कुमारसम्भवम् - मल्लिनाथः/सप्तदशः सर्गः

← षोडशः सर्गः कुमारसम्भवम् - मल्लिनाथः
सप्तदशः सर्गः
कालिदासः
सप्तदशः सर्गः

इदानीं तारकवधं चिकीर्षुस्तत्रभवान्कालिदासः सप्तदशतमं सर्गमारभते--

दृष्ट्वाभ्युपेतमथ (१)दैत्यपतिं पुरस्ता-

त्सङ्ग्रामकेलिकुतुकेन घन(२)प्रमोदम् ।
योद्धुं मदेन मिमिलुः ककुभामधीशा

बाणान्धकारितदिगम्बरगर्भमेत्य(३) ।। १७.१ ।।

{१.तं च पतिम्.२.प्रसादम्.३.भक्तिम्.}
     अन्वयः- अथ ककुभाम् अधीशाः संग्रामकेलिकुतुकेन घनप्रमोदं बाणाऽन्धकारितदिगम्बरगर्भम् (तथा) अभ्युपेतं दैत्यपतिं पुरस्तात् दृष्ट्वा योद्धुम् एत्य मदेन मिमिलुः ।
     सीo-- दृष्ट्वेति । अथ तारकसंमुखगमनानन्तरम् । एते ककुभामधीशा इन्द्रादयोऽष्टौ दिक्पालाः । संग्रामः समरः स एव केलिः क्रीडा । न तु प्रयत्नसाध्यं कर्मेति भावः । तत्र यत्कुतुकं कौतूहलम् । तदनुभवहेतुक उत्साह इति यावत् । तेन घनः सान्द्रः बहल इति यावत् । यः प्रमोद आनन्दः स यस्य । तथा बाणैरन्धकारितः संजातान्धकारीकृतो दिशामम्बरस्य च गर्भः कुक्षिः । मध्य इति यावत् । येन । तथाभ्युपेतं संमुखमागतं दैत्यपतिं तारकं दृष्ट्वा विलोक्य योद्धुं संप्रहर्तुं मदेन गर्वेण । वीररसानुभावेनेति यावत् । मिमिलुः संयुयुजुः । सर्गेऽस्मिन्वसन्ततिलका वृत्तम्-- `उक्ता वसन्ततिलका तभजा जगौ गः' इति लक्षणात् ।। १७.१ ।।


देवद्विषां परिवृढो विकटं विहस्य

बाणावलीभि(४)रमरान्विकटान्ववर्ष ।
शैलानिव (५)प्रवरवारिधरलो गरिष्ठा-

नद्भिः पराभिरथ गाढमनारताभिः ।। १७.२ ।।

{४.अभितः कुपितो ववर्ष.५.प्रबलवारिधरो गरिष्ठानम्भस्ततीभिः,प्रचुरवारिधरो गरिष्ठानम्भस्तनीभिः.}
     अन्वयः-- अथ देवद्विषां परिवृढ विकटं विहस्य प्रवरवारिधरः गरिष्ठान् शैलान् पराभिः अनारता भिः अद्भिः इव विकटान् अमरान् बाणावलीभिः गाढं ववर्ष ।
     सीo-- देवेति । अथानन्तरं देवद्विषामसुराणां परिवृढो नायकस्तारको विकटं यथा स्यत्तथा । `विकटः सुन्दरे प्रोक्तो विशालविकरालयोः' । इति विश्वः । विहस्य हसित्वा । अट्टाट्टहासं कृत्वेत्यर्थः । अट्टाट्टहासोऽत्र रुडभिव्यञ्जकः. न तु सुरसैन्यविषयिणोऽवहेलनस्य । तत्र शाङ्करैरधिष्ठितत्वात् । विहस्येत्यत्र वेर्व्यथंत्वं नाशङ्कनीयम् । विकटत्वेऽपि विशेषाधानात् । प्रवरः प्रकर्षेण श्रेष्ठः । वर्षाकालिक इति यावत् । स चासौ वारिधरो मेघो गरिष्ठानतिशयगुरूञ्शैलान् । उद्दिश्येति शेषः । पराभिरुत्कृष्टाभिरनारताभिर्निरन्तरं पतन्तीभिरद्भिर्जलैरिव विकटान्करालानमरानिन्द्रादिदेवान् । उद्दिश्येति शेषः । बाणावलीभिः शरपंक्तिभिः कृत्वा ववर्ष वृष्टिमकार्षीत् ।। १७.२ ।।


जम्भद्विषत्प्रभृतिदिक्पतिचापमुक्ता

बाणाः शिताः(१) (२)दनुजनायकबाणसङ्घान् ।
अह्नाय तार्क्ष्यनिवहा इव नागपूगा-

न्सद्यो विचिच्छिदुरलं कणशो रणान्ते ।। १७.३ ।।

{१.शिताम्.२.असुरराजकबाण.}
     अन्वयः- दनुजनायकबाणसङ्घान् जम्भद्विषत्प्रभृतिदिक्पतिचापमुक्ताः शिताः बाणाः नागपूगान् अह्नाय तार्क्ष्यनिवहा इव रणाऽन्ते सद्यः अलं कणशः विचिच्छिदुः ।
     सीo-- जम्भद्विषदिति । दनुजानां दैत्यानां नायकस्य स्वामिनस्तारकस्य सम्बन्धिनो बाणसङ्घाञ्शरसमूहान्कर्मभूतान् । जम्भद्विषत्प्रभृतयो महेन्द्रादयो ये दिक्पतयो दिगधिपास्तैः कर्तृभिः । चापेभ्यो मुक्ता विसृष्टाः शितास्तीक्ष्णा बाणाः शराः । नागपूगान्सर्पव्रजान् । `नागः पन्नगमातङ्गक्रूरचारिषु तोयदे' । इति । `पूगस्तुक्रमुके वृन्दे' । इति च विश्वः । अह्नाय शीघ्रम् । `द्राग्झटित्यञ्जसाह्नाय' इत्यमरः । तार्क्ष्यनिवहा गरुडसमूहा इव । `तार्क्ष्यं रसाञ्जने ताक्ष्यों गरुडे गरुडाग्रजे' । इति विश्वः । रणान्ते संग्राममध्ये सद्यः सपद्यलमतिशयेन कणशो विचिच्छिदुर्बिभिदुः । कणश इति `बह्वल्पे-' ति शस् ।। १७.३ ।।


(१)तान्प्रज्वलत्फलमुखैर्विषमैः(२) सुरारि-

नामाङ्कितैः पिहितदिग्गगनान्तरालैः ।
(३)आच्छादितस्तृणचयानिव (४)हव्यवाह-

श्चिच्छेद सोऽपि सुरसैन्यशराञ्शरौघैः ।। १७.४ ।।

{१.ते,तैः.२.विशिखैः सुरारिम्,समरेऽसुरारिम्.३.प्राच्छादयंस्तृणचयैस्वि.४.हव्यवाहम्.}
     अन्वयः- सः अपि प्रज्वलत्फलमुखैः विषमैः सुराऽरिनामाऽङ्कितैः पिहितदिग्गगनाऽन्तरालैः शरौघैः तान् सुरसैन्यशरान् आच्छादितः हव्यवाहः तृणचयान् इव चिच्छेद ।
     सीo-- तानिति । सोऽपि तारकोऽपि प्रकर्षेण ज्वलन्ति दीप्यमानानि फलानां फलकानाम् । अयोनिर्मितपुरोभागानामिति यावत् । `फलं हेतुकृते जातीफले फलकसस्ययोः' इति मेदिनी । मुखान्यग्राणि येषाम् । अत एव विषमैर्दुःसहैः । तथा सुराऽरिनाम्ना तारक इति व्रणपाट्याङ्कितैयुक्तैः । तथा पिहितमाच्छादितं दिशां गगनस्याम्बरस्य चान्तरालं मध्यं यैस्तथाभूतैः शरौघैर्बाणसङ्घैः कृत्वा तानद्वितीयान्सुरसैन्यस्य देवसैन्यस्य शरान् । आच्छादित उपर्यावृतो हव्यवाहोऽग्निस्तृणचयानिव घासराशीनिव । चिच्छेद ज्वालयति स्मेत्यर्थः । हव्यवाहस्य तृणचयभस्मीकरणे यावान्प्रयत्न उद्भवति तावानेव सुरशरभस्मसात्करणे । इत्यतोऽसुरबाणानां सामर्थ्यातिशयो ध्वन्यत इत्यलंकारेण वस्तुध्वनिः ।। १७.४ ।।


दैत्येश्वरो ज्वलितरोषविशेषभीमः

सद्यो मुमोच युधि यान्विशिखान्सहेलः(५) ।
ते प्रापुरुद्भटभुजङ्गमभीमभावं

(६)गाढं बबन्धुरपि तां(७)स्त्रिदशेन्द्रमुख्यान् ।। १७.५ ।।

{५.सहेलम्.६.वाढम्.७.त्रिदिवेन्द्र.}
     अन्वयः-- ज्वलितरोषविशेषभीमः दैत्येश्वरः युधि सहेलः यान् विशिखान् मुमोच, ते सद्यः उद्भटभुजङ्गमभीमभावं प्रापुः । (अथ च) त्रिदशेन्द्रमुख्यान् तान् गाढं बबन्धुः अपि ।
     सीo-- दैत्येश्वर इति । ज्वलितः प्रदीप्तो यो रोषः क्रोधः । `कोपक्रोधामर्षरोषप्रतिघाः' इत्यमरः । तस्य विशेष आधिक्यं तेन भीमो घोरो दैत्येश्वरस्तारकः । युधि युद्धविषये सहेलः किमेतद्युद्धमित्यनादरसहितः सन् । यान्विशिखान्बाणान् । `विशिखो लोमश शरे' इति विश्वः । मुमोच विससर्ज । ते शराः सद्यः सपद्युद्भटा विकटा ये भुजंगमाः सर्पाः, भीमा भयानकास्तदुभयभावं तदुभयत्वं प्रापुः । सत्यपि भुजंगमत्वे भीमत्वस्यैच्छिकत्वात्पृथग्व्यपदेशः । अथ च त्रिदशेन्द्रमुख्यानिन्द्रप्रभृतींस्तान्देवान्गाढं दृढं यथा तथा बबन्धुरपि । अपिरत्र प्राप्तिक्रियापेक्षया समुच्छयार्थः । `अपिः संभावनाप्रश्नशङ्कागर्हासमुच्चये' । इति विश्वः । इन्द्रप्रभृतयो देवास्तारकोन्मुक्तनागपाशबद्धा बभूवुरित्यर्थः ।। १७.५ ।।


ते नागपाशविशिखैरसुरेण बद्धाः

(१)श्वासानिलाकुलमुखा विमुखा (२)रणस्य ।
दिङ्नायका बलरिपुप्रमुखाः स्मरारि-

सूनोः समीपमगमन्विपदन्तहेतोः ।। १७.६ ।।

{१.श्वासाकुल.२.रणान्तात्.}
     अन्वयः- असुरेण नागपाशविशिखैः बद्धाः श्वासाऽनिलाकुलमुखाः (अत एव) रणस्य विमुखाः बलरिपुप्रमुखाः दिङ्नायकाः विपदन्तहेतोः स्मराऽरिसूनोः समीपम् अगमन् ।
     सीo-- त इति । असुरेण तारकेण नागपाशविशिखैर्नागपाशरूपबाणैः कृत्वा बद्धाः । अत एव श्वासानिलैर्निःश्वासपवनैराकुलानि व्यप्तानि मुखानि येषाम् । अथ एव रणस्य विमुखाः पराङ्मुखाः । भीतस्य च रणवैमुख्यं नानुचितमिति भावः बलरिपुप्रमुखा इन्द्रप्रभृतयो दिङ्नायका अष्टदिगधिपाः कर्तारः विपदोऽन्तो नाशः स एव हेतुः कारणं तस्मात्स्मरारिसनोः कुमारस्य समीपं संनिधिमगमन्प्रापुः ।। १७.६ ।।


दृष्टिप्रपातवशतोऽपि पुरारिसूनो-

स्ते नागपाशघनबन्धविपत्तिदुःखात् ।
इन्द्रादयो मुमुचिरे स्वयमस्य देवाः

सेवां (१)व्यधुर्निकटमेत्य महाजिगीषोः ।। १७.७ ।।

{१.व्यघुश्च पुनरेत्य.}
     अन्वयः- ते इन्द्रादयः देवाः पुराऽरिसूनोः दृष्टिप्रपातवशतः अपि नागपाशघनबन्धविपत्तिदुःखात् मुमुचिरे (अथ) महाजिगीषोः स्वयं विकटम् एत्य सेवां व्यधुः ।। १७.७ ।।
     सीo-- दृष्टीति । त इन्द्रादयो देवाः पुरारिसूनोस्त्रिपुरशत्रुपुत्रस्य दृष्टिर्नेत्रम् । `स्त्रियां दृष्टिः स्त्रियां बुद्धौ लोचने दर्शनेऽपि च' इति विश्वः । तस्य प्रपातः पतनं तस्य वशतो वशेन प्रभुत्त्वेन । प्रभावेणेति यावत् । `वशं मिथ्याप्रभुत्वयोः' इति विश्वः । नागपाशेन घनो दृढो बन्धो बन्धनमेव विपत्तिस्तेन यद्धुःखं ततस्तस्मान्मुमुचिरे मुक्ताः अथ च महाजिगीषोरस्य कुमारस्य स्वयमात्मना न तु परोक्षेण निकटं सांनिध्यमेत्यागत्य सेवां सेवनम् । स्तुतिमिति फलितोऽर्थः व्यधुश्चक्रुः ।। १७.७ ।।


