कुमारसम्भवम् - मल्लिनाथः/अष्ठमः सर्गः

← सप्तमः सर्गः कुमारसम्भवम् - मल्लिनाथः
अष्ठमः सर्गः
कालिदासः
नवमः सर्गः →
अष्टमः सर्गः

अथ श्रृङ्गारमुभयो ............ ।
कुमारसंभवफले सर्गेऽस्मिन्नाह संप्रति ।।
सोऽपि संक्षिप्तसंपन्नसंयुक्तश्च समृद्धिमान् ।
इति भेदाश्चतुर्धोक्ताश्चतुर्णां च वियोगिनाम् ।
तत्रावस्थाप्रभेदेन शृङ्गारे नायिका त्रिधा ।
मुग्धा मध्या प्रगल्भा च ह्रीसाध्वसाविलाम् ।।
मुग्धावस्थां समाश्रित्य देव्या आद्यसमागमे ।
आदावेकादश श्लोकाः ख्यातपूर्वनुरागिणोः ।।
प्रथमं नाम शृङ्गारं शिवयोः कथितं कविः (?) ।

चुम्बनेष्वधरेत्यत्र लक्षणं त्वस्य वक्ष्यते ।।

नवपरिणीतगिरिजारहःकेलिमपि विवर्णयिषुस्तत्रभवान्कालिदासोऽष्टमं सर्गमारभते-

पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति ।
भावसाध्वसपरिग्रहादभूत्कामदोहद (१)मनोहरं वपुः ।। ८.१ ।।

{१.सुखं मनोहरम्.}
     अन्वयः- पाणिपीडनविधेः अनन्तरं शैलराजदुहितुः भावसाध्वसपरिग्रहात् शैलराज दुहितुः वपुः हरं प्रति कामदोहदमनोहरम् अभूत् ।
     मल्लिo- पाणीति । पाणिपीडनविधेरनन्तरं पाणिग्रहणानन्तरम् । विधेरिति पञ्चमी षष्ठी च । उभयथाप्यनुशासनसंभवादित्युक्तं प्राक् । शैलराजदुहितुः पार्वत्याः कर्त्र्याः तं हरं प्रति भावसाध्वसपरिग्रहन्मनोहरं चित्ताकर्षकं कामदोहदम् । कामसंवर्धकमित्यर्थः । `तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्' इति शब्दार्णवे । तच्च तत्सुखं कामदोहदसुखमभूत् । हरस्येति शेषः । नायिकानायकयोरन्योन्यानुभवदर्शनात्सुखमाविर्भवति । तच्च मदनोद्दीपकमिति रसविदां स्थितिः । तथा च हरस्य गौर्या नवोढाया स्वगोचरभावप्रत्युक्तसाध्वसदर्शनात्सुखमाविर्भवति । तच्च मदनाकारं प्रादुर्बभूवेत्यर्थः । तत्र रसभावस्थायिनः कार्यमनुभावः । तदुक्तम्--`रसागच्छन्ति संस्थानं यत्कार्यमुपलक्ष्यते । सोऽनुभावः.......... संस्थासूचकः ।' इति ।। ८.१ ।।


उक्तं भावसाध्वसम् । तस्य सुखमयत्वं च वर्णयति-

व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ।। ८.२ ।।

     अन्वयः-- सा व्याहृता (सती) प्रतिवचो न सन्दधे अवलम्बितांऽशुका गन्तुम् ऐच्छत्, पराङ्मुखी (सती) शयनं सेवते स्म, तथाऽपि पिनाकिनो रतये (बभूव) ।
     मल्लिo- व्याहृतेति । सा पार्वती व्याहृता यत्किंचिदनिहिता सती प्रतिवचः प्रत्युत्तरं न संदधे । न ददावित्यर्थः । अवलम्बितांशुका गृहीतवस्त्रा सती गन्तुमपसर्त्तुमैच्छदिच्छति स्म । इषधातोर्लङ् । `इषुगमियमां छः' इति छकारः । पराङ्मुखी सती शयनं सेवते स्म । अनभिमुखमशयिष्टेत्यर्थः । तथापि इत्थं साध्वसात्प्रतिकूलचेष्टितापीत्यर्थः । पिनाकिनः शिवस्य रतये सुखाय । बभूवेति शेषः प्रातिकूल्यमपि तस्यानन्दकरमभूदित्यर्थः । एतेन नवोढाया देव्या मौग्ध्याद्विजितं तन्ममत्वमवसेयम् ।। ८.२ ।।


कैतवेन (१)शयिते कुतूहलात्पार्वति प्रतिमुखं निपातितम् ।
चक्षुरुन्मिषति सस्मितं प्रिये (२)विद्युदाहतमिव न्यमीलयत् ।। ८.३ ।।

{१.शयने.२.विद्युतेव निहतम्.}
     अन्वयः- पार्वती प्रिये कुतूहलात् कैतवेन शयिते (सति) मुखं प्रति निपातितं चक्षुः सस्मितम् उन्मिषति, विद्युता आहतम् इव न्यमीलयत् ।
     मल्लिo- कैतवेनेति । प्रिये भर्तरि कुतूहलात् । एषा किं करिष्यतीति बुभुत्सयेत्यर्थः । कैतवेन कपटेन शयिते सुप्ते सति पार्वती कर्त्री प्रतिमुखं यथा निपातितम् । प्रियस्वापपरीक्षार्थं तदभिमुखं प्रवर्तितमित्यर्थः । चक्षुः स्वदृष्टिं सस्मितमुन्मिषति । पुनः प्रिये सहासं पश्यतीत्यर्थः । विद्युदाहतं विद्युता प्रतिहतमिव न्यमीलयत् । साध्वसादिति भावः । एतेन किंचित्साध्वसस्यापचयो व्यज्यते ।। ८.३ ।।


नाभिदेशनिहितः (१)सकम्पया शंकरस्य रुरुधे तया करः ।
(२)तद्दुकूलमथ चाभवत्स्वयं दूरमुच्छ्वसितनीविबन्धनम् ।। ८.४ ।।

{१.सशङ्कया.२.तन्नितम्बमभवत्तदा,तन्नितम्बमथ चाभषत्.}
     अन्वयः- नाभिदेशनिहितः शङ्करस्य करः सकम्पया तया रुरुधे, अथ तद्दुकूलं स्वयं दूरम् उच्छ्वसितनीवीबन्धनम् अभवत् ।
     मल्लिo- नाभीति । नाभिदेशनिहितः । नीवीमोचनायेति शेषः । शंकरस्य करः सकम्पया वेपथुमत्या । प्रियकरस्पर्शादुत्पन्नसात्विकभावयेत्यर्थः । तया पार्वत्या रुरुधे निवारितः । अथ च । तथापीत्यर्थः । तद्दुकूलं स्वयं स्वत एव दूरमत्यन्तमुच्छ्वसितं स्स्तं नीवीबन्धनं नीवीग्रन्थिर्यस्य तत्तथाभूतमभवत् । रतिपारवश्यादिति भावः ।। ८.४ ।।


एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनी प्रिये ।। ८.५ ।।

     अन्वयः- `हे आलि ! रहसि शङ्करः एवं निगृहीत साध्वसं सेव्यताम् ।' इति सखीभिः उपदिष्टं सा शङ्करे प्रमुखवर्तिनि सति आकुला न अस्मरत् ।
     मल्लिo- एवमिति । हे आलि सखि पार्वति ! रहसि शंकर एवम् । स्वोपदिष्टप्रकारेणेत्यर्थः । निगृहीतसाध्वसं निरस्तभयं यथा तथा सेव्यतामिति । सखीभिरुपदिष्टमुक्तं वचनं सा पार्वती प्रिये शंकरे प्रमुखवर्तिनि सत्याकुला साध्वसविह्वला सती नास्मरत् । न स्मृतवतीत्यर्थः । स हि भयपरिप्लुते चेतसि दृष्टतरोऽप्युपदेशः संसारमाधत्त इति भावः ।। ८.५ ।।


अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् ।
वीक्षितेन (१)परिवीक्ष्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ।। ८.६ ।।

{१.परिगृह्य.}
     अन्वयः-- कथाप्रवृत्तये अवस्तुनि अपि प्रश्वतत्परम् अनङ्गशासनं पार्वती वीक्षितेन परिगृह्य मूर्धकम्पमयम् उत्तरं ददौ ।
     मल्लिo- अपीति । अथाप्रवृत्तये संलापप्रवर्तनायावस्तुन्यप्रस्तुतार्थेऽपि प्रश्नतत्परम् । यत्किंचित्पृच्छन्तमित्यर्थः । अनङ्गशासनमीश्वरं पार्वती वीक्षितेन । न तु वाचेत्यर्थः । परिगृह्याङ्गीकृत्य मूर्धकम्पमयं शिरःकम्पस्वरुपम् । स्वर्थे मयट् । उत्तरं ददौ । नतु वाङ्मयं साध्वसादिति भावः । विहृतनामा लज्जानुभाव उक्तः । तदुक्तम् रतिरहस्ये-- (ईर्ष्यामानातिलज्जाभ्यां न दत्तं योग्यमुत्तरम् । क्रियया व्यज्यते यत्र विहृतं तदुदीरितम् ।) इति ।। ८.६ ।।


पुनस्तमेवाह-

शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।
तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ।। ८.७ ।।

     अन्वयः- रहसि हृतांऽशुका करतलद्वयेन शूलिनः नयने संनिरुध्य सा तस्य ललाट लोचने पश्यति (सति) मोघयत्नविधुरा अभूत् ।
     मल्लिo- शूलिन इति । सा पार्वती रहसि हृतांशुका प्रियेणाकृष्टवस्त्रा सती करतलद्वयेन । स्वकीयेनेत्यर्थः । शूलिनो हरस्य नयने नेत्रद्वयं संनिरुध्य संच्छाद्य तस्य शूलिनो ललाटलोचने तृतीयेऽक्ष्णि पश्यति सति मोघयत्नाखिलप्रयासात एव विधुराभूत् । तृतीयकराभावादिति भावः । एते न किंचिद्धार्ष्ट्यादयो व्यज्यन्ते ।। ८.७ ।।


चुम्बनेष्वधरदानवर्जितं (१)सन्नहस्तमदयोपगूहनम् ।
क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ।। ८.८ ।।

{१.सन्नरस्तसदयोपगूहनम्.}
     अन्वयः-- चुम्बनेषु अधरदानवर्जितम् अदयोपगूहने सन्नहस्तं दुर्लभप्रतिकृतं क्लिष्टमन्मथम् अपि वधूरतं प्रभोः प्रियम् (अभूत्) ।
     मल्लिo- चुम्बनेष्विति । चुम्बनेष्वधरदानवर्जितमोष्ठार्पणरहितमदयोपगूहने निर्दयालिङ्गने सन्नौ स्तब्धौ हस्तौ करौ यस्मिंस्तत्तथोक्तम् । तथा दुर्लभप्रतिकृतम् । प्रगल्भत्वान्नखदन्तताडनाद्यकृतप्रयत्नमित्यर्थः । अत एव क्लिष्टमन्मथं लज्जयोपरुद्धमदनमपि वध्वा नवोढाया रतं वधूरतं प्रभोरीश्वरस्य प्रियम् । अभूदिति शेषः । `वधूः स्नुषानवोढास्त्रीभार्यासृष्टाङ्गनासु च' इति विश्वः । अयं लज्जासाध्वसाभ्यां संकुचितोपचारत्वात्संक्लिष्टसंभोगः । तदुक्तं भूपालेन-(युवानौ यत्र संक्षिप्तसाध्वसव्रीडयादिभिः । उपचारान्निषेवन्ते स संक्लिष्ट इतीरितः ।) इति ।। ८.८ ।।


यन्मुखग्रहणमक्षताधरं (२)दानमव्रणपदं (३)नखस्य यत् ।
यद्रतं च सदयं (४)प्रियस्य तत्पार्वती विषहते स्म नेतरत् ।। ८.९ ।।

{२.दत्तम्.३.नखं च.४.हरस्य.}
     अन्वयः- पार्वती प्रियस्य अक्षताऽधरं यत् मुखग्रहणम् अव्रणपदं यत् नखं, सदयं यत् रतं तत् विषहते स्म इतरत् न (विषहते स्म) ।
     मल्लिo- यदिति । पार्वती प्रियस्य संबन्ध्यक्षतोऽखण्टितोऽधरो यस्मिंस्तत्तथोक्तं यन्मुखग्रहणं मुखचुम्बनम् । अव्रणपदं लक्ष्मरहितम् । `पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । दत्तं यच्च नखं नखकर्म । यत्सदयं रतं तत्सर्वं विषहते सहते स्म । नेतरद्विपरीतम् । प्रचण्डमिति यावत् । तच्चुम्बनं नखं सुरतं वा न सहते स्म । नवोढात्वादिति हृदयम् । तदुक्तं रतिरहस्ये-(नात्यन्तमानुलोम्येन न चातिप्रतिलोमतः । सिद्धिं गच्छन्ति वा तस्मान्मध्येन साधयेदिति । नवोढाम्) इति ।। ८.९ ।।


रात्रिवृत्तमनुयोक्तुमुद्यतं सा (१)प्रभातसमये सखीजनम् ।
नाकरोदपकुतूहलं ह्रिया शंसितुं (२)तु हृदयेन तत्वरे ।। ८.१० ।।

{१.विभात.२.च.}
     अन्वयः-- सा प्रभातसमये रात्रिवृत्तम् अनुयोक्तुम् उद्यतं सखीजनं ह्रिया अपकुतूहलं न अकरोत्, हृदा तु शंसितुं तत्वरे ।
     मल्लिo- रात्रीति । सा पार्वती विभातसमये प्रभातकाले रात्रिवृत्तम् । सुरतवृत्तान्तमित्यर्थः । अनुयोक्तुं प्रष्टुम् । `प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । उद्यतं प्रवृत्तं सखीजनं ह्रिया लज्जयापकुतूहलं निराकाङ्क्षं नाकरोत् । न किंचिदाचष्ट इत्यर्थः । हृदयेन हृदा च शंसितुं तत्वरे त्वरिताभूत् । औत्सुक्यादिति भावः । त्वरा संभ्रमादीनामनुभावत्वादिति ।। ८.१० ।।


दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
प्रेक्ष्य (३)बिम्बमुपबिम्बमात्मनः कानि कानि (४)न चकार लज्जया ।। ८.११ ।।

{३.अनुबिम्बम्.४.अपि.}
     अन्वयः- दर्पणे च परिभोगदर्शिनी सा पृष्ठतो निषेदुषः प्रणयिनो बिम्बम् आत्मनो बिम्बम् अनु प्रेक्ष्य लज्जया कानि कानि न चकार ।
     मल्लिo- दर्पण इति । किंचेति चार्थः । दर्पणे मुकुरे परिभौगो नखक्षतादिसंभोगचिह्नं पश्यतीति परिभोगदर्शिनी सा पार्वती पृष्ठतः पश्चाद्भागे निषेदुषः स्थितवतः । सदेः वक्सुः । प्रणयिनः प्रियस्य हरस्य बिम्बं प्रतिबिम्बम् । दर्पणे संक्रान्तमित्यर्थः । आत्मनः स्वस्य बिम्बमनु । प्रतिबिम्बस्य पृष्ठत इत्यर्थः । `अनुर्लक्षणे' इति कर्मप्रवचनीयत्वाद्द्वितीया । प्रेक्ष्य लज्जया । स्वचापलप्राकट्यकृतयेत्यर्थः । कानि कानि यानि यानि भेदवाच्यानि । अङ्गसंवरणादिचेष्टितानीत्यर्थः । उक्तं च-(लज्जानुभावेन साचीकृता वर्णवैवर्ण्याधोमुखादिकृत्) इति । न चकार ।। ८.११ ।।


नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी (१)समाश्वसत् ।
भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ।। ८.१२ ।।

{१.समाश्वसीत्.}
     अन्वयः- नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत्; वधूजनः भर्तृवल्लभतया मातुः मानसीं शुचम् अस्यति ।
     मल्लिo- नीलकण्ठेति । नीलकण्ठेन परिभुक्तं यौवनं यस्याः सा तथोक्ताम् । प्रियेण भुक्तयौवनामित्यर्थः । तां पार्वतीं विलोक्य जननी मेना समाश्वसत् । संतुतोषेत्यर्थः । श्वसिधातोर्लङ् । `अङ्गार्ग्यगालवयोः' इति विकल्पादडागमः । तथाहि । वधूजनो भर्तृवल्लभतया पतिवात्सल्येन मातुर्मानसीं मनोभवां शुचं शोकमस्यति निरम्यति हि । `विपर्ययाद्विपर्ययश्च' इत्यर्थादवसेयं सामान्यैकविशेषणसमर्थंनरुपोऽर्थान्तरन्यासः ।। ८.१२ ।।


संप्रति देव्या मुग्धावस्थातो मध्यमावस्थप्राप्तिमाह-

वासराणि कतिचित्कथंचन स्थाणुना (२)रतमकारि चानया ।
ज्ञातमन्मथरसा शनैःशनैः सा मुमोच (३)रतिदुःखशीलताम् ।। ८.१३ ।।

{२.पक्ष्मकार्य न प्रिया.३.रतं.}
     अन्वयः- स्थाणुना अनया (सह) कतिचित् वासराणि कथञ्चन रतम् अकारि । सा शनैः ज्ञातमन्मथरसा रतिदुःखशीलतां मुमोच ।
     मल्लिo- वासराणीति । स्थाणुना शंभुना कर्त्रा प्रिया पार्वती कर्मभूता कतिचिद्वासराणि । कैश्चिदहोभिरित्यर्थः । अत्यन्तसंयोगे द्वितीया । कथंचन कृच्छ्रेण पदं पदप्रक्षेपमकार्यत कारिता । सुरतकर्मणीति शेषः । करोतेर्ण्यन्तात्कर्मणि लुङ् । `हृक्रोरन्यतरस्याम्' इत्यणि कर्तुः कर्मत्वे `ण्यन्ते कर्तुश्च कर्मणा' इत्यभिहितत्वं च । सा कृतपदा पार्वती ज्ञातमन्मथरसानुभूतसुरतसुखास्वादा सती । `आस्वादे विरसमाहुः' इति शब्दानुशासने । शनैः शनैः क्रमेण रतौ रते दुःखशीलतां प्रतिकूलस्वभावतां मुमोच `शीलं स्वभावे सद्वृत्ते' इत्यमरः । मध्यमावस्थां प्राप्तेत्यर्थः ।। ८.१३ ।।


तुल्यलज्जास्मरत्वमेवाह--

सस्वजे प्रियमुरो (१)निपीडनं प्रार्थितं मुखमनेन नाहरत् ।
मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ।। ८.१४ ।।

{१.निपीडितम् निपीडिता.}
     अन्वयः- सा उरोनिपीडनं प्रियं सस्वजे, अनेन प्रार्थितं मुखं न अहरत्, मेखलाप्रणयलोलतां गतम् अस्य हस्तं शिथिलं रुरोध ।
     मल्लिo- सस्वज इति । सा पार्वत्युरसोनिपीडनं यस्मिन्कर्मणि यथा स्तात्तथा प्रियं सस्वजे आलिङ्गितवती । न तु निष्पन्दमास्तेत्यर्थः । अनेन स्मरातिशयः सूचितः । तथाऽनेन प्रियेण प्रार्थितं चुम्बनार्थं याचितम् । `याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः' इति केशवः । मुखं नाहरत् नाऽवक्रयत् । मेखलायां प्रणयः परिचयः । `प्रणयः स्यात्परिचये याच्ञायां सुहृदेऽपि च' इति यादवः । तत्र लोलतां चञ्चलतां गतमस्य हस्तं शिथिलं मन्दं रुरोध न्यवारयत् । न तु निर्भरमिति भावः । अत्र सहनप्रतीकाराभ्यां तुल्यलज्जास्मरत्वं व्यज्यते ।। ८.१४ ।।


अथ देव्याः प्रगल्भावस्थां दर्शयितुं तयोः समानरागित्वं तावदाह-

भावसूचितमदृष्टविप्रियं (२)चाटुमत्क्षणवियोगकातरम् ।
कैश्चिदेव (३)दिवसैस्तथा तयोः प्रेम (४)गूढमितरेतराश्रयम् ।। ८.१५ ।।

{२.चाटु तत्क्षण;चाटुमत्क्षण.३.तदा.४.रुढम्.}
     अन्वयः- तयोः भावसूचितम् अदृष्टविप्रियं चाटुमत् क्षणवियोगकातरं गूढं तयोः प्रेम कैश्चित् एव दिवसैः इतरेतराश्रयम् (अभूत्) ।
     मल्लिo- भावेति । तयोः शिवयोः कैश्चित्कतिभिश्चिदेव दिवसैः । भावसूचितं भावैश्चेष्टाभिः कटाक्षनिक्षेपादिभिः सूचितं ज्ञापितं विप्रियमप्रियाचरणं यत्र तत्तथोक्तम् । चाटूनि प्रियोक्तयो यस्मिन्सन्ति तच्चाटुमत् भूतार्थे मतुप् । क्षणवियोगात्क्षणमात्रविरहादपि कातरं भीरुत्वम् । इतरेतराश्रयमन्योन्यविषयं प्रेम । प्रेमपदाभिलष्याऽङ्कुरावस्था भवतीत्यर्थः । गूढमभूत् । क्रमेणानुरागपदाभिलष्यां प्राप्तमित्यर्थः । तदेतत्सर्वं स्फुटीकृतं भूपालेन- (अङ्कुरपल्लवकलिकाप्रसूनफलभागियम्) इत्यादिना । एका रतिरेव स्थायीभूता रसो भवति तस्याश्चाङ्कुरावस्थाभेदोपपत्तौ सा प्रेमादिपदैरभिलष्यत इत्यर्थः । `सप्रेमभेदरहितं यूनोर्यद्भावबन्धनम् । भावो रती राग एव स्वसंवेद्यदशाप्राप्तयावदाश्रयवृत्तिश्चेदनुरागः' इति मानादिलक्षणं विस्तरभयान्न लिख्यत इत्याकर एव द्रष्टव्यम् ।। ८.१५ ।।


तं यथात्मसदृशं वरं वधूरन्वरज्यत वरस्तथैव ताम् ।
सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैक(१) वृत्तिभाक् ।। ८.१६ ।।

{१.निवृत्तिः.}
     अन्वयः- वधूः आत्मसदृशं तं वरं प्रति यथा अन्वरज्यत, वरोऽपि तां प्रति तथैव अन्वरज्यत । हि जाह्नवी सागरात् अनपगा, सोऽपि तन्मुखरसैकवृत्तिभाक् ।
     मल्लिo- तामिति । वधूरात्मसदृशं स्वानुरुपं वरं वोढारं प्रति यथान्वरज्यतानुरक्ताभूत् । रञ्जेर्दैवादिकात्कर्तरि लकारः । स्वरितत्वादात्मनेपदम् । तथैव वरोऽपि नवोढोप्यात्मनः सदृक्तामात्मसदृशम् । `त्यदादिषु दृशोऽनालोचने कञ्च' इति चकारात्क्विप्प्रत्ययः । तां वधूं प्रत्यन्वरज्यत वध्वामनुरक्तोऽभूदित्यर्थः । `गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्य' इत्यनेन सकर्मकत्वम् । दृष्टान्तमाह-- जाह्नवी गङ्गा सागरन्नापगच्छतीत्यनपगानपेता हि सोऽपि सागरस्तस्या जाह्नव्या मुखरसेनाग्रसलिलेन वक्त्रास्वादेनैका मुख्या निर्वृतिरानन्दो यस्य स तथोक्तः । अत्र दृष्टान्तालंकारः । लक्षणं तूक्तम् इत्थं समानानुरागकथनाद्रसाभासत्वं निरस्तम् । तदुक्तम्-- (योषितो बहुसक्तिश्चेद्रसाभासः स उच्यते) । कविनाप्युक्तं मालविकायाम्-- (अनातुरोक्तं प्रति विप्रसिद्धता समीपगेनापि रतिर्न मां प्रति । परस्परप्राप्तिनिराशयोर्वा शरीरनाशोऽपि समानरागयोः ।) इति ।। ८.१६ ।।


अथ देव्याः प्रगल्भावस्थामाश्रित्य संभोगमाह--

शिष्यतां निधुवनोपदेशिनः शंकरस्य रहसि प्रपन्नया ।
शिक्षितं युवतिनैपुणं तया (२)यत्तदेव गुरुदक्षिणीकृतम् ।। ८.१७ ।।

{२.तत्.}
     अन्वयः-- रहसि निधुवनोपदेशिनः शङ्करस्य शिष्यतां प्रपन्नया तया यद् युवतिनैपुणं शिक्षितं तया तदेव गुरुदक्षिणीकृतम् ।
     मल्लिo- शिष्यतामिति । रहस्येकान्ते निधुवनमुपदिशतीति निधुवनोपदेशिनः सुरतविद्यागुरोः । `व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्' । इत्यमरः । शंकरस्य शिष्यतां प्रपन्नया प्राप्तया तया पार्वत्या यद्युवतिनैपुणं युवतिजनोचितं नैपुणम् । सुरतकौशलमित्यर्थः । शिक्षितमभ्यस्तम् । आचरितमित्यर्थः । अनेन कृतप्रतिकृतं सूच्यते ।। ८.१७ ।।


दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा ।
शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः ।। ८.१८ ।।

     अन्वयः- अम्बिका दष्टमुक्तम् अधरोष्ठं वेदनाविधुतहस्तपल्लवा (सती) शूलिनो मौलिचन्द्रशकलेन क्षणं निरवापयत् ।
     मल्लिo- दष्टमिति । अम्बिका पार्वती दष्टश्चासौ मुक्तश्च तं दष्टमुक्तम् । `पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन' इत्यनेन समासः । अधरोष्ठं वेदनया विधुतौ कम्पितौ हस्तपल्लवौ पाणिपल्लवौ यस्याः सा तथोक्ता सती शीतलेन शूलिनो मौलिचन्द्रशकलेन क्षणं निरवापयत् । शीतलोपचारेण निर्व्यथमकरोदिति विश्रम्भोक्तिः । निर्वातेर्धातोर्ण्यन्तात् `अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ' इत्यनेन पुगागमः । अत्राधरपीडनात्सुखेऽपि दुःखवदुपचारात्कुट्टिमनामानुभाव उक्तः । तदुक्तम्- (केशाधरादिसंग्रहणे मोदमानापि मानसे । दुःखितेव बहिः कुप्येतत्कुट्टिमम्) ।। ८.१८ ।।


चुम्बनादलकचूर्णदूषितं शंकरोऽपि नयनं ललाटजम् ।
उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ।। ८.१९ ।।

     अन्वयः- अथ शङ्करोऽपि चुम्बनात् अलकचूर्णदूषितं ललाटजं नयनम् उच्छ्वसत्कमलगन्धये पार्वतीवदनगन्धवाहिने ददौ ।
     मल्लिo- चुम्बनादिति । अथ शंकरोऽपि चुम्बनाच्चुम्बनार्थितोऽलकचूर्णेन दूषितमुपहतं ललाटजं नयनमुच्छ्वसत्कमलगन्धये विकचारविन्दगन्धधारिणे । `उपमानाच्च' इतीकारः । पार्वत्या वदनगन्धवाहिने । फूत्कारमारुतायेत्यर्थः । एतेन देव्याः प्रियवशंवदत्वमुक्तम् । अत्र हरचक्षुष्यलकचूर्णकथनाद्देव्या उपरिभावः सूचितः ।। ८.१९ ।।


एवमिन्द्रियसुखस्य (१)वर्त्मनः सेवनादनुगृहीतमन्मथः ।
शैलराजभवने सहोमया (२)मासमात्रमवसद् वृषध्वजः ।। ८.२० ।।

