अत एवाम्बरस्याशानां च कुहरेणान्तरेणोदरं- भरिरत एव गिरीणां शृङ्गस्य शातनो भेदकः । तथा घनः सान्द्रो निर्घातश्चासौ घोषश्च स भूम्ना बाहुल्येन श्रुतिभित्तिभेदनः कर्णकुड्यताडनो बभूव । चतुर्दश- तमोऽयमुत्पातः ॥ २२ ॥

पाठा०-१ चलद्भिः. २ दिगन्तदारणम्. ३ अङ्गारभरैः. ४ धूम्रम्. ५ मुखे. ६ गिरिशृङ्गघातनः; गिरिशृङ्गशाननैः. ७ धराम्बराशाकुहरोदरंभरिः; धनैराशाकुह-

रोदरंभरिः. ८ भूमा. ९ गर्जितस्वनः; गर्जतर्जनः.

 स्खलन्महेभं प्रपतत्तुरङ्गमं परस्पराश्लिष्टजनं समन्ततः।
 प्रक्षुभ्यदम्भोधिविभिन्नभूधराद्धलं द्विषोऽभूदवनिप्रकम्पात् ॥२३॥

 स्खलदिति ॥ द्विषस्तारकस्य बलं सैन्यम् । 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः' इति विश्वः । प्रक्षुभ्यद्भिरुन्मध्यमानैरम्भोधिभिर्विभिन्ना विदीर्णा भूधराः पर्वता यत्र । प्रोत्पद्यमानविकटतरधरणिकम्पप्रोच्छलत्समुद्वेलजलधिघोर- तरप्रवाहस्फुटन्तो धराधरा बभूवुरिति भावः । एवंभूनादवनिप्रकम्पाद्भूकम्पाद्धेतोः स्खलन्महेभं मूर्च्छद्धहत्करीन्द्रं प्रपतत्तुरंगमं प्रकृष्टपतद्वाजिराजं परस्पराश्लिष्टोभय- वदन्योन्यासंसक्ताननो यत्र तथाभूतं बभूव । पञ्चदशतमोऽयमुत्पातः ॥ २३ ॥

 ऊर्ध्वीकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः ।
 श्वानः स्वरेण श्रवणान्तशातिना मिथो रुदन्तः करुणेन निर्ययुः २४

 ऊर्ध्वीकृतास्या इति ॥ सर्वे श्वानः समेत्य समुदेत्योर्ध्वीकृतास्या ऊर्ध्वदिशा- विहितवदनाः । तथा रविदत्तदृष्टयः सूर्यनिबद्धलोचनाः । तथा करुणेन करुण- रसपूरितेनात एव श्रवणान्तशातिना कर्णमध्यतनूकारिणा स्वरेण शब्देन कृत्वा रुदन्तः कोशन्तः सन्तः सुरविद्विषस्तारकस्य पुरोऽग्रे निर्ययुर्निरगच्छन् । षोडश- तमोऽयमुत्पातः ॥ २४॥

 अपीति पश्यन्परिणामदारुणां महत्तमां गाढमरिष्टसंततिम् ।'
 दुर्दैवदष्टो न खलु न्यवर्तत क्रुधा प्रयाणव्यवसायतोऽसुरः ॥२५॥

 अपीति ॥ गाढं दृढं यथा तथा परिणाम उत्तरकाले दारुणां भयप्रदां महत्तमामतिशयमहतीमरिष्टसंततिमुत्पातपरम्परां पश्यन्नप्यसुरस्तारकः क्रुधाऽमर्षेण प्रयाणव्यवसायतः प्रस्थानोद्योगान्न न्यवर्तत न निवृत्तः खलु । यतो दुर्दैवेन दुरदृष्टेण दृष्टो हतः । 'विनाशकाले विपरीतबुद्धिः' इति न्यायादिति भावः ॥२५॥

 अरिष्टमाशङ्कय विपाकदारुणं निवार्यमाणोऽपि बुधैर्महासुरः ।
 पुरः प्रतस्थे महतां वृथा भवेदसद्ग्र्हान्धस्य हितोपदेशनम् ॥२६॥

पाठा०-१ चलन्. २ प्रणयत्तुरंगमम्. ३ संक्षुभ्यत्. ४ भूधरम्. ५ पुरः. ६ प्रकम्पम् ; प्रकम्पतः. ७ पतिना. ८ इति प्रपश्यन्. ९ महत्तराम्. १० दृष्टः, ११ खलः. १२ निवर्तते. १३ निवार्यमाणैः, १४ विबुधैः; विविधैः. १५ महासुरैः. १६ हितोपदेशना; हितोपदेशिता.  अरिष्टेति ॥ महासुरस्तारकोऽरिष्टं विपाक उत्तरकाले दारुणं भयदमाशङ्क्य तर्कयित्वा निवार्यमाणो निषिध्यमानोऽपि पुर एव प्रतस्थे न तु पश्चानिववृते। तथा हि-महतां महता कृतमसद्ग्रेहेणान्धस्याविवेकिनः संबन्धिनो हितस्योप- देशनं वृथा व्यर्थ भवेत् । दुराग्रहशीलस्य सम्यगुपदेशोऽपि तदमततया व्यर्थः स्यादिति भावः ॥ २६ ॥ इदानीं पञ्चभिः पञ्च महोत्पातानाह-

 क्षितौ निरस्तं प्रतिकूलवायुना तदीयचामीकरधर्मवारणम् ।
 रराज मृत्योरिव पारणाविधौ प्रकल्पितं हाटकभाजनं महत् ॥२७॥