(२)उद्दीप्तकोपदहनोऽथ सुरेन्द्रशत्रु-

रह्नाय सारथिमवोचत चण्डबाहुः ।
बद्धा मया सुरपतिप्रमुखाः प्रसह्य
बालस्य धूर्जटिसुतस्य निरीक्षणेन ।। १७.८ ।।
मुक्ता बभूवुरधुना तदिमान्विहाय
कर्तास्म्यमुं (३)समरभूमिपशूपहारम् ।
तत्स्यन्दनं सपदि वाहय शंभुसूनुं

द्रष्टास्मि दर्पितभुजाबलमाहवाय ।। १७.९ ।।

{२.उद्यत्प्रकोपदहनोऽथ सुरेन्द्रः शत्रुः,उद्दण्डकोपदहनोऽप्यसुरेन्द्रसूनुः.३.अहम्.}
अथ युग्मेनाह--
     अन्वयः- अथ उद्दीप्तकोपदहनः चण्डबाहुः सुरेन्द्रशत्रुः अह्नाय (भो सारथे !) मया प्रसह्य बद्धाः सुरपतिप्रमुखाः बालस्य धूर्जटिसुतस्य निरीक्षणेन मुक्ताः बभूवुः । तत् अधुना इमान् विहाय आहवाय दर्पितभुजाबलम् अमुं शम्भुसूनुं द्रष्टास्मि । (अथ च) समरभूमिं पशूपहारं कर्तास्मि तत् सपदि स्यन्दनं वाहय इति सारथिम् अवोचत ।। १७.८ - १७.९ ।।
     सीo- उद्दीप्तेति । मुक्ता इति च । अथ नागापाशविमोचनानन्तरम् । उद्दीप्तः प्रदीप्तः कोप एव दहनोऽग्निर्यस्य । तथा चण्डौ प्रचण्डौ बाहू यस्य । एवंभूतः सुरेन्द्रशात्रुस्तारकोऽह्नाय झटिति `भो सारथे' मया प्रसह्य बलाद्वद्धा नागपाशवशीकृताः सुरपतिप्रमुखा इन्द्रादयो देवा बालस्य शिशोः, न तु यूनः धूर्जटिसुतस्य शिवपुत्रस्य निरीक्षणेन दर्शनमात्रेण, न तु प्रत्यस्त्रादिप्रयत्नेन, मुक्ता बभूवुः । अनेन शिशुनात्मनिरीक्षणेनैव स्वपक्षवर्तिनो देवा मोचिता अतो महाधन्योऽयमिति भावः । तत्तस्मान्मदीयशत्रूणां पक्षवृत्तित्वेन कृतनागपाशमोचनरूपापराधादिमान्पुरोवर्तिन इन्द्रादिदेवान्विहाय पिरत्यज्य । आहवाय । मया सहाहवं कर्तुमित्यर्थः । दर्पितमभिमानमूलकं भुजाबलं बाहुबलं बाहुवीर्यं यस्य न तु तत्वतः, तथाभूतममुं पुरोवर्तिनं शम्भुसूनुं द्रष्टास्मि द्क्ष्यामि । लुट उत्तमैकवचनम् । अथ च समरभूमौ संग्रामभुवि ये पशवो गृध्रादयस्तेषामुपहारमुपदारुपं कर्तास्मि करिष्यामि । प्रागवलोकितमेनमत्र हत्वा संङ्ग्रामभूमिस्थेभ्यो विहङ्गेभ्योऽत्तुं विभज्य दास्यामीत्यर्थः । तत्तस्मादेवंकार्यत्वात्सपदि सद्य एव स्यन्दनं रथं वाहय प्रापय । अवश्यकर्तव्ये विलम्बानौचित्यादिति भावः । इति सार्धैकपद्योक्तं सारथिमवोचत जगाद । `नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः ।। १७.८ - १७.९ ।।


तत्स्यन्दनः सपदि सारथिसंप्रणुन्नः

(१)प्रक्षुब्धवारिधरधीरगभीरघोषः ।
(२)चण्डश्चचाल दलिताखिलशत्रुसैन्य-

मांसास्थिशोणित(३)विपङ्कविलुप्तचक्रः ।। १७.१० ।।

{१.प्रारब्ध.२.चण्डं.३.शोणितसुपङ्कविलुप्तवेगः,शोणितपङ्कविलुप्तचक्रः.}
     अन्वयः-- प्रक्षुब्धवारिधरधीरगभीरघोषः (तथा) दलिताऽखिलशत्रुसैन्यमांसाऽस्थिशोणितविपङ्कविलुप्तचक्रः चण्डः तत्स्यन्दनः सपदि सारथिसंप्रणुन्नः चचाल ।
     सीo-- तत्स्यन्दन इति । प्रक्षुब्धः कोपाविष्टः । अनेन प्रलयकालीन इति व्यज्यते प्रायस्तत्रैव तस्य क्रोधाविष्टत्वदर्शनात् । यो वारिधरो मेघस्तस्य घोष इव धीरो गभीरो घनश्च घोषो यस्य तथोक्तः । तथा दलितं चूर्णीकृतमखिलं समस्तं यच्छत्रसैन्यं तस्य मांसमस्थीनि शोणितविपङ्को रुधिरकर्दमश्चेत्येतैर्विलुप्तानि चक्राणि चरणानि यस्य । अत एव चण्डः प्रचण्डस्तत्स्यन्दनस्तारकरथः सपदि स्वामिनोऽनुशासनक्षण एव न तु मुहूर्तमात्रं स्थित्वेति भावः । सारथिना संप्रणुन्नश्चलितुं नोदितः सन् चचाल ।। १७.१० ।।


दृष्ट्वा रथं प्रलयवातचलद्गिरीन्द्र-

कल्पं दलद्वलविराव(१)विशेषरौद्रम् ।
अभ्यागतं सुररिपोः सुरराजसैन्यं

क्षोभं जगाम परमं भयवेपमानम् ।। १७.११ ।।

{१.विराम.}
     अन्वयः- प्रलयवातचलद्गिरीन्द्रकल्पं (तथा) दलद्बलविरावविशेषरौद्रम् अभ्यागतं सुररिपोः रथं दृष्ट्वा भयवेपमानं सुरराजसैन्यं परमं क्षोभं जगाम ।
     सीo-- दृष्ट्वा । प्रलयवातेन युगान्तकालप्रभञ्जनेन चलतोड्डीयमानेन गिरीन्द्रकल्पं गिरीन्द्रेण हिमालयेनेषन्न्यूनम् । हिमालयौपम्यं धवलवसनवेष्टितत्वात् । `ईषदसमाप्तौ कल्पप्' इति कल्पप्प्रत्ययः । तथा दलतामुपरि वेगपूर्वकवशाच्चूर्णीभवतां बलानां देवसैन्यानां यो विरावो हाहाहाहेति रुदितं तेन कृत्वा विशेषरौद्रमतिशयभयानकमात्मीयघोरारवरौद्रत्वाश्रयीभूत्वेऽप्यतिजवप्रपतनचूर्णीकृतसकलसुरसैन्यविहितमहाघोरविरावधारणाजनितरौद्रत्वधारणानुकूलव्यापाराश्रयीभूतमित्यर्थः । तथाभ्यागतं संमुखमागतं सुररिपोस्तारकस्य रथं दृष्ट्वा भयेन वेपमानं कम्पमानं सुरराजस्य महेन्द्रस्य सैन्यं सेनाजनसमूहः कर्तृ । परममतुलं क्षोभं व्यथां जगाम प्राप । तदीयरथावलोकनादेव क्षोभप्राप्तिः किं पुनस्तदीयाकृतिविलोकनादिति भावः ।। १७.११ ।।


प्रक्षुभ्यमाणमवलोक्य दिगीशसैन्यं

शंभोः सुतं (२)कलहकेलिकुतूहलोत्कम् ।
उद्दामदोःकलितकार्मुकदण्डचण्डः

प्रोवाच वाचमुपगम्य स कार्त्तिकेयम् ।। १७.१२ ।।

{२.शम्भुतान्तव शिशो.}
     अन्वयः- स दिगीशसैन्यं प्रक्षुभ्यमाणम् अवलोक्य उद्दामदोःकलितकार्मुक दण्डचण्डः कलहकेलिकुतूहलोत्कं शम्भोः सुतं कार्त्तिकेयम् उपगम्य वाचं प्रोवाच ।
     सीo-- प्रक्षुभ्यमाणमिति । स तारको दिगीशसैन्यं देवसैन्यं प्रकर्षेण क्षुभ्यमाणं क्षोभं प्राप्नुवत् । बिभ्यदिति यावत् । क्षुभ्यतेर्दैवादिकत्वं तदाकृतिगणत्वाद्बोध्यम् । तथाभूतमवलोक्य दृष्ट्वोद्दामयोरुद्भटयोर्दोष्णोर्बाह्वोः कलितेन निहितेन कार्मुकरूपदण्डेन चण्डः सन् । कलहः संग्रामरूपो विग्रहः स एव केलिः, न तु प्रयत्नसाध्यं कर्म, तत्र यत्कुतूहलं तत्रोत्कम् । तदभिलाषुकमित्यर्थः । तथा शंभोः शिवस्य सुतं पुत्रम् । अनेन तारकवीररसस्यानुभाव उक्तः । कार्त्तिकेयं कुमारमुपगम्य समीपं गत्वा वाचं प्रोवाचावोचत् ।। १७.१२ ।।


इतः परम् `रे' इत्यादिभिस्त्रिभिः श्लोकैर्वाचमेव प्रपञ्चयति -

रे (१)शंभुतापसशिशो ! बत मुञ्च मुञ्च

दोर्दर्पमत्र(२) विरम (३)त्रिदिवेन्द्रकार्यात् ।
(४)शस्त्रैः किमत्र भवतोऽनुचितै(५)रतीव

(६)बालत्वकोमलभुजातुलभारभूतैः ।। १७.१३ ।।

{१.शम्भुतान्तव शिशौ.२.दोहृद्यम्.३.त्रिदिवेश.४.शश्वत्.५.असारैः,चरित्रैः.६.बालत्वकोमलभुजाक्लमभारभूतैः,बालाब्जकोमलभुजाक्रमभीरुभूतैः.}
     अन्वयः-- रे शम्भुतापसशिशो ! अत्र दोर्दर्पं मुञ्च मुञ्च (अथ च) त्रिदिवेन्द्रकार्यात् विरम । अतीव बालत्वकोमलभुजाऽतुलभारभूतैः अत्र भवतः अनुचितैः शस्त्रैः किम् ?
     सीo-- रे इति । रे इति नीचोक्तिसंबोधने । भोः शंभुतापसशिशो शंभुः शिवः स एव तापसस्तपस्वी । अनेन महाकृपणत्वं व्यज्यते । तस्य शिशो ! कौमारावस्थानुभवरासिक, अत्र मयि विषये । विधीयमानमिति शेषः । दोर्दर्पं भुजदण्डगतवीर्यहेतुकमभिमानम् । `दर्पोऽहंकारकस्तूर्योः' इति विश्वः । मुञ्च मुञ्च, सर्वथैव मुञ्चेत्यर्थः । अथ च त्रिदिवेन्द्रकार्यान्मदीयवधरुपमहेन्द्रविधेयाद्विरम । अनुद्युक्तो भवेत्यर्थः । `व्याङ्परिभ्यो रमः' इति परस्मैपदम् । नन्वनेकसाधनकर्माश्रयीभूतत्वेन त्वदीयवधं चिकीर्षुरहं कथं विरमामीत्याशङ्क्य न हि तव साधनानि मयि विषये परिपक्वि माणि भविष्यन्तीत्याह-अतीव बालस्य भवतः सबन्धिनोः कोमलभुजयोर्बालत्वादतिशयपेलवबाह्वोरतुलं बहुभारभूतैः । दुर्वहैरित्यर्थः । अथ एवात्र मय्यनुचितैरयोग्यैः शस्त्रैः कृपाणप्रभृतिभिः किम् । अपि तु न किमपीति भावः ।। १७.१३ ।।


