कृष्णोपनिषत्

॥ श्री गुरुभ्यो नमः हरिः ॐ ॥

यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया ।
अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ॥ १॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

          ॐ शान्तिः शान्तिः शान्तिः ।

॥ अथ प्रथम खंडः ॥

सम्पाद्यताम्


हरिः ॐ । श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं
   दृष्ट्वा सर्वाण्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः ।
   तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिण्गामो भवन्तमिति ।
   भवान्तरे कृष्णावतारे यूयं गोपिका भूत्व मामालिण्गथ
   अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु । अन्योन्यविग्रहं
  धार्यं तवाण्गस्पर्शनादिह । शाश्वतस्पर्शयितास्माकं
   गृण्हीमोऽवतारान्वयम् ॥ १॥

   रुद्रादीनां वचः शृत्वा प्रोवाच भगवान्स्वयम् ।
   अण्गयण्गं करिष्यामि भवद्वाक्यं करोम्यहम् ॥ २॥

   मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् ।
   यो नन्दः परमानन्दो यशोदो मुक्तिगेहिनी ॥ ३॥

   माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी ।
   प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ॥ ४॥

   तामसी दैत्यपक्ष्एषु माया त्रेधा ह्युदाहृता ।
   अजेया वैष्णवी माया जप्येन च सुता पुरा ॥ ५॥

   देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते ।
   निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः ॥ ६॥

   स्तुवते सततं यस्तु सोऽवतीर्णो महीतले ।
   वने वृन्दावने क्रीडण्गोपगोपीसुरैः सह ॥ ७॥

   गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः ।
   वंशस्तु भगवान् रुद्रः शृण्गमिन्द्रः सगोसुरः ॥ ८॥

   गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः ।
   लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः ॥ ९॥

   गोपरूपो हरिः साक्षान्मायाविग्रहधारणः ।
   दुर्बोधं कुहकं तस्य मायया मोहितं जगत् ॥ १०॥

   दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः ।
   रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम् ॥ ११॥

   बलं ज्ञानं सुराणां वै तेषां ज्ञानं हृतं क्षणात् ।
   शेशनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम् ॥ १२॥

   अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा ।
   ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः ॥ १३॥

   द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः ।
   दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः ॥ १४॥

   दया सा रोहिणी माता सत्यभामा धरेति वै ।
   अघासुरो महाव्याधिः कलिः कंसः स भूपतिः ॥ १५॥

   शमो मित्रः सुदामा च सत्याक्रूरोद्धवो दमः ।
   यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरूपो व्यवस्थितः ॥ १६॥

   दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः ।
   दुग्दोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे ॥ १७॥

   क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ ।
   संहारार्थं च शत्रूणां रक्षणाय च संस्थितः ॥ १८॥

   कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् ।
   यत्स्रष्टुमीश्वरेणासीतच्चक्रं ब्रह्मरूपदृक् ॥ १९॥

   जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः ।
   यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः ॥ २०॥

  कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा ।
   चक्रं शंखं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ॥ २१॥

   यावन्ति देवरूपाणि वदन्ति विभुधा जनाः ।
   नमन्ति देवरूपेभ्य एवमादि न संशयः ॥ २२॥

   गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी ।
   धनुः शार्ङ्गं स्वमाया च शरत्कालः सुभोजनः ॥ २३॥

   अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया ।
   गरुडो वटभाण्डीरः सुदामा नारदो मुनिः ॥ २४॥

   वृन्दा भक्तिः क्रिया बुद्धिः सर्वजन्तुप्रकाशिनी ।
   तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः ।
   भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ॥ २५॥

॥ इति प्रथम खण्डः ॥

॥ अथ द्वितीयः खण्डः ॥

सम्पाद्यताम्


शेषो ह वै वासुदेवात् संकर्षणो नाम जीव आसीत् ।

सोऽकामयत प्रजाः सृजेयेति ।

ततः प्रद्युम्नसंज्ञक आसीत् ।

तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत ।

तस्मात् दश प्रजापतयो मरीच्याद्याः
स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त ।

तेभ्योः सर्वाणि भूतानि च ।

तस्माच्छेषादेव सर्वाणि cअ भूतानि समुत्पद्यन्ते ।

तस्मिन्नेव प्रलीयन्ते ।

स एव बहुधा जायमानः सर्वान् परिपाति ।

स एव काद्रवेयो व्याकरणज्योतिषादिशास्त्रणि निर्मिमाणो
बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन्
शीर्ष्ण सिद्धार्थवदवध्रियमाणः सर्वैर्मुनिभिः
संप्रार्थ्यमानः सहस्रशिखराणि मेरोः
शिरोभिरावार्यमाणो महावाय्वहंकारं निराचकार ।

स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन
रुपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकः
सर्वाणि धानुषशास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधा
विप्रीयमाणो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान्
प्रवर्तयामास ।

स एव भगवान् युगसंधिकाले शारदाभ्रसंनिकाशो
रौहिणेयो वासुदेवः सर्वाणि गदाद्यायुधशास्त्राणि
व्याचक्षाणो नैकान् राजन्यमण्डलान्निराचिकीर्षुः
भूभारमखिलं निचखान ।

स एव भगवान् युगे तुरियेऽपि ब्रह्मकुले जायमानः सर्व
उपनिषदः उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि
विस्तारयिष्णुः सर्वानपि जनान् संतारयिष्णुः
सर्वानपि वैष्णवान् धर्मान् विजृम्भयन्
सर्वानपि पाषण्डान् निचखान ।

स एष जगदन्तर्यामी ।

स एष सर्वात्मकः ।

स एव मुमुक्षुभिर्ध्येयः ।

स एव मोक्षप्रदः ।

एतं स्मृत्वा सर्वेभ्यः पापेभ्यो मुच्यते ।

तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्च्हति ।

तदेतद् दिवा अधीयानः रात्रिकृतं पापं नाशयति ।

नक्तमधीयानो दिवसकृतं पापं नाशयति ।

तदेतद्वेदानां रहस्यं तदेतदुपनिषदां रहस्यम्
एतदधीयानः सर्वत्रतुफलं लभते
शान्तिमेति मनःशुद्धिमेति सर्वतीर्थफलं लभते
य एवं वेद देहबन्धाद्विमुच्यते इत्युपनिषत् ॥
 ॥ इति द्वितीयः खण्डः ॥
   हरिः ॐ तत्सत्

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

 ॐ शान्तिः शान्तिः शान्तिः ।

  ॥ इति कृष्णोपनिषत्समाप्ता ॥

 ॥ भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ॥

अधिकाध्ययनाय

सम्पाद्यताम्
"https://sa.wikisource.org/w/index.php?title=कृष्णोपनिषत्&oldid=351795" इत्यस्माद् प्रतिप्राप्तम्