 क्षिताविति ॥ प्रतिकूलवायुना प्रतीपपवनेन क्षितौ पृथिव्यां निरस्तं निःक्षि- प्तम् । 'असु क्षेपणे' इत्यतः कर्मणि निष्ठा । तदीयं तारकसंबन्धि चामीकरस्य हेम्नः। 'चामीकरं जातरूपं महारजतकाञ्चने' इत्यमरः । धर्मवारणं छत्रं मृत्यो- र्यमस्य संबन्धिनि पारणाविधौ। भोजनक्रियानिमित्तमित्यर्थः । 'निमित्तात्कर्मयोगे' (वा० १४९० ) इति सप्तमी । योगोऽत्र संयोगः । प्रकल्पितं निर्मितं महद्विशालं हाटकभाजनं सुवर्णपात्रमिवेत्युत्प्रेक्षा । रराज शुशुभे ॥ २७ ॥

 विजानता भावि शिरोनिकृन्तनं प्रज्ञेन शोकादिव तस्य मौलिना।
 मुहुर्गलद्भिस्तरलैरलंतरामरोदि मुक्ताफलबाष्पविन्दुभिः ॥ २८ ॥

 विजानतेति ॥ प्रज्ञेन बुधेन । 'प्रज्ञस्तु पण्डिते वाच्यलिङ्गो ब्रद्धौ तु योषिति' इति मेदिनी। अत एव भावि भविष्यच्छिरोनिकृन्तनं मस्तकच्छेदनं विजानता बुध्यमानेन तस्य तारकस्य मौलिना किरीटेन । 'मौलिः किरीटे शृङ्गारे धम्मिल्ले द्रुमचूडयोः' इति विश्वः । शोकाद्धेतोर्मुहुर्गलद्भिर्निःसरद्भिस्तरलैश्चञ्चलैः । 'तरलं चञ्चले लिङ्गे हारमध्यमणावपि' इति विश्वः । मुक्ताफलान्येव बाप्पबिन्दवो- ऽश्रुबिन्दवः । 'बिन्दुस्तु दन्तनाले स्यात्तथा वेदितृविप्लुषोः' इति विश्वः । तैः कृत्वा- ऽलंतरामतिशयपर्याप्तं यथा तथा । 'अलं भूषणपर्याप्तिवारगेषु निरर्थके' इति विश्वः । अरोदीव रुदितमिवेत्युत्प्रेक्षा । मुकुटखचितमणिनिचयसाहसिकभूपतनरूप उत्पातोयमिति भावः ॥ २८ ॥


पाठा०-१ राजतपानभाजनम्. २ विकर्तनम्. ३ स्रस्तेन; प्रश्नेन.

निवार्यमाणैरभितोऽनुयायिभिर्ग्रहीतुकामैरिव तं मुहुर्मुहुः ।
अपाति गृध्रै[३३]रभि मौलिमाकुलै[३४]र्भविष्यदेतन्मरणोपदेशिभिः ॥२९॥

 निवार्यमाणैरिति ॥ भविष्यत एतस्य तारकस्य मरणमुपदिशन्ति बोधयन्ति तथाभूतैः तथाऽऽकुलैर्भक्षणक्रियासंभ्रमितैर्गंधैः पक्षिविशेषैः । 'गृध्रः खगान्तरे गृध्री वाच्यवच्चाथ लुब्धके' इति विश्वः । अभितः सर्वतोऽनुयायिभिर नुगच्छद्भिः । अत एवोत्प्रेक्षते-मुहुर्मुहुरनेकवेलं निवार्यमाणैरपि तं ग्रहीतुकामैरिव मौलिं किरीटमभि संमुखमपाति पतितम् । भावे लुङ् । पुनःपुनर्निवार्यमाणा अपि तद्बुभुक्षया मौलिमुद्दिश्यैव पेतुरिति भावः । अयमपि महोत्पातः ॥ २९ ॥

सद्योनिकृत्ताञ्जनसोद[३५]रद्युतिं फणामणिप्रज्वलदंशुमण्डलम् ।
निर्यद्विषोल्का[३६]नलगर्भफूत्कृतं ध्वजे जनस्तस्य महाहिमक्षत ॥३०॥

 सद्य इति ॥ जनो लोकस्तस्य तारकस्य ध्वजे, तदुपरीत्यर्थः । सद्योनिकृत्तस्य तत्कालपातितस्याञ्जनस्य कज्जलस्य सोदरा समाना धुतिः शोभा यस्य, अञ्जनसदृशश्यामलमित्यर्थः । तथा फणामणिभिः फणारत्नैः प्रज्वलदधिकीभवदंशुमण्डलं यस्य । निर्यद्विपमेचोल्कानलः स गर्भे मध्ये येषां तादृशानि फूत्कृतानि यस्य तथाभूतं महाहिं महान्तं सर्पमैक्षत ददर्श । अयमपि महोत्पातः ॥ ३० ॥

[३७]थाश्वकेशावलिकर्णचा[३८]मरं ददाह बाणासनबाण[३९]वाणधीन् ।
[४०]काण्डतश्चण्डतरो हुताशनस्तस्यातनुस्यन्दनधु[४१]र्यगोचरः ॥३१ ।।

 रथेति ॥ अकाण्डतोऽसमये । सार्वविभक्तिकस्तसिल् । तस्य तारकस्य संबन्धी योऽतनुस्यन्दनो महान्रथस्तस्य धुर्योऽग्रभागस्तस्य गोचरः, तल्लम इत्यर्थः । चण्डतरोऽतिशयप्रचण्डो हुताशनोऽग्निः । रथाश्वसंबन्धिनी या केशावलिः कर्णचामराणि च तेषां समाहारस्तत् । प्राण्यङ्गत्वादेकवद्भावः । तथा बाणासनं बाणक्षेपक्रियासाधनम् । करणे ल्युट् । धनुर्बाणाः बाणधिस्तूणीरश्चेत्येतानित्यर्थः । ददाह । अयमपि महोत्पातः ॥३१॥

