कुमारसम्भवम् - मल्लिनाथः/द्वितीयः सर्गः

← प्रथमः सर्गः कुमारसम्भवम् - मल्लिनाथः
द्वितीयः सर्गः
कालिदासः
तृतीयः सर्गः →
द्वितीयः सर्गः


तस्मिन्विप्रकृताः काले तारकेण दिवौकसः ।
तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ।। २.१ ।।

     अन्वयः- तस्मिन् काले तारकेण विप्रकृताः दिवौकसः तुरासाहं पुरोधाय स्वायंभुवं धाम ययुः ।
     मल्लि.—तस्मिन्निति ।। तस्मिन्काले पार्वतीशुश्रूषाकाले तारकेण तारकनाम्ना वज्रणखपुत्रेण केनचिदसुरेण विप्रकृता उपप्लुता दिवमोकः स्थानं येषां ते दिवौकसो देवाः । `दिवं स्वर्गेऽन्तरिक्षे च' इति विश्वः । द्यौरोक इति पक्षे पृषोदरादित्वात्साधुः । तुरं त्वरितं साहयत्यभिभवतीति तुराषाट् । साहयतेश्चौरादिकात्क्विप् । `नहिवृतिवृषि-' इत्यादिना पूर्वपदस्य दीर्धः । प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् । मुग्धबोधकारस्तु तुराशब्दष्टावन्त इत्याचष्टे । तं तुरासाहं देवेन्द्रम् । अजादिषु साङ्रूपत्वाभावात् । `सहेः साढः सः' इति षत्वं न भवति । पुरोधाय पुरस्कृत्य । स्वयंभुवो ब्रह्मण इदं स्वायंभुवम् । संज्ञापूर्वकविधेरनित्यत्वात् ओर्गुणः' इति गुणो न । धाम स्थानं ययुः । ब्रह्मलोकं जग्मुरित्यर्थः ।। २.१ ।।

तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम् ।
सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव ।। २.२ ।।

     अन्वयः- परिम्लानमुखश्रियां तेषां ब्रह्मा सुप्तपद्मानां सरसां प्रातः दीधितिमान् इव आविरभूत् ।
     मल्लि.— तेषामिति । परिम्लाना परिक्षीणा मुखश्रीर्मुखकान्तिर्येषां तथोक्तानां तेषां देवानां ब्रह्मा सुप्तपद्मानां मुकुलितारविन्दानां सरसां प्रातर्दीधितमान्सूर्यं इवाविरभूत् । प्रकाशोऽभूदित्यर्थः । `प्रकाशे प्रादुराविः स्यात्' इत्यमरः । सूर्योपमानेन तेषां म्लानिहरणत्वं सूचितम् । अत्रोपमाऽलङ्कारः । तल्लक्षणं तु- `स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चैकपदोपमा ।।' इति ।। २.२ ।।

अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् ।
वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ।। २.३ ।।

     अन्वयः- अथ सर्वे ते सर्वतोमुखं वागीशं धातारं प्रणिपत्य अर्थ्याभिः वाग्भिः उपतस्थिरे ।
     मल्लि.— अथेति । अथाविर्भावानन्तरं सर्वे ते देवाः सर्वतः समन्ततो मुखानि यस्य तं सर्वतोमुखम् । चतुर्मुखमित्यर्थः वाचां विद्यानां ईशं सर्वस्य जगतो धातारं स्त्रष्टारं ब्रह्माणं प्रणिपत्य नमस्कृत्य । अर्थादनपेताभिरर्थ्याभिः । अर्थयुक्ताभिरित्यर्थः। `धर्मपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः । वाग्भिरुपतस्थिरे । तुष्टुवुरित्यर्थः । `उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम्'। इत्यात्मनेपदम् ।। २.३ ।।

स्तुतिप्रकारमाह `नमः' इत्यादिभिर्द्वादशभिः श्लेकैः -

नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ।। २.४ ।।

     अन्वयः- (हे भगवन् !) सृष्टेः प्राक् केवलात्मने पश्चात् गुणत्रयविभागाय भेदम् उपेयुषे (अतएव त्रिमूर्तये तुभ्यं नमः । )
     मल्लि.— नम इति । हे भगवन्नित्यध्याहार्यं व्याख्येयम् । सृष्टेः प्राक् । `अन्यारात्-' इत्यादिनाञ्चूत्तरपदयोगे पञ्चमी । केवलात्मन एकरुपाय । `आत्मा वा इदमेक एवाग्रआसीत्' इति श्रुतेः `निर्णिते केवलमिति त्रिलिङ्गं त्वेक्कृत्स्नयोः' इत्यमरः । पश्चात्सृष्टिप्रवृत्तिकाले । विभज्यतेऽनेनेति विभागः । गुणानां सत्त्वादीनां त्रयमेव विभागो यस्य तस्मै । `गुणाः सत्त्वं रजस्तमः' इत्यमरः । भेदमुपाधिम् । सष्टृत्वादिकमित्यर्थः । उपेयषे प्रात्पवते । `उपेयिवाननाश्वाननूचानश्च' इति निपातः । अत एव त्रिमूर्तये ब्रह्मविष्णुरुद्ररुपिणे तुभ्यं नमः । `नमः स्वस्ति-' इत्यादिना चतुर्थिं । उक्तं च-- `नमो रजोजुषे सृष्टौ स्थितौ सत्त्वमयाय च । तमोरुपाय संहारे त्रिरुपाय स्वयंभूवे ।।' इति ।. २.४ ।।

यदमोघमपामन्तरुप्तं बीजमज त्वया ।
अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ।। २.५ ।।

     अन्वयः- हे अज ! अपाम् अन्तः यत् अमोघं बीजम् उप्तम् । अतः चराऽचरं विश्वं, तस्य प्रभवो गीयसे ।
     मल्लि—यदिति ।। न जायत इत्यजः । हे अज, अपां जलानामन्तस्त्वया यदमोघमवन्ध्यं बीजं वीर्यमुप्तं निक्षिप्तं । `मुक्तम्' इति पाठे विसृष्टमित्यर्थः । `शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः । अतस्ते बीजाच्चराचरं स्थावरजङ्गमात्मकम् । समाहारे द्वन्द्वैकवद्भावः । विश्वं जगत् । उत्पन्नमिति शेषः । तस्य विश्वस्य । प्रभवत्यस्मादिति प्रभवः कारणं गीयसे । `अदश्चराचरं विश्वं प्रसवस्तस्त गीयते' इति पाठे अद इदं चराचरं विश्वं तस्य बीजस्य प्रसवो गीयते । लोक इति शेषः । अत्र मनुः- अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।। इति ।। २.५. ।।

तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् ।
प्रलयस्थितिसर्गाणामेकः कारणतां गतः ।। २.६ ।।

     अन्वयः- एकः त्वं तिसृभिः अवस्थाभिः महिमानम् उदीरयन् प्रलयस्थितिसर्गाणां कारणातां गतः ।
     मल्लि.— तिसृभिरिति ।। एकः सृष्टेः प्राक्केवलस्त्वं तिसृभिरवस्थाभिस्त्रैगुण्यमयीभिर्हरिहरब्रह्मस्वरुपाभिर्महिमानं निजशक्तिमुदीरयन्जृम्भयन्प्रलयस्थितिसर्गाणामन्तस्थित्युत्पत्तीनां कारणतां गतः । इदं पश्चाद्भेदमुपेयुषे (२/४) इत्यस्य विवरणमतो न गतार्थत्वदोषः ।। २.६ ।।

भूतसृष्टिकर्तृत्वमुक्त्वा मिथुनसृष्ट्यर्थं मूर्तिमतो ब्रह्मणो भेदमाह-

स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।
प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ।। २.७ ।।

     अन्वयः- स्त्रीपुंसौ सिसृक्षया भिन्नमूर्तेः ते आत्मभागौ स्तः । तौ एव प्रसूतिभाजः सर्गस्य पितरौ स्मृतौ ।
     मल्लि.— स्त्रीपुंसाविति ।। स्त्री च पुमांश्च स्त्रीपुंसौ । `अचतुर-' इत्यादिनाच्प्रत्ययान्तो निपातः । सिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेर्द्विधाकृतविग्रहस्य ते तवात्मनो देहस्य भागावात्मभागौ । `आत्मा जावे धृतौ देहे स्वभावे परमात्मानि' इति विश्वः । तावेव भागौ प्रसूतिभाज उत्पत्तिभाजः । सृज्यत इति सर्गस्तस्य । निजसृष्टेरित्यर्थः । माता च पिता च पितरौ । `पिता' `मात्रा' इत्येकशेषः । स्मृतौ । वृद्धैरिति शेषः । अत्र मनु- `द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ।।' इति ।। २.७ ।।