{१.चात्मनः.२.मासमेकम्.}
     अन्वयः- वृषध्वजः एवम् इन्द्रियसुखस्य वर्त्मनः सेवनात् अनुगृहीतमन्मथः (सन्) उमया सह शैलराजभवने मासमात्रम् अवसत् ।
     मल्लिo- एवमिति । वृषध्वजो हर एवमुक्तरीत्येन्द्रियाणां सुखस्यानुकूलस्य वर्त्मनो मार्गस्य स्त्रीप्रसङ्गस्येत्यर्थः । सेवनात्परिभोगादनुगृहीतमन्मथः पुरुज्जीवितमदनः सन् । उमया सह शैलराजभवने हिमवद्गेहे मासमात्रमवसत् । अत्यन्तसंयोगे द्वितीया । मासमात्रमिति वधूवशीकरणकालक्लृप्तिः प्रदर्शिता ।। ८.२० ।।


सोऽ(३)नुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम्(४) ।
तत्र तत्र विजहार (५)संपतन्नप्रमेयगतिना ककुद्मता ।। ८.२१ ।।

{३.अनुमन्त्र्य.४.पीडितम्.५.संचरन्.}
     अन्वयः- स आत्मभूः आत्मजाविरहदुःखपीडितं हिमवन्तम् अनुमान्य अप्रमेयगतिना ककुद्मता तत्र तत्र संपतन् विजहार ।
     मल्लिo- स इति । स आत्मभूः शिव आत्मजाया दुहितुर्विरहदुःखेन पीडितं हिमवन्तमनुमान्यानुमतं कृत्वा अप्रमेयगतिनापरिच्छेद्यगतिना ककुद्मता वृषेण संचरन्संचरमाणस्तत्र तत्र नानादेशेषु विजहार ।। ८.२१ ।।


मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतः कृती ।
हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमात् ।। ८.२२ ।।

     अन्वयः- मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतः कृती मेरुम् एत्य सुरतमर्दनक्षमान् हेमपल्लवविभङ्गसंस्तरान् रात्रिम् एत्य अन्वभूत् ।
     मल्लिo- मेरुमिति । मरुदाशुगोक्षकः । पवनजवनवाहनः पार्वतीस्तनाभ्यां पुरस्कृतः । पार्वतीपुरोगतयाश्लिष्ट इत्यर्थः । कृती कुशलो हरो मेरुमेत्य हेमपल्लवानां विभङ्गाः खण्डास्त एव संस्तरस्तल्पं यस्यां तां तथोक्तां क्षपां रात्रिं सुरततत्परः सुरतासक्तः सन् । अन्वभूत् ।। ८.२२ ।।


पद्मनाभवलयाऽङ्किताश्मसु(१) प्राप्तवत्स्वमृतविप्रुषो नवाः ।
(२)मन्दरस्य कटकेषु चावसत्पार्वतीवदनपद्मषट्पदः ।। ८.२३ ।।

{१.चरण.२.मान्दरेषु.}
     अन्वयः- पार्वतीवदनपद्मषठ्पदः (सः) पद्मनाभवलयाऽङ्किता।़श्मसु नवाः अमृतविप्रुषः प्राप्तवत्सु मन्दरस्य कटकेषु च अवसत् ।
     मल्लिo- पद्मनाभेति । पार्वतीवदनपद्मे षट्पदः । प्रियामुखरसास्वादलोल इत्यर्थः । स हरः । पद्मं नाभिर्यस्य स पद्मनाभो विष्णुः । `अच्प्रत्यन्ववपूर्वात्सामलोम्नः'इत्यत्राजिति योगविभागात्समासान्तः । तस्य वलयैरङ्किता अश्मानो येषां तेषु । अमृतमथनसमय इति भावः । तथा नवाः प्रत्यग्रा अमृतविप्रुषः सुधाबिन्दून्प्राप्तवत्सु मन्दरस्य मन्थाचलस्य कटकेषु नितम्बेषु चावसत् । एतेन मन्दरस्यानेकाद्भुताधारत्वान्मनोविनोदकत्वमुक्तम् ।। ८.२३ ।।


(३)रावणध्वनितभीतया तया कण्ठसक्त(४) दृढबाहुबन्धनः ।
एकपिङ्गलगिरौ जगद्गुरुर्निर्विवेश विशदाः शशिप्रभा ।। ८.२४ ।।

{३.वारणस्वनित.४.मृदु.}
     अन्वयः- जगद्गुरुः रावणध्वनितभीतया तया कण्ठसक्तदृढबाहुबन्धनः (सन्) एकपिङ्गलगिरौ विशदाः शशिप्रभाः निर्विवेश ।
     मल्लिo-रावणेति । जगद्गुरुः । विश्रवसोऽपत्यं रावणो दशकण्ठः । `तस्यापत्य्म्' इत्यण्प्रत्ययः । वृत्तिविषये विश्रवस् शब्दस्य रवणादेशः । रावणस्य ध्वनितात्कैलासोत्पाटनसमयक्ष्वेडिताद्भीतया तया पार्वत्या कण्ठसक्ताभ्यां दृढबाहुभ्यां बन्धनं यस्य स तथाभूतः । एकनेत्रत्वादेकपिङ्गलः कुबेरस्तस्य गिरौ कैलासे विशदा निर्मलाः शशिप्रभाश्चन्द्रिका बुभुजे । `निर्वेशो भृतिभोगयोः' इत्यमरः ।। ८.२४ ।।


तस्य जातु मलयस्थलीरतेर्धूतचन्दनलतः(५) प्रियाक्लमम् ।
आचचाम (६)सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ।। ८.२५ ।।

{५.वनः.६.सतुषरिशीतलः.}
     अन्वयः- जातु धूतचन्दनलतः सलवङ्गकेसरः दक्षिणाऽनिलः चाटुकार इव मलयस्थलीरतेः तस्य प्रियाक्लमम् आचचाम ।
     मल्लिo- तस्येति । जातु कदाचिद् धूतचन्दनलतः कम्पितपटीरशाखः । `समे शखालते' इत्यमरः । सह लवङ्गस्य केसरैः सलवङ्गकेसरः । `लवङ्गदेवकुसुमम्' इत्यमरः । विशेषणाभ्यां शैत्यसौरभ्ये दर्शिते । दक्षिणानिलो मलयमारुतः । चाटुकारश्चाटुप्रयोगः । प्रियवाद इति यावत् । भावे घञ् । स इव मलयस्थलीषु मलयाचलप्रदेशेषु रतिः सुरतं यस्य तथोक्तस्य तत्र रममाणस्येत्यर्थः । तस्य शिवस्य प्रियाक्लमं प्रियायाः सुरतश्रममाचचाम जहार । यथा लोके महानपि श्रम एकेन प्रियवादेनापैति तद्वद्दक्षिणमारुतेनाप्यस्य सकलोऽपि सुरतक्लमो हृत इत्यर्थः ।। ८.२५ ।।


हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।
खे(१) व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्त(२) मेखला ।। ८.२६ ।।

{१.सा.२.मेखलाम्.}
     अन्वयः- उमा हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा मीनपङ्क्तिपुनरुक्तमेखला खे तरङ्गिणीं व्यगाहत ।
     मल्लिo- हेमेति । उमा गौरी हेमतामरसेन कनककमलेन ताडितः प्रियो यया तेनोत्थितस्य प्रियस्य कराम्बुना कराक्षिप्ताम्भसा विनिमीलितेक्षणा मुकुलिताक्षी । मीनपङ्क्त्या पुनरुक्ता द्विगुणिता मेखला यस्याः सा तथाभूता सती खे तरङ्गिणीं व्यगाहत । तत्र तत्र जलक्रीडामकरोदित्यर्थः ।। ८.२६ ।।


तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।
नन्दने चिरमयुग्मलोचनः सस्पृहं (३)सुरवधूभिरीक्षितः ।। ८.२७ ।।

{३.सुरवधूभिरैक्ष्यत,सुरवधूनिरीक्षतः,सुरवधूभिरक्षितः.}
     अन्वयः- अयुग्मलोचनः नन्दने पुलोमतनयाऽलकोचितैः पारिजातकुसुमैः तां प्रसाधयन् सुरवधूभिः सस्पृहम् चिरम् ईक्षितः ।
     मल्लिo- तामिति । अयुग्मानि लोचनानि यस्य सोऽयुग्मलोचनस्त्र्यम्बकः । युग्मशब्दो विशेष्यनिध्नोऽप्यास्ते `तस्मिन्युग्मासु संविशेत्' `युग्मान्दैवे यथा शक्ति पित्र्येऽयुग्मांस्तथैव च' । इत्यादिप्रयोगदर्शनात् । नन्दने नन्दनोद्याने पुलोमतनया शची । `पुलोम्नस्तु शची सुता' इति हरिवंशे । तस्या अलकानामुचितैः पारिजातकुसुमैस्तां प्रसाधयन्नलंकुर्वंश्चिरं सुरवधूभिः सस्पृहमीक्षितः । केन वा पुण्येनायं लभ्यत इति साभिलाषदृष्ट इत्यर्थः । अत्र देवस्यानुकूलनायकत्वं देव्याः स्वाधीनपतिकात्वं चावसेयम् ।। ८.२७ ।।


इत्यभौममनुभूय शंकरः पार्थिवं च (१)दयितासखः सुखम् ।
लोहितायति कदाचिदातपे गन्धमादनवनं(२) व्यगाहत ।। ८.२८ ।।

{१.वनिता.२.गिरिम्.}
     अन्वयः- इति शङ्करः वनितासखः (सन्) अभौमं पार्थिवं च सुखम् अनुभूय कदाचित् आतपे लोहितायति (सति) गन्धमादनवनं व्यगाहत ।
     मल्लिo- इतीति । इतीत्थं शंकरो वनितासखः सन् भूमौ भवं भौमम् न भौममभौमं दिव्यं, पृथिव्यां भवं पार्थिवं च सुखमनुभूय कदाचिदातपे लोहितायति लोहितवर्णे भवति । अस्तंगते सवितरीत्यर्थः । `लोहितादिडाज्भ्यः क्यष्' इति क्यष्प्रत्ययः । गन्धमादनगिरिं व्यगाहत । पर्वतमुद्दिश्य इत्यर्थः । उद्देशक्रियां प्रति गिरेः कर्मत्वम् । यथाह भाष्यकारः ।। ८.२८ ।।


तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् ।
दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ।। ८.२९ ।।

     अन्वयः- तत्र काञ्चनशिलातलाश्रयः (सः) नेत्रगम्यं भास्करम् अवलोक्य दक्षिणेतरभुजव्यपाश्रयां सहधर्मचारिणीं व्याजहार ।
     मल्लिo- तत्रेति । तत्र गन्धमादने काञ्चनविकारः काञ्चनं सौवर्णं तच्च तच्छिलातलं तदाश्रयो यस्य स भगवान्नेत्रगम्यं सायंतनम् अर्थाद्दर्शनयोग्यम् । भास्करं सूर्यम् । `दिवाविभानिशाप्रभाभास्करान्तानन्तादीo' त्यादिना टप्रत्ययः । अवलोक्य दक्षिणेतरभुजः सव्यबाहुर्व्यपाश्रयो यस्यास्ताम् । निजवामभुजमवष्टभ्योपबिष्टामित्यर्थः । सह धर्म चरतीति सहधर्मचारिणीं पत्नीं व्याजहार जगाद् ।। ८.२९ ।।


पद्मकान्ति(३) मरुणत्रिभागयोः (४)संक्रमय्य तव नेत्रयोरिव ।
संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः ।। ८.३० ।।

{३.अरुणान्तभागयोः.४.संगमय्य.}
     अन्वयः-- (हे प्रिये !) असौ अहर्पतिः पद्मकान्तिम् अरुणत्रिभागयोः तव नेत्रयोः संक्रमय्य इव संक्षये प्रजेश्वरो जगत् इव अहः संहरति ।
     मल्लिo- पद्मकान्तिमिति । असावह्नां पतिरहर्पतिः सूर्यः । `अहरादीनां पत्यादिषूपसङ्ख्यानम्' इति रेफदिशः । पद्मकान्तिं पद्मशोभाम् । तृतीयो भागस्त्रिभागः । वृत्तिविषये पूरणार्थत्वं सङ्ख्याया इत्युक्तम् । अरुणस्त्रिभागो ययोस्तयोः । अरुणोपान्तयोरिति भाग्यलक्षणोक्तिः । तव नेत्रयोः सक्रमय्येव । तदानीं पद्मानामविकासान्नेत्रयोस्तु विकासाच्चेयमुत्प्रेक्षा । प्रलयकाले प्रजेश्वरः प्रजापतिर्जगदिवाहर्दिवसं संहरति । अस्तं गच्छतीत्यर्थः ।। ८.३० ।।


सीकरव्यतिकरं मरीचिभि(१) र्दूरयत्यवनते विवस्वति ।
इन्द्रचापपरिवेषशून्यतां निर्झरास्तव(२) पितुर्व्रजन्त्यमी(३) ।। ८.३१ ।।

{१.धूनयति.२.प्रसवितुः.३.ते.}

     अन्वयः-- विवस्वति मरीचिभिः सीकरव्यतिकरं दूरयति (सति) हे अवनते ! अमी तव पितुः निर्झराः इन्द्रचापपरिवेषशून्यतां व्रजन्ति ।
     मल्लिo- सीकरेति । विवस्तेजोऽस्यास्तीति विवस्वांस्तस्मिन्विवस्वति सूर्ये मरीचिभिः । सहार्थविवक्षायां तृतीयात एव विनापि सहशब्देन तृतीया । सीकरव्यतिकरं पयःकिरणसंपर्कं दूरयति दूरीकुर्वति सति । हे अवनते पार्वति ! अमी तव पितुर्भवत्पितुर्हिमवतो निर्झराः प्रवाहाः । `प्रवाहो निर्झरो झरः' इत्यमरः । इन्द्रचापं नानावर्णप्रभासमूहस्तस्य परिवेषेण परिवेष्टनेन शून्यतां व्रजन्ति । अर्ककिरणसंपर्ककृतत्वादैन्द्रचापस्य तन्निवृत्त्या निवृत्तिरित्यर्थः ।। ८.३१ ।।