[४२]त्याधरिष्टैरशुभोपदेशिभिर्विहन्यमानोऽप्यसुरः पुनः पुनः ।
यदा मदान्धो न[४३] गतान्न्यवर्त[४४]ताम्बरात्तदाभून्मरुतां सरस्वती ॥३२॥

 इत्यादीति ॥ मदान्धोऽसुरस्तारकोऽशुभोपदेशिभिरमङ्गलसूचकैरित्याद्यरिष्टैः पूर्वोक्तमहोत्पातैः पुनःपुनर्विहन्यमानोऽपि विघ्नितः क्रियमाणोऽपि यदा गताद्गमनात् । भावे निष्ठा । न न्यवर्तत न निवृत्तः तदाम्बराब्द्योम्नः सकाशान्मरुतां देवानां सरस्वती वाण्यभूत् ॥ ३२ ॥

मदान्ध ! मा गा भुजदण्डचण्डिमावलेपतो म[४५]न्मथहन्तृसूनुना ।
सुरैः स[४६]नाथेन पुरंदरादिभिः समं समन्तात्स[४७]मरं विजित्वरैः ॥३३॥

 मदान्धेति ॥ भो मदान्ध ! भुजदण्डयोर्यश्चण्डिमा प्रचण्डत्वं तेन योऽवलेपो गर्वः । 'अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च' इति मेदिनी, विश्वश्च । तस्मात् । पञ्चम्यास्तसिल् । हेत्वर्थे पञ्चमी । विजित्वरैर्जयनशीलैः पुरंदरादिभिः सुरैः समन्तात्परितः सनाथेन सहितेन मन्मथहन्तृसूनुना शिवपुत्रेण समं सह समरं युद्धम् , कर्तुमिति शेषः । मा गा मा याहि ॥ ३३ ॥
 अथ 'गुहः-' इत्यादिभिश्चतुर्भिः कुमारविषये तारककर्तृकसमरानौचित्यमेव दर्शयति-

गु[४८]होऽसुरैः पडूदिनजातमात्रको निदाघधामेव निशातमोभरैः ।
विष[४९]ह्यते ना[५०]भिमुखो हि[५१] संगरे कुतस्त्व[५२]या [५३]तस्य समं विरोधिता ३४

 तत्र गुहेति ॥ भो मदान्ध! संगरे युद्धेऽभिमुखः संमुखः षड् दिनानि जातानि न्वतीतानि यस्य, जन्मदिनादारभ्यातिक्रान्तषड्दिनीक इत्यर्थः । गुहः सेनानीः । 'गुहः पाण्मातुरे गुह्ये' इति मेदिनी । असुरैदैत्यैः कर्तृभिः । निशातमोभरै रात्र्यन्धतमससमूहैर्निदाधधामा उष्णतेजाः सूर्य इव न हि नैव विषयते विमृष्यते । ल्वया समं सह तस्य संबन्धिनी विरोधिता वैरं कुतः कारणात्स्यात् ? कुमारविषयकभवत्कृतवैरनिमित्तसमरोऽनुचित एवेति भावः ॥ ३४ ॥

अभ्रंलिहैः शृङ्गशतैः समन्ततो दि[५४]क्चक्रवालैः स्थगितस्य भूभृतः ।
क्रौञ्चस्य रन्ध्रं विशि[५५]खेन निर्ममे येनाहवस्तस्य सह त्वया कुतः ३५

 अभ्रंलिहेरिति ॥ भो मदान्ध ! येन सेनान्या का । अभ्रंलिहैराकाशस्पृग्भिः शृङ्गशतैः सानुशतैः । तथा दिक्चक्रवालैः काष्ठामण्डलैः । 'चक्रवालं तु मण्डलम्' इत्यमरः । समन्ततः परितः स्थगितस्याच्छादितस्य क्रौञ्चस्य क्रौञ्चसंज्ञकस्य भूभृतः पर्वतस्य संबन्धि रन्ध्र छिद्रम् । जातानेकवचनम् । विशिखेन बाणेन निर्ममे निर्मितम् । कर्मणि लिट् । तस्याहवः सङ्ग्रामस्त्वया सह कुतः कारणात्म्यात्? अपि तु नेदमुचितमिति भावः ॥ ३५ ॥
 अथ युग्मेनाह-

लब्ध्वा धनुर्वेदमनङ्गविद्विषस्त्रिःसप्तकृत्वः समरे महीभुजाम् ।
कृ[५६]त्वाभिषेकं रुधिराम्बुभिर्धनैः स्वक्रोधवाह्निं शमयांबभूव यः ३६

 लब्ध्वेति ॥ यो जामदग्न्यः परशुरामोऽनङ्गविद्विषो हरसकाशाद्धनुर्वेदं लब्ध्वा प्राप्य, अधीत्येति यावत् । अतः समरे युधि महीभुजां राज्ञां संबन्धिभी रुधिराम्बुभिः शोणितज्जलैस्त्रिःसप्तकृत्वस्त्रिगुणसप्तवारम् , एकविंशतिवारमिति यावत् । अभिषेकं स्नानं कृत्वा स्वक्रोधवह्निमात्मीयकोपाग्निं शमयांबभूव, एकविंशतिवारं क्षत्रियान्हत्वा शान्तोऽभूदिति भावः ॥ ३६ ॥