स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते ।
यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ।। २.८ ।।

     अन्वयः- स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते यौ तु स्वप्नाऽवबोधौ तौ (एव) भूतानां प्रलयोदयौ ।
     मल्लि.— स्वकालेति ।। स्वकालस्य परिमाणेन `चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते' इत्युक्तरुपेण व्यस्तं विभक्तं रात्रिंदिवं रात्र्यहनी यस्य तस्य । यद्यपि `अचतुर-' आदिसूत्रेण रात्रौ च दिवा च रत्रिंदिवमिति सप्तम्यर्थे वृत्तौ द्वन्द्व इत्युक्तं तथापि `दोषामन्यमहः' `दिवामन्या रात्रिः' इत्यादौ इवत्राऽपि प्रातिपदिकार्थवृत्तित्वं कथंचित्प्रयोगबलादाश्रयणीयम् । ते तव यौ तु स्वप्नावबोधौ तावेव भूतानां प्रलयोदयौ संहारसृष्टी । यदाहुः- `यदा स देवो जागर्ति तदैव चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते ।।' इति । एतच्च दैवेदिनसृष्टिप्रलयाभिप्रायकं महाप्रलयस्य ब्रह्मणो वर्षशतान्ते भावित्वात् ।। २.८ ।।

जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ।
जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ।। २.९ ।।

     अन्वयः- (हे भगवन् !) त्वं जगद्योनिः अयोनिः, जगदन्तः निरन्तकः, जगदादिः अनादिः, जगदीशो निरीश्वरः (असि) ।
     मल्लि.—-जगदिति । हे भगवन्, त्वं जगद्योविर्जगत्कारणं स्वयमयोनिरनादित्वादकारणकस्त्वम् । अन्तयतीत्यन्तः । पचाद्यच् । चगतोऽन्तर्जगत्संहर्ता स्वयं निरन्तको नित्यत्वादन्तरहितः । त्वं जगतामादिर्जगदादिः । सृष्टेः प्रागपि सन्नित्यर्थः । अत एव त्वमनादिरादिरहितः । त्वं जगतामीशो नियन्ता स्वयं निरीश्वरः । अनियम्य इत्यर्थः । `यतो वा इमानि भूतानि जायन्ते' इत्यादि श्रुतिरेवात्र प्रमाणम् । अत्रायोनिरित्यादौ नञ्तत्पुरुषाश्रयणे विरोधः । बहुव्रीहिणा तु तत्परिहार इति विरोधाभासालंकारः । यथाहुः- `विरोधाभासत्वे विरोधः' इति ।। २.९ ।।

तव तु न प्रपञ्चस्येव जन्मतिरोधानज्ञानेषु परापेक्षेत्याह-

आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ।। २.१० ।।

     अन्वयः- (हे भगवन् !) त्वम् आत्मानम् आत्मना वेत्सि, आत्मानम् आत्मना सृजसि, त्वं कृतिना आत्मना आत्मनि एव प्रलीयसे ।
     मल्लि.— आत्मानमिति ।। हे भगवन्, त्वमात्मानं लोकानुग्रहार्थं ब्रह्मरूपेणोत्पिपादयिषितं स्वस्वरूपमात्मनैव वेत्सि जानासि । सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः । तथात्मानमात्मनैव । आत्मन्येवेत्यत्रापि संबध्यते । स्वस्मिन्नेव सृजसि । अधिष्ठानमपि स्वयमेवेत्यर्थः । `स्वेमहिम्नि प्रतिष्ठितम्' इति श्रुतेः । कृतिना समर्थेन । इदं सर्वत्र सम्बध्यते । आत्मना स्वेनैवात्मन्येव प्रलीयसे स्वस्मिन्नेव' प्रलीनो भवसि । लीयतेर्दैवादिकात्कर्तरि लट् । `प्रकृत्यादिभ्य उपसंख्यानम्' इति वार्तिकात्सर्वत्रात्मनेति तृतीया । न हि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः ।। २.१० ।।

द्रवा संघातकठिनः, स्थूलः सूक्ष्मो लघुर्गुरुः ।
व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ।। २.११ ।।

     अन्वयः- (हे भगवन् !) त्वं द्रवः, सङ्घातकठिनः,स्थूलः सूक्ष्मः । त्वं लघुः गुरुः । त्वं व्यक्तः व्यक्तेतरश्च असि । विभूतिषु ते प्राकाम्यम् ।
     मल्लि.— द्रव इति ।। त्वमित्यनुषज्यते । हे भगवन्, त्वं द्रवाः सरित्समुद्रादिवद्रसात्मकोऽसि । संघातेन निबिडसंयोगेन कठिनो महीधरादिवत् । स्थूल इन्द्रियग्रहणयोग्यो घटादिवत् । सूक्ष्मोऽतीन्द्रियः परमाण्वादिवत् । लधुरुत्पतनयोग्यस्तूलादिवत् । गुरुर्हेमाद्रिवदचलनीयः । व्यक्तः कार्यंरुपोऽसि । व्यक्तेतरः कारणरूपश्चासि । एव विभूतिष्वणिमादिषु ते तव । प्रकामस्य भावः प्राकाम्यं यथाकामत्वम् ।। २.११ ।।

उद्धातः प्रणवो यासां न्यायैस्त्रिभिरुदीराणम् ।
कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ।। २.१२ ।।

     अन्वयः- (हे भगवन् !) यासां गिराम् उद्घातः प्रणवः, त्रिभिः न्यायैः उदीरणं, कर्म यज्ञः, फलं स्वर्गः त्वं तासां गिरां प्रभवः (असि ।)
     मल्लि.— उद्घात इति ।। हे भगवन्, यासां गिरां वाचामुद्घात उपक्रमः प्रणव ओंकारात्मकः । `ओंकारप्रणवौ समौ' इति । `स्यादभ्यादानमुद्घात आरम्भः' इति चामरः । इदमुपसंहारस्याप्युपलक्षणम् । `ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वतः । दहत्येनः कृतं पूर्वं परस्ताच्च विशेषतः ।।' इति निरुक्तपरिशिष्टयोर्यास्कः । नीयन्त एभिरर्थविशेषा इति न्यायाः स्वराः । उक्तं च- स्वरविशेषादर्थप्रतिपत्तिः' । `यथेन्द्रशत्रुः स्वरतोऽपराधात्' इति । यासां गिरां त्रिभिर्न्यायैरुदात्तानुदात्तस्वरितैः स्वरैरुदीरणमुच्चारणम् । यासां कर्म, प्रतिपाद्यमित्यर्थः । यज्ञो ज्योतिष्टोमादिः । न तु चैत्यवन्दनादिरिति भावः । फलं स्वर्गः । कर्मद्वारेति शेषः । कर्मस्वर्गौ ब्रह्मापवर्गयोरप्युपलक्षणे । त्वं तासां गिरां वेदानामित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् । प्रणेता स्मर्ता वा मतभेदेन ।। २.१२ ।।

सांख्यमतेन स्तुवन्ति-

त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ।। २.१३ ।।

     अन्वयः- (हे भगवन् !) त्वां पुरुषाऽर्थप्रवर्तिनीं प्रकृतिम् आमनन्ति । त्वाम् एव तद्दर्शिनम् उदासीनं पुरुषं विदुः ।
     मल्लि.— त्वामिति ।। हे भगवन्, त्वां पुरुषस्यार्थो भोगापवर्गरुपस्तदर्थ प्रवर्तत इति पुरुषार्थप्रवर्तिनीं तां प्रकृतिं त्रैगुण्यात्मकं मूलकारणम् । `प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणम्' । इति यादवः । आमनन्ति कथयन्ति । `म्ना अभ्यासे' इति धातोर्लट् । `पाघ्राध्मास्थाम्ना-' इत्यादिना मनादेशः । प्रकृतिपुरुषभेदाग्रहणात्प्रकृतिपुरुषाभेदव्यपदेशः । त्वामेव तां प्रकृतिं साक्षित्वेन पस्यतीति तद्दर्शिनमुदासीनं कूटस्थं पुरुषं विदुर्विदन्ति । `विदो लटो वा' इति झेर्जुसादेशः । `अजामेकां लोहितशुक्लकृष्णाम्' इति श्रुतिरत्र प्रमाणम् ।। २.१३ ।।