(४)एवं त्वमेव(५) तनयोऽसि गिरीशगौर्योः

किं यासि कालविषयं विषमैः शरैर्मे ।
(६)सङ्ग्रामतोऽपसर जीव पितुर्जनन्या

(७)स्तूर्णं प्रविश्य वरमङ्कतलं विधेहि ।। १७.१४ ।।

{४.एकः.५.एकतनयः.६.तत्रासनः.७.पूर्णम्.}
     अन्वयः- (रे शिशो !) एवं विषमैः मे शरैः कालविषयं किं यासि ? (यतः) गिरीशगौर्योः त्वम् एव तनयः असिं । (रे शिशो! संग्रामतः) अपसर, जीव । पितुः जनन्या अङ्कतलं तूर्ण प्रविश्य वरं विधेहि ।
     सीo-- एवमिति । रे शिशो, एवं नाम मद्विषयको यो दोर्दर्पस्तस्याङ्गीकारे रसिकः । त्वमिति शेषः । `एवं प्रकारोपमयोरङ्गीकारावधारणे' इति विश्वः । विषमैर्दुःसहैर्मे मम शरैर्बाणैः कृत्वा कालविषयं दण्डधरदेशं संयमिनीं पुरीमित्यर्थः । किं किमर्थं यासि प्राप्नोषि । `नीवृज्जनपदो देशविषयौ तूपवर्तनम्' इत्यमरः । ननु कालविषयप्राप्तौ कैव नः खलु वीराणां हानिरित्याशङ्क्याह-यतो गिरीशगौर्योः शिवपार्वत्योः । अत्र गिरीशस्याभ्यर्हितत्वाद्वह्वचोऽपि पूर्वनिपातः । त्वमेव तनयोऽसि पुत्रोऽसि । अथ कृच्छ्रलब्धैकपुत्रस्य वृद्धस्य तनयकर्मककालविषयप्राप्तिरतिदुःखावहा भवतीति भावः । एतेन मया सह भवता न कदापि योद्धव्यमिति व्यज्यते । तर्हि किं कर्तव्यं मयेत्यत्राह-संग्रामत इति । रे शिशो! संग्रामतः समरसकाशादपसर पलायस्व । मदग्रे मा तिष्ठेत्यर्थः । अत एव जीव प्राणान्धरस्व । इतः पलायनमेव तव परमं जीवातुरिति भावः । ननु पलायनपूर्वकजीवनेन कः पुरुषार्थो भविष्यतीत्यत आह-पितुरिति । पितुर्जनकस्य । तथा जनन्या मातुश्च । अङ्कतलमुत्सङ्गतलं तूर्ण शीघ्रं प्रविश्योपविश्य वरं श्रेष्ठम् । कृतार्थमिति यावत् । विधेहि कुरु । पुत्रस्यायमेव परमो धर्मः, यन्मातापित्रोर्येन केनापि सद्व्यपारेण चित्तस्य परितोषकृत्याश्रयो भवति । कथं संग्रामतः पलायनं सद्व्यापारपदवाच्यमित्यस्याः शङ्कायाः पूर्वश्लोके तापसपदेन निवर्तितत्वात् ।। १७.१४ ।।


सम्यक्स्वयं किल विमृश्य गिरीशपुत्र !

जम्भद्विषोऽस्य जहिहि प्रतिपक्षमाशु ।
एष स्वयं पयसि मज्जति (१)दुर्विगाह्ये

पाषाणनौरिव निमञ्जयते पुरा त्वाम् ।। १७.१५ ।।

{१.दुर्विगाहे,दुर्हिगाढे.}
     अन्वयः- हे गिरीशपुत्र ! (त्वम्) सम्यक् विमृश्य अस्य जम्भद्विषः प्रतिपक्षं (माम्) स्वयं किल आशु जहिहि । (रे शिशो !) एषः पुरा दुर्बिगाह्ये पयसि पाषाणनौः इव स्वयं मज्जति, त्वां च विमज्जयते ।
     सीo-- सम्यगिति । भो गिरीशपुत्र शिवपुत्र ! त्वं सम्यक्साधु यथा स्यात्तथा विमृश्य विचार्य । साधुविचारणमत्रोदर्कविचारणम् । तत्कृत्वास्य पुरोवर्तिनो जम्भद्विष इन्द्रस्य प्रतिपक्षं मां स्वयं किलात्मनैव, न तु परोक्षेण । प्रयोज्यकर्त्रेति यावत् । आशु सत्वरं जहिहि नाशय । साधु विचार्यैव मदीयहननकृत्याश्रयो भव । `सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ।' न्यायादिति भावः । प्रस्तुतेर्विमृश्य करणेन कैव विपत्तिरित्याशङ्क्याह-- एष इति । रे शिशो, एष जम्भद्विट् पुरोऽग्रे दुःखेन कृच्छ्रेण विगाह्य उत्तार्य पयसि नीरे । मदीयनाराचवर्षणरुप इत्यर्थः । पाषाणनौरिव प्रस्तरतरिरिव स्वयं मज्जति मङ्क्ष्यति । त्वां च निमज्जयते । निमज्जयिष्यत इत्यर्थः । `यावत्पुरे-' ति भविष्यदर्थे लट् । यथा पाषाणघटिता नौका पयः- पतिता मज्जति, आत्मोपर्यारुढांश्च निमज्जयति । स्वात्माश्रयीभूतं त्वामपि तत्र पातयिष्यतीति वाच्यार्थः । अथ आत्मजीवनाभिलाषुकत्वपक्ष एतदाश्रयीभूतत्वं विहाय वृद्धयोर्मातापुत्रोः समीपमेव गन्तव्यम् । तेनेहामुत्र च महान्ति श्रैयांसि भविष्यन्तीति व्यङ्ग्यार्थः । तेनात्रालङ्कारेण वस्तुध्वनिः ।। १७.१५ ।।


इत्थं निशम्य वचनं युधि तारकश्च

कम्प्राधरो विकचकोकनदारुणाक्षः ।
(१)क्षोभात्त्रिलोचनसुतो धनुरीक्षमाणः

प्रोवाच वाचमुचितां (२)परिमृश्च शक्तिम् ।। १७.१६ ।।

{१.कोपात्.२.परिमृज्य.}
     अन्वयः- युधि तारकस्य इत्थं वचनं निशम्य क्षोभात् कम्प्राऽधरः विकचकोकनदाऽरुणाक्षः त्रिलोचनसुतः शक्तिं परिमृश्य धनुः ईक्षमाणः (सन्) उचितां वाचं प्रवोच ।
     सीo-- इत्थमिति । युधि संग्रामे स्थितस्य तारकस्य संबन्धीत्थमेवंभूतं वचनं निशम्य श्रुत्वा क्षोभात्क्रोधाद्धोतोः कम्प्रः कम्पनशीलोऽधरोष्ठो यस्य । क्रोधवशादधरविस्फुरणं लोकप्रसिद्धमेव । तथा विकचकोकनदवद्विलसद्रक्तोत्पलवदरुणे शोणिते अक्षिणी नेत्रे यस्य । क्रोधवशादरुणनेत्रत्वमपि प्रसिद्धमेव । एवंभूतस्त्रिलोचनसुतः कुमारः शक्तिमात्मीयवीर्यवैभवं परिमृश्य तुलयित्वा । मदीयवीर्यापेक्षया किमेतदीयवीर्यमित्यनादरपूर्वकमात्मीयशक्तेराधिक्यं परामृश्येत्यर्थः । धनुरीक्षमाणः पश्यन्सन् । अनेन त्वां क्षणादेव निहन्मि, सावधानो भव, मदीयैतद्धनुरग्रे कुतो यास्तसीति व्यज्यते । तेन वस्तुना वस्तुध्वनिः । उचितां योग्यां वाचं वचनं प्रोवाच प्रोचे ।। १७.१६ ।।


दैत्याधिराज भवता (१)यदवादि गर्वा-

त्तत्सर्वमप्युचितमेव तवैव किं तु ।
द्रष्टास्मि ते प्रवरबाहुबलं वरिष्ठं

शस्त्रं गृहाण कुरु कार्मुकमाततज्यम् ।। १७.१७ ।।

{१.यदवोचि.}
     अन्वयः- हे दैत्याऽधिराज ! भवता गर्वात् यत् अवादि, तत् सर्वम् अपि तव उचितम् एव । किन्तु वरिष्ठं ते प्रवरबाहुबलं द्रष्टास्मि । (अतः) शस्त्रं गुहाण, कार्मुकम् आततज्यं कुरु ।
     सीo-- दैत्त्येति । भो दैत्यानामधिराज तारकसंज्ञक महाराज ! भवता त्वया गर्वाद्धेतोर्यदवादि `रे शंभुतापस-' (१३) इत्यादिना युदुक्तं तत्सर्वमपि तवोचितमेव योग्यमेव । अभिमानिनो महाराजस्य तव बालत्वाद्वराकीभूतमदवज्ञा योग्यैव । ननु मदुक्त्यौचित्याज्ञानवतस्तत्र कथमयं संग्रामकरणसमारम्भ इति चेत्तत्राह-किं त्विति । किंतु वरिष्ठमतिशयश्रेष्ठं ते त्वत्संबन्धिप्रवरौ प्रकृष्टश्रेष्ठौ यौ बाहू भुजौ तयोर्बलं वीर्यमेव द्रष्टास्मि द्रक्ष्यामि । त्वदीयपराजयं कृत्वा मदीयो विजयः स्यादित्यभिलाषे न मम तात्पर्यम्, किंतु लोकारोप्यमाणवीरताश्रयीभूतेन मया त्वदीयवीरतावलोकनमेव युद्धकरणे तात्पर्यम् । वस्तुतस्तु मयि वीरत्वासम्भवात्त्वया सह युद्धकरणानौचित्येऽपि तत्र प्रवृत्तिः केवलं बालत्वजनितबालिशत्वमेवोद्भावयति । अथोऽपि भवता क्षन्तव्यम् । `जनक इव शिशुत्वेऽसुप्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः' इत्यादिन्यायादिति भावः । अतो युद्धकरणपक्षे शस्त्रं कृपाणादिकं गृहाणादत्स्व । कार्मुकं धनुराततज्यं विस्तृतमौर्वीकं कुरु । युद्धार्थं शस्त्रसंधानेन सज्जो भवेति वाच्यार्थः ।। १७.१७ ।।


इत्युक्तवन्तमवदत्त्रिपुरारिपुत्रं

दैत्यः क्रुधौष्ठमधरं किल निर्विभिद्य(१) ।
युद्धार्थमुद्भट(२)भुजाबलदर्पितोऽसि

बाणान्सहस्व मम (३)सादितशत्रुपृष्ठान् ।। १७.१८ ।।

{१.निर्विभुज्य.२.भुजावलिदर्पितः.३.शातितशत्रुपृष्ठान्,शोणितरक्तपृष्ठान्.}
     अन्वयः- इति उक्तवन्तं त्रिपुराऽरिपुत्रं दैत्यः क्रुधा अधरम् ओष्ठम् निर्विभिद्य (रे बाल !) सादितशत्रुपृष्ठान् मम बाणान् सहस्व । (यतः त्वम्) युद्धाऽर्थम् उद्भटभुजाबलदर्पितः असि (इति) अवदत् ।
     सीo-- इतीति । इत्युक्तवन्तं निगदितवन्तं त्रिपुरारिपुत्रं कुमारं कर्म । दैत्यस्तारकः क्रुधा निमित्तेनाधरं नीचैरोष्ठम् । अधरोष्ठमित्यर्थः । निर्विभिद्य दन्तैश्चर्वयित्वा रे बाल, सादितं विभिन्नम् शत्रुपृष्ठं यैर्न तु मुखम् । मदीयबाणानां तदुद्देशेनाभिगच्छतां प्रहृतिसहनासमर्थतया पलायमानत्वात् । एवंभूतान्मम बाणान्सहस्व । अपि तु त्वया न सहिष्यन्ते इति ध्वन्यते । ननु बालत्वात्कथमहं सहे इत्याह--यतस्त्वं युद्धार्थं युद्धकरणायोद्भटे विपरीतलक्षणयानुद्भटे ये भुजे बाहू तयोर्बलं वीर्यं तेन दर्पितोऽसि संजातगर्वोऽसि । विपरीतलक्षणापन्नभुजानुद्भटत्वमेव न सहिष्यन्त इति व्यङ्ग्ये हेतुः । अतो मया सह कथंचिदपि त्वया न योद्धव्यमिति फलितोऽर्थः । `द्वौ परौ द्वयोः । भुज बाहू' इत्यमरः ।। १७.१८ ।।


दुष्प्रेक्षणीयमरिभिर्धनुराततज्यं

सद्यो विधाय विषमान्विशिखान्न्यधत्त ।
स क्रोधभीमभुजगेन्द्रनिभं स्वचापं

(४)चण्डं प्रपञ्चयति जैत्रशरैः कुमारे ।। १७.१९ ।।

{४.चण्डं प्रपञ्चयति जैत्रशरे,चण्डयभं यशसि जैत्रशरं कुमारः,कुमारे.}
     अन्वयः- स कुमारे क्रोधभीमभुजगेन्द्रनिभं चण्डं स्वचापं जैवशरैः प्रपञ्चयति (सति) अरिभिः दुष्प्रेक्षणीयं धनुः सद्यः आततज्यं विषमान् विशिखान् न्यधत्त ।
     सीo-- दुरिति । स तारकः कुमारे क्रोधेन भीमो यो भुजगेन्द्रस्तेन निभं सदृशम् अत एव चण्डं प्रचण्डं स्वचापमात्मधनुर्जैत्रशरैर्जयसाधनबाणैः प्रपञ्चयति संदधति सति । अरिभिर्वैरिभिदुष्प्रेक्षणीयं दुरवलोकनीयं धनुः सद्यः सः सपद्याततज्यं विस्तृतप्रत्यञ्चं विधाय कृत्वा विपमानतितीक्ष्णान्विशिखान्बाणान्न्यधत्त निदधे । कुमारं सज्जमवलोक्य स्वयमपि तथाभूदिति भावः ।। १७.१९ ।।