न जामदग्न्यः क्षयकालरात्रिकृत्स क्षत्रियाणां समराय वल्गति ।
येन त्रिलोकीसु[५७]भटेन तेन कुतोऽव[५८]काशः सह विग्र[५९]हग्रहे ॥ ३७॥

 नेति ॥ क्षत्रियाणाम् । 'क्षत्राद्धः' (पा. ४।१।१३८ ) इति घप्रत्ययः । 'आयनेयी-' (पा. ७।१।२ ) इति तस्येयादेशः । क्षयसंबन्धिनीं कालरात्रिं करोति यः स जामदग्न्यो जमदग्नेरपत्यं पुमान् रामस्त्रिलोक्यां सुभटेन सुतरां योद्ध्रा येन सेनान्या सह समराय समरं कर्तुं न वल्गति न चलति, नैवोद्युक्त इत्यर्थः । तेन सकलराजकुलजिघत्सद्रामविभीषकेण सेनान्या सह सव त्वत्कर्तृके विग्रहग्रहे रणग्रहे । 'विग्रहः कायविस्तारविभागे ना रणे स्त्रियाम्' इति मेदिनी । कुतः कस्मादवकाशोऽवसरः स्यात् ? अपि तु न स्यादिति काका व्याख्येयम् । अतः सर्वथैवामुना सह त्वया न योद्धव्यं, किंतु निवर्तनीयमेवेति भावः ॥ ३७ ॥
 ननु निवर्तने पुनरपि वधशङ्केति चेत्तत्राह-

त्यजाशु ग[६०]र्वं मदमूढ ! मा स्म गाः स्मरारिसूनोर्वरशक्तिगोचरम् ।
तमेव नूनं शरणं व्रजाधुना ज[६१]गत्सुवीरं [६२]स चिराय जीव तत् ३८

 त्यति ॥ भो मदमृढ उन्मादमूर्ख ! आशु शीघ्रं गर्वमभिमानं त्यज । स्मरारिसूनोः सेनान्याः संबन्धिनी या वरा श्रेष्ठा शक्तिरायुधं तस्या गोचरं विषयं मा स्म गा मा स्म याहि । तर्हि किं कर्तव्यमित्याह-अधुनेदानीं नूनमेव निश्चयेनैव । 'नूनमवश्यं निश्चये द्वयम्' इत्यमरः । शरणं रक्षितारम् । 'शरणं गृहरक्षित्रोर्वधरक्षणयोरपि' इति मेदिनी । तं जगत्सुवीरं सेनान्यं व्रज गच्छ । तत्तस्माद्गमनाद्धेतोः स त्वं चिराय जीव बहुकालं प्राणान्धारय, कुमारगमनं विना न तवान्यज्जीवातुरिति भावः ॥ ३८ ॥

श्रत्वेति वाचं वियतो ग[६३]रीयसीं क्रोधादहंकारपरो महासुरः।
प्रकम्पिताशेषजगत्रयोऽपि स[६४]न्न[६५]कम्पतोच्चैर्दिवम[६६]भ्यधाच्च सः ॥३९॥

 श्रुत्वेति ॥ वियत आकाशस्येत्येर्वभृतां गरीयसीमशयगुर्वी वाचं श्रुत्वा क्रोधाद्देतोरहंकारेऽभिमाने । 'गर्वोऽभिमानोऽहंकारः' इत्यमरः । परः सक्तः । 'परः श्रेष्ठादिदूरान्योत्तरे क्लीबं तु केवले' इति मेदिनी । 'आदि'शब्दसंगृहीतत्वेन सक्तिवाचकत्वं विवेचनीयम् । सोऽसुरम्तारकः प्रकर्षेण कम्पितं वेपितमशेषं समस्तं जगतां त्रयं येन तथाभूतः सन्नप्यकम्पत चकम्पे, भारत्या अत्याप्तत्वादिति भावः । अथ च दिवं स्वर्गमुच्चैरुच्चैःस्वरेणाभ्यधादचकथत् ॥ ३९ ॥
 अथ 'किम्' इत्यादिभिस्त्रिभिस्तदुतिमाह-

किं ब्रूथ रे[६७] व्योमचरा महासुराः! स्म[६८]रारिसूनुप्रतिपक्षवर्तिनः ।
मदीयबाणव्रणवेद[६९]ना हि साऽधुना कथं विस्मृ[७०]तिगोचरीकृता ४०

 किमिति ॥ रे व्योमचराः !। रे इति नीचसंबोधने । महासुरा महान्तः सुरा यूयं स्मरारिसूनोः कुमारस्य प्रतिपक्षे कोटौ वर्तन्ते तथाभूताः सन्तः किं ब्रूथ वदथ ? नेदं वाच्यमिति ध्वनिः । ननु वादे त्वया किं कृतमित्याह--सा पूर्वतरा

मदीयानां बाणानां संबन्धिनां व्रणानां रन्ध्राणां वेदना पीडाऽधुना हीदानीमेव कथं केन प्रकारेण विस्मृतिगोचरीकृता विस्मरणविषयीकृता ? अपि त्विदानीमपि सैव स्मर्तव्या, अग्रे भोक्ष्यमाणत्वात् ॥ ४० ॥

[७१]टुस्वरैः प्रालपथाम्बरस्थिताः शिशोर्बलात्षड्दिनजातकस्य किम् ।
श्वानः प्र[७२]मत्ता इव का[७३]र्तिके निशि स्वैरं वनान्ते मृगधूर्तका इव ॥ ४१ ॥