त्वं पितृणामपि पिता, देवानामपि देवता ।
परतोऽपि परश्चासि, विधाता वेधसामपि ।। २.१४ ।।

     अन्वयः- (हे भगवन् !) त्वं पितॄणाम् अपि पिता, देवानाम् अपि देवता, परतोऽपि परः, वेधसाम् अपि विधाता च असि ।
     मल्लि.— त्वमिति ।। हे भगवन्, त्वं पितॄणामाग्निष्वात्तादीनामपि पिता । तेषामपि तर्पणीय इत्यर्थः । परतोऽपि परश्चासि । सर्वोत्तरोऽसीत्यर्थः । `इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महास्ततः ।महतः परमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ।।' इति सर्वोत्तरत्वाभिधानात् । वेधसां दक्षादीनामपि विधाता स्त्रष्टासि ।। २.१४ ।।

त्वमेव हव्यं होता च, भोज्यं भोक्ता च शाश्वतः ।
वेद्यं च वेदिता चासि, ध्याता ध्येयं च यत्परम् ।। २.१५ ।।

     अन्वयः- (हे भगवन् !) त्वम् शाश्वतः एव हव्यं होता च, भोज्यं भोक्ता च, वेद्यं वेदिता च, ध्याता यत् परं ध्येयं च असि ।
     मल्लि.—त्वमेवेति । शश्वत्सिद्धः शाश्वतः । शैषिकोऽण्प्रत्ययः । यद्यपि `कालाट्ठञ्' इति ठञपवादः । अत एव सूत्रकारस्यापि प्रयोगः- `येषां च विरोधः शाश्वतिकः' इति । तथापि प्रयोगवशात्साधुरिति वामन इति । शाश्वतः प्रयुक्तः शाश्वतस्त्वमेव । हूयत इति हव्यं हविराज्यादिकम् । जुहोतीति होता यजमानश्चासि । भोज्यमभ्यवहार्यमन्नम् । `भोज्यं भक्ष्ये' इति निपातनात्कुत्वाभावः । भोक्तान्नादश्चासि । वेद्यं साक्षात्कार्य वस्तुवेदिता साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तच्चासि । साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तच्चासि । साक्षात्कारसाधनभूतप्रत्ययविशेषप्रवाहो ध्यानम् ।। २.१५ ।।

इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः ।
प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ।। २.१६ ।।

     अन्वयः- वेधा इति तेभ्यः यथार्थाः हृदयङ्गमाः स्तुतीः श्रुत्वा प्रसादाऽभिमुखः (सन्) दिवौकसः प्रत्युवाच ।। २.१६ ।।
     मल्लि.— इतीति ।। वेधा ब्रह्मेति तेभ्यो देवेभ्यः । `आख्यातोपयोगे' इत्यपादानत्वात्पञ्चमी । यथार्थाः सत्या अत एव हृदयं गच्छन्तीति हृदयंगमा मनोहराः । खच्प्रकरणे `गमेः सुप्युपसंख्यानम्' इति खच्प्रत्ययः । `अरुर्द्विषजन्तस्य मुम्' इति मुमागमः । स्तुतीः स्तोत्राणि श्रुत्वा प्रसादाभिमुखोऽनुग्रहप्रवणः सन् । दिवौकसो देवान्प्रत्युवाच ।। २.१६ ।।

पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता ।
प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ।। २.१७ ।।

     अन्वयः- चतुष्टयी शब्दानां प्रवृत्तिः पुराणस्य कवेः तस्य चर्तुर्मुखसमीरिता (सती) चरितार्था आसीत् ।
     मल्लि.— पुराणस्येति ।। द्रव्यगुणक्रियाजातिभेदेन चत्वारोऽवयवा यस्या इति चतुष्टयो चतुर्विधा । `संख्याया अवयवे तयप्' इति तयप् । `टिङ्ढाणञ्द्वयसच्-' इत्यादिना ङीप् । शब्दानां प्रवृत्तिर्वैखरीप्रमुखा वाग्वृत्तिः । उक्तं च- `वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा । द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ।।' इति । पुराणास्य पुरातनस्य । पृषोदरादित्वात्साधुः । कवेः कवयितुस्तस्य ब्रह्मणश्चतुर्भिर्मुखैः समीरिता सती । `तद्धितार्थ-' इत्यादिनोत्तरपदसमासः । समाहारे चतुर्मुखीति स्यात् । चरितार्थान्वर्थासीत् । चतुर्मुखोच्चारणाच्चातुर्विध्यं सफलमासीदित्यर्थः ।। २.१७ ।।

भगवानाह-

स्वगतं स्वानधीकारान्प्रभावैरवलम्ब्य वः ।
युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ।। २.१८ ।।

     अन्वयः- हे प्राज्यविक्रनाः ! स्वान् अधिकारान् प्रभावैः अवलम्ब्य युगपत् प्राप्तेभ्यः युगबाहुभ्यो वः स्वागतम् ।। २.१८ ।।
     मल्लि.— स्वागतमिति ।। हे प्राज्यविक्रमाः प्रभूतपराक्रमा देवाः । `प्राज्यं भूरिप्रभूतं च' इति यादवः । स्वान्स्वकीयानधिकारान्नियोगान् । `उपसर्गस्य घञि-' इति वा दीर्घः । प्रभावैः सामर्थ्यैरवलम्ब्यास्थाय । यथाधिकारं स्थित्वापीत्यर्थः । युगपत्समकालं प्राप्तेभ्यः । युगपत्प्राप्त्या महत्कार्यमनुमीयत इति भावः । युगबाहुभ्यः । दीर्घबाहुभ्य इत्यर्थः । अजानुबाहुत्वं भाग्यलक्षणम् । वो युष्मभ्यम् ।`बहुवचनस्य वस्नसौ' इति वसादेशः । `कर्मणा यमभिप्रैति-' इत्यत्र कर्मपदेन क्रियाग्रहणात्संप्रदानत्वम् । स्वागतं शोभनागमनम् । काकुरत्रानुसंधेया ।। २.१८ ।।

किमिदं द्युतिमात्मीयां न बिभ्रति यथा पुरा ।
हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ।। २.१९ ।।

     अन्वयः- (ह वत्साः !) हिमक्लिष्टप्रकाशानि ज्योतींषि इव वो मुखानि पुरा यथा आत्मीयां द्युतिं न बिभ्रति । इदं किम् ?
     मल्लि.— किमिति ।। `वत्साः' इत्युत्तरश्लोकीय (४/१८) संबोधनमत्राप्यनुष़ञ्जनीयम् । हे वत्साः पुत्रकाः, हिमेन नीहारेण क्लिष्टप्रका शानि मन्दप्रभाणि ज्योतींषि नक्षत्राणीव ।`दीत्पिताराहुताशेषु ज्योतिः' इति शाश्वतः । वो युष्माकं मुखानि पुरा यथा पूर्वमिवात्मीयां द्युतिं न बिभ्रति । इदम् किम् । किंनिबन्धनमित्यर्थः । किमिदमित्यनेन वाक्यार्थः परामृश्यते ।। २.१९ ।।

उक्तमेव प्रपञ्चयति सप्तभिः श्लोकैः-

प्रशमादर्चिषामेतदनुद्गीर्णसुरायुधम् ।
वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ।। २.२० ।।

     अन्वयः- अर्चिषां प्रशमात् अनुद्गीर्णसुरायुधम् एतत् वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रि इव लक्ष्यते ।। २.२० ।।
     मल्लि.— प्रशमादिति ।। अर्चिषां तेजसां प्रशमान्निर्वाणादनुद्गीर्णसुरायुधम् । अनुदितचित्रप्रभमित्यर्थः । एतद्वृत्रस्य हन्तुरिन्द्रस्य कुलिशं वज्रम् । कुण्ठिता अश्रयो यस्य तत्कुण्ठिताश्रि कुण्ठितकोटीव लक्ष्यते दृश्यते ।। २.२० ।।

किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः ।
मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ।। २.२१ ।।

     अन्वयः- किं च अयम् अरिदुर्वारः प्रचेतसः पाणौ पाशः मन्त्रेण हतवीर्यस्य फणिनो दैन्यम् आश्रितः ।
     मल्लि.— किं चेति ।। किं चायमरिदुर्वारो रिपुदुष्प्रधर्षः प्रचेतसो वरुणस्य । `प्रचेता वरुणः पाशी' इत्यमरः । पाणौ पाशो रज्जुरायुधविशेषः । मन्त्रेण गारुडेन हतवीर्यस्य प्रतिबद्धशक्तेः । फणिनः सर्पस्य दैन्यं शोच्यत्वमाश्रितः । अत्र फणिनिष्ठदैन्यस्य पाशेऽसम्भवाद्दैन्यमिव दैन्यमिति कल्पनादसंभवद्वस्तुसंबन्धो निदर्शनालंकारः ।। २.२१ ।।

कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।
अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ।। २.२२ ।।

     अन्वयः- भग्नशाखो द्रुम इव अपविद्धगदः कुबेरस्य बाहुः मनःशल्यं पराभवं शंसति इव ।
     मल्लि.— कुबेरस्येति ।। अपविद्धा त्यक्ता गदा येन सोऽपबिद्धगदः । अतएव भग्नशाखो द्रुम इव स्थितः कुबेरस्य बाहुर्मनः शल्यम् । दुःखहेतुत्वान्मनसः शल्यप्रायमित्यर्थः । पराभवम् । शत्रुकृतमिति शेषः । शंसतीव कथयतीव । लक्षणयानुमापयतीत्यर्थः । बाहौ मुख्यकथनस्यासम्भवादिवशब्दोऽप्यत एव ।। २.२२ ।।

यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा ।
कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ।। २.२३ ।।

     अन्वयः- अस्तमितत्विषा दण्डेन भूमिं विलिखन् यमोऽपि अमोघे अपि अस्मिन् निर्वाणाऽलातलाघवं कुरुते ।
     मल्लि.— यम इति ।। अस्तं नाशमिताः प्राप्ताः । अस्तमिति मकारान्तमव्ययम् । तस्य `द्वीतीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः' इति समासः । अस्तमितास्त्विषो यस्य तेन निस्तेजस्केन दण्डेन यमोऽपि भूमिं विलिखन्नमोघेऽपि प्रागिति भावः । अस्मिन्दण्डे निर्वाणालातस्य शान्तोल्मुकस्य । अलातं नाम भूलेखनशलाका तस्य यल्लाघवं क्लैब्यं तत्कुरुते । `अलातमुल्मुकं ज्ञेयम्' इति हलायुधः । निर्वाणोऽवाते' इति निपातनान्निष्ठानत्वम् । अत्रापि लाघवमिव लाघवमिति कल्पनान्निदर्शनालंकारः ।। २.२३ ।।

अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।
चित्रन्यस्ता इव गताःप्रकाशमालोकनीयताम् ।। २.२४ ।।

     अन्वयः- प्रतापक्षतिशीतला अमी आदित्यश्च कथं चित्रन्यस्ता इव प्रकामालोकमीयतां गताः ।
     मल्लि.— अमी इति ।। प्रतापक्षत्या तेजसां क्षयेण शीतला अमी आदित्याश्च । द्वादशेति शेषः । कथम् । केन हेतुनेत्यर्थः । चित्रन्यस्ताश्चित्रलिखिता इव । प्रकाममत्यन्तमालोकनीयतां दृश्यतां गताः प्रात्पाः ।। २.२४ ।।

पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते ।
अम्भसामोघसंरोधः प्रतीपगमनादिव ।। २.२५ ।।

     अन्वयः- अम्भसां प्रतीपगमनात् ओघसंरोध इव मरुतां पर्याकुलत्वात् वेगभङ्गोऽनुमीयते ।
     मल्लि.— पर्याकुलेति ।। मरुतां वायूनाम् । सप्तसप्तानामिति शेषः । पर्याकुलत्वात्स्खलितगतित्वाद्धेतोर्वेगस्य भङ्गोऽम्भसां जलानां प्रतीपगमनात् । उत्तानावरोहादित्यर्थः । ओघस्य संरोधः प्रवाहप्रतिबन्ध इवानुमीयते ।। २.२५ ।।

आवर्जितजटामौलिविलम्बिशशिकोटयः ।
रुद्राणामपि मुर्धानः क्षत हुंकारशंसिनः ।। २.२६ ।।

     अन्वयः- आवर्जीतजटामौलिविलम्बिशशकोटयो रुद्राणां अपि मूर्धानः क्षतहुङ्कारशंसिनः ।
     मल्लि.— आवर्जितेति ।। आवर्जितेषु परिभवदुःखावनम्रेषु जटानां मोलिषु जटाजूटेषु विलम्बिन्यः स्त्रंसिन्यः शशिकोटयश्चन्द्ररेखा येषां ते तथोक्ताः । रुद्राणामपि । एकादशानामिति शेषः । मूर्धानः क्षतं हुङ्कारं शंसन्तीति तथोक्ताः । हुङ्कारक्षत्यनुमापका इत्यर्थः । हुङ्कारशस्त्रा हि रुद्रा इति भावः ।। २.२६ ।।

लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः ।
अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ।। २.२७ ।।

     अन्वयः- प्रथमं लब्धप्रतिष्ठा यूयं बलवत्तरैः परैः उत्सर्गाअपवादैः इव किं कृतव्यावृत्तयः ।
     मल्लि.— लब्धेति ।। प्रथमं पूर्वं लब्धप्रतिष्ठा लब्धस्थितयः । लब्धावकाशा इत्यन्यत्र । यूयं बलवत्तरैः पौरुषातिरेकात्प्रबलतरैः । निरवकाशैरित्यपरत्र । परैः शत्रुभिरत्सर्गाः सामान्यशास्त्राणि `मा हिंस्यात्' इत्येवमादीनि । अपोद्यन्त एमिरित्यपवादैः `गामालभेत' इत्यादिभिर्विशेषशास्त्रैरिव किं कृतव्यावृत्तयः कृतप्रतिष्ठाभङ्गाः । कृतविषयसंकोचरुपबाधा इत्यन्यत्र । `विषयसंकोच एव बाधः' इत्याचार्याः । निषेधशास्त्रस्य वेदिकहिंसापरिहारेण लौरिकमात्रे व्यवस्थापनाद्विषयसंकोच इत्यलमतिगहनावगाहनेन ।। २.२७ ।।

तद्ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः ।
मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ।।२.२८ ।।

     अन्वयः- तत् हे वत्साः । समागता यूयम्, इतः किं प्रार्थयध्वं ? ब्रूत । हि मयि लोकानां सृष्टिः, रक्षा युष्मासु अवस्थिता ।
     मल्लि.— तदिति ।। तत्तस्मात्कारणात् । हे वत्साः पुत्रकाः । `वत्सस्त्वर्भकपुत्राद्योर्वर्षे वत्सं तु वक्षसि' इति विश्वः । स्वयं पितामहत्वाद्वत्सा इत्यामन्त्रयते । संभूयागताः समागताः इतो मत्तः किं प्रार्थयध्वम् । किमिच्छतेत्यर्थः । ब्रूत । लोकरक्षणे यूयमेव कर्तार इत्याह- मयि लोकानां सृष्टी रक्षा युष्मास्ववस्थिता । अतस्तदर्थमपि नस्ति मदपेक्षेत्यर्थः ।। २.२८ ।।

ततो मन्दानिलोद्‌धूतकमलाकरशोभिना ।
गुरुं नेत्रसहस्त्रेण नोदयामास वासवः ।। २.२९ ।।

     अन्वयः- ततो वासवो गुरुं मन्दाऽनिलोद्धूतकमलाकरशोभिना नेत्रसहस्रेण नोदयामास ।
     मल्लि.— तत इति ।। ततो भगवत्प्रश्नानन्तरं वासव इन्द्रो गुरुं बृहस्पतिम् । `गुरूगीष्पतिपित्राद्यौ' इत्यमरः । मन्दानिलोद्धूतो यः कमलाकरः स इव शोभत इति तेन तथोक्तेन नेत्राणां सहस्रेण नोदयामास प्रेरयामास। सहस्रग्रहणमास्थातिशयार्थम् । अनिमेषाणामपि प्रयत्नवशादक्षिस्पन्दो न विरुध्यते ।। २.२९ ।।

स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् ।
वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ।। २.३० ।।

     अन्वयः- हरेः सहस्रनयनाऽधिकं द्विनेत्रं चक्षुः स वाचस्पतिः प्राञ्जलिः (सन्) जलजासनम् इदम् उवाच ।
     मल्लि.— स इति ।। हरेरिन्द्रस्य। `इन्द्रो दुश्च्यवनो हरिः' इति हलायुधः । सहस्रान्नयनेभ्योऽधिकं सहस्रनयनाधिकम् । तदगोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद्‌द्विनेत्रम् । प्रसिद्धाच्चक्षुषोऽयं विशेष इत्यर्थः । चक्षुश्चक्षुर्भूतः । स च वाचस्पतिः । कस्कादित्वादलुक्सत्वे । `षष्ठ्याः पतिपुत्र-' इत्यादिना सत्वमिति स्वामी । तन्न, छन्दोविषयत्वात् । प्राञ्जलिः सन्। जलजासनं ब्रह्माणमिदमुवाच चक्षुष्ट्वारोपस्य प्रकृतोपयोगात्परिणामालङ्कारः ।। २.३० ।।

एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् ।
प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ।। २.३१ ।।

     अन्वयः- हे भगवन् ! यत् आत्थ तत् एवम्, नः पदं परैः आमृष्टम् । हे प्रभो ! प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि ?
     मल्लि.— ऐवमिति ।। हे भगवन्‌ षड्गुणैश्वर्यसम्पन्न ! यदात्थ `कृतव्यावृत्तयः परैः' (२/२७) इति यद्‌व्रवीषि । `ब्रुवः पञ्चानाम्-' इतयादिनाहादेशः । `वर्तमानसामीप्य वर्तमानवद्वा' इति वर्तमानप्रयोगः । वामनस्तु भ्रान्तोऽयं प्रयोग ईत्याह । आहेति भूते णलन्तभ्रमवदिति । आहेत्युपलक्षणम् । तदेव सत्यम् नोऽस्माकं पदमधिकारः परैः शत्रुभिरामृष्टमाक्षित्पम् । हे प्रभो, प्रत्येकं प्रतिपुरुषं विनियुक्तात्मा प्रवेशितस्वरुपः । सर्वान्तर्यामीत्यर्थः । कथं न ज्ञास्यसि न वेत्सि । वर्तमानेऽपि वचनभङ्ग्या भविष्यन्निर्देशः प्रसिद्धः । `अपह्नवे ज्ञः' `अकर्मकाच्च' इत्यात्मनेपदविकल्पः ।। २.३१ ।।

उक्तमेव प्रपञ्चयति-

भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः ।
उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ।। २.३२ ।।

     अन्वयः- भवल्लब्धवरोदीर्णः तारकाख्यो महासुरः धूमकेतुः इव लोकानाम् उपप्लवाय उत्थितः ।
     मल्लि.— भवदिति ।। भवतस्त्वत्तो लब्धेन वरेणोदीर्ण उद्धतः तारक इत्याख्या नामधेयं यस्य स तारकाख्यः । महानसुरो महासुरः । `सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः' इति तत्पुरुषः । धूमकेतुरुत्पातविशेष इव लोकानामुपप्लवायोपद्रवायोत्थित उत्पन्नः ।। २.३२ ।।

पुरे तावन्तमेवास्य तनोति रविरातपम् ।
दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ।। २.३३ ।।

     अन्वयः- अस्य पुरे रविः तावन्तम् एव आतपं तनोति यावन्मात्रेण दीर्घिकाकमलोन्मेषः साध्यते ।
     मल्लि.— पुर इति ।। अस्य तारकस्य पुरे रविः सूर्यस्तावन्तं तावन्मात्रमेवातपं तनोति । यावन्मात्रेण यावतैव३। यावती मात्रा मितिर्यस्य यावन्मात्रं तेन वा । अल्पपरिमाणेनेत्यर्थः । मात्रा परिच्छदे । अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे' इत्यमरः । दीर्घिकासु क्रीडावापीषु कमलानामुन्मेषो विकासः साध्यते निष्पाद्यते कठोरकिरणोऽपि मन्दोष्णः सन्नेव तद्भीत्या पुरे प्रकाशत इत्यभिप्रायः ।। २.३३ ।।

सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते ।
नादत्ते केवलां लेखां हरचूडामणीकृताम् ।। २.३४ ।।

     अन्वयः- चन्द्रः तं सर्वदा सर्वाभिः कलाभिः निषेवते, केवलां हरचूडामणीकृतां लेखां न आदत्ते ।
     मल्लि.— सर्वाभिरिति ।। चन्द्रस्तं तारकं सर्वदा । कृष्णपक्षेऽपीत्यर्थः । सर्वाभिः कलाभिर्निषेवते ।`कला तु षोडशो भागः' इत्यमरः । केवलां हरचूडामणीकृतां शिवशिरोमणीकृतां लेखां नादत्ते न गृह्णाति ।। २.३४ ।।

व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ।
न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम् ।। २.३५ ।।

     अन्वयः- वायुः कुसुमस्तेयसाध्वसात् उद्याने व्यावृत्तगतिः (सन्) तत्पार्श्वे तालवृन्ताऽनिलाऽधिकं न वाति ।
     मल्लि.— व्यावृत्तेति ।। वायुः स्तेनस्य भावः कर्म वा स्तेयं चौर्यम् । `स्तेनाद्यन्नलोपश्च' इति यत्प्रत्ययो नलोपश्च । कुसुमानां स्तेयं तस्मात्स्तेयाभियोगाद्दण्डाद्वा साध्वसं भयं तस्माद्धेतोरुद्याने व्यावृत्तगतिः । निवृत्तोद्यानसंचारः सन्नित्यर्थः । सापेक्षत्वेऽपि गमकत्वात् समासः । तत्पार्श्वे तत्समीपे । तालस्य वृन्तैरुद्ग्रन्थ्यते । तालस्येव वृन्तमस्येति वा तालवृन्तं तस्यानिलाद्व्यजनसंचारपवनादधिकं यथा तथा न वाति । `व्यजनं तालवृन्तकम्' इत्यमरः ।। २.३५ ।।

पर्यायसेवामुत्सृज्य पुष्पसंभारतत्पराः ।
उद्यानपालसामान्यमृतवस्तमुपासते ।। २.३६ ।।

     अन्वयः- ऋतवः पर्यायसेवाम् उत्सृज्य पुष्पसंभारतत्पराः (सन्तः) उद्यानपालसामान्यं तम् उपासते ।
     मल्लि.— पर्यायेति ।। ऋतवः षड् वसन्तादयः पर्यायसेवां क्रमसेवामुत्सृज्य पुष्पाणां संभारे संग्रहे तत्पराः । आसक्ताः सन्त इत्यर्थः । `तत्परे प्रसितासक्तौ' इत्यमरः । उद्यानपालैरुद्यानाधिकृतैः सामान्यं साधारणं यथा भवति तथा तं तारकमुपासते सेवन्ते । शीतोष्णादिदोषप्रकाशनं तु दूरापास्तमित्यर्थः ।। २.३६ ।।

तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।
कथमप्यम्भसामन्तरानिष्पत्तेः प्रतीक्षते ।। २.३७ ।।

     अन्वयः- सरितां पतिः तस्य उपायनयोग्यानि रत्नानि अम्भसाम् अन्तरा निष्पत्तेः कथमपि प्रतीक्षते ।
     मल्लि.— तस्येति ।। सरितां पतिः समुद्रस्तस्य तारकस्योपायनानां प्राभृतानां योग्यानि । `प्राभृतं तु प्रदेशनम् । उपायनम्' इत्यमरः । रत्नान्यम्भसामन्तरा निष्पत्तेः परिपाकपर्यन्तम् । विकल्पादसमासः । कथमपि महता यत्नेन प्रतीक्षते । कदा वा परिपच्येरन्नित्येकाग्रेण पालयतीत्यर्थः ।। २.३७ ।।

ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि ।
स्थिरप्रदीपतामेत्य भुजङ्गाः पर्युपासते ।। २.३८ ।।

     अन्वयः- ज्वलन्मणिशिखा वासुकिप्रमुखाः भुजङ्गाश्च निशि स्थिरप्रदीपताम् एत्य एनं पर्युपासते ।
     मल्लि.— ज्वलदिति ।। किंचेति चार्थः । ज्वलन्त्यो मणीनां शिरोरत्नानां शिखा ख्वाला येषां ते वासुकिप्रमुखा भुजङ्गाः सर्पाः । सिद्धाश्च ध्वन्यन्ते । `भुजंगः सिद्धसर्पयोः' इत्यमरः । निशि स्थिरप्रदीपतामनिर्वाणदीपत्वमेत्यैनं तारकं पर्युपासते परिवृत्य सेवन्ते ।। २.३८ ।।

तत्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः ।
अनुकूलयतीन्द्रोऽपि कल्पद्रुमविभूषणैः ।। २.३९ ।।