दष्टतामरसकेसर(४) त्यजोः क्रन्दतोर्वि(५) परिवृत्तकण्ठयोः ।
(६)निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम् ।। ८.३२ ।।

{४.स्त्रजोः.५.विरहहीनकण्ठयोः.६.भिन्नयोः.}
     अन्वयः-- दष्टतामरसकेसरस्त्रजोः क्रन्दतोः विपरिवृत्तकण्ठयोः निघ्नयोः चक्रवाकयोः सरसि अल्पम् अन्तरम् अनल्पतां गतम् ।
     मल्लिo-- दष्टेति । दष्टमर्धजग्धं तामरसकेसरं पद्मकिञ्जल्कम् । मुखद्वयेनैकमिति भावः । तत्त्यजत इति तथोक्तयोः क्रन्दतोः कूजतोर्विपरिवृत्तकण्ठयोः । परस्परालोकनार्थं वक्रीकृतग्रीवयोरित्यर्थः । निघ्नयोर्दैवाधीनयोः । `अधीनो निघ्न अयत्त' इत्यमरः । चक्रवाकी च चक्रवाकश्च तयोः `पुमान्स्त्रिया' इत्येकशेषः । सरस्यल्पमन्तरं व्यवधानमनल्पतामाधिक्यं गतम् । सरसि वियुज्यमानयोर्महद् व्यवधानमभूदित्यर्थः ।। ८.३२ ।।


स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।
(१)आविभातचरणाय गृह्णते वारिरुहबद्धषट्पदम् ।। ८.३३ ।।

{१.आविभाति शरणाय गच्छतः,साध्यकर्मविधयेऽनुगृह्णते.}
     अन्वयः-- दन्तिनः आह्निकं स्थानम् अपास्य सल्लकीविटपभङ्ग वासितं वारिरुहबद्धषट्पदं वारि आविभातचरणाय गृह्णाते ।
     मल्लिo- स्थानमिति । दन्तिनो गजाः अह्नि भवमाह्निकम् `कालाट्ठञ्' स्थानमपास्य विहाय सल्लकी गजप्रिया काचिल्लता । `सल्लकी स्याद्गजप्रिया' इति हलायुधः । तस्या विटपभङ्गैः पल्लवखण्डैर्वासितं सुरभितं वारिरुहेषु बद्धाः संगताः षट्पदा यस्मिंस्तद्वारि जलमाविभातं प्रभातमारभ्य यच्चरणं तस्मै । तत्पर्याप्तमित्यर्थः । गृह्णत उपाददते । गजा हि भुक्तिपर्याप्तजलं सकृदेव सायं पिबन्तीति प्रसिद्धम् ।। ८.३३ ।।


पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे(२) विवस्वता ।
(३)दीर्घया प्रतिमया सरोम्भसां तापनीयमिव सेतुबन्धनम् ।। ८.३४ ।।

{२.कथमिदम्.३.लब्धया.}
     अन्वयः- हे मितकथे ! पश्चिमदिगन्तलम्बिना विवस्वता दीर्घया प्रतिमया सरोऽम्भसां तापनीयं सेतुबन्धनम् इव निर्मितम् । पश्य ।
     मल्लिo- पश्येति । हे मितकथे, हे मितभाषिणि ! एतेन स्वस्य तत्संलापने लौल्यं सूचयति । पश्चिमदिगन्तलम्बित्वादायतया प्रतिमया निजप्रतिबिम्बेन । `प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया । प्रतिकतिरर्चा पुंसि प्रतिनिधिरूपमोपमानं स्यात् ।' इत्यमरः । सरोम्भसां तपनीयविकारस्तापनीयं हिरण्मयम् । `तपनीयं शातकुम्भम्' इत्यमरः । सेतुबन्धननिमित्तम् । इवेत्युत्प्रेक्षा । अस्तमयसमये सरः पारावारिणामरुणमायतमर्कप्रतिबिम्बं हिरण्मयसेतुरिव दृश्यत इत्यर्थः । पश्येति वाक्यार्थः कर्म ।। ८.३४ ।।


उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः ।
दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ।। ८.३५ ।।

     अन्वयः- दंष्ट्रिणो दष्टभङ्गुरविसाङ्कुरा वनवराहयूथपा गाढपङ्कं पल्वलं विनिकीर्य अतिवाहितातपाः (सन्तः) उत्तरन्ति ।
     मल्लिo- उत्तरन्तीति । दंष्ट्रिणो दंष्ट्रावन्तः । व्रीह्यादित्वादिनिः । अतएव दष्टा भङ्गुराः कुटिला बिसाङ्कुरा मृणालाङ्कुरा यैस्ते त इव स्थिता वनवराहाणां यूथपाः । `यूथनाथस्तु यूथपः' इत्यमरः । गाढपङ्कमतिपङ्किलं पल्वलमल्पसरः । `वेशन्तः पल्वलं चाल्पसरः' इत्यमरः । विनिकीर्य विक्षिप्यातिवाहितातपा उत्तरन्ति पल्वलान्निर्गच्छन्ति ।। ८.३५ ।।


एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः(१) ।
हीयमानमहरत्ययातपं पीवरोरु ! पिबतीव बर्हिणः ।। ८.३६ ।।

{१.मण्डलम्.}
     अन्वयः- हे पीवरोरु ! एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलो बर्हिणो हीयमानम् अहरत्ययाऽऽतपं पिबति इव ।
     मल्लिo- एष इति । हे पीवरोरु, एष वृक्षशिखरे वृक्षाग्रे कृतस्थितिजातरूपरसगौरमण्डल आतपरुषणात्काञ्चनद्रवदरुणवर्हमण्‍लः । `चामीकरं जातरुपं महारजतकाञ्चने' । इत्यमरः । बर्हमस्यास्तीति बर्हिणो मयूरः । `फलबर्हाभ्यामिनज्वक्तव्यः' हीयमानं क्षीयमाणमहरत्ययातपं दिनान्तातपं पिबतीव । कथमन्यथा क्षीयमाणत्वमिति भावः ।। ८.३६ ।।


पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव(१) जातमेकतः ।
खं हृतातपजलं विवस्वता भाति किंचिदिव शेषवत्सरः ।। ८.३७ ।।

{१.लग्नपङ्कम्.}
     अन्वयः- पूर्वभागतिमिरप्रवृत्तिभिः एकतो व्यक्तपङ्कम् इव जातं विवस्वता हृताऽतपजलं खं किञ्चित् शेषवत् सर इव भाति ।
     मल्लिo- पूर्वभागेति । पूर्वभागे प्राचीमूले तिमिरप्रवृत्तिभिर्ध्वान्तप्रसरैरेकतो व्यक्तपङ्कं स्फुटपङ्कमिव जातं तथा विवस्वता हृतमातप एव जलं यस्य तत्तथोक्तं खमाकाशं किंचिदीषच्छेषोस्यास्तीति शेषवच्छुष्कं सर इव भाति ।। ८.३७ ।।


आविशद्भि (२)रुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः ।
आश्रमाः प्रविशदग्निधेनवो(३) विभ्रतिं श्रियमुदीरिताग्नयः ।। ८.३८ ।।

{२.उटजाङ्गणे.३.उग्र्यधेनवः.}
     अन्वयः- उटजाऽङ्गणम् आविशद्भिः मृगैः मूलसेकसरसैः वृक्षकैः प्रविशदग्निधेनवः उदीरिताऽग्नयः आश्रमाः श्रियं बिभ्रति ।
     मल्लिo- आविशद्भिरिति । उटजाङ्गणं पर्णशालाङ्गणमाविशद्भिः । प्रविशद्भिरित्यर्थः । `पर्णशालोटजोऽस्त्रियाम्' इत्यमरः । `उपान्वध्याङ्वस' इति कर्मत्वम् । मृगैः । तथामूलानां सेकेन सेचनेन सरसैः सद्रवैर्वृक्षकैश्चोपलक्षिताः । अल्पार्थे कप्रत्ययः । प्रविशन्त्यो वनादागच्छन्त्योऽग्निहोत्रार्थां धेनवः उदीरिताग्नयश्चाश्रमाः श्रियं बिभ्रति ।। ८.३८ ।।


बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् ।
षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातु(४) मन्तरम् ।। ८.३९ ।।

{४.उत्तरम्.}
     अन्वयः-- बद्धकोशम् अपि कुशेशयं वसतिं ग्रहीष्यते षट्पदाय प्रीतिपूर्वम् अन्तरं दातुम् इव क्षणं साऽवशेषं विवरं तिष्ठति ।
     मल्लिo-- बद्धकोशमिति । बद्धकोशमपि । मुकुलितमपीत्यर्थः । कुशेशयं कर्तृ । `शतपत्रं कुशेशयम्' इत्यमरः । वसतिं ग्रहीष्यते । स्थितिं करिष्यत इत्यर्थः । `लृटः सद्वा' इति शतृप्रत्ययः । षट्पदाय प्रीतिपूर्वमन्तरमवकाशं दातुमिव क्षणं सावशेषविवरं तिष्ठति ।। ८.३९ ।।


(१)दूरलग्नपरिमेयरश्मिना (२)वारुणी दिगरुणेन भानुना ।
भाति केसरवतेव मण्डिता वन्धुजीवतिलकेन कन्यका ।। ८.४० ।।

{१.दूरमग्र.२.वारुणा.३.कुसुमेन.}
     अन्वयः- वारुणी दिक् दूरलग्नपरिमेयरश्मिना अरुणेन केसरवता बन्धुजीवतिलकेन मण्‍डिता कन्यका इव भाति ।
     मल्लिo- दूरलग्नेति । वारुणी दिक्प्रतीची दूरं लग्ना अत एव परिमेया अल्पावशिष्टा रश्मयः यस्य तथोक्तेनारुणेन लोहितवर्णेन केसरवता किञ्जल्कवता बन्धुजीवं बन्धुजीवककुसुमम् । `बन्धूको बन्धुजीवकः' इत्यमरः । तदेव तिलकं तेन मण्डिता कन्यकेव भाति ।। ८.४० ।।


सामभिः सहचराः सहस्त्रशः (४)स्यन्दनाश्वहृदयंगमस्वनैः(५) ।
भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ।। ८.४१ ।।

{४.वदनैश्चः स्यन्दनस्य.५.स्वरैः.}
     अन्वयः- किरणोष्मपायिनः सहस्त्रशः सहचराः अग्निपरिकीर्णतेजसं भानुं स्यन्दनाऽश्वहृदङ्गमस्वनैः सामभिः सहस्त्रशः संस्तुवन्ति ।
     मल्लिo- सामभिरिति । किरणोष्मपायिनः किरणोष्माणं पिबन्तीति तथोक्ताः । तथाहारा इत्यर्थः । चरन्तीति चराः । पचाद्यच् । सहभूताश्चराः सहचरा बालखिल्यप्रभृतयो महर्षयोऽग्नौ परिकीर्ण तेजोस्य तत्तथोक्तम् ।[अग्निर्वादित्यः सायं प्रसवति] इति श्रुतेः । भानुम् । हृदयं गच्छन्तीति हृदयंगमा मनोरमाः । गमेः सुपीति वक्तव्यात्खच् । स्यन्दनाश्वानां हृदयंगमाः स्वना येषां तैः सामभिः सामवेदैः सहस्रशः संस्तुवन्ति । [सामवेदेनास्तमये गीयते] इति श्रुतेः ।। ८.४१ ।।


सोऽयमानत (१)शिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः ।
अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ।। ८.४२ ।।

{१.शिरोरुहैः.}
     अन्वयः- सः अयं दिवसं महोदधौ सन्निधाय आनतशिरोधरैः कर्णचामरविघट्टितेक्षणैः युगभुग्नकेसरैः हयैः अस्तम् एति ।
     मल्लिo- स इति । सोऽयं भानुर्दिवसं महोदधौ संनिधाय निधायेत्यर्थः दिवसस्यादर्शनादियमुत्प्रेक्षा । आनतशिरोधरैर्गगनावतरणान्नम्रकन्धरैरतएव कर्णचामरविघट्टितेक्षणैर्युगभुग्नकेसरैः कुटिलितस्कन्धरोमभिर्हयैरस्तमेति । `अस्तस्तु चरमक्षमाभृत्' इत्यमरः ।। ८.४२ ।।


खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशौ गतिः ।
तत्प्रकाशयति याव(२) दुद्गतं मीलनाय खलु तावतश्च्युतम्(३) ।। ८.४३ ।।

{२.उत्थितम्.३.तावता.}
     अन्वयः- रवौ संस्थिते खं प्रसुप्तम् इव, (स्थितम्) महतः तेजस ईदृशी गतिः । तत् उद्गतं (सत्) यावत् प्रकाशयति च्युतं (सत्) तावतः मीलनाय (भवति) खलु ।
मल्लिo-- खमिति । रवौ संस्थितेऽस्तमिते सति खं व्योम प्रसुप्तमिव निःप्रकाशत्वान्निद्रितमिव । स्थितमित्यर्थः । युज्यते चैतदित्याह । महतस्तेजस ईदृशी वक्ष्यमाणप्रकारा गतिः । स्वभाव इत्यर्थः । तां गतिमेवाह तदिति । तन्महत्तेज उत्थितं सद्यावत् । स्थानमिति शेषः । प्रकाशयति । तावताधश्च्युतं सत् । तत्स्थानादिति शेषः । मीलनाय संकोचाय खलु भवति । यत्र स्थाने तेजस्तिष्ठति तत्प्रकाशत इति स्थितिः । यतो गच्छति न तत्प्रकाशते । अतः सूर्यापाये खं प्रसुप्तमिवेति युक्तोत्प्रेक्षेति भावः । अस्यार्थस्य तेजोमात्रसाधारण्येऽपि महति स्फुटमिति महद्ग्रहणं कृतम् ।। ८.४३ ।।
 

संध्ययाप्यनुगतं रवे(४) र्वपु(५) र्वन्द्यमस्तशिखरे समर्पितम् ।
येन पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि ।। ८.४४ ।।