कर्णान्तमेत्य दितिजेन विकृष्यमाणं

(१)कोदण्डमेतदभित (२)सुषुवे शरौघान् ।
व्योमाङ्गणे लिपिकरान्कि(३) रणप्ररोहैः

(४)सान्द्रैरशेषककुभां (५)पलितं करिष्णून् ।। १७.२० ।।

{१.कोदण्डदण्डम्.२.शुशुभे.३.स्वकरप्रहासान्.४.अग्नै.५.पतिवत्करिष्यत्.}
     अन्वयः-- दितिजेन कर्णान्तम् एत्य विकृष्यमाणम् एतत् कोदण्डं सान्द्रैः किरणप्ररोहैः व्योमाङ्गणे लिपिकरान् (तथा) अशेषककुभां पलितं करिष्णून् शरौघान् अभितः सुषुवे ।
     सीo-- कर्णान्तमिति । दितिजेन तारकेण कर्णान्तं श्रवणप्रान्तमेत्य प्रापय्य । अन्तर्भावितणिजर्थः । आकर्णान्तमित्यर्थः । विकृष्यमाणं विस्तार्यमाणमेतत्कोदण्डं धनुः सान्द्रैः सघनैः किरणप्ररोहैर्मयूखाङ्कुरैः कुत्वा व्योमाङ्गण आकाशचत्वरे लिपिकरांल्लेपनकर्तृन् । तथा अशेषककुभां समस्तदिशां सम्बन्धि पलितंकरिष्णूञ्जराजनितशैक्ल्यं कर्तुं शीलं येषाम् । `अलंकृञ्-' इत्यादिना खिष्णुच् । एवंभूताञ्शरौघान्बाणंसंघानभितः सर्वतः सुषुवे प्रासूत । कुमारोद्देशेन तारकनिःक्षिप्तविशिखसमूहैर्व्योमदिशश्च व्याप्ता बभूवुरित्यर्थः । अनेन वाच्यार्थेन मदीयविशिखनिचयव्याप्यमानोऽयं बाल इतिकर्तव्यताहीनः सन्नन्तरेव निरुद्धश्वासतया प्रयत्नमन्तरैव मरिष्यति किं पुनरायोधनप्रयत्नेनेति व्यङ्ग्यार्थस्य प्रतीयमानत्वाद् गम्योत्प्रेक्षोत्थापिततद्गुणालङ्कारेण वस्तुध्वनिः ।। १७.२० ।।


बाणैः सुरारिधनुषः प्रसृतैरनन्तै-

र्निर्घोषभीषितभटो(१) लसदंशुजालैः ।
अन्धीकृताखिलसुरेश्वरसैन्य(२) ईश-

सूनुः कुतोऽपि विषयं न जगाम दृष्टेः ।। १७.२१ ।।

{१.भटैः.२.सैन्यकोऽसौ छिन्नाकृतिः सः,सैन्यकैः स छन्नः कुतोपि.}
     अन्वयः- सुराऽरिधनुषः प्रसृतैः अनन्तैः लसदंशुजालैः बाणैः अन्धीकृताऽखलसुरेश्वरसैन्ये निर्धोषभीषितभटः ईशसूनुः कुतः अपि दृष्टेः विषयं न जगाम ।
     सीo-- बाणैरिति सुरारेस्तारकस्य धनुषः कार्मुकसकाशात्प्रसृतैः निःसृतैरिति फलितोऽर्थः । तथानन्तैरपारैः । असंख्यैरिति यावत् । लसद्दीप्यदंशुजालं किरणजालं येषाम् अनेन सोल्का बाणा निःक्षिप्ता इति व्यज्यते । तथाभूतैर्बाणैः कर्तृभिः । अन्धीकृतं सर्वत आच्छादितत्वात्प्रतिरुद्धविलोचनीकृतसकलजनम् । अखिलं सर्वं यत्सुरेश्वरसैन्यमिन्द्रसैन्यं तत्र मध्ये । `यतश्च निर्धारणम्' इति सप्तमी । निर्धोषेण निर्ह्रादेन भीषिता भयं प्रापिता भटा योधास्तारकपक्षवर्तिनो येन एवंभूत ईशसूनुः कुमारः कुतोऽपि कुत्राऽपि । सप्तम्यर्थे तसिः दृष्टेर्विषयं गोचरं न जगाम । तारकपरिक्षिप्तशितशतशरगणैः सर्वत आच्छादितत्वात्कुत्रासौ कुमारो गत इति चिन्तयतां सैनिकानां दृगिन्द्रियग्रहणविषयतासम्बन्धावच्छिन्नकोटिगणनाबहिर्भूतोऽभूदिति भावः । `विषयो गोचरे देशे' इति मेदिनी ।। १७.२१ ।।


देवेन मन्मथरिपोस्तनयेन गाढ-

माकर्णकृष्टमभितो धनुराततज्यम् ।
बाणानसूत निशितान्युधि(३) यान्सुजैत्रां(४)-

स्तैः सायका (५)बिभिदिरे सहसा सुरारेः ।। १७.२२ ।।

{३.विविधान्.४.विजैत्रैः,विजैत्रान्.५.विविदिरे.}
     अन्वयः-- मन्मथरिपोः तनयेन देवेन गाढम् आकर्णकृष्टम् आततज्यं धनुः युधि अभितः सुजैत्रान् निशितान् यान् बाणान् असूत, तैः सुराऽरेः सायकाः सहसा विभिदिरे ।
     सीo- देवेनेति । मन्मथरिपोः शिवस्य तनयेन पुत्ररूपेण देवेन कुमारेण गाढं दृढं यथा तथा कर्णकृष्टं कर्णं मर्यादीकृत्य कृष्टमाकृष्टम् । तथाततज्यं विस्तृतमौर्वीकं धनुः कर्तृ । युध्यायोधनेऽभितः सर्वतः जैत्राञ्जयनशीलान्निशितांस्तीक्ष्णान्बाणानसूत । कुमाराकृष्टाद्धनुषः सकाशान्निशिता ये बाणा निःसृता इत्यर्थः । तैर्बणैः कतृभिः । सुरारेस्तारकस्य सायका बाणा बिभिदिरे भिन्नाः । कर्मणि लिट् । अनेन वाच्येन यथा यामिनीनामन्धतमसमम्बरमणिकिरणसमूहेन दूरीक्रियते, तथा कुमारनिक्षिप्तप्रज्वलद्धोरायमाणसायकनिकरेण तारकनिक्षिप्तसायकजनितमन्धतमसं निराकृतमित्युपमा व्यज्यते । अतोऽत्र वस्तुनालंकारध्वनिः ।। १७.२२ ।।


रेजे सुरारिशरदुर्दिनके निरस्ते

(१)सद्यस्तरां निखिलखेचरखेद(२)हेतौ ।
देवः(३) प्रभाप्रभुरिव स्मरशत्रुसूनुः

प्रद्योतनः सुघनदुर्धरधामधामा(४) ।। १७.२३ ।।

{१.सद्यः स्वयम्.२.खिन्नदेहे.३.देवप्रभोः प्रभुः.४.धाम.}
     अन्वयः- निखिलखेचरखेदहेतौ सुराऽरिशरदुर्दिनके सद्यस्तरां निरस्ते (सति) सुघनदुर्धरधामधामा प्रद्योतनः स्मरशत्रुसूनुः प्रभाप्रभुः देवः इव रेजे ।
     सीo-- रेज इति । निखिलाः समस्ता ये खेचराः सूर्यादयस्तेषां खेदस्य शरीरसंबन्धजनितदहनहेतुकदुःखस्य हेतौ निदाने सुरारेस्तारकस्य शरास्तैर्यद्दुर्दिनकं मेघच्छन्नदिवसस्तस्मिन्सद्यस्तरामतिसत्वंरं निरस्ते दूरीकृते सति । सुतरां घनं सान्द्रं दुर्धरं दुर्द्धर्षणीयम् । दुःसहमिति यावत् । तथभूतं यद्धाम तेजस्तस्य धाम स्थानम् । अत एव प्रकर्षेण द्योतते शोभते । कर्तरि ल्युट् । अथवा नन्द्यादित्वाल्ल्युः । तथाभूतः स्मरशत्रुसूनुः कुमारः । प्रभायाः कान्त्याः प्रभुर्देवः सूर्य इव । रेजे बभौ । यथा मेघजनितदुर्दिनोन्मुक्तोऽम्बरमणिः शोभते, तथा तारकविकीर्णसायकजनितदुर्दिनोन्मुच्यमानोऽसौ कुमारो रराजेत्यर्थः ।। १७.२३ ।।


तत्राथ दु सहतरं समरे (१)तरस्वी

(२)धामाधिकं दधति धीरतरं कुमारे ।
मायामयं समरमाशु महासुरेन्द्रो

माया(३)प्रचारचतुरो रचयांचकार ।। १७.२४ ।।

{१.तरसा.२.धामाधिकं दधतिधीरतरे,धामादधादधिकधीरतरः.३.प्रपञ्च.}
     अन्वयः- अथ तत्र कुमारे धीरतरं धाम अधिकं दुःसहतरं दधति (सति) समरे तरस्वी भायप्रचारचतुरः महासुरेन्द्रः मायामयं समरम् आशु रचयाञ्चकार ।
     सीo-- तत्रेति । अथानन्तरं तत्र कुमारे धीरतरं गम्भीरतातिशयशालि धाम तेजोऽधिकं दुःसहतरं दधति सति । `अयं बालोऽपि मदपेक्षयाधिकतरधामवान् अतः शस्त्रयुद्धेन नैव धर्षणीय इति मनोविषयविचारकर्तृकता व्यज्यते । समरे युद्धे तरस्वी बलवान्महानसुराणामिन्द्रस्तारको मायामयं मायारुपं समरं युद्धमाशु सत्वरं रचयांचकार निर्ममे । शस्त्रैरधर्षणीयोऽयं मायाप्रधानैरस्त्रैः पराजयं प्राप्स्यतीति बुद्ध्या मायारचनापरो बभूवेत्यर्थः ।' यतो मायाप्रचारे मायानिर्माणे चतुरः कुशलः ।। १७.२४ ।।


अह्नाय कोपकलुषो विकटं विहस्य

(४)व्यर्थां समर्थ्य वरशस्त्रयुधं कुमारे ।
जिष्णु(५)र्जगद्विजयदुर्ललितः सहेलं

वायव्यमस्त्रमसुरो धनुषि न्यधत्त ।। १७.२५ ।।

{४.व्यर्थम्.५.जिष्णोः.}
     अन्वयः- जिष्णुः जगद्विजयदुर्ललितः (तथा) कोपकलुषः असुरः विकटं विहस्य (वथा) कुमारे वरशस्त्रयुधं व्यर्था समर्थ्य सहेलं वायव्यम् अस्त्रम् अह्नाय धनुषि न्यधत्त ।
     सीo-- अह्नायेति । जिष्णुर्जयनशीलः, अत एव जगतां विजयेन दुर्ललित उद्भटः । तथा कोपेन क्रोधेन निमित्तेन कलुषोऽनच्छः । आविल इति यावत् । `कलुषोऽनच्छ आविलः' । इत्यमरः । असुरस्तारको विकटं करालं यथा स्यात्तथा विहस्य । इदानीं त्वां जेष्यामीति कुतो गमिष्यसीति विकटहासेन व्यज्यते । तथा कुमारे विषये वरैः श्रेष्ठैः शस्त्रैः कृत्वा युधं युद्धम् । `समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः' इत्यमरः । व्यर्थां फलराहित्येन निरर्थकां समर्थ्यं सिद्धान्तयित्वा । निश्चित्येति यावत् । सहेलं सानादरम् । अयं मायोचितो नास्ति व्यर्थमेवात्र मायायुद्धमित्यवहेलनासहितं यथा स्यात्तथा । वायव्यं वायुदेवताकमस्त्रमह्नाय झटिति धनुषि न्यधत्त निदधे ।। १७.२५ ।।


(१)संधानमात्रमपि यस्य युगान्तकाल-

(२)भूतभ्रमं पुरुषभीषणधोरघोषः ।
उद्धूतधूलिपटलैः(३) पिहिताम्बराशः

प्रच्छन्नचण्डकिरणो (४)व्यसरत्समीरः ।। १७.२६ ।।

{१.संधानमात्रसममस्यः,सन्धानकालसममस्यः.२.भूतभ्रामः.३.पटलीपिहिताम्बरान्तः,पटलीपिहिताम्बराशः,पटलीपिहिताम्बराङ्गः.४.व्यहरत्.}
     अन्वयः- यस्य सन्धानमात्रम् अपि युगाऽन्तकालभूतभ्रमं परुषभीषणघोरधोष- उद्धतधूलिपटलैः पिहिताऽम्बराशः (तथा) प्रच्छन्नचण्ड किरणःसमीरः व्यसरत् ।
     सीo-- संधानमिति । यस्य वायव्यास्त्रस्य संधानमात्रमपि कोदण्डे प्रक्षेपणार्थमारोपणमात्रमपि युगान्तकाल इव भूतानां प्राणिनां भ्रमो भ्रान्तिरोगो येन तथाभूतम् । यस्य प्रक्षेपणेनेति शेषः । परुषः कठोरो भीषणो भयदायी घोरो महान् । परुषेण भयदत्वं दीर्घत्वेन भयदत्वं चेत्युभयविधस्य भयदायित्वस्य विवक्षणत्वान्न पौनरुक्त्यम् । तथाविधो घोष आरवो यस्य । तथोद्धूतान्युपर्युत्पातितानि यानि धूलिपटलानि रजोमण्डलानि तैः कृत्वा पिहिता आच्छादिता अम्बरं व्योमदिशश्च येन । तथा प्रच्छन्नः पिहितश्चण्डकिरणो रविर्येन तथाभूतः । एवंभूतश्च समीरो वायुर्व्यसरत्प्रससार । प्रचचालेति यावत् ।। १७.२६ ।।