     अन्वयः- इन्द्रोऽपि तत्कृताऽनुग्रहापेक्षी (सन्) मुहुः दूतहारितैः कल्पद्रुमविभूषणैः तम् अनुकूलयति ।
     मल्लि.— इन्द्रोपि तेन तारकेण कृतं तत्कृतमनुग्रहं प्रसादमपेक्षते इति तथोक्तः सन् । मुहुर्दूतहारितैर्दूतप्रापिनैः कल्पद्रुमाणां विभूषणैः । तत्प्रसूनैरित्यर्थः । तं तारकमनुकूलयत्यनुकूलं करोति ।। २.३९ ।।

इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।
शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ।। २.४० ।।

     अन्वयः- इत्थम् आराध्यमानोऽपि स भुवनत्रयं क्लिश्नाति । (हि) दुर्जनः प्रत्यपकारेण शाम्येत्, उपकारेण न शाम्येत् ।
     मल्लि.— इत्थमिति । इत्थमुक्तप्रकारेण रविशशिपवनोदधिभुजंगसुरेन्द्रैराराध्यमानोऽपि भुवनत्रयं क्लिश्नाति पीडयति । तथाहि । दुर्जनः प्रत्यपकारेण प्रतीकारेणैव शाम्येच्छान्तो भवेत् । उपकारेण तु न शाम्येत् । प्रत्युत प्रकुप्यतीति भावः ।। २.४० ।।

तेनामरवधूहस्तैः सदयालूनपल्लवाः ।
अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ।। २.४१ ।।

     अन्वयः- तेन अमरवधूहस्तैः सदयालूनपल्लवाः नन्दनद्रुमाः छेदपातानाम् अभिज्ञाः क्रियन्ते ।
     मल्लि.— तेनेति ।। तेन तारकेणामरवधूहस्तैः । सुकुमारैरिति भावः । तैरपि सदयमलूना अवतंसार्थं छिन्नाः पल्लवा येषां ते नन्दनद्रुमाः । छेदाश्च पाताश्च छेदपातास्तेषाम् । अभिजानन्तीत्यभिज्ञाः । कृद्योगात्कर्मणि षष्ठी । क्रियन्ते ।। २.४१ ।।

वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।
चामरैः सुरवन्दीनां वाष्पसीकरवर्षिभिः ।। २.४२ ।।

     अन्वयः- हि स संसुप्तः (सन्) श्वाससाधारणाऽनिलैः बाष्पसीकरवर्षिभिः सुरवन्दीनां चामरैः वीज्यते ।
     मल्लि.— वीज्यते इति ।। हि यस्मात्कारणत्स तारकः संसुत्पः सन् । श्वाससाधारणो निश्वाससमानोऽनिलो योषां तैः ततोऽप्याधिक्ये निद्राभङ्गभयादिति भावः । वाष्पशीकरवर्षिभिः । तासां स्त्रीणां रोदनस्यायमवसर इति भावः । सुरवन्दीनां सुरप्रग्रहस्त्रीणां संबन्धिभिः । `प्रग्रहापग्रहौ वन्द्याम्' इत्यमरः । चामरैर्वीज्यते ।। २.४२ ।।

उत्पाट्य मेरुश्रृङ्गाणि क्षुण्णानि हरितां खुरैः ।
आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु ।। २.४३ ।।

     अन्वयः- तेन हरितां खुरैः क्षुण्णानि मेरुश्रृङ्गाणि उत्पाट्य स्वेषु वेश्मसु आक्रीडपर्वताः कल्पिताः ।
     मल्लि.— उत्पाट्येति ।। तेन तारकेण हरितां सूर्याश्वनाम् । `हरित्सूर्ये च सूर्याश्वे वर्णे च हरिते दिशि' इति विश्वः । खुरैः शफैः क्षुण्णानि चूर्णितानि । एतेन तेषामत्यौन्नत्यं सूचितम् । मेरुश्रृङ्गाण्युत्पाट्य स्वेषु वेश्मसु । वैश्मस्विति बहुवचनेनास्य भुवनत्रयनिवासः सूचितः । आक्रीडन्त एष्वित्याक्रीडाः । ते च पर्वताः कल्पिताः कृताः ।। २.४३ ।।

मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम् ।
हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम् ।। २.४४ ।।

     अन्वयः- साम्प्रतं मन्दाकिन्या दिग्वारणमदाविलं पयः शेषम् । हेमाम्भोरुहसस्यानां तद्वाप्यो धाम ।
     मल्लि.— मन्दाकिन्या इति ।। सांप्रतं संप्रति मन्दाकिन्या भागीरथ्या दिग्वारणानां दिग्गजानां मदैराविलं कलुषं पयो जलमेव । शिष्यते इति शेषं शिष्टम् । कर्मण्यण्प्रत्ययः । `त्रिष्वन्यत्रोपयुज्यते' इति नपुंसकत्वम् । तर्हि कनककमलानि क्व गतानीत्याह- हेमेति । हेमाम्भोरुहाण्येव सस्यानि तेषां तु तस्य वाप्यस्तद्वाप्य एव धाम स्थानम् । सर्वाण्यप्युत्पाट्य स्वदीर्घिकास्वेव प्रतिरोपितवानित्यर्थः ।। २.४४ ।।

भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते ।
खिलीभूते विमानानां तदापातभयात्पथि ।। २.४५ ।।

     अन्वयः- तदापातभयात् विमानानां पथि खिलीभूते (सति) स्वर्गिभिः भुवनालोकनप्रीतिः न अनुभूयते ।
     मल्लि.— भुवनेति ।। तस्य तारकस्यापातात्समापत्तेर्भयाद्विमानानां पथि खिलीभूतेऽप्रहतीभूते सति । `द्वे खिलाप्रहते समे' इत्यमरः । स्वर्गिभिर्देवैभुवनानामालोकने प्रीतिर्नानुभूयते ।। २.४५ ।।

यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः ।
जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ।। २.४६ ।।

     अन्वयः- यज्वभिः विततेषु अध्वरेषु संभृतं हव्यं मायी स मिषतां नः जातवेदोमुखात् आच्छिनत्ति ।
     मल्लि.— यज्वभिरिति ।। यज्वभिर्विधिवदिष्टवद्भिः `यज्वा तु विधिनेष्टवान्' इत्यमरः । `सुयजोर्ङ्वनिप्' इति ङ्वनिप्प्रत्ययः । विततेष्वध्वरेषु यज्ञेषु संभृतं दत्तं हव्यं हविर्मायी मायावी । व्रीह्यादित्वादि निप्रत्ययः । स तारको नोऽस्माकं मिषतां पश्यताम् । पश्यत्सु सत्स्वित्यर्थः । `षष्ठी चानादरे' इति षष्ठी । जातवेदा वह्निरेव मुखं तस्माज्जातवेदोमुखादाच्छिनत्ति । आक्षिप्य गुह्णातीत्यर्थः ।। २.४६ ।।

उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च ।
देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ।। २.४७ ।।

     अन्वयः- किं च-तेन उच्चैः उच्चैः श्रवा हयरत्नं चिरकालाऽर्जितम् इन्द्रस्य यश इव अहारि ।
     मल्लि.— उच्चैरिति ।। किंचेति चार्थः । तेन तारकेणोच्चैरुन्नत उच्चैः श्रवा नाम हयो रत्नमिव हयरत्नमश्वश्रेष्ठः `रत्नश्रेष्ठे मणावपि' इति विश्वः । अस्य शुभ्रत्वादुत्प्रेक्षतेः-देहबद्धं बद्धदेहम् । मूर्तिमदित्यर्थः । आहिताग्न्यादित्वान्निष्ठायाः परानिपातः । चिरकालार्जितमिन्द्रस्य यश इवाहार्यपहृतम् ।। २.४७ ।।

तर्हि सामाद्युपायास्तत्र कथं न प्रयुक्ता इत्यत्राह-

तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः ।
वीर्यवन्त्यौषधानीव विकारे सांनिपातिके ।। २.४८ ।।

     अन्वयः- क्रूरे तस्मिन् नः सर्वे उपायाः सन्निपातिके विकारे वीर्यवन्ति औषधानि इव प्रतिहतक्रियाः ।
     मल्लि.— तस्मिन्निति ।। क्रूरे घातुके । `नृशंसो धातुकः क्रूरः' इत्यमरः । तस्मिन्नसुरे नोऽस्माकं सर्वे उपायाः संनिपातदोषत्रयस्य प्रकोपजे सांनिपातिके विकारे ज्वरादौ । `संनिपाताच्च' इति वक्तव्याठ्ठक् । वीर्यवन्ति सारवन्त्यौषधानीव प्रतिहतक्रिया विफलप्रयोगा भवन्ति ।। २.४८ ।।