{४.धर्मम्.६.प्राक्तथेयम्.}
     अन्वयः- सन्ध्यया अपि अस्तशिखरे समर्पितं वन्द्यं रवेः वपुः अनुगतम् । प्राक् उदये तथा पुरस्कृता (इयम्) तम् आपदि कथं न अनुयास्यति ?
     मल्लिo-- संध्ययेति । संध्ययाप्यस्तशिखरेऽस्ताद्रिशृङ्गे समर्पितं निहितं वन्द्यं रवेर्वपुरनुगतमन्वगामि । असंयुतं रविमन्वगादिति भावः । युक्तं चैतदित्याह-प्राक्पूर्वमुदये तथा तेन प्रकारेण पुरस्कृताग्रतः कृता । पूजिता चेति गम्यते । प्रातः सूर्योदयात्प्रागेव संध्यागम इति हि प्रसिद्धम् । इयं संध्या तं रविमापद्यस्तसमये कथं नानुयास्यति । अनुयास्यत्येवेत्यर्थः संपदसंपदोस्तुल्यरूपमेव साधूनामिति भावः ।। ८.४४ ।।


रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि ! भान्त्यमूः ।
द्रक्ष्यसि त्वमिति (१)सांध्यवेलया (२)वर्तिकाभिरिव साधुवर्तिताः(३) ।। ८.४५ ।।

{१.सांध्यनयाया.२.वर्णिकाभिः.३.मण्डिताः.}
     अन्वयः-- हे कुटिलकेशि ! अमूः रक्त-पीतकपिशाः पयोमुचां कोटयः भान्ति त्वं द्रक्ष्यसि इति सान्ध्यवेलया वर्तिकाभिः साधु वर्तिताः इव ।
     मल्लिo-रक्तेति । हे कुटिलकोशे ! `स्वाङ्गाच्चोपसर्जनादंसयोगोपधात्' इति ङीप् । अमूः पुरोगताः रक्ताः पीताः कपिशाश्च रक्तपीतकपिशाः । नानावर्णा इत्यर्थः । चार्थे द्वन्द्वः । न तु `वर्णो वर्णेन' इति तत्पुरुषः सामानाधिकरण्याभावात् । पयोमुचां कोटयोऽश्रयः । `स्यात्कोटिरश्वा चापाग्रे संख्याभेदप्रकर्षयोः' । इति विश्वः । त्वं द्रक्ष्यसीति हेतोरनया । सांध्यवेलया । संध्ययेत्यर्थः । `संधिवेलया' इति क्वचित्पाठः । वर्तिकाभिश्चित्रशलाकाभिः साधुवर्तिता उत्पादिताश्च भान्ति ।। ८.४५ ।।


सिंहकेसरसटासु (४)भूभृतां पल्लवप्रसविषु द्रुमेषु च ।
पश्य (५)धातुशिखरेषु भानुना संविभक्तमिव सांध्यमातपम् ।। ८.४६ ।।

{४.भूभृतां.५.धातुशिखरेषु चात्मनः,चास्तशिखरे विवस्वता,धातुशिखरेषु चात्मना.}
     अन्वयः- सिंहकेसरसटासु पल्लवप्रसविषु धातुशिखरेषु च भूभृता आत्मना संविभक्तम् इव सान्ध्यम् आतपं पश्य ।
     मल्लिo- सिंहेति । सिंहानां केसराणि स्कन्धरोमाणि तान्येव सटा जटास्तासु । `सटा जटा केसरयोः' इति विश्वः । अथवा सटाशब्देन समूहो लक्ष्यतेऽन्यथा पौनरुक्त्यात् । पल्लवप्रसविषु पल्लवप्रसवयुक्तेषु द्रुमेषु तथा धातुशिखरेषु च भूभृतास्ताद्रिणात्मना स्वयमेव सविभक्तमिव स्थितं संध्यायां भवं सांध्यमातपं यस्य तथा पश्य । आरुण्यमरुणद्रव्येषु भूयिष्ठमुपलभ्यत इति भावः ।। ८.४६ ।।


(१)अद्रिराजतनये ! तपस्विनः पावनाम्बुविहिता(२) ञ्जलिक्रियाः ।
ब्रह्म गूढम (३)भिसंध्यमादृताः (४)शुद्धये विधिविदो गृणन्त्यमी ।। ८.४७ ।।

{१.पार्ष्णिमुक्तवसुधास्तपस्विनः.२.रचिता.३.अभिसांध्यम्.४.सिद्धये.}
     अन्वयः- पार्ष्णिमुक्तः वसुधाः पावनाऽम्बुविहिताञ्जलिक्रियाः अमी तपस्विनः आदृताः (सन्तः) अभिसन्ध्यं शुद्धये ब्रह्म गूढं गृणन्ति ।
     मल्लिo-- पार्ष्णीति । पार्ष्णयो गृल्फाधोभागास्तैर्मुक्तवसुधास्त्यक्तभूतलाः । पादाग्रस्थिता इत्यर्थः । `गोशृङ्गमात्रमुद्धृत्य मुक्तपार्ष्णः क्षिपेज्जलम्' । इति स्मरणात् । पावनैरम्बुभी रचिताऽञ्जलिक्रियाः । विहितार्घ्यप्रक्षेपा इत्यर्थः । विधिविदः । शास्त्रज्ञा इत्यर्थः । अमी तपस्विन आदरवन्तः । श्रद्दधाना इत्यर्थः । कर्तरि क्तः । अभिसंध्य संध्यामभि । `लक्षणेनाभिप्रतीं आभिमुख्ये' इत्यव्ययीभावः । शुद्ध्यर्थं ब्रह्म गायत्रीं गूढमुपांशु गृणन्ति । `प्रत्यगा तारकोदयात्' इति स्मरणात् ।। ८.४७ ।।


तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि ।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि ! विनोदयिष्यति ।। ८.४८ ।।

     अन्वयः- तत् हे वल्गुवादिनि ! माम् अपि प्रस्तुताय नियमाय मुहूर्तम् अनुमन्तुम् अर्हसि । विनोदनिपुणः सखीजनः त्वां विनोदयिष्यति ।
     मल्लिo- तदिति । तत्तस्मात्कारणान्मामपि प्रस्तुताय नियमाय प्रकृतसंध्याविधये मुहूर्तमनुमन्तुमर्हसि । हे वल्गुवादिनि मञ्जुभाषिणि ! विनोदनिपुणः कालाक्षेपचतुरः सुखीजनस्त्वां विनोदयिष्यति । विनोदशब्दात्तत्करोतीति णिच् ।। ८.४८ ।।


निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा ।
शैलराजतनया समीपगामाललाप विजया (१)महेतुकम् ।। ८.४९ ।।

{१.सहेतुकम्.}
     अन्वयः- ततः भर्तुः वाचि अवधीरणापरा शैलराजतनया दशनच्छदं निर्विभुज्य समीपगां विजयाम् अहेतुकम् आललाप ।
     मल्लिo-- निर्विभुज्येति । ततो भर्तुर्वाचि वचनेऽवधीरणापरा तिरस्कारतत्परा शैलराजतनया पार्वती । छाद्यतेऽनेनेति छदः `पुंसि संज्ञायां घः प्रायेण' इति घप्रत्ययः । दशनच्छदं निर्विभुज्य कुटिलीकृत्य समीपगां विजयां विजयाख्यां सखीमहेतुकं निर्निमित्तमाललाप । न तु रोषाद्भर्त्तुरुत्तरं ददावित्यर्थः ।। ८.४९ ।।


ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्व(२)मनुतस्थिवान्विधिम् ।
पार्वतीमवचनामसूयया (३)प्रत्युपेत्य पुनराह सस्मितम् ।। ८.५० ।।

{२.अनुतिष्ठवान्.३.सोऽभ्युपेत्य.}
     अन्वयः- ईश्वरोऽपि दिवसाऽत्ययोचितं विधिं मन्त्रपूर्वम् अनुतस्थिवान् । असूयया अवचनां पार्वतीं पुनः प्रत्युपेत्य सस्मितम् आह ।
     मल्लिo-- ईश्वर इति । ईश्वरोऽपि दिवसात्ययोचितं सायंकालोचितं विधिं संध्यावन्दनकृत्यं मन्त्रपूर्वमनुतस्थिवाननुष्ठितवान् । तिष्ठतेः क्वसुप्रत्ययः । असूयया संध्यावन्दनजनितासूययाऽवचनामभाषमाणां पार्वतीं पुनः प्रत्युपेत्य सस्मितमाह ।। ८.५० ।।


मुञ्च कोपमनिमित्तकोपने ! संध्यया (४)प्रणमितोऽस्मि (५)नान्यया ।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः ।। ८.५१ ।।

{४.प्रयमितः.५.अन्यथा.}
     अन्वयः- हे अनिमित्तकोपने ! कोपं मुञ्च । सन्ध्यया प्रणमितोऽस्मि । अन्यथा न । आत्मनः सहधर्मचारिणं (माम्) चक्रवाकसमवृत्तिं किं न वेत्सि ?
     मल्लिo- मुञ्चेति । हे अनिमित्तकोपनेऽकारणकोपिनि ! नन्द्यादित्वात् कर्तरि ल्युः । कोपं मानं मुञ्च । सन्ध्यया प्रणमितोऽस्मि प्रणामं कारितोऽस्मि । अन्यथा प्रकारान्तरं न । धर्माभिसंधायिनं मां कामाभिसंधायिनं मा मन्यस्वेत्यर्थः । आत्मनस्तव सह धर्म चरतीति सहधर्मचारिणं मां चक्रवाकेन समवृत्तिं तुल्यव्यवहारं न वेत्सि किम् ? अनन्यसङ्गिनं वेत्स्येवेत्यर्थः ।। ८.५१ ।।


प्रणामकारणमाह-

निर्मितेषु पितॄषु स्वयंभुवा या तनुः सुतनु ! पूर्व (१)मुज्झिता ।
सेयमस्तमुदयं च (२)सेवते तेन मानिनि ! ममात्र गौरवम् ।। ८.५२ ।।

{१.उत्थिता.२.सेव्यते.}
     अन्वयः- हे सुतनु ! स्वयंभुवा पितॄषु निर्मितेषु या तनुः उज्झिता, सा इयं तनुः अस्तम् उदयं च सेवते । हे मानिनि ! तेन मम अत्र गौरवम् ।
     मल्लिo- निर्मितेष्विति । हे सुतनु सुगात्रि ! पूर्वं स्वयं भवतीति स्वयंभूश्चतुराननः । `भूवः संज्ञान्तरयोः' इति क्विप् । मयूरव्यंसकादित्वात्समासः । तेन पितॄष्वग्निष्वात्तादिषु निर्मितेषु सत्सु या तनुरुज्झिता सेयं तनुरस्तमस्तमयकालमुदयमुपयकालम् । अव्ययमेतत् । सेव्यते पूज्यते च । संध्यारूपेणेति शेषः । हे मानिनि ! अविमृश्यकारिणीति भावः । तेन ब्रह्मतनुत्वेन हेतुना ममात्र संध्यायां गौरवमादरः । तदेतद्क्तं भविष्यपुराणे- (पितामहः पितॄन्सृष्ट्वा मूर्तिं तामुत्ससर्ज ह । प्रातः सायं समागत्य संध्यारुपेण पूज्यते । एतां संध्यां यतात्मानो ये तु दीर्धामुपासते । दीर्धायुषो भविष्यन्ति नीरुजः पाण्डुनन्दन ।) इति ।। ८.५२ ।।


इत्थं देव्याः कोपमपनीय धातुसंध्यादिवर्णनं करोति-

तामिमां तिमिर(३) वृद्धिपीडितां (४)भूमिलग्नमिव सम्प्रति स्थिताम् ।
एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव ।। ८.५३ ।।

{३.वृत्ति.४.शैलराजतनयाऽधुना स्थिताम्.}
     अन्वयः- सम्प्रति तिमिरवृत्तिपीडितां भूमिलग्नम् इव सम्प्रति स्थितां ताम् इमाम् एकतस्तटतमालमालिनीं धातुरसनिम्नगाम् इव पश्य ।
     मल्लिo- तामिति । संप्रति तिमिरवृत्तिपीडितां तमोवृत्त्युपरुद्धामतएव भूमौ लग्नमिव स्थितां तामिमां संध्यामेकत एकत्र तटतमालमालिनीं तीरतमालतरुपङ्क्तिमतीम् । ब्रीह्यादित्वादिनिः । धातुरसनिम्नगां धातुद्रवनदीमिव पश्य ।। ८.५३ ।।


सांध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् ।
संपरायवसुधासशोणितं मण्डलाग्रमिव तिर्य(१)दुत्थितम् ।। ८.५४ ।।

{१.उज्झितम्.}
     अन्वयः- अपरा दिक् अस्तमितशेषं रक्तरेखं सान्ध्यम् आतपं सम्परायवसुधा तिर्यक् उत्थितं सशोणितं मण्डलाऽग्रम् इव बिभर्ति ।
     मल्लिo- सांध्यमिति । अपरा दिक्प्रतीची । अस्तमिति मकारान्तमव्ययम् । तस्येतशब्देन समासः । अस्तमितशेषमस्तंगतावशिष्टमत एव रक्ता लेखाकृतिर्यस्य तं संध्यायां भवं सांध्यमातपं संपरायवसुधा युद्धभूमिः । `समरे संपरायः स्यात्' इति विश्वः । तिर्यगुत्थितं तिर्यक्फलितं सशोणितं मण्डलाग्रं कृपाणमिव बिभर्ति । `कौक्षेयको मण्डलाग्रः करवालः कृपाणवत्' इत्यमरः ।। ८.५४ ।।


यामिनीदिवससंधिसंभवे तेजसि व्यवहिते सुमेरुणा ।
एतदन्धतमसं (२)निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते ।। ८.५५ ।।