कुन्दोज्जवलानि सकलातपवारणानि

धूतानि तेन मरुता सुरसैनिकानाम् ।
उड्डीयमान(१)कलहंसकुलोपमानि

(२)मेघाभधूलिमलिने नभसि प्रसस्त्रुः ।। १७.२७ ।।

{१.वरहंस.२.संग्रामधूलिमलिने,मेवाभ्रवूलिमिलिते.}
     अन्वयः- कुन्दोज्ज्वलेन तेन मरुता धूतानि उड्डीयमानकलहंसकुलोपमानि सुरसैनिकानां सकलातपवारणनि मेघाभधूलिमलिने नभसि प्रसस्त्रुः ।
     सीo-- कुन्दोज्जवलानीति । कुन्दपुष्पवदुज्जवलानि विमलानि । श्वेतानीति फलितोऽर्थः । तथा तेन वायव्यास्त्रप्रभूतेन मरुता धूतानि कम्पितानि । उपर्युड्डीयितानीति यावत् । अथ एवोड्डीयमाना उत्पतन्तो ये कलहंसा राजहंसास्तेषां कुलेन समुदायेनोपमा सादृश्यं येषाम् । उत्पतत्कलहंससदृशानीत्यर्थः । सुरसैनिकानां देवरूपसेनालोकानां सकलातपवारणानि समस्तानि छत्राणि मेघाभा वर्षाकालीनपयोदसदृशमासो या धूलयः सेनोत्पातितरजांसि ताभिर्मलिने मेचके नभसि प्रसस्त्रुः । प्रभञ्जनवेगोड्डीयितानि विशदघर्मवारणान्युत्पतत्कलहंसकुलानीव रेजुरित्यर्थः ।। १७.२७ ।।


विध्वस्य तेन सुरसैन्यमहापताका

नीता (३)नभस्थलमलं नवमल्लिकाभाः ।
स्वर्गापगाजलमहौघसहस्त्रलीलां

व्यातेनिरे दिवि(४) सिताम्बरकैतवेन ।। १७.२८ ।।

{३.नभस्तलम्.४.दिविचरी चिरविभ्रपेण,दिवि चराचरविभ्रमेण.}
     अन्वयः- तेन अलं विध्वस्य नभःस्थलं नीताः (तथा) नवमल्लिकाभाः सुरसैन्यमहापताकाः सिताऽम्बरकैतवेन स्वर्गापगाजलमहौधसहस्रलीलां दिवि व्यातेनिरे ।
     सीo-- विध्वस्येति । तेन प्रभञ्जनेन कर्त्रा विध्वस्य भञ्जयित्वा नभःस्थलमाकशतलं नीताः प्रापिताः । तथा नवमल्लिकाभा नूतनविदलन्मल्लिकाकुसुमसदृशभासः सुरसैन्यस्य महान्त्यः पताकाः सिताम्बरकैतवेन श्वेतवस्त्रव्याजेन स्वर्गापगाया जलस्य महतामोघानां पूराणां सहस्रस्य लीलां शोभां व्यातेनिरे वितस्तरिरे । उत्पतन्त्या व्योमनि स्थिताः श्वेताः पताका अतिविदूरदोषेण अलघवोऽपि लघव इव प्रतीयमाना नभोगतगगनवाहिनीनिर्झरा इव रेजुरिति भावः । अत्र कैतवापह्नुतिनिदर्शनालंकारयोः संसृष्टिः ।। १७.२८ ।।


धूतानि तेन सुरसैन्यमहागजानां

सद्यः(१)शतानि विधुराणि (२)दलत्कुथानि ।
पेतुः क्षितौ कुपितवासववज्रलून-

पक्षस्य भूधरकुलस्य तुलां वहन्ति ।। १७.२९ ।।

{१.कुलानि.२.गलत्कुथानि.}
     अन्वयः- तेन धूतानि विधुराणि दलत्कुथानि कुपितवासववज्रलूनपक्षस्य भूधरकुलस्य तुलां वहन्ति सुरसैन्यमहागजानां शतानि सद्यः क्षितौ पेतुः ।
     सीo-- धूतानीति । तेन वायुना । धूतानि कम्पितानि । नभसि भ्रामितानीति यावत् । अत एव विधुराणि पीडितानि । तथा दलन्तः `चरड् चरड्' इति स्फुटन्तः कुथाः कम्बलाः येषाम् । "कुथः स्त्रीपुंसयोर्वस्त्रकम्बले पुंसि बर्हिषि " इति मेदिनी । अत एव कुपितस्य वासवस्य वज्रेण पविना लूनपक्षस्य छिन्नपत्त्रस्य भूधरकुलस्य पर्वतसमूहस्य तुलां साम्यं वहन्ति दधति सुरसैन्यमहागजानां देवसैन्यबृहद्दन्तिनां शतानि शतसंख्याककुलानि क्षितौ भुवि पेतुः पतितवन्ति ।। १७.२९ ।।


(३)तास्ताः खरेण मरुता रथराजयोऽपि

दोधूयमाननिपतिष्णुतुरंगमाश्च(४) ।
(५)विस्त्रस्तसारथिकुलप्रवराः समन्ताद्

(६)व्यावृत्य पेतुरवनौ सुरवाहिनीनाम् ।। १७.३० ।।

{३.भ्रष्टाः.४.तुरङ्गमध्ये.५.वित्रस्तसारथिवरप्रकराः,विध्वस्तसारथिरथप्रवराः.६.व्यावृत्तिमापुः.}
     अन्वयः- ताः ताः सुरवाहिनीनां रथराजयः अपि खरेण मरुता दोधूयमाननिपतिष्णुतुरङ्गमाः (तथा) विस्त्रस्तसारथिकुलप्रवराः समन्तात् व्यावृत्य अवनौ पेतुः ।
     सीo-- ता इति । तास्ताः सुरवाहिनीनां देवसेनानां रथराजयोऽपि स्यन्दनपंक्तयोऽपि खरेण तीक्ष्णेन मरुता वायुना दोधूयमानाः पुनःपुनरतिशयेन वा कम्प्यमाना अत एव निपतिष्णवः पतनशीलास्तुरङ्गमा अश्वा यासाम् । तथा विस्त्रस्ता अधः पतिताः सारथय एव कुलप्रवराः कुलश्रेष्ठाः कुलीना इति यावत् । यासाम् । तथाभूताः सत्यो नभसि समन्ताद् व्यावृत्त्य परिभ्रम्यावनौ पेतुः ।। १७.३० ।।


हित्वायुधानि सुरसैन्य(१)तुरंगवाहा

वातेन तेन (२)विधुराः सुरसैन्यमध्ये ।
(३)शस्त्राभिघातमनवाप्य निपेतुरुर्व्यां

स्वीयेषु वाहनवरेषु पतत्सु सत्सु ।। १७.३१ ।।

{१.तुरङ्गधारावेगेन तुरङ्गधारा दैत्येन.२.विधुता विधुरा रणान्ते.३.शस्त्राभिघातमथिताः परिपेतुः.}
     अन्वयः-- तेन वातेन विधुराः सुरसैन्यतुरङ्गवाहाः सुरसैन्यमध्ये आयुधानि हित्वा स्वीयेषु वाहनवरेषु पतत्सु (सत्सु) शस्त्राऽभिघातम् अनवाप्य उर्व्यां निपेतुः ।
     सीo-- हित्वेति । तेन वातेन विधुराः पीडिताः सुरसैन्यस्य तुरङ्गवाहा अश्ववाहाः । अश्वारोहा इति यावत् । सुरसैन्यमध्य आयुधानि भल्लादीनि हित्वा परित्यज्य स्वीयेष्वात्मीयेषु वाहनवरेषु श्रेष्ठवाहनेषु पतत्सु सत्सु शस्त्राभिघातं शस्त्रप्रहारमनवाप्यापि न प्राप्याप्युर्व्यां भूमौ निपेतुः ।। १७.३१ ।।


तेनाहतास्त्रिदशसैन्यपदातयोऽपि

(४)स्रस्तायुधाः सुविधुराः परुषं रसन्तः ।
(१)वात्साविवर्तदलवद्भ्रममेत्य दूरं

निष्पेतुरम्बरतलाद्वसुधातलेऽस्मिन्(२) ।। १७.३२ ।।

{४.वारणवरेषु.१.वात्या विधूतदलवद्भ्रमम्,वायोर्द्विवृन्तदलवृन्दमिव.२.अपि,ते.}
     अन्वयः- तेन आहताः स्रस्तायुधाः सुविधुराः परुषं रसन्तः त्रिदशसैन्यपदातयः अपि वात्याविवर्तदलवत् भ्रमं दूरम् एत्य अम्बरतलात् अस्मिन् वसुधातले निष्पेतुः ।
     सीo-- तेनेति । तेन प्रभञ्जनेनाहताः पीडिताः । अत एव स्रस्तान्यधः पतितान्यायुधानि शस्त्राणि येषाम् । अत एव सुतरां विधुरा दुःखिताः । करेभ्यः शस्त्रगलने वीराणामतिदुःखावहं भवतीति भावः । तथा परुषं कठोरं यथा स्यात्तथा रसन्तः क्रोशन्तः । रुदन्तः इति यावत् । त्रिदशसैन्यपदातयोऽपि देवसैन्यपादचारिणो योधा अपि । पूर्वोक्तानां गजादीनामपेक्षया समुच्चयार्थकोऽपिशब्दः । `अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये' । इति विश्वः । वात्यया वातसमूहेन विवर्तं भ्रान्तं यद्दलं पत्त्रं तद्वद् दूरमतिशयेन भ्रमं भ्रान्तिमेत्य प्राप्याम्बरतलादाकाशमध्यादस्मिन्वसुधातले भूतले निष्पेतुः । वातसमूहविवर्तितानि वृक्षशुष्कपत्राणि यथाधः पतन्ति, तथा देवसैन्यपत्तयोऽपि वायव्यास्त्रजनितप्रभञ्जनवशादम्बरमभित उड्डीयमानाः कियन्तमपि कालं तत्र रथचक्रवत्परिभ्रम्य प्रतिक्षणभ्रमणजाः सन्तोऽघः पेतुरिति वाच्यार्थः । यथा पतितमपि दलं न चूर्णीभवति, तथाधः पतन्तोऽपि सैनिका न चूर्णीभूता इत्यभिहितयोपमया व्यज्यते । सति पतनेऽपि चूर्णत्वाभावे देवत्वादिति गूढो हेतुः । अतोऽलङ्कारेण वस्तुध्वनिः ।। १७.३२ ।।


इत्थं विलोक्य सुरसैन्यमथो (३)अशेषं

दैत्येश्वरेण विधुरीकृतमस्त्रयोगात् ।
स्वर्लोकनाथ(४)कमलाकुशलैकहेतु-

र्दिव्यं प्रभावमतनोदतनुः(५) स देवः ।। १७.३३ ।।

{३.अशेषमेव.४.कमलालकनैऽहेतुम्;कमलाकुशलैकहेतुम्.५.अतनुम्.}
     अन्वयः- अथो अतनुः स देवः अशेषं सुरसैन्यं दैत्येश्वरेण इत्थम् अस्त्रयोगात् विधुरीकृतं विलोक्य स्वर्लोकनाथकमलाकुशलैकहेतुः (सन्) दिव्यं प्रभावम् अतनोत् ।
     सीo-- इत्थमिति । अथो तारकप्रयोजितवायव्यास्त्रकृतसैन्यविप्लवानन्तरम् । अतनुर्महान् । महत्त्वं च विद्यया, विद्या चास्त्रशस्त्रनैपुण्यम् । स देवः षाण्मातुरः । अशेषं सकलं सुरसैन्यं देवसैन्यं कर्म, दैत्येश्वरेण तारकेणेत्थं पूर्वोक्तप्रकारेण अस्त्रयोगाद्वायव्यास्त्रप्रयोगान्निमित्ताद्विधुरीकृतं पीडितं विलोक्य दिव्यं लोकोत्तरं प्रभावं सामर्थ्यंमतनोत् । अनेन वायव्यप्रतिरोधकं पवननाशनास्त्रमक्षिपदिति व्यज्यते । यतः स्वर्लोकनाथस्येन्द्रस्य कमलाया लक्ष्म्याः कुशले श्रेयस्येक एव हेतुर्निदानम् ।। १७.३३ ।।