तदैव प्रतिहतक्रियामाह-

जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।
हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् ।। २.४९ ।।

     अन्वयः- यत्र अस्माकं जयाशा, प्रतिघातोत्थिताऽर्चिषा तेन हरिचक्रेण अस्य कण्ठे निष्कम् अर्पितम् इव ।
     मल्लि.— जयाशेति ।। किंचेति चार्थः । नूनमनेन वयं जेष्याम इति यत्र हरिचक्रेऽस्माकं जयाशा विजयाशंसा । आसीदिति शेषः । प्रतिघातेन प्रतिहत्योत्थितार्चिषोद्‌गततेजसा तेन हरिचक्रेण विष्णोः सुदर्शनेनास्य तारकस्य कण्ठे निष्कमुरोभूषणमर्पितमिवेप्युत्प्रेक्षा । स्वयमयं निष्कमिव स्थितमित्यर्थः । तारकशिरश्छेदाय हरिणा चक्रं त्यक्तं तदपि नष्टशक्ति जातमिति भावः । `साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले । दीनारेऽपि च निष्कोऽस्त्री' इत्यमरः ।। २.४९ ।।

तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु ।
अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ।। २.५० ।।

     अन्वयः- अद्य निर्जितैरावताः तदीया गजाः पुष्करावर्तकादिषु तोयदेषु तटाघातम् अभ्यस्यन्ति ।
     मल्लि.— तदीयेति । अद्य सम्प्रति निर्जित ऐरावतो यैस्ते तथोक्ताः । तस्य तारकस्येमे तदीया गजाः पुष्कराश्चावर्तकाश्च नामादयो येषां तेषु तोयदेषु मेघेषु तदाघातं वप्रक्रीडाभ्यस्यन्ति ।। २.५० ।।

तदिच्छामो विभो ! स्रष्टुं सेनान्यं तस्य शान्तये ।
कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ।। २.५१ ।।

     अन्वयः- तद् हे विभो ! मुमुक्षवो भवस्य शान्तये कर्मबन्धच्छिदं धर्मम् इव तस्य शान्तये सेनान्यं स्रष्टुम् इच्छामः ।
     मल्लि.— तदिति ।। तत्तस्मात्कारणात् । हे विभो स्वामिन्, मोक्तुं भवं त्यक्तुमिच्छवो मुमुक्षवो विरक्ता भवस्य संसारस्य शान्तये निवृत्तये कर्मैव बन्धस्तं छिनत्तीति कर्मबन्धच्छित्तं धर्ममिव । आत्मज्ञानहेतुभूतमिति शेषः । `तमेव विदित्वातिमृत्युमेति' इति ज्ञानादेव मुक्तिः । तस्य तारकस्य शान्तये नाशाय । सेनां नयतीति सेनानीश्चमूपतिः । `सत्सूद्विष-' इत्यादिना क्विप् । तं सेनान्यं कंचित्स्रष्टुमिच्छामः । वयमिति शेषः ।। २.५१ ।।

सेनानीसृष्टेः फलमाह-

गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गौत्रभित् ।
प्रत्यानेष्यति शत्रुभ्यो वन्दीमिव जयश्रियम् ।। २.५२ ।।

     अन्वयः- सुरसैन्यानां गोप्तारं यं पुरस्कृत्य गोत्रभित् वन्दीम् इव जयश्रियं शत्रुभ्यः प्रत्यानेष्यति ।
     मल्लि.— गोप्तारमिति ।। सुरसैन्यानां देवतासेनानां गोप्तारं रक्षितारं यं सेनान्यं पुरस्कृत्य पुरोधाय । `पुरोऽव्‌ययम्' इति गतित्वात् `नमस्पुरसोर्गत्योः' इति सकारः । गां पृथ्वीं त्रायन्त इति गोत्रास्तान्भिनत्तीति गोत्रभिदिन्द्रो जयश्रियं बन्दीमिव बन्दीकृतां स्त्रियमिव शत्रुभ्यः सकाशात्प्रत्यानेष्यति प्रत्याहरिष्यति तं स्त्रष्टुमिति पूर्वेण संबन्धः ।। २.५२ ।।

वचस्यवसिते तस्मिन्ससर्ज गिरमात्मभूः ।
गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा ।। २.५३ ।।

     अन्वयः- तस्मिन् वचसि अवसिते (सति) आत्मभूः गिरं ससर्ज । सा सौभाग्येन गर्जितानन्तरां वृष्टिं जिगाय ।
     मल्लि.— वचसीति ।। तस्मिन्बार्हस्पत्ये वचस्यवसिते परिसमाप्ते सत्यात्मभूर्ब्रह्मा गिरं वाचं ससर्ज जगादेत्यर्थः । सा गीः सौभाग्येन मनोहरत्वेन । `हृद्‌भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिः गर्जिताद्‌गर्जितस्य वानन्तरं प्रवृत्तां वृष्टिं जिगाय जितवती । गर्जितपरत्वाद्‌वृष्टेरिव तद्विज्ञापनफलत्वाद्‌गिरः सुभगत्वमिति भावः ।। २.५३ ।।

संपत्स्यते वः कामोऽयं कालः कश्चित्प्रतीक्ष्यताम् ।
न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना ।। २.५४ ।।

     अन्वयः- अयं कः कामः सम्पत्स्यते । कश्चित् कालः प्रतीक्ष्यताम् । तु अस्य सिद्धौ आत्मना सर्गव्यापारं न यास्यामि ।
     मल्लि.—- संपत्स्यत इति ।। अयं वो युष्माकं कामो मनोरथः सेनानीरुपः संपत्स्यते सेत्स्यति । कश्चित्कियानपि कालः प्रतीक्ष्यताम् । तु किंतु तस्य सेनान्यः सिद्धौ विषय आत्मना स्वयं सर्गः सृष्टिरेव व्यापारस्तं न यास्यामि । नाहं स्रक्ष्यामीत्यर्थः ।। २.५४ ।।

इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् ।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ।। २.५५ ।।

     अन्वयः- इतः प्रात्पश्रीः स दैत्यः इत एव क्षयं न अर्हति; विषवृक्षः अपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम् ।
     मल्लि.— इत इति ।। इतो मत्त एव प्रात्पश्रीर्लब्धोदयः स दैत्यस्तारकासुर इतो मत्त एव क्षयं नाशं नार्हति । तथाहि । अन्यो वृक्षस्तावदास्ताम् विषस्य वृक्षो विषयवृक्षोऽपि संवर्ध्य कुतश्चित्कारणात्सम्यग्‌ वर्धयित्वा स्वयं छेत्तुमसांप्रतमनर्हः । असांप्रतमित्यमेन निपातेनाभिहितत्वाद्‌वृक्ष इति द्वितीयान्तो न भवत्यनभिहिते कर्मणि द्वितीयाभिधानात् । यथाह वामनः-- `निपातेनाप्यभिहिते कर्मणि न विभक्तिः परिगणनस्य प्रायिकत्वात्' इति ।। २.५५ ।।

वृतं तेनेदमेव प्राङ् मया चास्मैप्रतिश्रुतम् ।
वरेणशमितं लोकानलं दग्धुं तत्तपः ।। २.५६ ।।

     अन्वयः- प्राक् तेन इदम् एव वृतं, मया च अस्मै प्रतिश्रुतम् । हि लोकान् दग्धुम् अलं तत्तपो वरेण शमितम् ।
     मल्लि.—- वृतमिति ।। प्राक्पुर्वं तेनासुरेणेदमेव देवैरवध्यत्वमेव वृतं प्रार्थितम् । मया चास्मै तारकाय प्रतिश्रुतं प्रतिज्ञातम् । `प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता' इति संप्रदानत्वाच्चतुर्थी । कर्तव्यं चैतदित्याह-- लोकान्दग्धुमलं शक्तम् । `पर्यात्पिवचनेष्वलमर्थेषु' इति तुमुन्प्रत्ययः । तस्य तपस्तत्तपो वरेण वरदानेन शमितमिति शेषः ।। २.५६ ।।

संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः ।
अंशादृते निषिक्तस्य नीललोहितरेतसः ।। २.५७ ।।