{२.निरर्गलम्.}
     अन्वयः- हे दीर्घनयने ! यामिनीदिवससन्धिसंभवे तेजसि सुमेरुणा व्यवहिते सति एतत् अन्धतमसं दिक्षु निरङ्कुशं विजृम्भते ।
     मल्लिo- यामिनीति । यामिनीदिवसयोः संधिः संध्या तत्र संभवे तेजसि संध्यारागे सुमेरुणा व्यवहिते सति हे दीर्घनयने ! एतदन्धतमसम् । `अवसमन्धेभ्यस्तमसः' इति समासान्तः । दिक्षु निरङ्कुशं विजृम्भते ।। ८.५५ ।।


नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः ।
लोक एष (१)तिमिरोल्बवेष्टितो गर्भवास इव वर्तते निशि ।। ८.५६ ।।

{१.तिमिरौघ.}
     अन्वयः- ऊर्ध्वम् ईक्षणगतिः न, अधोऽपि न , अभितो न, पुरतो न, पृष्ठतश्च न (तथा सति) एष लोकः निशि तिमिरोल्बवेष्टितः (सन्) गर्भवासे इव वर्तते ।
     मल्लिo- नेति । ऊर्ध्वमुपरीक्षणगतिर्दृष्टिप्रसारो नास्ति । अधोऽपि च न । अभितः पार्श्वयोश्च न । पुरतोऽग्रे च न । पृष्ठतः पश्चादपि न । ईक्षणगतिरिति सर्वत्र संबध्यते । तथाप्येष लोको निशि तिमिरमेवोल्बं जरायुः । `गर्भाशयो जरायुः स्यात्' इत्यमरः तेन वेष्टितः आवृतः सन् । गर्भ एव वासो वसतिस्तत्र गर्भवासे वर्तते । इवेत्युत्प्रेक्षा ।। ८.५६ ।।


शुद्धमाविलमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत् ।
सर्वमेव तमसा समीकृतं धिङ् महत्त्वमसतां (२)हृतान्तरम् ।। ८.५७ ।।

{२.हतान्तरम्.}
     अन्वयः- शुद्धम्, अविलम्, अवस्थितं, चलं, वक्रम् आर्जवगुणाऽन्वितं च यत्, (तत्) सर्वम् एव तमसा समीकृतम् । हृताऽन्तरम् असतां महत्त्वं धिक् ।
     मल्लिo- शुद्धमिति । शुद्धं स्वच्छमाविलं मलिनमवस्थितं स्थावरं चलं जंगमं वक्रं कुटिलमृजोर्भाव आर्जवं तदेव गुणस्तेनान्वितं च यद्वस्तुजातम् । तदिति यत्तदोर्नित्यसंबन्धाल्लभ्यते । तत्सर्वमेव तमसा समीकृतं । दुर्लक्ष्यविशेषं कृतम् । तथाहि । हतमन्तरं विशेषो येन तद्धतान्तरमसतामसाधूनां महत्त्वं वृद्धिं धिक् । धिक्शब्दयोगाद् द्वितीया । समत्वेन परगतिविशेषतिरस्करणमसतां स्वभाव इति सुप्रसिद्धम् । तमसोऽपि तथा महत्त्वं धिगित्यर्थः ।। ८.५७ ।।


नून(३) मुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
पुण्डरीकमुखि ! पूर्वदिङ्मुखं(४) कैतकैरिव रजोभिरावृतम्(५) ।। ८.५८ ।।

{३.उन्नयति.४.पश्य दिङ्मुखम्,दीङ्क्षखं यथा.५.आहतम्.}
अन्वय-- हे पुण्डरीकमुखि ! यज्वनां पतिः शार्वरस्य तमसो निषिद्धये नूनम् उन्नमति । पूर्वदिङ्मुखं कैतकैः रजोभिः आवृतम् इव (दृश्यते) ।
     मल्लिo- नूनमिति । यज्वानो विधिनेष्टवन्तः । `यज्वा तु विधिनेष्टवान्' इत्यमरः । `सुयजोर्ङ्‌वनिप्' इति ङ्वनिप्प्रत्ययः । तेषां पतिः चन्द्रः । दर्शपूर्णमासादियागप्रवृत्तिहेतुत्वादिति भावः । शार्वरस्य शर्वर्यां भवस्य तमसो निषिद्धये निरासाय नूनमुन्नमत्युदेति । कुतः । हे पुण्डरीकमुखि ! पूर्वस्या दिशो मुखं पुरोभागः पूर्वदिङ्मुखं केतक्या इमानि कैतकानि तै रजोभिः परागैरावृतमिव । दृश्यत इति शेषः । अतो नूनमुदेति चन्द्र इति संबन्धः ।। ८.५८ ।।


मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।
त्वं मया प्रियसखोसमागता श्रोष्यतेव वचनानि पृष्ठतः ।। ८.५९ ।।

     अन्वयः-- सतारका निशा मन्दराऽन्तरितमूर्तिना शशभृता पृष्ठतः वचनानि श्रोष्यता मया प्रियसखीसमागता त्वम् इव लक्ष्यते ।
     मल्लिo- मन्दरेति । सतारका निशा मन्दरान्तरितमूर्तिना मन्दराद्रिव्यवहितमण्डलेन शशभृता चन्द्रेण पृष्ठतः पश्चाद्भागे वचनानि श्रोष्यता श्रोतुं स्थितेनेत्यर्थः । मया प्रियसखीसमागता प्रियसखीभिरावृता त्वमिव लक्ष्यते ।। ८.५९ ।।


रुद्धनिर्गमनमा दिनक्षयात्पूर्वदृष्टतनुचन्द्रिकास्मितम् ।
एतदुद्गिरति (१)चन्द्रमण्डलं दिग्रहस्यमिव (२)रात्रिचोदितम् ।। ८.६० ।।

{१.चन्द्रमण्डलम्.२.रात्रिचोदितं.}
     अन्वयः- आ दिनक्षयाद्रुद्धं निर्गमनं पूर्वदृष्टतनु एतत् चन्द्रमण्डलं रात्रिचोदितं चन्द्रिकास्मितं दिग्रहस्यम् उद्गिरति इव ।
     मल्लिo-- रुद्धेति । दिक्पूर्वदिक् । नायिका ध्वन्यते । आ दिनक्षयादासायं रुद्धं निर्गमनं निःसरणं यस्य तत्तथोक्तम् । अन्यत्र बहिरप्रकाशितमित्यर्थः । तनुचन्द्रिकास्मितमिव तनुचन्द्रिकास्मितं पूर्वदृष्टं यस्मात्तत्तथोक्तम् । एतच्चन्द्रमण्डलं नर्मरहस्यं गोप्यार्थमिव रात्रिचोदिता । रात्र्या सख्येव प्रेरिता सतीत्यर्थः उद्गिरति प्रकाशयति । यथा काचिदासायं मनस्विनी गूहितमभिलाषं प्रदोषे सख्या मह्यं ब्रूहीति निर्बन्धात्पृष्टा सती प्रकटयति तद्वदित्यर्थः ।। ८.६० ।।


पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा ।
(१)विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ।। ८.६१ ।।

{१.विप्रकृष्टविधुरम्,विप्रकृष्टविरहम्;विप्रकृत्तविवरम्.}
     अन्वयः- पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा हिमांऽशुना विप्रकृष्टविवरं चक्रवाकमिथुनं विडम्ब्यते, पश्य ।
     मल्लिo- पश्येति । पक्वफलिनीफलत्विषोदयरागाद्विम्बाभ्यां प्रतिबिम्बाभ्यां लाञ्छिते चिह्निते वियत्सरोम्भश्च येन तथोक्तेन हिमांशुना विप्रकृष्टं विवरमन्तरालं यस्य तत्तथोक्तम् । अतिदूरस्थमित्यर्थः । चक्रवाकमिथुनं विडम्ब्यतेऽनुक्रियते पश्य । रात्रौ वियति सरोजले चेन्दोर्बिम्बप्रतिबिम्बौ विरहाद् दूरवर्तिनौ चक्रवाकाविव दृश्येते इत्यर्थः ।। ८.६१ ।।


(२)शक्यमोषधिपतेर्नवोदया(३) कर्णपूररचनाकृते (४)तव ।
अप्रगल्भयवसूचि(५) कोमलाश्छेत्तुमग्रनखसंपुटैः कराः(६) ।। ८.६२ ।।

{२.शक्यः.३.नवोदयः.४.नवाः.५.कोमलः.६.करः.}
     अन्वयः-- (हे पार्वति !) अवोदयाः अप्रगल्भयवसूचिकोमलाः ओषधिपतेः कराः तव कर्णपूररचनाकृते अग्रनखसम्पुटैः छेत्तुं शक्यम् ।
     मल्लिo- शक्यमिति । नवोदयाः सद्य उत्पादिता अप्रगल्भयवसूचिकोमला अकठोरयवाङ्करसुकुमारा ओषधिपतेरिन्दोः करास्तव कर्णपूररचनाकृते कर्णावतंसनिर्माणक्रियायां । संपदादित्वाद्भावे क्विप् । अग्रनखसंपुटैर्नखाग्रसंभेदैश्छेत्तुं शक्यम् । शक्या इत्यर्थः । `शकिसहोश्च' । इति कर्मणि यत्प्रत्ययः । शक्यमिति विपरीतलिङ्गवचनस्यापि सामान्योपक्रमात्कर्माभिधायकत्वम् । पश्चात्कर्मविशेषाकाङ्क्षायां करा इति निर्देशो न विरुध्यते । यथाह वामनः- `शक्यमिति रुपं लिङ्गवचनस्यापि सामान्योपक्रमत्वादिति । अत्र प्रमाणम्-शक्यं श्वमांसेनापि क्षुत्प्रतिहन्तुमिति भाष्यकारप्रयोगः, इति ।। ८.६२ ।।


अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।
कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ।। ८.६३ ।।

     अन्वयः- शशी अङ्गुलीभिः केशसञ्चयम् इव मरीचिभिः तिमिरं संनिगृह्य कुड्मलीकृतसरोजलोचनं रजनीमुखं चुम्बति इव ।
     मल्लिo- अङ्गुलीभिरिति । शशी चन्द्रमाः । नायकस्तु प्रतीयते । अङ्गुलीभिः केशसंचयमिव मरीचिभिस्तिमिरं संनिगृह्य गृहीत्वा । सरोजेलोचने इवेत्युपमितिसमासोऽङ्गुलीभिरिवेत्युपमायास्तत्साधकत्वात् । कुड्मलीकृते सरोजलोचने यस्य तत्तथोक्तं रजन्या मुखं प्रारम्भः वदनं चेति गम्यते । चुम्बतीव । अत्र समासोक्त्या उत्प्रेक्षासङ्करायते ।। ८.६३ ।।


पश्य पार्वति नवेन्दुरश्मिभि (१)सामिभिन्नतिमिरं नभस्तलम् ।
लक्ष्यते द्विरदभोगदूषितं (२)संप्रसीदमिव मानसं सरः ।। ८.६४ ।।

{१.भग्नसान्द्र,सामिभिन्न,संविभिन्न.२.सप्रसादमिव.}
     अन्वयः-- हे पार्वति ! नवेन्दुरश्मिभिः भिन्नसान्द्रतिमिरं नभस्तलं द्विरदभोगदूषितं सप्रसादं मानसं सर इव लक्ष्यते । पश्य ।
     मल्लिo- पश्येति । हे पार्वति ! नवेन्दुरश्मिभिः सामिभिन्नतिमिरमर्धनिरस्तध्वान्तं नभस्तलं द्विरदभोगदूषितं गजक्रीडाकलुषितं संप्रसीदत्प्रसादं गच्छन्मानसं मानसाख्यं सर इव लक्ष्यते पश्य ।। ८.६४ ।।


रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।
विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ।। ८.६५ ।।

     अन्वयः-- एष चन्द्रमा रक्तभावम् अपहाय परिशुद्धमण्डलो जातः । निर्मलप्रकृतिषु कालदोषजा विक्रिया स्थिरोदया न खलु ।
     मल्लिo- रक्तभावमिति । एष चन्द्रमा रक्तभावं रक्तत्वमुदयरागमपहाय परिशुद्धमण्डलः शुद्धबिम्बो निष्कण्टको जातः । तथाहि । निर्मलप्रकृतिषु स्वच्छभावेषु शुद्धसचिवसंपन्नेषु च कालदोषेण जाता कालदोषजा विक्रिया विकारः स्थिरोदया स्थायिनी न भवति खलु । चन्द्रोऽपि स्वभावनिर्मल इति । यथा कश्चिद्राजा कुतश्चिन्निमित्ताद्विरक्तमण्डलः पश्चात्प्रतिकृतशुद्ध्या स्वस्थमण्डलो भवति तद्वदिति भावः । तत्र प्रथमार्थे समासोक्तिरलङ्कारस्तस्यार्थान्तरन्यासेनाङ्गाङ्गिभावेन सङ्करः ।। ८.६५ ।।


उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
नूनमात्मसदृशी प्रकल्पिता वेधसा हि (१)गुणदोषयोर्गतिः ।। ८.६६ ।।

{१.इह एवः.}
अन्वय-- शशिनः प्रभा उन्नतेषु स्थिता । निशातमः निम्नसंश्रयपरम् । वेधसा गुणदोषयोः आत्मसदृशी गतिः प्रकल्पिता हि एव ननु ।
     मल्लिo- उन्नतेष्विति । शशिनः प्रभा चन्द्रिकोन्नतेष्वद्रिशृङ्गादिषु स्थिता । निशातमस्तु निम्नसंश्रयपरं गर्तादिनीचस्थानप्रवणम् । तथाहि । वेधसा गुणदोषयोरात्मसदृशी स्वभावानुरुपा गतिः प्रवृत्तिः प्रकल्पितैव ननु । तेजस्विन उन्नमन्ति मलिनास्तु नीचन्तीति भावः ।। ८.६६ ।।


चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः ।
मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः ।। ८.६७ ।।