(१)तेनोज्झितं सकलमेव सुरेन्द्रसैन्यं

स्वास्थ्यं प्रपद्य पुनरेव (२)युधि प्रवृत्तम् ।
दृष्ट्वासृजद्दहनदैवतमस्त्रमिद्ध-

(३)मुद्दीप्तकोपदहनः सहसा सुरारिः ।। १७.३४ ।।

{१.उद्गतम्;अन्वितम्.२.युधे.३.उच्चैःप्रकोपदहनः.}
     अन्वयः- तेन सकलम् एव उज्झितं सुरेन्द्रसैन्यं स्वास्थ्यं प्रपद्य पुनः युधि एव प्रवृत्तं दृष्ट्वा उद्दीप्तकोपदहनः सुराऽरिः सहसा इद्धं दहनदैवतम् अस्त्रम् असृजत् ।
     सीo- तेनेति । तेन कुमारप्रभावेण सकलमेव, न तु त्यक्तभागम् । उज्झितं वायव्यास्त्रनिर्मुक्तं सुरेन्द्रसैन्यं इन्द्रसैन्यं कर्म, स्वास्थ्यमविक्लत्वं प्रपद्य प्राप्य पुनर्युध्येव, न त्वन्यकार्ये पलायनरुपे । एवंविधास्त्रप्रयोक्तासौ दुर्जेय इति बुद्ध्या पलायनप्रसक्तिशङ्कानिरासार्थमेवकारः । प्रवृत्तं व्यापाराश्रयीभूतं दृष्ट्वा । उद्दीप्तोऽनुभावसान्निध्यात्प्रदीप्तः कोप एव दहनोऽग्निर्यस्यैवंभूतः सुरारिस्तारकः सहसा झटिति, न तु विलम्बेन । इद्धं सिद्धम् न तु तत्कालसाधनीयम् । प्रदीप्तमिति वा । दहनदैवतमग्निदेवताकमस्त्रमसृजद् व्यसृजत् । `सृज विसर्गे' इत्यस्मात्तौदादिकाल्लङ् । वायव्यास्त्रपरिहारानन्तरं वह्न्यस्त्रमक्षिपदित्यर्थः ।। १७.३४ ।।


(१)वर्षातिकालजलदद्युतयो नभोऽन्ते

(२)गाढान्धकारितदिशो घनधूमसंघाः ।
सद्यः प्रसस्रुरसितोत्पलदामभासो

दृग्गोचरत्वमखिलं न(३) हि सन्नयन्तः ।। १७.३५ ।।

{१.तत्कालजातजलद.२.तत्र.३.द्युसदां हरन्तः.}
     अन्वयः- वर्षाऽतिकालजलदद्युतयः असितोत्पलदामभासः गाढाऽन्धकारितदिशः घनधूमसङ्घाः अखिलं दृग्गोचरत्वं नहि सन्नयन्तः सद्यः प्रसस्रुः ।
     सीo- वर्षेति । वर्षास्वतिकाला मेचकतरा ये जलदा मेघास्तेषां द्युतिः कान्तिरेव कान्तिर्येषाम् । वर्षाकालीनमेघसदृशमेचकितभास इत्यर्थः । श्यामत्वे द्वितीयविशेषणेनोपमिमीते । अशितानां नीलानामुत्पलानां दाम्नः स्त्रजो भा इव भा रुग्येषामत एव गाढं नितरामन्धकारिता अन्धकारी कृता दिशो यैरेवंभूता घनधूमसंघा निबिडधूमसमूहा अखिलं धटादिवस्तु दृग्गोचरत्वं दृष्टिविषयत्वं न हि नैव । `हि पादपूरणे हेतौ विशेष्येऽप्यवधारणे' इति विश्वः । नयन्तः प्रापयन्तः सन्तः । धनधूमसंधव्याप्तयेव न हि किंचिदपि वस्तु लक्षणीयं बभूवेति भावः । सद्यः सपदि प्रसस्त्रुः । प्रज्वलिष्यद्दहनप्राग्भावित्वेन धूमप्रसरणस्योचितत्वाद् धूमप्रसरणमुक्तम् । प्रपूर्वात् `सृ गतौ' इत्यतो लिट् ।। १७.३५ ।।


दिक्चक्रवाल(४)गिलनैर्मलिनैस्तमोभि-

र्लिप्तं (५)नभःस्थलमलं घनवृन्दसान्द्रैः ।
धूमैर्विलोक्य (६)मुदिताः खलु राजहंसा

गन्तुं सरः सपदि मानसमीषुरुच्चैः ।। १७.३६ ।।

{४.मिलितैः.५.नभस्तलम्.६.पिहिताः.}
     अन्वयः- दिक्चक्रवालगिलनैः (तथा) मलिनैः (अत एव) घनवृन्दसान्द्रैः धूमैः तमोभिः अलं लिप्तं नभःस्थलं विलोक्य मुदिताः राजहंसाः मानसं सरः गन्तुम् ईषुः खलु ।
     सीo-- दिगिति । दिशां चक्रवालस्य मण्डलस्य गिलनैराच्छादकैः । `गृ निगरणे' इत्यतः कर्तरि ल्युट् । `अचि विभाषा' इति रेफस्य लत्वम् । मलिनैर्मेचकैः, अत एव घनवृन्दमिव मेघमण्डलमिव सान्द्रैः सघनैर्धूमैर्धूमरूपस्तमोभिर्लुप्तं व्याप्तं नभःस्थलं गन्तुमीषुरैच्छन् । दहनास्त्रप्रभूतधूमावलीव्याप्तनभोदर्शनजनितमेघागमभ्रान्तिमतां कलहंसानां मानससरोजिगमिषोचितैवेति भावः ।। १७.३६ ।।


जज्वाल वह्निरतुलः सुरसैनिकेषु

कल्पान्तकालदहनप्रतिमः समन्तात् ।
आशामुखानि (१)विमलान्यखिलानि कीला-

जालैरलं (२)कपिलयन्सकलं नभोऽपि ।। १७.३७ ।।

{१.अपिहन्निखिलानि.२.कपिशयन्.}
     अन्वयः- कल्पाऽन्तकालदहनप्रतिमः अतुलः वह्निः कीलाजालैः अखिलानि विमलानि आशामुखानि (तथा) सकलं नभः अपि कपिलयन् सुरसंनिकेषु समन्तात् जज्वाल ।
     सीo-- जज्वालेति । कल्पान्तकालस्य प्रलयकालस्य दहनोऽग्निस्तस्य प्रतिमेव प्रतिमा स्वरुपं यस्य । तथातुलो बहुलो वह्निः कीलाजालैर्ज्वालासमूहैः । `वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः । शिखा स्त्रियाम्' इत्यमरः । अखिलानि समस्तानि विमलानि शुद्धान्याशामुखानि दिगग्राणि । तथा सकलं नभोऽपि व्योम च कपिलयन्पिशङ्गीकुर्वन्सुरसैनिकेषु मध्ये । `यतश्च निर्धारणम्' इति सप्तमी । समन्तात्परितो जज्वाल दिदीपे ।। १७.३७ ।।


उज्जागरस्य दहनस्य निरर्गलस्य

ज्वालावलीभिरतुलाभिरनारताभिः ।
कीर्णं पयोदनिवहैरिव धूमसंघै-

र्व्योमाभ्यलक्ष्यत कुलैस्तडितामिवोच्चैः ।। १७.३८ ।।

     अन्वयः-- उज्जागरस्य निरर्गलस्य दहनस्य अतुलाभिः अनारताभिः ज्वालावलीभिः (तथा) पयोदनिवहैः इव धूमसङ्घैः (व्याप्तम्) व्योम उच्चैः तडितां कुलैः कीर्णम् इव अभ्यलक्ष्यत ।
     सीo-- उज्जागरस्येति । उज्जागरस्योद्दीप्तस्य । जागर्तेः `ॠदोरप्' इति भावेऽप् । निरर्गलस्य निर्गतप्रतिबन्धस्य दहनस्य वह्नेरतुलाभिर्बहुलाभिः अनारताभिरक्षणिकाभिः ज्वालावलीभिः कीलपङ्क्तिभिः । तथा पयोदनिवहैरिव मेघसमूहैरिव धूमसङ्घैः व्याप्तमिति शेषः । तथाभूतं व्योम नभः, कर्तृ । उच्चैर्महद्भिस्तडितां विद्युतां कुलैर्गणैः कीर्णं वृतमिवाभ्यलक्ष्यत दर्शनीयं बभूव । मेघमण्डलान्तरे चमत्कारकारिणीभिर्क्षणदाभिर्नभो यथा राजति, तथा मेघमण्डलसदृशधूमसङ्घमण्डलान्तर्गतक्षणदासदृशज्वालावलीभिरपि बभावित्यर्थः । भानक्रियाकर्तोभयत्राप्येक एव, अतो ज्वालावलीषु क्षणदात्वेनोत्प्रेक्षितम् ।। १७.३८ ।।


(१)गाढाद्भयाद्वियति (२)विद्रुतखेचरेण

दीप्तेन(३) तेन दहनेन सुदुःसहेन ।
दन्दह्यमानमखिलं(४) सुरराजसैन्य-

मत्याकुलं शिवसुतस्य समीपमाप(५) ।। १७.३९ ।।

{१.तद्भीतितः,तत्प्रान्ततः.२.चाद्भुतसंचरेण.३.धीर्घेण.४.अनिशम्.५.आगात्.}
     अन्वयः-- गाढात् भयात् वियति विद्रुतखेचरेण दीप्तेन सुदुःसहेन तेन दहनेन दन्दह्यमानम् अत्याकुलम् अखिलं सुरराजसैन्यं शिवसुतस्य समीपम् आप ।
     सीo- गाढादिति । गाढाद्भयाद्धेतोर्वियति नभसि विद्रुता विद्राविताः पलायिता इति यावत् । खेचरा रव्यादयो येन । रव्यादयो ग्रहा अपि यद्भयाद् दुद्रुवुरित्यर्थः । तथा दीप्तेन । तथा सुतरां दुःसहेन सोढुमशक्येन तेन दहनेन कर्त्रा दन्दह्यमानं पुनरतिशयेन वा दह्यते भस्मीक्रियते तथाभूतम्, अत एवात्याकुलमतिपीडितमखिलं समस्तं सुरराजसैन्यं, कर्तृ शिवसुतस्य कुमारस्य समीपं सन्निधिमाप । अतो नः पाहीति निवेदयितुं जगामेति व्यज्यते । तेन वस्तुना वस्तुध्वनिः ।। १७.३९ ।।


इत्यग्निना घनतरेण (१)ततोऽभिभूतं

तद्देवसैन्यमखिलं विकलं विलोक्य ।
सस्मेरवक्त्रकमलोऽन्धकशत्रुसूनु-

र्बाणासनेन(२) समधत्त स वारुणास्त्रम् ।। १७.४० ।।

{१.तदा.२.बाणासनेऽथ.}
     अन्वयः- ततः सः अन्धकशत्रुसूनुः इति घनतरेण अग्निना अभिभूतम् अखिलं तत् देवसैन्यं विकलं विलोक्य सस्मेरवक्त्रकमलः बाणासनेन वारुणास्त्रं समधत्त ।
     सीo-- इतीति । ततः सैन्यागमनानन्तरम् । सोऽन्धकशत्रुसूनुः कुमारः । इति पूर्वोक्तप्रकारेण घनतरेणातिसान्द्रेणाग्निनाभिभूतं पराभूतमखिलं समस्तं तद्देवसैन्यं विकलं विधुरं विलोक्य सस्मेरं समन्दहासं वक्त्रकमलं यस्य । किञ्चिद्विहस्येत्यर्थः । अनेनात्मोत्कर्षव्यञ्जक उपहासो व्यज्यते । बाणासनेन धनुषा वारुणास्त्रमग्न्यस्त्रप्रतिरोधकं वरुणदेवताकमस्त्रं समधत्त संदध इत्यर्थः ।। १७.४० ।।


घोरान्धकारनिकरप्रतिमो युगान्त-

कालानलप्रबलधूमनिभो नभोन्ते ।
गर्जारवैर्वि(३)घटयन्नवनीधराणां

श्रृङ्गाणि मेघनिवहो घनमुज्जगाम ।। १७.४१ ।।

{३.विधमयन्.}
     अन्वयः- घोराऽन्धकारनिकरप्रतिमः युगाऽन्तकालाऽनलप्रबलधूमनिभः गर्जारवैः अवनीधराणां श्रृङ्गाणि विघटयन् मेघनिवहः नभोऽन्ते घनम् उज्जगाम ।
     सीo-- घोरेति । घोराणि भयनकानि यान्यन्धकाराणि तमांसि तेषां निकरस्य समूहस्य प्रतिमेव प्रतिमा स्वरुपं यस्य । गाढान्धकारसदृशकान्तिरित्यर्थः । तथा युगान्तकालस्य योऽनलोऽग्निस्तस्य प्रबलोऽधिको वो धूमस्तेन सदृशः । तथा गर्जारवैर्गर्जनाघोषैः कृत्वाऽवनीधराणां पर्वंतानां श्रृङ्गाणि सानूनि विघटयन् स्फोटयन्मेघनिवहः पयोधरसमुदायो नभोऽन्ते व्योममध्ये घनं सान्द्रम्, नतु विरलतया । उज्जगामोदियाय ।। १७.४१ ।।


विद्युल्लता वियति वारिदवृन्दमध्ये(१)

गम्भीरभीषणरवैः(२) कपिशीकृताशा ।
घोरा युगान्तचलितस्य (३)भयंकराऽथ

कालस्य लोलरसनेव चमच्चकार ।। १७.४२ ।।

{१.वृन्दवर्ग,वृन्दवर्गे.२.रवे.३.भयंकरस्य.}
     अन्वयः- अथ वियति गम्भीरभीषणरवैः कपिशीकृताशा युगाऽन्तचलितस्य कालस्य भयङ्करा लोलरसना इव धोरा विद्युल्लता वारिदवृन्दमध्ये चमच्चकार ।
     सीo-- विद्युदिति । अथ मेघोदयानन्तरं वियति नभसि गम्भीराः सान्द्रा अत एव भीषणा भयदा ये रवा धोषास्तैरुपलक्षिता । तथा कपिशीकृताः पिशङ्गिता आशा दिशो यया । तथा युगान्तचलितस्य प्रलयकाले लोकादनाय प्रस्थितस्य कालस्य यमस्य भयंकरा भयदा लोलरसना चपलजिह्वेव घोरा भीमा विद्युल्लता तडिद्रूपिणी हाटकलता वारिदवृन्दमध्ये जलदमण्डलान्तराले चमच्चकार । प्रतिक्षणव्यक्तीकृतात्मरोचिरासीदित्यर्थः । अनेन उपमालंकारेण तारकासुरसैनिकानामियमिव चमत्कुर्वन्ती वैवस्वतरसना नोऽभ्यवहरिष्यतीति बुद्धिरुत्पन्नेति ध्वन्यते । अतोऽलङ्कारेण वस्तुध्वनिः ।। १७.४२ ।।