     अन्वयः- संयुगो उद्यतं सांयुगीनं तं निषिक्तस्य नीललोहितरेतसः अंशात् ऋते कः प्रसहेत ?
     मल्लि.— संयुग इति ।। संयुगे युद्ध उद्यन्तं व्याप्रियमाणम् । संयुगे साधुं सांयुगीनम् । `प्रतिजनादिभ्यः खञ्' इति खञ्प्रत्ययः । तं तारकं निषिक्तस्य क्वचित्क्षेत्रे क्षरितस्य । `नीलः कण्ठे लोहितश्च केशेष्विति नीललोहित इति पुराणम् ।' इति स्वामी । तस्य नीललोहितस्य धूर्जटेरेतसः शुक्रस्यांशादृतेंऽशं विनान्यः कः प्रसहेताभिभवेत् । प्रसहनमभिभवः' इति वृत्तिकारः ।। २.५७ ।।

कथमसावीदृक्शक्तिरित्याह-

स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् ।
परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ।। २.५८ ।।

     अन्वयः- हि स देवः तमःपारे व्यवस्थितं परं ज्योतिः मया विष्णुना च परिच्छिन्नप्रभावर्द्धिः न ।
     मल्लि.— स इति ।। स देवो नीललोहितस्तमसः पारे परतो व्यवस्थितं तमोगुणातीतं परं ज्योतिः परमात्मा हि । अतएव मया परिच्छिन्नप्रभावर्द्धिरवगाढमहिमातिशयो नभवति तथा विष्णुना च न । अतस्तस्यासाध्यं नास्तीत्यर्थः ।। २.५८ ।।

संप्रति तदंशोत्पत्तावुपायं दर्शयति-

उमारुपेण ते यूयं संयमस्तिमितं मनः ।
शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ।। २.५९ ।।

     अन्वयः- ते यूयं संयमस्तिमित शम्भोः मनः उमारुपेण अथस्कान्तेन लोहवत् आक्रष्टुं यतध्वम् ।
     मल्लि.— उमेति ।। ते कार्यार्थिनो यूयं संयमस्तिमितं समाधिनिश्चलं शंभोर्मन उमारुपेणोमासौन्दर्येण `रुपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ।।' इति विश्वः । अयस्कान्तेन मणिविशेषेण । `कस्कादिषु च' इति सकारः । लोहवदयोधातुमिव। `तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययो मृग्यः आक्रष्टुमाहर्तुं यतध्वमुद्युक्ता भवत ।। २.५९ ।।

न च गत्यन्तरमस्तीत्याह-

उभे एव क्षमे वोढुमुभयोर्बीजमाहितम् ।
सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम ।। २.६० ।।

     अन्वयः- उभयोः शम्भोः मम वा आहितं बीजं वोढुं क्रमेण शम्भोः सा वा मम च तदीया जलमयी मूर्तिः वा उभे एव क्षमे ।
     मल्लि.—- उभे इति ।। उभयोः शंभोर्मम चाहितं निषिक्तं बीजं तेजो वोढुं सोढुं सा वोमा शंभोरष्टमूर्तेस्तस्येयं तदीया जलमयी मूर्तिर्वा मम । न तृतीयेत्यर्थः । वा शब्दो द्वन्द्वार्थे न त्वन्यार्थे । एतदेवोदाहृत्येत्थमेव व्याख्यातं गणव्याख्याने । अत्र दीपकालङ्कारः । प्राकरणिकयोरुमामहेश्वरयोरप्राकरणिकयोर्ब्रह्मजलमूर्त्योश्चौपम्यस्य गम्यत्वात् । यथाह भोजराजः- `प्रस्तुतानामप्रस्तुतानां चौपम्यस्य गम्यत्वे दीपकम्' इति । न चेयं तुल्योगिता तस्याः केवलप्रस्तुतविषत्वेन केवलाप्रस्तुतविषयत्वेन चोत्थानादिति ।। २.६० ।।

तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः ।
मोक्ष्यते सुरवन्दीनां वेणीवीर्यविभूतिभिः ।। २.६१ ।।

     अन्वयः- तस्य शितिकण्ठस्य आत्मा वः सैनापत्यम् उपेत्य वीर्यविभूतिभिः सुरबन्दीनां वेणीः मोक्ष्यते ।
     मल्लि.— तस्येति ।। तस्य शितिकण्ठस्याष्टमूर्तेरात्मा पुत्रः इत्यर्थः । `आत्मा वै पुत्रनामासि' इति श्रुतेः । वो युष्माकं सेनापतेर्भावः सैनापत्यम् `पत्यन्तपुरोहितादिभ्यो यक्' इति यक्प्रत्ययः । उपेत्य प्राप्य वीर्यविभूतिभिः शौर्यसंपत्तिभिः सुरवन्दीनां वेणीर्मोक्ष्यते विस्रंसयिष्यति । तारकासुरं हनिष्यतीति भावः ।। २.६१ ।।

इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे ।
मनस्याहितकर्तव्यास्तेऽपि देवा दिवं ययुः ।। २.६२ ।।

     अन्वयः- विश्वयोनिः विबुधान् इति व्याहृत्य तिरोदधे । देवा अपि मनसि आहितकर्तव्याः (सन्तः) दिवं ययुः ।
     मल्लि.— इतीति ।। विश्वस्य योनिः कारणम् । `योनिः स्त्रीणां भगस्थाने कारणं तान्त्रिके पणे' इति वैजयन्ती । बिबुधान्सुरानिति व्याहृत्याभिधाय तिरोदधोऽन्तर्हितवान् । ते देवा अपि मनस्याहितं कर्तव्यं यैस्ते तथोक्ताः सन्ता दिवं स्वर्गं ययुः प्रापुः ।। २.६२ ।।

तत्र निश्चित्य कंदर्पमगमत्पाकशासनः ।
मनसा कार्यसंसिद्धौ त्वराद्विगुणरंहसा ।। २.६३ ।।

     अन्वयः- पाकशासनः तत्र कन्दर्पं निश्चित्य कार्यसिद्धौ त्वराद्विगुणरंहसा मनसा अगमत् ।
     मल्लि.— तत्रेति । पाको नाम कश्चिदसुरस्तस्य शासन इन्द्रस्तत्र हरचित्तकर्षणकृत्ये कंदर्पं निश्चित्य । साधकत्वेनेति शेषः । कार्यसंसिद्धौ त्वरयौत्सुक्येन द्वौ गुणौ यस्य तद्‌द्विगुणं द्विरावृत्तं रंहो वेगो यस्य तेन तथोक्तेन । `गुणस्तु वृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । मनसागमत् । सस्मारेत्यर्थः । गमेर्लुङ् । लृदित्त्वाच्च्लेरङादेशः ।। २.६३ ।।

अथ स ललितयोषिद्‌भ्रूलताचारुश्रृङ्गं

रतिवलयपदाङ्के चापमासज्य कण्ठे ।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः

शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ।। २.६४ ।।

     अन्वयः- अथ स पुष्पधन्वा ललितयोषिद्‌भ्रूलताचारुश्रृङ्गं चापं रतिवलयपदाङ्के कण्ठे आसज्य सहचरमधुहस्तन्यस्तचूताऽङ्कुराऽस्त्रः प्राञ्जलिः (सन्) शतमखम् उपतस्थे ।
     मल्लि.— अथेति । अथ स्मरणानन्तरम् । स स्मृत इत्यर्थः । पुष्पं धनुर्यस्य स पुष्पधन्वा कामः । `वा संज्ञायाम्' इत्यनङ् । `ललितं त्रिषु सुन्दरम्' इत्मरः । ललितायाः सुन्दर्या योषितो भ्रुवौ लते इव चारुणी श्रृङ्गे कोटी यस्य तत्तथोक्तं चापम् । रतिः स्मरप्रिया । रतिः स्मरप्रिया' इत्यमरः । तस्या वलयपदानि कङ्कणस्थानान्यङ्कश्चिह्नं यस्य स तथोक्ते कण्ठ आसज्य लगयित्वा । चापकण्ठविशेषणाभ्यां श्रृङ्गारैकनिधेस्त्रिभुवनैकवीरस्य श्रृङ्गारवीरोपकरणेषु तुल्यरसत्वं व्यज्यते । सहचरस्य सख्युर्मधोर्वसन्तस्य हस्ते न्यस्तं चूताङ्कुरमेवास्त्रं यस्य स तथोक्तः प्राञ्जलिः सन् । शतमखमिन्द्रमुपतस्थे सङ्गतवान् । सङ्गतिकरणार्थादात्मनेपदम् । अत्र स्वभावोक्तिः `ननमयययुतेयं मालिनी भोगिलाकैः' इति लक्षणात् ।। २.६४ ।।

इति श्रीमन्महामहोपाध्यायकोलाचलमाल्लिनाथसूरिविरचितया

संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे

महाकाव्ये ब्रह्मसाक्षात्कारो नाम द्वितीयः सर्गः ।