     अन्वयः- गिरिः चन्द्रपादजनितप्रवृत्तिभिः चन्द्रकान्तजलबिन्दुभिः मेखलातरुषु निद्रितान् अमून् शिखण्डिनः असमये बोधयति ।
     मल्लिo- चन्द्रपादेति । गिरिर्हिमाद्रिश्चन्द्रपादैरिन्दुकिरणैर्जनितप्रसरैश्चद्रकान्तमणीनां जलबिन्दुभिः करणैर्मेखलातरुषु निद्रितान्संजातनिद्रान् । तारकादित्वादितच् । अमूञ्शिखण्डिनो मयूरानसमयेऽकाले बोधयति । इन्दुकिरणसंपर्कादुपरिचन्द्रमणिस्पन्देष्वधोवृक्षेशयाः शिखण्डिनो वृष्टिभयाज्जाग्रतीत्यर्थः । शिखण्डिग्रहणमितरशकुन्तानां कुलालनिलयत्वादिति भावः ।। ८.६७ ।।


कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरिव(१) पश्य सुन्दरि !
हारयष्टि(२) रशनाभिबांशुभिः कर्तुमागतकुतूहलः शशी ।। ८.६८ ।।

{१.अविकल्पसुन्दरि,इव शंभुसुन्दरि.२.गणनाम्.}
     अन्वयः- हे सुन्दरि ! शशी सम्प्रति कल्पवृक्षशिखरेषु प्रस्फुरद्भिः अंशुभिः हारयष्टिरचनां कर्तुम् उद्यतकुतूहल इव, पश्य ।
     मल्लिo- कल्पवृक्षेति । हे अविकल्पेनाविवादेन सुन्दरि अविवल्पसुन्दरि ! शशी संप्रति कल्पवृक्षाणां शिखरेष्वग्रेषु प्रस्फुरद्भिरंशुभिः । करस्थानीयैरिति भावः । हारयष्टिरशनां कल्पतरुलम्बिहारपरिगणनां कर्तुमुद्यतकुतूहल इवोत्पन्नकौतुकः किम् । इत्युत्प्रेक्षा ।। ८.६८ ।।


उन्नतावनत(३) भाववत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तहस्तिनः ।। ८.६९ ।।

{३.उद्यत,भगवत्तया.}
     अन्वयः- गिरेः उन्नताऽवनतभाववत्तया सतिमिरा इयं चन्द्रिका बहुविधाभिः भक्तिभिः अर्पिता मत्तहस्तिनः भूतिः इव भाति ।
     मल्लिo- उन्नतेति । गिरेरुन्नतावनतभाववत्तया निम्नोन्नतप्रदेशवत्वेन हेतुना सतिमिरा तिमिरमिश्रा । समोन्नतेषु तमसोऽनवकाशादिति भावः । इयं चन्द्रिका बहुविधाभिर्भक्तिभी रचनाभिरर्पिता विन्यस्ता मत्तदन्तिनो भूतिर्भसितमिवाभाति । `भूतिर्मातङ्गश्रृङ्गारे' इति विश्वः । तत्र भक्तिसहितानि गजाङ्गान्येव तिमिरभागोपमेत्यनुसंधेयम् ।। ८.६९ ।।


एतदु (१)च्छ्वसितपीतमैन्दवं वोढु(२) मक्षयमिव प्रभारसम् ।
मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमानिबन्धनात् ।। ८.७० ।।

{१.उच्छ्वसितपीतम्.२.वोढुम.}
     अन्वयः- एतत् कुमुदम् उच्छ्वसितपीतम् ऐन्दवं प्रभारसं वोढुम् अक्षमम् इव अञ्जसा मुक्तषट्पदविरावम् आनिबन्धनात् भिद्यते ।
     मल्लिo- एतदिति । एतत्कुमुदं कैरवं कर्तृ उच्छ्वसितेन पीतमुच्छ्वसितपीतम् । अतितृष्णयोच्छ्वस्योच्छ्वस्य पीतमित्यर्थः । इन्दोरिदमैन्दवं प्रभा चन्द्रिका सैव रसो द्रवस्तं सोढुमक्षममिवाञ्जसा मुक्तषट्पदविरावं प्रवर्तितभृङ्गनादं यथा तथा निबन्धनादा वृन्ताद्भिद्यते विकसति । कर्मकर्तरि लट् । यथा लोके कस्यचिदतिपानान्निःसहात्मन उच्चैः क्रोशत उदरं भिद्यते तथैतदिति भावः ।। ८.७० ।।


पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरुपसंशयम् ।
मारुते चलति (३)चण्डिके ! बलं व्यज्यते विपरिवृत्तमंशुकम् ।। ८.७१ ।।

{३.चण्डिकेचलम्;चण्डि केवलम्.}
     अन्वयः- हे चण्डिके ! कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् अंशुकं केवलं मारुते चलति विपरिवृत्तं व्यज्यते ।
     मल्लिo-- पश्येति । शुद्धया ज्योत्स्नया जनितो रुपसंशयः अंशुकं ज्योत्स्नावेति स्वरूपसंदेहो यस्य तत्तथोक्तं कल्पतरुलम्ब्यंशुकं । हे चण्डि अत्यन्तकोपने ! गौरादित्वान्ङीष् । देवलं मारुते चलति सति विपरिवृत्तं चलं सद् व्यज्यते पश्य । ज्योत्स्नासच्छायत्वान्न रुपतो विविच्यते परंतु क्रिययेत्यर्थः ।। ८.७१ ।।


शक्यमङ्गुलिभिरु(४)त्थितैरधः शाखिनां पतितपुष्पपेशलैः(५) ।
पत्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवा(६)लकान् ।। ८.७२ ।।

{४.उद्धतैः.५.कोमलैः.६.अलकम्;अलकः.}
     अन्वयः- अङ्गुलिभिः उत्थितैः शाखिनाम् अधः पतितपुष्पपेशलैः एभिः पत्रजर्जरशशिप्रभालवैः तव अलकान् उत्कचयितुं शक्यम् ।
     मल्लिo- शक्यमिति । अङ्गुलिभिर्धृतैरुत्थितैः शाखिनामधः पतितपुष्पवत्पेशलैः कोमलैः । तथा भ्रमकरैरित्यर्थः । एभिः पत्रैर्जर्जरा शकलिता शशिप्रभा चन्दिका तस्या लवैः खण्डैः । तरुतलेषु पत्रान्तराललक्ष्यज्योत्स्नामण्डलैरित्यर्थः । तवालकानुत्कचयितुं बद्‌धुम् । `कच दीप्तिबन्धनयोः' इति धातोस्तुमुन्प्रत्ययः । शक्यम् शक्या इत्यर्थः । शक्यमिति लिङ्गवचनस्य सामान्योपक्रमादित्याद्यनुपदमेवोक्तम् ।। ८.७२ ।।


एष (१)चारुमुखि ! (२)योगतारया युज्यते तरलबिम्बया शशी ।
साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ।। ८.७३ ।।

{१.चन्द्रमुखि.२.पश्य तारया,योग्यतारया.}
     अन्वयः-- हे चारुमुखि ! एष शशी तरलबिम्बया योगतारया साध्वसात् उपगतप्रकम्पया नवदीक्षया कन्यया वर इव युज्यते ।
     मल्लिo- एष इति । हे चारुमुखि = हे उज्ज्वलानने ! `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति ङीष् । एष शशी, तरलबिम्बया = स्फुरन्मण्डलया योगतारया । प्रत्यहं यया युज्यते सा योगतारा । नित्यनक्षत्रेणेत्यर्थः । साध्वसान्नवसंगमभयादुपगतप्रकम्पया = वेपथुमत्या, नवदीक्षया = नवोद्वाहया कन्यया वरो वोढेव युज्यते संगच्छते । युजेर्दैवादिकत्वात्कर्तरि लट् ।। ८.७३ ।।


पाकभिन्न (३)शरकाण्डगौरयोरुल्लसत्प्र(४) कृतिजप्रसादयोः ।
रोहतीव तव गण्डलेखयोश्चन्द्रबिन्बनिहिताक्षि ! चन्द्रिका ।। ८.७४ ।।

{३.पाण्डु.४.प्रतिकृतिप्रसन्नयोः,प्रतिकृतिः प्रदीप्तयोः.}
     अन्वयः- हे चन्द्रबिन्बनिहिताक्षि ! पाकभिन्नशरकाण्डगौरयोः उल्लसत्प्रकृतिजप्रसादयोः तव गण्डलेखयोः चन्द्रिका उपरि रोहति इव ।
     मल्लिo-- पाकेति । हे चन्द्रबिम्बनिहिताक्षि हे चन्द्रविनिहितेक्षणे । पाकभिन्नः पाकविकसितो यः शरकाण्डस्तद्वद्गौरयोः सितयोः । `अवदातः सितौ गौरः' इत्यमरः । उल्लसन् प्रकृतिकजः प्रसादः स्वभावजः प्रसादः (प्रसन्नता) ययोरतयोः सपदि रोहतीव आरोहणं करोतीवेत्युत्प्रेक्षा । प्रोज्ज्वलयोस्तव गण्डलेखयोश्चन्द्रिका रोहतीव । गण्डस्थलप्रतिबिम्बसंक्रमणमूर्छिता चन्द्रिका तयोरेव प्ररुढेति प्रतीयत इत्यर्थः ।। ८.७४ ।।


अत्रान्तरे कांचिदवलोक्याह-

लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् ।
त्वामियं स्थितिमतीमु(१) पागता गन्धमादनवनाधिदेवता ।। ८.७५ ।।

{१.उपस्थिताः;समागताः.}
     अन्वयः- लोहिताऽर्कमणिभाजनाऽर्पितं कल्पवृक्षमधु स्वयं बिभ्रती इमं गन्धमादनवनाऽधिदेवता स्थितिमतीं त्वां स्वयम् उपागता ।
     मल्लिo- लोहितेति । लोहितेऽरुणेऽर्कमणिभाजने सूर्यकान्तपात्रेऽर्पितं कल्पवृक्षमधु = कल्पतरुप्रसूतं मद्यं, स्वयं बिभ्रती गन्धमादनवनाधिदेवता स्थितिमतीमवस्थानवतीम् । इह स्ववने तिष्ठन्तीमित्यर्थः । त्वामियं प्रत्यक्षोपस्तिता प्राप्ता । स्वगृहागतां त्वां सम्भावयितुमागतेत्यर्थः ।। ८.७५ ।।


आर्द्रकेसरसुगन्धि ते मुखं (२)मत्तरक्तनयनं स्वभावतः ।
अत्र लब्धवसतिर्गुणान्तरं किं(३) विलासिनि (४)मधु करिष्यति ।। ८.७६ ।।

{२.प्रान्तरक्त,मनमेव.३.कम्.४.मधु.}
     अन्वयः- हे विलासिनि ! अत्र लब्धवसतिः मधुः किं गुणान्तरं करिष्यति ? (यतः)इदं ते स्वभावत आर्द्रकेसरसुगन्धि मुखं मत्तरक्तनयनम् ।। ८.७६ ।।
     मल्लिo- आर्द्रेति । हे विलासिनि ! अत्र लब्धवसतिः मधु इदं ते स्वभावत आर्द्रकेसरसुगन्धि सरसकेसरसुगन्धि । `गन्धस्येदुत्पूतिससुरभिभ्यः' इत्यनेनेकारः । मुखम् । मत्तं रक्तमेव नयनं यस्य तत् । हे विलासिनि विलसनशीले ! अत्र तन्मुखे लब्धवसतिर्लब्धानुप्रवेशो मधुमद्यं कं गुणान्तरं गुणविशेषं करिष्यति । न कंचिदित्यर्थः । केसरसौगन्ध्यादिगुणानां त्वन्मुखे स्वभावसिद्धत्वान्मधुनः फलं न पश्यामीत्यर्थः । `अर्धर्चाः पुंसि च' इति पुंलिङ्गत्वम् । यदाहुः- `मकरन्दस्य मद्यस्य माक्षिकस्य च वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः ।।' इति ।। ८.७६ ।।


मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम् ।
इत्युदारमभिधाय शंकरस्तामपाययत पानमम्बिकाम् ।। ८.७७ ।।

     अन्वयः- "(हे पार्वति !) अथवा सखीजनो मान्यभक्तिः, (अतः) अनङ्गदीपनम् इदं सेव्यताम्" इति उदारम् अभिधाय शङ्करः ताम् अम्बिकां पानम् अपायमत ।
     मल्लिo- मान्यभक्तिरिति । अथवा सखीजनो मान्या भक्तिर्यस्य स तथोक्तः । सखीजनः स्वीकार्य इत्यर्थः । ततोऽनङ्गदीपनमिदं वक्ष्यमाणं पानं संव्यतामित्युदारं चतुरमभिधाय शंकरस्तामम्बिकां पीयत इति पानं मद्यमपाययत पाययामास । पिबतेर्ण्यन्ताल्लुङि तङ् । पिबतः प्रत्यवसानार्थादणि कर्तुः कर्मत्वम् । पिबतेर्निगरणार्थत्वेऽपि `नपादभ्याo" इति परस्मैपदप्रतिषेधः । ननु मान्यभक्तिरित्यत्र कथं पुंवद्भावः । "अप्रियादिषु" इति निषेधाद्भक्तिशब्दस्य प्रियादिपाठान्नैष दोषो नपुंसकपूर्वपदत्वात् । यथाह वृत्तिकारः- `दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धम्' इति । भोजराजस्तु- `भज्यत इति कर्मसाधनस्यैव प्रियादिपाठतया दृढभक्तिरिति न तु भजनं भक्तिरिति भावसाधनस्य । अतोऽत्र स्त्रीपूर्वपदत्वेऽपि न दोषः' इत्याह ।। ८.७७ ।।


पार्वती तदुपयोगसंभवां विक्रियामपि सतां मनोहराम् ।
अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ ।। ८.७८ ।।

     अन्वयः-- पार्वती तदुपयोगसंभवां विक्रियाम् अपि सतां मनोहराम् आम्रताम् अप्रतर्क्यविधियोगनिर्मितां सहकारताम् इव ययौ ।
     मल्लिo-- पार्वतीति । पार्वती = कर्त्री । तदुपयोगसंभवां मद्यपानजन्यां विक्रियामपि सतां मनोहराम् आम्रताम्रत्वमप्रतर्क्यो दुर्ज्ञेयो यो विधियोगोऽनुष्ठानयोगस्तेन निर्मितां सहकारतामतिसौरभत्वमिव ययौ = प्रापेत्यर्थः । `आम्रश्चूतो रसालोसौ सहकारोऽतिसौरभः' इत्यमरः । आम्रमेवाऽनुष्ठानविशेषेण यथा सहकारो भवति तद्वद्विक्रियाऽपि मनोहराऽभूदिति भावः ।। ८.७८ ।।