कादम्बिनी विरुरुचे (४)विषकण्ठिकाभि-

रुत्तालकाल(५)रजनीजलदावलीभिः ।
व्योम्न्युच्चकै(६)रचिररुक्परिदीपिताशाऽ-

(७)दृष्टिच्छदा (८)विषमघोषविभीषणा च ।। १७.४३ ।।

{४.बिस.५.रजनीव रदावलीभिः.६.अचिररोचिररोचताग्रे.७.दृष्टिच्छलात्,दृष्टिच्छदा.८.विषमकोपविभीषणेव,विषमरोषविभीषणेव.}
     अन्वयः-- अचिररुक्परिदीपिताशा (तथा) अदृष्टिच्छदा विषमघोषविभीषणा च उच्चकैः व्योम्नि विषकण्ठिकाभिः उत्तालकालरजनींजलदावलीभिः कादम्बिनी विरुरुचे ।
     सीo-- कादम्बिनीति । अचिररुग्भिर्विद्युद्भिः प्रयोज्यकर्त्रीभिः परिदीपिताः प्रकाशिता आशा यया प्रयोजककर्त्र्या । तथा दृष्टिच्छदा नेत्रावरणकर्त्री सा न भवतीति, किंतु नेत्रप्रकाशिका । `पुंसि संज्ञायां घः' इति घः । `छादेर्घ' इति ह्रस्वः । तथा विषमेण करालेन घोषेण विभीषणा भयदा ।उच्चकैर्महति व्योम्न्यन्तरिक्षे विषं जलम् । `विषं तुङ्गबले तोये' इति विश्वः । कण्ठे मध्ये यासाम् । जलपूर्णमध्याभिरित्यर्थः । उत्तालो विकरालेऽपि स्यादुत्तालाः प्लवंगमे'। इति विश्वः । तथा कालाः कृष्णपक्षीयाः । `कालश्यामलमेचकाः' इत्यमरः । एवंभूता या रजन्यो रात्रयः । `रजनीयामिनी तमी' इत्यमरः । ता इव या जलदावल्यो मेघपंक्तयः । `मयूरव्यंसकादयश्च' इति समासः । ताभिरुपलक्षिता कादम्बिनीमाला विरुरुचे बभौ । अत्र कादम्बिनीशब्दः केवलमालापरः । तदुक्तम्- `विशिष्टवाचकानां पदानां सति हि पृथग्विशेषणसमवधाने विशेष्यमात्रपरता' इति ।। १७.४३ ।।


व्योम्नस्तलं पिदधतां ककुभां मुखानि

गर्जारवैर(१)विरतैस्तुदतां मनांसि ।
अम्भोभृतामतितरामनणीयसीभि-

र्धारावलीभिरभितो ववृषे समूहैः ।। १७.४४ ।।

{१.अविततैः.}
     अन्वयः- व्योम्नः तलं ककुभां मुखानि पिदधताम् अविरतैः गर्जारवैः मनांसि तुदताम् अम्भोभृतां समूहैः अनणीयसीभिः धारावलीभिः अभितः अतितरां ववृषे ।
     सीo-- व्योम्न इति । व्योम्न आकाशस्य तलं स्वरूपम् । `तलं स्वरूपाधरयोः खड्गमुष्टिचपेटयोः' इति विश्वः । तथा ककुभां दिशां मुखान्यग्राणि च पिदधतामाच्छदयताम् । `पिघानाच्छादनानि च' इत्यमरः । तथा अविरतैर्निरन्तरभवद्भिर्गर्जारवैर्गर्जनाधोषैः कृत्वा मनांसि तुदतां व्यथयतामम्भोभृतां जलधराणां समूहैः कर्तृभिः । अनणीयसीभिरणीयस्योऽतिलघ्व्यो न भवन्ति तथोक्ताभिः । महतीभिरित्यर्थः । धारावलीभिः संपातपंक्तभिः कृत्वाऽतितरां ववृषे वृष्टम् । भावे लिट् ।। १७.४४ ।।
{४४-४५ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
`(१)बह्वीयसाधिकतराः सहसा रसेन ध्वन्त्यस्तटे निजकुले(२)ऽप्यसुरप्ररुढे ।
मेघान्धकारपटलीपिहिते नभोन्ते नद्यः प्रचेलुपभितः प्रमदा इवाढ्याः(३)।।'
(१.वहीयसा.२.इव सुप्ररुढे.३.प्रमदाहवाय.)}


(१)घोरान्धकारपटलैः पिहिताम्बराणां

गम्भीरगर्जनरवैर्व्यथितासुराणाम् ।
वृष्ट्याऽनया जलमुचां वरुणास्त्रजानां

विश्वोदरंभरिरपि(२) प्रशशाम वह्निः ।। १७.४५ ।।

{१.`आप्लावितो बहुभवोऽपिहिताम्बराणां गम्भीरगर्जनिपतद्विधुरासुराणाम्,आप्लाविताहवभुवा पिहिताम्बराणां गम्भीरगर्जितपतद्विधुरासुराणाम्।।'.२.अथ.}
     अन्वयः- घोराऽन्धकारपटलैः पिहिताऽम्बराणां गम्भीरगर्जनरवैः व्यथिताऽसुराणां वरुणाऽस्त्रजानां तथा जलमुचां वृष्ट्या विश्वोदरम्भरिः वह्निः अपि प्रशशाम ।
     सीo-- घोरेति । घोराणि भयदानि यान्यन्धकारपटलान्यन्धतमसपटलानि तैः कृत्वा पिहिताम्बराणामावृतगगनानाम् । तथा गम्भीरगर्जनरवैः कृत्वा व्यथिताः पीडिता असुरा यैस्ते वरुणास्त्रजानां वरुणदैवतास्त्रोत्पन्नानां जलमुचां मेघानाम् । तथा द्वितीयया वृष्ट्या वर्षेण विश्वेन समस्तजगता कृत्वोदरं भरतीति तथोक्तोऽपि समस्तलोकव्याप्यमानोऽपि वह्निरग्निः प्रशशाम । कुमारकृतवारुणास्त्रप्रयोगेण आग्नेयास्त्रमप्यनशदिति भावः ।। १७.४५ ।।


दैत्योऽपि (३)रोषकलुषो निशितैः क्षुरप्रै-

राकर्णकृष्टधनुरुत्पतितैः स भीमैः ।
तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यं(४)

गाढं जघान मकरध्वजशत्रुसूनुम् ।। १७.४६ ।।

{३.कोपकलुषः.४.सैन्यैः.}
     अन्वयः- रोषकलुषः सः दैत्यः अपि निशितैः भीमैः आकर्णकृष्टधनुरुत्पतितैः क्षुरप्रैः तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यं गाढं मकरध्वजशत्रुसूनुं जघान ।
     सीo-- दैत्य इति । रोषेण क्रोधेन कलुष आविलः । `कलुषं त्वाविले पापे' इति मेदिनी । सदैत्योऽपि निशितैः खरैः । अथ एव भीमैर्भयदैः । तथाकर्णमाश्रवणं कृष्टाद्धनुषः सकाशादुत्पतितैर्निःसृतैः क्षुरप्रैः शरविशेषैः कृत्वा । तेभ्यः क्षुरप्रेभ्यो भीत्या निमित्तेन विद्रुतं विद्रावितं समस्तं सुरेन्द्रसैन्यं पुरंदरबलं येन । `सैन्यं क्लीबं बले सेनासमवेते तु वाच्यवत्' । इति मेदिनी । तथाभूतः सन् । गाढं दृढं यथा स्यात्तथा मकरध्वजस्य कामस्य शत्रोः शंभो सूनुं पुत्रं जघान । प्राणापहरणकरणाभिप्रायेण हिनस्ति स्मेत्यर्थः । `पुनस्तत्रैवावलम्बितो वेतालः' इति न्यायेन मायया सुखेन जेय एवेति मन्यमानेन तारकेण बाणसमरं हित्वा मायासमरं कुर्वाणेन तत्र सत्यपि दुर्जेयताबुद्ध्या पुनर्बाणयुद्धमकार्षीदित्यर्थः । अनेन वाच्यार्थेन `अप्रतिहतप्रचारा मदीया मायाप्यनेन वीरेण प्रतिहता' इति शोकग्रस्तेन दैत्येन यथा पराजितेनापि विदुषा युक्त्या विवाद्यते तथा युध्यते, न तु वीररसानुगतत्वेनेति ध्वन्यते ।। १७.४६ ।।


देवोऽपि दैत्यविशिख(१)प्रकरं सचापं

बाणैश्चकर्त कणशो (२)रणकेलिकारी ।
योगीव योगविधि(३)शुष्कमना यमाद्यैः

सांसारिकं (४)विषयसङ्घममोघवीर्यम्(५) ।। १७.४७ ।।

{१.प्रवरम्.२.रणकेलिकारः.३.विनिषक्तमनाः.४.विषयवर्गम्.५.वीर्ये.}
     अन्वयः- रणकेलिकारी देवः अपि बाणैः सचापं दैत्यविशिखप्रकरं योगविधिशुष्कमनाः योगी यमाद्यैः अमोघवीर्यं सांसारिकं विषयसङ्घम् इव कणशः चकर्त ।
     सीo-- देवोऽपीति । रण एव केलिः क्रीडा तां करोति । संग्रामरूपक्रीडाविधायीत्यर्थः । देवोऽपि कुमारोऽपि बाणैः शरैः सचापं सकोदण्डं दैत्यस्य तारकस्य विशिखानां शराणां प्रकरं समूहं योगविधिना योगाभ्यासविधानेन शुष्कमना नीरसमनाः । निःस्पृहचेता इति तात्पर्यार्थः । योगी यमाद्यैर्यमनियमप्रभृतिभिर्योगसाधनैः कृत्वामोघवीर्यं योगिनामपि मनः संभ्रान्तिकरणे सफलप्रभावं सांसारिकं संसारः प्रयोजनमस्येति तथोक्तम् । प्रयोजने ठक् । विषयसङ्घं यक्षुरादिकरणोपभोग्यसमाहारमिव कणशश्चकर्त विभेद । यथा योगाभ्यासनिरतो यमनियमपूर्वैश्चक्षुरादिकरणभोग्यं दर्शनीयादिकरणवस्तु कृन्तति, तथा कुमारोऽपि यमनियमवत्तीव्रैर्बाणैर्विषयसङ्घमिव सकललक्ष्यभेदनक्रियोचितत्वमपि शरनिकरमभनगिति भावः ।। १७.४७ ।।


भ्रूभह्गभीषणमुखोऽसुरचक्रवर्ती

संदीप्तकोपदहनोऽथ रथं विहाय
क्रीडत्करालकरवालकरोऽ(१)सुरेन्द्र-

स्तं प्रत्यधावदभितस्त्रिपुरारि(२) सूनुम् ।। १७.४८ ।।

{१.कधानश्चर्मभ्यधावत्.२.पुत्रम्.}
     अन्वयः- अथ सन्दीप्तकोपदहनः भ्रूभङ्गभीषणामुखः असुरचक्रवर्ती असुरः रथं विहाय क्रीडत्करालकरवालकरः । (सन्) तं त्रिपुराऽरिसूनुम् अभितः अत्यधावत् ।
     सीo-- भ्रूभङ्गेति । अथ शस्त्रास्त्रयुद्धानन्तरं सम्यगधिकं यथा तथा दीप्तः कोप एव दहनोग्निर्यस्य । अत एव भ्रुवोर्भ्रुकुट्योर्भङ्गेन वक्रत्वेन भीषणं विलोकयितॄणां भयदं मुखं वदनं यस्य तथोक्तोऽसुराणां दैत्यानां चक्रवर्ती सम्राट् । सार्वभौम इत्यर्थः । `राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः । चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः' इत्यमरः । असुरेन्द्रस्तारको रथं स्यन्दनं विहाय परित्यज्य क्रीडन्नूर्ध्वदिशि कम्पमानस्तथा करालो भीषणः करवालः खड्गः स करे पाणौ यस्य । धारितविकटकृपाणः सन्नित्यर्थः । तं त्रिपुरारिसूनुं शिवपुत्रमभितः संमुखं प्रत्यधावत् । कुण्ठितसर्वशस्त्रास्त्रत्वात्करवालेन शिरोनालजिहीर्षया प्रतिदुद्रावेत्यर्थः । `धावु गतौ' इत्यस्मात्कर्तरि लङ् ।। १७.४८ ।।