 कटुस्वरैरिति ॥ भो देवाः ! यूयमम्बरस्थिता आकाशवर्तिनः सन्तः षड्दिनजातकस्य षड्दिनजन्मनः शिशोर्बालस्य बलाद्वीर्याद्धेतोः कार्तिके बहुले मासि प्रमत्ता उन्मत्ताः श्वान इव निशि वनान्ते वनमध्ये मृगधूर्तका मृगा एव धूर्तकास्त इव किं प्रालपथ प्रलापं कुरुथ ? अपि तु मदपेक्षया निर्वीर्यैर्भवद्भिः प्रलापो न विधेय इति भावः ॥ ४१ ॥

सङ्गेन वो ग[७४]र्भतपस्विनः शिशुर्वराक एषोऽन्तमवाप्स्यति ध्रुवम् ।
[७५]तस्करस्तस्करसङ्गतो यथा तद्वो निहन्मि प्रथमं ततोऽ[७६]प्यमुम् ४२

 सङ्गेनेति ॥ भो देवाः ! वो युष्माकं सङ्गेन संबन्धेन निमित्तेन वराकोऽतिकृपणत्वाच्छोचनीयः । 'वराकः शंकरे पुंसि शोचनीयेऽभिधेयवत्' इति मेदिनी । एष पुरोवर्ती गर्भतपस्विनः । अत्र 'गर्भ'शब्देन गर्भत्वं तदस्यास्तीति गर्भः । अर्शआद्यच् । ततो गर्भत्ववानिति निष्पन्नम् । गर्भत्वं चात्र बालत्वम् । 'गर्भो भ्रूणेऽर्भके कुक्षौ' इति मेदिनी । एवं च बाल इति निष्कर्षः । स चासौ तपस्वी च । बालत्वेऽपि तपस्वित्वकथनाद्वार्धक्ये त्वर्थात्सिद्धम् । एवं च बालत्वमारभ्य तपस्वित्वेन निष्किंचनस्येति तात्पर्यार्थः । अथवा गर्भत्वादिति ल्यब्द्योतनिका या पञ्चमी तदन्तेन 'तपस्वि'शब्दस्य समासो विधेयः, गर्भत्वं बालत्वमारभ्य तपस्वीत्यर्थः । तथाभूतस्य शिवस्य शिशुर्बालः कुमारः । तस्करसङ्गतश्चौरसङ्गेनातस्करो यथा चौर इव ध्रुवं निश्चयेनान्तं मरणमवाप्स्यति प्राप्स्यति । तत्तस्माद्वो युष्मान्प्रथमं प्राङ् निहन्मि । 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति भविष्यकालेऽपि वर्तमानप्रयोगः । ततो भवद्धननानन्तरममुं कुमारमपि निहन्मि निहनिष्यामि ॥ ४२ ॥

इतीरयत्युग्रतरं महासुरे महाकृपाणं कलयत्यलं [७७]क्रुधा ।
परस्परोत्पीडितजानवो भयान्नभश्चरा दूरतरं विदुद्रुवुः ॥ ४३ ॥

 इतीति ॥ इति पूर्वोक्तमीरयति वदति महासुरे तारके क्रुधा हेतुनोग्रतरमत्यन्तभयानकं महाकृपाणं महान्तं खड्गम् । अलं पर्याप्तत्वेन । अनेन प्रथमं स्पर्शमात्र एवेति व्यज्यते । 'अलं भूषणपर्याप्तिवारणेषु निरर्थके' इति विश्वः । कलयति विभ्रति सत्ति । नभश्चरा देवा भयाद्धेतोः परस्परमन्योन्यमुत्पीडिता अतिसंकीर्णतया धृष्टत्वाद्यथिता जानव ऊरुपर्वाणि येषाम् । 'जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम्' इत्यमरः । तथाभूताः सन्तो दूरतरमतिदूरम् । 'दूरान्तिकार्थेभ्यो द्वितीया च' (पा. २।३।३५) इति प्रातिपदिकार्थमात्रे द्वितीया । विदुद्रुवुः पलायांचक्रिरे । 'द्रु गतौ' इत्यस्मात्कर्तरि लिट् ॥ ४३ ॥

ततोऽवलेपाद्विकटं विह[७८]स्य स व्य[७९]धत्त कोशादसिमुत्तमं बहिः ।
रथं द्रुतं प्रापय वासवान्तिकं न[८०]न्वित्यवोचन्नि[८१]जसारथिं रथी ॥४४॥

 तत इति ॥ ततोऽनन्तरं स तारको विकटं करालं यथा तथा । वक्ष्यमाणस्यासेर्विशेषणं वा । 'विकटा वज्रवाराह्यां त्रिषु रुचिकरालयोः' इति मेदिनी । विहस्याट्टहासं कृत्वा । उत्तममसिं करवालं कोशाद्धहिर्व्यधत्त कृतवान् । अथ च रथी सः 'रथं वासवान्तिकमिन्द्रसमीपं द्रुतम् । ननु निश्चयेन प्रापय' इति निजं स्वीयं सारथिं सूतमवोचत् । 'ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे' इति विश्वः ॥४४॥

मनोतिवेगेन रथेन सारथिप्रणोदितेन प्रचलन्महासुरः।
ततः[८२] प्रपेदे सुरसैन्यसागरं भयंकराकारमपारमग्रतः ॥ ४५ ॥

 मन इति ॥ ततोऽनन्तरं मनोतिवेगेनान्तःकरणादपि बहुलगतिजवेन सारथिना प्रणोदितेन प्रेरितेन रथेन प्रचलन्गच्छन् महासुरस्तारकोऽग्रतः पुरतः, स्थितमिति शेषः । अपारमनवधिकं भयंकराकारम् , विभीषणाकृतिमत्पुरुषमित्यर्थः । सुरसैन्यसागरं देवसेनासमुद्रं प्रपेदे प्राप ॥ ४५ ॥