(१)तत्क्षणं (२)विपरिवर्तितह्रियोर्नेष्यतोः(३) शयनमिद्धरागयोः ।
सा बभूव (४)वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ।। ८.७९ ।।

{१.तत्क्षणे.२.विपरिवृत्तलज्जयोः.३.वाञ्छतोः.४.वशवर्तिका.}
     अन्वयः-- सुवदना तत्क्षणं विपरिवर्तितह्रियोः शयनं नेष्यतोः इद्धरागयोः शूलिनो मदस्य च वशवर्तिनी बभूव ।
     मल्लिo- तदिति । सुवदना = पार्वती, तत्क्षणं = तथैव विपरिवर्तितह्रियोर्निवर्तितलज्जयोः, शयनं = तल्पं, नेष्यतोः = प्रापयिष्यतोरित्थं प्रवृद्धोरागोऽनुराग आरुण्यं च ययोरिद्धरागयोः शूलिनः प्रियतमस्य मदस्य चेति द्वयोर्वशे वर्तते इति वशवर्तिन्यधीना बभूव ।। ८.७९ ।।


मदपारवश्यं तावदाह-

घूर्णमाननयनं (५)स्खलत्कथं स्वेदबिन्दुमदकारणस्मितम् ।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ।। ८.८० ।।

{५.स्खलद्वच;स्खलत्कचम्.}
     अन्वयः- ईश्वरो घूर्णमाननयनं स्खलत्कथं स्वेदबिन्दुमत् अकारणस्मितम् उमामुखं तावत् आननेन न पपौ चक्षुषा चिरं पपौ ।
     मल्लिo- घूर्णमानेति । ईश्वरो घूर्णमाननयनं भ्राम्यन्नेत्रं स्खलत् कथं स्खलद्वचनं स्वेदबिन्दुमत्स्वेदयुक्तमकारणस्मितमाकस्मिकहासयुक्तमुमामुखं तावत् । आतृष्णापगममित्यर्थः । आननेन मुखेन न पपौ । न चुचुम्बेत्यर्थः । किंतु चिरं चक्षुषा पपौ । तृष्णयाद्राक्षादित्यर्थः । तस्या मदपारवश्यं दृष्ट्वा मुदं तावदन्वभूदित्यर्थः ।। ८.८० ।।


संप्रति प्रियवशंवदत्वमाह-

तां विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम् ।
ध्यानसंभृतविभूतिरीश्वरः प्राविशन्मणिशिलागृहं रहः ।। ८.८१ ।।

     अन्वयः- हरः विलम्बितपनीयमेखलां जघनभारदुर्वहां ताम् उद्वहन् ध्यानसंभूतविभूतिः रहः मणिशिलागृहं प्राविशत् ।
     मल्लिo- तामिति । हरो विलम्बितपनीयमेखलां विस्रंसिहेमरसनां जघनभारेण दुर्वहां तां पार्वतीमुद्वहन्ध्यानसंभृतया संकल्पमात्रसिद्ध्या विभूत्या भोगसाधनेन संभृतं = संपूर्णं मणिशिलागृहं प्राविशत् । रिरंसुरिति भावः ।। ८.८१ ।।


तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् ।
अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः ।। ८.८२ ।।

     अन्वयः- रोहिणीपतिः शारदाऽभ्रम् इव तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनं शयनं प्रियासखः सन् अध्यशेत ।
     मल्लिo- तत्रेति । तत्र मणिभवने हंसवद्धवल उत्तरच्छदः प्रच्छदपटी यस्य तत्तथोक्तं जाह्नवीपुलिनमिव चारुदर्शनं शयनं शय्यां रोहिणीपतिश्चन्द्रः, शरदि भवं शारदमभ्रं मेघमिव । शरद्ग्रहणं धावल्यार्थम् । प्रियसखः सन् । प्रियया सहेत्यर्थः । अध्यशेत शयितवान् । "अधिशीङ्स्थासां कर्म" इति कर्मत्वम् । रोहिणीग्रहणसामर्थ्यादिन्दोरप्यभ्रारोहणे रोहिणीसाहित्यमनुसंधेयम् ।। ८.८२ ।।


क्लिष्टकेशमबलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।
तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये ।। ८.८३ ।।

     अन्वयः- अदयैः कचगृहैः क्लिष्टचन्द्रम् उत्पथाऽर्पितनखं समत्सरं छिदुरमेखलागुणं तत् पार्वतीरतं तस्य तृप्तये न अभूत् ।
     मल्लिo- क्लिष्टेति । अदयैर्निदैयैः कचग्रहैः = केशकर्षणैः क्लिष्टचन्द्रं पीडितहरचन्द्रमुत्पथमुन्मर्यादमर्पिता नखा यस्मिंस्तत्समत्सरमन्योन्यविजिगीषापूर्वकं छिदुराः स्वयमेव छिद्यमाना मेखलागुणा यस्मिंस्तत्तथोक्तम् । "विदिभिदिछिदेः कुरच्" इति कुरच्प्रत्ययः । `कर्मकर्तरि' इति काशिका । पार्वतीरतं तस्येश्वरस्य तृप्तये नाभूदिति भावः ।। ८.८३ ।।


केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्किषु ।
तेन तत्प्रतिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ।। ८.८४ ।।

     अन्वयः- प्रियतमादयालुना केवलं तत्प्रतिगृहीतवक्षसा तेन ज्योतिषां पङ्क्तिषु अवनतासु (सतीषु) नेत्रमीलनकुतूहलं कृतम् ।
     मल्लिo- केवलमिति । प्रियतमादयालुना केवलम् । प्रियतमायां दययैव तस्येश्वरस्य सौकुमार्यादनवरतं सुरतासहिष्णुत्वात् । नतु स्वयं तृप्त्येत्यर्थः । तत्परिगृहीतवक्षसा तया पार्वत्याश्लिष्टवक्षसा तेनेश्वरेण ज्योतिषां = नक्षत्राणां पङ्क्तिष्ववनतासु सतीषु । पश्चिमायामित्यर्थः । नेत्रमीलनकुतूहलं कृतम् । निद्रा स्वीकृतेत्यर्थः ।। ८.८४ ।।


स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम् ।
मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः ।। ८.८५ ।।

     अन्वयः- बुधस्तवोचितः स उषसि मूर्च्छनापरिगृहीतकैशिकैः किन्नरैः गीतमङ्गलः (सन्) शातकुम्भकमलाकरैः समं व्यबुध्यत ।
     मल्लिo- स इति । बुधस्तवोचितो विद्वत्स्तोत्रार्हः स हर उषसि प्रभाते । स्वराणामारोहक्रमो मूर्च्छना । `क्रमयुक्ताः स्वरास्तत्र मूर्च्छना परिकीर्तिता' इति भरतः । तया मूर्च्छनया परिगृहीतकैशिकैः स्वीकृतरागविशेषैः किंनरैर्गीतमङ्गलः सन् । शातकुम्भकमलाकरैः समं कनकपद्माकरैः सह । `तपनीयं शातकुम्भं गाङ्गेयं भर्म कबुर्रम्' इत्यमरः । व्यबुध्यत विबुद्धवान् । बुध्यतेर्दैवादिकात्कर्तरि लङ् । अत्र बुध्यतेर्जागरविकासयोर्वोधयोः श्लेषनिमित्तकाभेदाध्यवसायमूला सहोक्तिरलंकारः ।। ८.८५ ।।


तौ क्षणं शिथिलितोपगूहनौ दंपती चलितमानसोर्मयः ।
पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः ।। ८.८६ ।।

     अन्वयः- शिथिलितोपगूहनौ दम्पती तौ रचितमानसोर्मयः पद्मबोधनिपुणाः गन्धमादनवनाऽन्तमारुताः क्षणं सिषेविरे ।
     मल्लिo- ताविति । शिथिलितोपगूहनौ शिथिलितालिङ्गनौ । जाया च पतिश्चदंपती । जायाशब्दस्य दंभावो निपातितः तौ शिवौ रचितमानसोर्मयः । मानसे सरसि रचिततरङ्गा इत्यर्थः । पद्मभेदनिपुणाः । पद्मभेदपिशुना इति यावत् । विकाससूचका इत्यर्थः । गन्धमादनवनान्तमारुताः क्षणं सिषेविरे ।। ८.८६ ।।


ऊरुमूलनखमार्ग(१) राजिभिस्तत्क्षणं हृतविलोचनो हरः ।
वाससः प्रशिथिलस्य (२)संयमं कुर्वतीं प्रियतमामवारयत् ।। ८.८७ ।।

{१.पङ्क्तिभिः.२.संचयम्.}
     अन्वयः- तत्क्षणम् ऊरुमूलनखमार्गराजिभिः हृतविलोचनः हरः प्रशिथिलस्य वाससः संयमं कुर्वतीं प्रियतमाम् अवारयत् ।
     मल्लिo- ऊर्विति । तत्क्षणं मारुतवीजनसमय ऊरुमूले नखमार्गराजिभिर्नखपदपङ्क्तिभिः । मरुता प्रसारितवस्त्रतया प्रकाशिताभिरित्यर्थः । हृतविलोचन आकृष्टदृष्टिर्हरः प्रशिथिलस्य वाससः संयमं बन्धनं कुर्वतीं प्रियतमामवारयत् ।। ८.८७ ।।


स प्रजागरकषायलोचनं गाढदन्त(३) परिताडिताधरम् ।
(४)आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ।। ८.८८ ।।

{३.पदताडित.४.अपास्तचित्रकम्.}
     अन्वयः- रागवान् स प्रजागरकषायलोचनं गाढदन्तपदताडिताऽधरम् आकुलाऽलकं भिन्नतिलकं प्रियामुखं प्रेक्ष्य अरंस्त ।
     मल्लिo- स इति । रागवान्रागी स हरः प्रजागरेण कषायलोचनं रक्तनेत्रं गाढैर्दन्तक्षतैस्ताडिताधरमाकुलालकं भिन्नतिलकं प्रियामुखं प्रेक्ष्यारंस्तान्वरज्यत । तादृङ्मुखदर्शनमेव तस्योद्दीपकमित्यर्थः ।। ८.८८ ।।


(५)तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् ।
निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ।। ८.८९ ।।

{५.भङ्गि.}
     अन्वयः- निशात्यये अपि तेन भिन्नविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलं (तथा) चरणरागलाञ्छितं शयनं न उज्झितम् ।
     मल्लिo- तेनेति । निशात्यये प्रभाते निर्मलेऽपि तेन हरेण भङ्गिभिर्भङ्गैर्विषमो निम्नोन्नत उत्तरच्छदः प्रच्छदपटो यस्मिंस्तत् । मध्ये पिण्डिता पुञ्जीकृता विसूत्रमेखला छिन्नरसना यस्मिंस्तत्तथोक्तं चरणयो रागेण लाक्षारागेण लाञ्छितं चिह्नितं शयनं नोज्झितं न त्यक्तम् । अत्र देव्याः सकलसुरतोपचारसंपन्नत्वं पुरुषायितं सूच्यते ।। ८.८९ ।।


स (१)प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिसेविषुः ।
दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात्(२) ।। ८.९० ।।

{१.प्रियामुखरसम्.२.निवेदितः.}
     अन्वयः- हर्षवृद्धिजननं प्रियामुखरसं दिवानिशं सिसेविषुः (सन्) विजयानिवेदितः दर्शनप्रणयिनाम् अदृश्यताम् आजगाम ।
     मल्लिo- स इति । स हरो हर्षवृद्धिजननं सुखातिशयकारणं प्रियामुखरसं मदिरामृतं दिवा च निशि च दिवानिशम् । द्वन्द्वैकवद्भावः । सिसेविषुः सेवितुमिच्छुः सन् । विजयानाम्नी काचिद्देव्याः सखी तया निवेदितः । एतदर्थमागतेति ज्ञापितोऽपीत्यर्थः । दर्शनप्रणयिनामदृश्यतामाजगाम । दर्शनं न ददावित्यर्थः ।। ८.९० ।।


समदिवसनिशीथं सङ्गिनस्तत्र शंभोः

शतमगमदृतूनां (३)साग्रमेका निशेव ।
न (४)तु सुरतसुखेभ्य(५) श्छिन्नतृष्णो बभूव

ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः ।। ८.९१ ।।

{३.सार्धम्.४.च,सः.५.सुखेषु.६.तज्जलेभ्यः,तज्जलेषु.}
     अन्वयः- समदिवसनिशीथं तत्र सङ्गिनः शम्भोः साग्रम् ऋतूनां शतम् एका निशा इव अगमत् । स समुद्राऽन्तर्गतः ज्वलन इव जलोघैः छिन्नतृष्णो न बभूव ।
     मल्लिo- समेति । निशीथोऽत्र निशामात्रलक्षकः । समदिवसनिशीथं तुल्याहर्निशं यथा तथा तत्र तस्यां पार्वत्यां सङ्गिन आसक्तस्य । रात्रिंदिवं रममाणस्येत्यर्थः । शम्भोः शिवस्य साग्रं किञ्चित्साधिकसंख्यमृतूनां शतं पञ्चाशदुत्तरं मानुषमानेन पञ्चविंशतिवर्षाण्येका निशेवागमत् । स शम्भुः समुद्रान्तर्गतः समुद्रस्यान्तर्वृत्तिर्ज्वलनो वडवाग्निरिव तज्जलौघैस्तस्य प्रवाहैरिव सुरतसुखेभ्यश्छिन्नतृष्णो निवृताभिलाषो न बभूव । किन्तु चिरमवर्धतेत्यर्थः ।। ८.९१ ।।


इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया

संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे
महाकाव्ये उमासुरतर्वणनं नामाष्टमः सर्गः ।। ८ ।।

इति मल्लिनाथटीक समाप्ता ।