अभ्यापतन्तमसुराधिपमी(१)शपुत्रो

दुर्वारबाहुविभवं सुरसैनिकैस्तम्(२) ।
दृष्ट्वा युगान्तदहनप्रतिमां मुमोच

शक्तिं प्रमोदविकसद्वदनारविन्दः ।। १७.४९ ।।

{१.असुरेश्वरम्.२.तैः.}
     अन्वयः- सुरसैनिकैः दुर्वारबाहुविभवं तम् असुराऽधिपम् अभ्यापतन्तं दृष्ट्वा ईशपुत्रः प्रमोदविकसद्वदनाऽरविन्दः युगाऽन्तदहनप्रतिमां शक्तिं मुमोच ।
     सीo-- अभ्यापतन्तमिति । सुरसैनिकैर्देवसेनाजनैर्दुर्वारो दुःसह्यो बाहुविभवो भुजवीर्यं यस्य । सुरसैनिकैरजेयमित्यर्थः । तमसुराधिपं दैत्यराजमभ्यापतन्तं संमुखामागच्छन्तं दृष्ट्वा विलोक्येशपुत्रो महेशतनयः कुमारः प्रमोदेन तदीयवशंगतत्वजनितानन्देन विकसद्विदलद्वदनारविन्दं मुखकमलं यस्य । किंचिद्विहस्येत्यर्थः । युगान्तदहनस्य प्रलयकालीनानलस्य प्रतिमेव प्रतिमा प्रतियातना यस्याः । प्रज्वलद्दहनकीलाजालपरिवृतामित्यर्थः । शक्तिमायुधविशेषं मुमोच । `शक्तिः प्रहरणान्तरे' इति विश्वः ।। १७.४९ ।।


उद्द्योतिताम्बरदिगन्तरमंशुजालैः

शक्तिः पपात हृदि तस्य महासुरस्य ।
हर्षाश्रुभिः सह (३)समस्तदिगीश्वराणां

शोकोष्ण(४)बाष्पसलिलैः सह दानवानाम् ।। १७.५० ।।

{३.समग्र.४.शोकोत्थ.}
     अन्वयः- (सा) शक्तिः समस्तदिगीश्वराणां हर्षाश्रुभिः सह दानवानां शोकोष्णबाष्पसलिलैः सह अंशुजालैः उद्योतिताऽम्बरदिगन्तरं तस्य महासुरस्य हृदि पपात ।
     सीo-- उद्द्योतितेति । अत्र सेति शेषः । सा कुमारमुक्ता शक्तिः समस्ता दिगीश्वरा इन्द्रादयोऽष्टदिक्पालास्तेषां हर्षाश्रुभिरानन्दबाष्पैः सह । तेषामभिलषितत्वाद्युक्तमेव तदीयहृदयशक्तिपतनजनित आनन्दो यदासीत् । दानवानां तदीयपक्षपातिनां रक्षसां शोकेन भर्तृमरणजनितेनोष्णानि यानि बाष्पसलिलानि तैः सह । अंशुजालैः किरणसमूहैः कृत्वाद्द्योतितं प्रकाशितमम्बरस्य दिशां चान्तरं मध्यं यत्र यस्यां क्रियायां यथा भवति तथा । उज्ज्वालितसकलदिगम्बरमध्यं तस्य महासुरस्य तारकस्य हृदि हृदये पपात पतितवती ।। १७.५० ।।


शक्त्या (१)हृतासुमसुरेश्वरमापतन्तं

कल्पान्तवातहत(२)भिन्नमिवाद्रिश्रृङ्गम् ।
दृष्ट्वा (३)प्ररुढपुलकाञ्चितचारुदेहा

देवाः प्रमोदमगमं(४)स्त्रिदशेन्द्रमुख्याः ।। १७.५१ ।।

{१.हतासुम्,अथ तारम्.२.हति.३.प्ररुढपुलकाङ्कित,अवरुढपुलकाञ्चित.४.त्रिदिवेशमुख्याः.}
     अन्वयः- शक्त्या हृताऽसुम् असुरेश्वरं कल्पाऽन्तवातहतभिन्नम् अद्रि श्रृङ्गम् इव आपतन्तं दृष्ट्वा प्ररुढपुलकाऽञ्चितचारुदेहाः त्रिदशेन्द्रमुख्याः देवाः प्रमोदम् अगमन् ।
     सीo-- शक्त्येति । शक्त्या कर्त्र्या हृता अपगमिता असवः प्राणा यस्य । शक्तिप्रहारेण गतप्राणमित्यर्थः । एवंभूतमसुरेश्वरं तारकं कल्पान्तवातेन प्रलयकालीनप्रभञ्जनेन हतमास्फोटितमत एव विभिन्नं विदीर्णमद्रिश्रृङ्गमिव पर्वतसान्विवापतन्तं मूर्च्छन्तं दृष्ट्वा प्ररुढैः प्रोद्गतैः पुलकैः रोमभिरञ्चिता व्याप्ता अत एव चारवो मनोहरा देहा गात्राणि येषां प्रफुल्लितरोमाञ्चितविग्रहास्त्रिदशेन्द्रमुख्याः पुरंदरप्रभृतयो देवाः प्रमोदमानन्दमगमन् प्रापुः ।। १७.५१ ।।


यत्रापतत्स दनुजाधिपतिः परासुः

(५)संवर्तकालनिपतच्छिखरीन्द्(६)रतुल्यः ।
तत्रादधात्फणिपतिर्धरणीं फणाभि-

स्तद्भूरिभारविधुराभिरधो व्रजन्तीम् ।। १७.५२ ।।

{५.संवर्तवात.६.कल्पः.}
     अन्वयः-- पराऽसुः संवर्तकालनिपतच्छिखरीन्द्रतुल्यः स दनुजाऽधिपतिःयत्र अपतत्, यत्र फणिपतिः अधः व्रजन्तीं धरणीं तद्भरिभारविधुराभिः फणाभिः अदधात् ।
     सीo-- यत्रेति । परासुर्गतप्राणः मृत इति यावत् । अत एव संवर्तकालः प्रलयकालस्तत्र निपतता शिखरीन्द्रेण पर्वतराजेन तुल्यः समानः स दनुजानां दैत्यानामधिपतिस्तारको यत्र भूमिदेशेऽपतन्मूर्च्छितस्तत्र भूमिदेशे फणिपतिः शेषोऽधोव्रजन्तीं नीचैर्गन्तुं प्रवर्तमानां धरणीं फणाभिस्तस्य तारकस्य भूरिभारेण विधुराभिर्भुग्नीभवन्तीभिरदधादधः पतनान्निवर्तयांचक्रे । अनेन तारकविग्रहस्यातिभारवत्त्वं ध्वनितम् ।। १७.५२ ।।


स्वर्गापगासलिलसीकरिणी समन्तात्

सौरभ्यलुब्धमधुपावलिसेव्यमाना ।
कल्पद्रुमप्रसववृष्टिरभून्नभस्तः

शंभोः सुतस्य शिरसि त्रिदशारिशत्रोः ।। १७.५३ ।।

     अन्वयः-- त्रिदशाऽरिशत्रोः शम्भोः सुतस्य सिरसि नभस्तः स्वर्गापगासलिलसीकरिणी सौरभ्यलुब्धमधुपावलिसेव्यमाना कल्पद्रुमप्रसववृष्टिः समन्तात् अभूत् ।
     सीo-- स्वर्गापगेति । त्रिदशानां देवानामरेस्तारकस्य शत्रोः शातयितुः हन्तुरिति यावत् । `शंभोः सुतस्य कुमारस्य शिरसि शीर्षे ।' `उत्तमाङ्गं शिरः शीर्षम्' । इत्यमरः । नभस्तः आकाशसकाशात् । पञ्चम्यास्तसिल् । स्वर्गापगाया गङ्गायाः सलिलस्य सीकराः सृताम्बुकणाः । `सीकरोऽम्बुकणाः सृताः' इत्यमरः । ते विद्यन्ते यस्याम् । तथा सौरभ्ये सौगन्ध्ये लुब्धया मधुपानां भ्रमराणामावल्या पङ्क्त्या कर्त्र्या सेव्यमाना कल्पद्रुमस्य कल्पवृक्षस्य प्रसवानां पुष्पाणाम् । `प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचने' । इति । विश्वः । वृष्टिरभूत् । तारकवधजनितानन्दार्णवमग्ना व्योमस्थिता विष्वादयो देवाः कुमारमस्तकोपरि कल्पद्रुमपुष्पाणि विचकरुरित्यर्थः ।। १७.५३ ।।


पुलकभरविभिन्नवार(१)बाणा

भुजविभवं बहु तारकस्य शत्रोः ।
(२)सकलसुरगणा महेन्द्रमुख्याः

प्रमदमुख(३)च्छविसंपदोऽभ्यनन्दन् ।। १७.५४ ।।

{१.चारुदेहा.२.ससुरपरगणा.३.द्युति.}
     अन्वयः-- प्रमदमुखच्छधिसम्पदः पुलकभरविभिन्नवारबाणाः महेन्द्रमुख्याः सकलसुरगणाः बहु तारकस्य शत्रोः भुजविभवम् अभ्यनन्दन् ।
     सीo-- पुलकेति । प्रमदा उत्कृष्टा या मुखच्छविर्वदनकान्तिः सैव संपद्वैभवं येषां ते तारकवधजनितमानन्दमेव महतीं संपदं मन्यमानाः । अत एव पुलकभरेण रोमाञ्चभारेण विभिन्नानि स्फुटितानि वारबाणानि कवचानि येषाम् । `कञ्चुको वारबाणोऽस्त्री' इत्यमरः । प्रथमविग्रहप्रमाणनिर्मितानां कवचानामिदानीमानन्दवशात्प्रफुल्लत्वाद्विग्रहेषु संकीर्णतया विदलनमुचितमेवेति भावः । एवंभूता महेन्द्रमुख्याः पुरंदरप्रभृतयः सकलसुरगाणाः समस्तवृन्दारकसंघा बहु महत्तारकस्य शत्रोः कुमारस्य भुजविभवं बाहुपराक्रममभ्यनन्दन् `साधुस्ते विक्रमः' इति तुष्टुवुः । पुष्पिताग्रा वृत्तम् । १७.५४ ।।


इति विषमशरारेः सूनुना जिष्णुनाजौ

त्रिभुवन(४)वरशल्ये (५)प्रोद्धृते दानवेन्द्रे ।
बलरिपुरथ(६) नाकस्याधिपत्यं प्रपद्य

व्यजयत सुरचूडारत्नघृष्टाग्रपादः ।। १७.५५ ।।

{४.खलशल्ये.५.प्रेरिते,पातिते.६.अपि.}
     अन्वयः- जिष्णुना विषमशराऽरेः सूनुना त्रिभुवनवरशल्ये दानवेन्द्रे प्रोद्धृते बलरिपुः नाकस्य आधिपत्यं प्रपद्य सुरचूडारत्नघृष्टाऽग्रपादः (सन्) व्यजयत ।
     सीo-- इतीति । जिष्णुना जयशीलेन विषमशरारेः पञ्चशरशत्रोर्हरस्य सूनुना कुमारेण त्रिभुवनस्य भुवनत्रयस्य वरे श्रेष्ठे शल्ये शत्रौ । `शल्यश्च कथितः शत्रौ मदनद्रुमयोरपि' । इति विश्वः । दानवेन्द्रे तारके इत्येवंप्रकारेण प्रोद्धृत उत्खनिते । मारिते सतीत्यर्थः । अथ तारकवधानन्तरं बलरिपुः पुरंदरो नाकस्य स्वर्गस्याधिपत्यं राज्यं प्रपद्य प्राप्य सुराणां चूडारत्नैर्मुकुटमणिभिर्धृष्टावग्रपादौ पादाग्रे यस्य । षष्ठीसमासे राजदन्तादित्वादग्रस्य पूर्वनिपातः । तथाभूतः सन् । व्यजयत । सर्वोत्कर्षेण वर्वृत्त इत्यर्थः । स स्वर्गराज्यं प्राप्य निष्कण्टकतया भुनगिति भावः । व्यजयतेति `विपराभ्यां जेः' इत्यात्मनेपदम् । मालिनी वृत्तम् । लक्षणं तूक्तप्रायम् ।। १७.५५ ।।


यं प्रासूत सुतं पुरा च जननी नाम्ना सुहीरेति सा

ख्यातो यस्य बुधेन्द्रमस्तकमणिः श्रीलक्ष्मणाख्यः पिता।
यद्भ्रातृद्वितयं महद्विजयते विद्वत्तया मण्डितं
तेनासौ रचिता कुमारविवृतिः संजीविनी जीवदा ।।
संवत्सरेऽङ्काद्रिपुराण (१८७०) तुल्ये नभस्यमासे बहुले दले च ।
तिथावनङ्गस्य सजीववारे टीका कुमारस्य समापदेषा ।।
शुद्धं त्वशुद्धं च विवेचनीयं सर्वत्र विद्यार्णवपारगेण ।
मयोक्तमेतद्विदुषा परेण पक्षेऽपरस्मिन्ननुकम्पनीयः ।।
टीकासंयुतकाव्यपञ्चकमथ स्तोत्राणि दिक्संख्यका-
न्येकश्छन्दसि चैक एव गणिते साहित्यशास्त्रे त्रयः ।
प्राक्काव्यद्वयटिप्पणीद्वयमिति ग्रन्थावलीसंगता
सीतरामकवेः कृतिः कृतिगले नक्षत्रमालायताम् ।।


इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसम्भवे

महाकाव्ये तारकासुरवधो नाम स्पतदशः सर्गः ।।