पुरः सुराणां पृ[८३]तनां प्रथीयसीं विलोक्य वीरः पुलकं प्रमोदजम् ।
बभार भू[८४]म्नाथ स बाहुदण्डयोः प्रचण्डयोः संगरकेलिकौतुकी ४६

 पुर इति ॥ वीरः शूरः । 'वीरो रसविशेषे पुंस्युत्तरे सुभटे त्रिपु' इति मेदिनी । स तारकः प्रथीयसीमतिपृथुलां सुराणां देवानां संबन्धिनी पृतनां सेन्घं पुरोऽग्रे विलोक्य प्रचण्डयोबीहुदण्डयोर्भुजदण्डयोः । 'दण्डोऽस्त्री लगुडे पुमान्' इति मेदिनी । प्रमोदजमानन्दजनितं पुलकं रोमाञ्चं भूम्ना बाहुल्येन बभार धृतवान् । यतः संगरकेलौ सङ्ग्रामक्रीडायां कौतुक्युत्साहवान् , वीराणां सेनादर्शनमेव महान्मुदो हेतुरिति भावः ॥ ४६ ॥

ततो म[८५]हेन्द्रस्य चराश्चमूचरा रणान्तलीलारभसेन भूयसा ।
पुरः प्रचेलुर्मनसोऽतिवेगिनो युयुत्सुभिः किं समरे विलम्ब्यते ४७

 तत इति ॥ ततोनऽन्तरं मनसः सकाशादप्यतिवेगिनोऽत्यन्तजववन्तः । तथा भूयसाऽतिशयेन रणान्ते सङ्ग्राममध्ये या लीला विलासः । विलासोऽत्र समराङ्गणाधिकरणकमात्मीयभुजदण्डगतपराक्रमचमत्कृतिदर्शनम् । तत्र रभसेन वेगेन । 'लीलां विदुः केलिविलासखेलाशृङ्गारभावप्रभवक्रियासु' इति विश्वः । चम्वां सेनायां चरन्तीति विग्रहे 'चरेष्टः' (पा. ३।२।१६) इति टप्रत्ययः । तथाभूता महेन्द्रस्येन्द्रस्य चराश्वाराः, दूता इति यावत् । 'चरो द्यूतप्रबन्धे स्याच्चारजङ्गमयोश्चले' इति विश्वः । समरे सङ्ग्रामे युयुत्सुभिर्योद्धुमिच्छुभिः, भवद्भिरित्यर्थः । किं विलम्ब्यते किं विलम्बः क्रियते ? अपि तु सत्वरमेव युध्यतामिति प्रतिपक्षान् , वक्तुमित्यपि शेषः । पुरोऽग्रे प्रचेलुः ॥ ४७ ॥

पु[८६]रःस्थितं देवरिपोश्चमूचरा बल[८७]द्विषः सैन्यसमुद्रम[८८]भ्ययुः ।
भुजं समुत्क्षिप्य प[८९]रेभ्य आत्मनोऽभिधानमुच्चैरभितो न्यवेदयन् ४८

 पुर इति ॥ देवरिपोस्तारकस्य चमूचराः सेनाचराः पुरःस्थितमनस्थितं बलद्विष इन्द्रस्य संबन्धिनं सैन्यसमुद्रं सेनासागरमभ्ययुः संमुखत्वेन जग्मुः। अथ चाभितः संमुखम् । 'अभितः शीघ्रसाकल्यसंमुखोभयतोऽन्तिके' इति विश्वः । भुजं बाहुं समुव्क्षिप्योत्थाप्य आत्मनोऽभिधानं नाम । 'आख्याह्ने अभिधानं च नामधेयं च नाम च' इत्यमरः । उच्चैःस्वरेण परेभ्यः शत्रुभ्यो न्यवेदयन् 'वयममुकनामानो वयममुकनामानः' इति निवेदितवन्तः ॥ ४८ ॥

पुरोगतं दैत्यचमूमहार्णवं दृष्ट्वा प[९०]रं चुक्षुभिरे म[९१]हासुराः ।
पु[९२]रारिसूनोर्नयनैककोणके म[९३]मुर्भटा[९४]स्तस्य रणेऽवहेलया[९५] ॥४९॥

 पुर इति ॥ महासुरा महान्तः सुरा इन्द्रादयः पुरोगतमग्रे प्राप्तं दैत्यस्य तारकस्य चमूरेव महानर्णवः समुद्रस्तं दृष्ट्वा परं केवलम् । 'परमव्ययमिच्छन्ति-' इति विश्वः । चुक्षुभिरे मंचेलुः, विव्यथुरिति यावत् । रणे संगरेऽवहेलया 'मदपेक्षया केयं वराकिका सेना' इत्यनादरेणोपलक्षितस्य तस्य पुरारिसूनोः शिवपुत्रस्य नयनैककोणके नेत्रैकदेश एव । 'कोणो वाद्यप्रभेदे स्यात्कोणोऽब्धौ लगुडेऽर्कजे । वीणादिवादनोपायेऽप्येकदेशे गृहस्य च ॥' इति विश्वः । अत्र गृहस्यैव कोण इत्यविवक्षितम् , किंत्वन्यसाधारणत्वेन प्रकृत इष्टसिद्ध्यर्थमुपलक्षितत्वे गमनीय इत्यलम् । भटा योद्धारो ममुः समाविविशुः ॥ ४९ ॥

द्विषब्दलत्रासवि[९६]भीषिताश्चमूर्दिवौकसामन्धकशत्रुनन्दनः ।
अपश्यदुद्दिश्य म[९७]हारणोत्सवं प्रसादपीयूषधरेण चक्षुपा ॥ ५० ॥

 द्विषदिति ॥ महारणोत्सवमुद्दिश्य स्थितोऽन्धकशत्रुनन्दनः कार्तिकेयो द्विषब्दलत्रासेन तारकसैन्यशासनेन विभीषिता भीता दिवौकसां देवानां चमूः सेना कर्म । प्रसादोऽनुग्रहः, स एव पीयूषममृतं तद्धरति तथाभूतेन चक्षुषाऽपश्यद्ददर्श । अवेन 'यूयं मा भैष्ट, प्रसन्ना भवत, निःशङ्कं युध्यध्वं च' इति व्यज्यते ॥ ५० ॥

[९८]त्साहिताः शक्तिधरस्य दर्शनान्मृधे महेन्द्रप्रमुखा म[९९]खाशनाः ।
[१००]हं मृधे जेतुमरीनरीरमन्न कस्य वीर्याय वरस्य संगतिः ॥५१॥

 उत्साहिता इति ॥ शक्तिधरस्यायुधविशेषधारिणः । 'शक्तिर्बले प्रमावादौ शक्तिः प्रहरणान्तरे' इति विश्वः । अत एव मृधे मङ्खये । 'मृधमास्कन्दनं सङ्ख्यम्' इत्यमरः । तस्य कुमारस्य दर्शनाद्धेतोरुत्साहिता उत्साहं प्राप्ता महेन्द्रप्रमुखा इन्द्रपूर्वा मखाशना यज्ञहविर्भाक्तारो देवा मृधे संगरे 'अहमेवारीञ्शत्रूञ्जेतुं समर्थोऽस्मि नान्यः' इति वदन्तः सन्तोऽरीरमन् रेमिरे। तथा हि-वरस्य श्रेष्टस्य संगतिः संबन्धः कस्य पुरुषस्य वीर्याय वीर्यं कर्तुं न भवति ? अपि तु सर्वस्थापीत्यर्थः । गतवीर्यस्य वीर्यकरणे महदाश्रय एव निदानं नान्यदिति काक्का ध्वन्यते ॥ ५१ ॥

परस्परं वज्रधरस्य सैनिका द्विपोऽपि योद्धुं स्वकरोद्धृतायुधाः[१०१]
वैता[१०२]लिकश्राविततारविक्रमाभिधानमीयुर्विजयैषिणो रणे ॥ ५२॥

 परस्परमिति ॥ रणे युद्धे विजयैषिणो विजयं प्राप्तुमिच्छवः । अत एवं योद्धं युद्धुं कर्तुं स्वकरैरात्मीयपाणिभिरुद्धृतानि गृहीतान्यायुधानि खङ्गादीनि यैस्तथाभूता वज्रधरस्येन्द्रस्य द्विषोऽपि तारकस्य च । अपिरत्र समुच्चयार्थः । 'अपि संभावनाप्रश्नशाङ्कागार्हासमुच्चये' इति विश्वः । सैनिकाः सेनाचराः । 'चरनि' (पा. ४।४।८ ) इति ठक् । वैतालिकैर्बन्दिभिः श्रावितान्याकर्णितानि तार उच्चैर्विक्रमोऽभिधानानि नामानि च यस्मिन्कर्मणि यथा तथा परस्परमन्योन्यमीयुः प्रापुः, मिमिलुरिति यावत् ॥ ५२ ॥

 [१०३]ङ्ग्रामं प्रलयाय संनिपततो वेलामतिकामतो
  वृन्दारासुरसैन्यसागरयुग[१०४]स्याशेषदिग्व्यापिनः ।
 का[१०५]लातिथ्यभुजो बभूव बहलः कोलाहलः क्रोष[१०६]णः
  शैलोत्तालतटीविघट्टनपटुर्ब्रह्माण्डकुक्षिंभरिः ॥ ५३॥

 सङ्ग्राममिति ॥ प्रलयाय नष्टचेष्टतायै, तां कर्तुमित्यर्थः । प्तङ्ग्रामं समरं संनिपततः समुदितवतः । अन्यत्र प्रलयाय लोकसंहाराय संनिपततो वर्धमानस्य । अत एव वेलां मर्यादाम् । एकत्र न्याय्याचरणम्, अन्यत्रावधिम् , सीमानमिति यावत् । 'वेला काले च जलधौ तीरे नीरविकारयोः । क्लिष्टरसने रोगे च सीम्निवाचि युधि स्त्रियाम्' इति विश्वः । अतिक्रामत उल्लङ्घयतः, निर्मर्यादत्वेन युध्यमानस्य सीमानमुल्लङ्घ्य चलत इत्यर्थः । अत एवाशेषासु दिक्षु व्यापिनो व्यप्नुवतः । उभयत्रापि समानमेतत् । तथा कालस्य यमस्य संबन्ध्यातिथ्यमतिथ्युचितसत्कारं भुनक्ति भोक्ष्यति तथोक्तस्य । 'वर्तमानसामीप्ये-' (पा. ३।३।१३१) इति लट् । अन्यत्र कालं कृष्णमातिथ्यमतिथिसत्कारं भुनक्ति भोजयति । अन्तर्भाविणिजर्थः । प्रलये वर्धमानसमुद्रनीरे केवलं तस्यैव वर्तमानत्वात् । वृन्दाराणां देवानामसुराणां च ये सैन्ये ते एव सागरौ समुद्रौ तयोर्युगस्य युग्मस्य । 'युग्मं तु युगलं युगम्' इत्यमरः । तत्संबन्धी क्रोषणो मुखरः कोलाहलः कलकलो बहलः । अत एव शैलसंबन्धिनीनामुत्ताला उच्चतालवृक्षसहिता यास्तठ्यः सैकतानि, शृङ्गाणीति यावत् । तासां विघट्टने स्फोटने पटुः समर्थः । अत एव ब्रह्माण्डे न कुक्षि भरति तथोक्तश्च बभूव । शार्दूलविक्रीडितं वृत्तम् , 'सूर्याश्चैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ॥ ५३ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये सुरा-
सुरसैन्यसंघट्टो नाम पञ्चदशः सर्गः ।

  1. युद्धे.
  2. हृदयस्य कम्पिनी.
  3. चमूपतिम्
  4. विजित्वराभिः.
  5. आवृतम् ; आगमम्.
  6. स्वान्ते.
  7. पुरः.
  8. दूनसूनुना;शत्रुसूनुम्.
  9. जम्भजिता.
  10. समागतम्.
  11. तु; नु.
  12. इव; एव.
  13. सकाकु सोऽहसत्.
  14. वाहवरान्.
  15. ननन्द.
  16. दैत्यः; पश्यन्.
  17. पृतनायुधान्.
  18. निजान्.
  19. ततः.
  20. दानद्रवनाशनस्वनम् ; दानद्रवताननिःस्वनम्.
  21. अम्भोध्यनिवारित; अम्भोधिनिवारित.
  22. प्रति प्रयातुम् ; प्रतिप्रयातम्.
  23. प्रसर्पतः
  24. दानाम्बुधरेषु.
  25. उद्वेजिताः.
  26. व्यवर्धत.
  27. ऊर्मिशतैरवारितैः.
  28. निकेतनावलीः.
  29. द्विषः पुरस्तादशुभौघदायिनीं; पताकिनी प्रत्यसुरेश्वरस्य हि.
  30. अगाधदुःखाम्बुधिमध्यमज्जनं बभूव चोत्पातततिर्विशंसती; मुहुर्महारिष्टपरम्परा ह्यभूत्परापतन्मृत्युमहापताकिनी.
  31. भविष्यदैत्याशमकेलिकामिनी.
  32. द्युपक्षिणाम्
  33. अभिमौलि चाकुलैः
  34. तस्यातनुच्छायमपायदर्शिभिः
  35. सोदरं क्वचित्
  36. उल्काततगर्भ
  37. रथस्य
  38. चामरात्
  39. बालबालधीन्
  40. अखण्डेन
  41. धूयुगोद्गतः
  42. इत्याद्यनिष्टैः; इत्यादिरिष्टैः
  43. न च विन्यवर्ततः; न गतः स वर्त्मना
  44. अम्बरे
  45. मन्मथशत्रु
  46. सनाथैस्त्रिदिवेश्वरादिभिः; सनाथैस्त्रिदशेश्वरादिभिः
  47. समरे
  48. महासुरैः; सुरासुरैः
  49. विमुह्यते
  50. सोऽभिमुखम् ; योऽभिमुखम्
  51. त्वियम्
  52. तेन
  53. दिक्चक्रवालस्थगितस्य; दिक्चक्रवालस्थगतस्य
  54. स्वशरैर्विनिर्ममे येनाहवे तेन कुतः समो भवान्
  55. कृताभिषेकः
  56. तिलकेन
  57. अवकाशी; अवकेशी
  58. विग्रहग्रहः
  59. दर्पम्
  60. जगत्प्रवीरम्
  61. सुचिराय
  62. वरीयसीम्
  63. सः
  64. नाकम्पत; प्राकम्पत
  65. अभ्यधात्ततः; अभ्यगात्ततः
  66. हे
  67. मखारि
  68. वेदनामहोऽधुनेव
  69. विस्मृत्य गताः स्वपृष्ठतः
  70. कटुस्वरैरारटथ; कटुस्वरैरीरयथ.
  71. प्रवृत्ताः.
  72. कार्तिकीनिशि.
  73. भर्गतपस्विनः.
  74. अतस्करम्
  75. तु.
  76. ध्रुवम्
  77. निकृष्य
  78. अभिकोशमाधादसिमंशुभासुरम्
  79. बत
  80. प्रति
  81. द्रुतम्
  82. पृतनाः प्रथीयसीः
  83. भूम्ना बहु
  84. ऽसुरेन्द्रानुचराः ऽसुरेन्द्रस्य चराः
  85. पुरःसराः
  86. सुरद्विषः
  87. अभ्यगुः
  88. सहेलमात्मनः
  89. अभितः
  90. अखिलाः सुराः; अखिलाः स तु
  91. स्मरारिसूनोः
  92. ममौ
  93. भटः; पुरः
  94. भावि रणे हि हेलया
  95. विसंकुला चमूम्
  96. महाहवोत्सवम् ; महाहवे बलम्
  97. उत्साहिनः
  98. सुधाशिनः
  99. अहंजुषः; अयत्नतः
  100. प्रवरोद्धृतायुधाः; प्रचुरोद्धतायुधाः
  101. वैमानिकैः श्रावितमानसत्क्रमाभिधानम् ; वैतालिकैः श्रावितनामविक्रमाः सोत्साहम् ; वैतालिकश्रावितनामविक्रमाभिधानम्
  102. संग्रामप्रलयाय; संग्रामे प्रलयाय
  103. आरोहदिभ्व्यापिनः
  104. कालातिथ्यपृथुप्रदानबहलः; कालातिथ्यपृथूच्चचाल बहलः
  105. क्रोधिनः क्रोधिलः