कोटिविरहम्

(कोटिविरहम् (नारायणभट्टकृतम्) इत्यस्मात् पुनर्निर्दिष्टम्)
कोटिविरहम्
नारायणभट्टः
१९३७

[] हाकविश्रीनारायणभट्टपादविरचितं

[]कोटिविरहम् ।

भङ्ग्या निजागकानामङ्गजमपि मानहीनमाकलयन् ।
संगीतकेतुनामा धीमानासीद्द्विजोत्तमः श्रीमान् ॥ १ ॥
  कलाभिरपि पूर्णात्मा कुमुदामोदमावन् ।
  सतां प्रीतिकरः सोऽयं द्विजेन्द्रः शुशुभेतराम् ॥ २ ॥
तमिन्नेव समये
 संकेलभूमिः सुकुमारतायाः संगीतसाहित्यारोम[]राली ।
 शृङ्गारलक्ष्मीरिव संभृताङ्गी शृङ्गारलीलेति बभूव बाला ॥ ३ ॥
  अधिककुतुकदात्री पश्यतां सा[] समेषा-
   ममृतकिरणलेखेवान्वहं वर्धमाना ।
  अभजत वयसस्तामत्युदारामवस्था-
   मतुलितमपदानं तन्वतीमङ्गयोनेः ॥ ४ ॥
 यथा यथा वक्षसि पक्ष्मलाक्ष्याः कुचद्वयी वृद्धिमवाप तस्याः
 तथा तथावर्धत कामुकानां बिलोकने कापि कुतूहलश्रीः ॥ ५ ॥
 अकर्णयन्तावनवान्गुणोधानाम्रेड्यमानाननिशं जनौघैः
 आकाङ्क्षितान्योन्यविलोकनौ तावास्तासमन्दप्रभयौ युवानौ ॥ ६ ॥


हृदयगूढनिरूढमनोजयोरिति तयोर्वसतोः कुतुका‌र्द्रयोः ।
अभवदभ्युदयाय महो महाननतिदूरगते गिरिजालये ॥ ७ ॥
 आकल्पजालसविशेषमनोहरश्रीः
  साकं व्यस्यनिवहैश्च समानवेषैः
 सोऽयं विवेश गिरिजाभवनं विलासी
  तामुत्सवश्रियमुदीक्षितुमुत्सुकात्मा ॥ ८ ॥
 आकाङ्क्षितार्थजननीमभिवन्द्य गौरी-
  मालोकयन्नभिनवानयमत्सुनौ(मुत्सवौ)धान् ।
 अन्यूनकौतुकभरैः सहितो वयस्यै--
  रध्यारुरोह ललितामथ रत्नवेदीम् ॥ ९ ॥
 आलीवृन्दैरविकनिपुणैरात्मना निर्विशेषैः
  केलीशील सततवशगैरावृता च लकान्तैः ।
 नानाभूषामणिगणरुचा भासयन्ती दिगन्तं
  सा च प्रागादुदितकुतुका द्रष्टुमेबोत्सवं तम् ॥ १० ॥
 नत्वा देवीमभिमतफलप्राप्तिहेतुं भवानी
  मुग्धाक्षी सा सह सहचरैः संचरन्ती सहेलम् ।
 प्राप्ता दैवात्सपदि पुरतस्तस्य संगीतकेतो-
  रत्रानन्दप्रसरमपरा(!) वेदिकामारोह ॥ ११ ॥
विलोकयन्ती तमतीव कान्तं विलोचनासेचनकं युवानम् ।
सा कोऽयमित्यन्तस्दीतचिन्ता माला क्षणं व्याकुलतामवाय ॥ १२ ॥
स च तामवलोकयन्नुपेतामतिमात्रायतलोचनामदूरे ।
हृदि केयमिति प्ररूढचिन्तः क्षणमासीत्प्रतिपत्तिमूढचेताः ॥ १३ ॥
स इति सेति च तौ परिबोधितौ सवयसा शनकैः श्रवणान्तिके ।
अतनुतां परिरम्भणमञ्चलैर्नयन्योनवविनम्रचंचलैः ॥ १४ ॥

 उद्भिधमानपुलको निटिलपरोह-
  दानधर्मकणसुन्दरबक्रविम्बौ ।
 धन्याविमौ विगलितान्यसखौ युवाना-
  वन्योन्यदर्शनमहोत्सवमन्वभूताम् ॥ १५ ॥
 अत्यायतैर्गुणगणैर्निबिडं निबद्धा-
  वाकृष्यतामभिमुखौ तरसा विधाय ।
 अव्याजविक्रमघनो विललास संध्ये(?)
  सव्यापसव्यमिषुभिर्विकिरन्मनोभूः ॥ १६ ॥
 सदनु कतिपयानां नाडिकानां विरामे
  विरतिमुपगतोऽभूदुत्सवश्चण्डिकायाः ।
 विततकुतुकमाजोरेतयोर्नेत्रकोण-
  व्यतिकररसजन्मा तूत्सवो न व्यरंसीत् ॥ १७ ॥
अपयत्सु जनेषु लावतृप्ताववरूढौं गमनाय वेदिकायाः ।
मृदुहासमुधानुलिप्तवत्रौ मितमापृच्छय यथागतं प्रयातौं ॥ १८ ॥
 किमपि किमपि सख्याः श्रोत्रमूले वदन्ती
  बलितवदनमेनं वीक्षमाणा युवानम् ।
 कपटकृतविलम्बा कामिनी सा कथंचि-
  निजनिलयमयासीनिहतानङ्गपीडा ॥ १९ ॥
सेयं सायं प्राप्य गेहं नताशी भेजे तल्प कल्पितं तत्सखीमिः ।
अत्यारूढा चित्तजन्मव्यथा तामध्वश्रान्तिव्याजतो गृहमाना ॥ २० ॥
 पश्यन्ती तं हृदि सुकृतिनं निःश्वसन्ती सुदीर्घ
  नश्यद्धैया नयनकमलादश्रुधारां किरन्ती
 बिसस्ताझी विदलितमनाः सायकर्मीनकेतो-
  रखस्था सा समाजनि मनोमोहना मुग्धगात्री ॥ २१ ॥

विदितविगतिमूलैः सा सखीनां निकायैः
 सततमथ वचोभिः सम्यगाश्वास्यमाना ।
कथमपि धृतशोका वासरान्वत्सराभा-
 न्परिचितधृति निन्ये पञ्चषानञ्चिताङ्गी ॥ २२ ॥
स्फुटमिव कथयन्तीमन्तरुज्जृम्भमाणां
 कुसुमविशिखपीडां मुग्धपातैः कटाक्षैः
स च मधुरमुखीं तां वीक्षमाणः प्रयान्तीं
 युगपदभिहतोऽभूदायुधैरङ्गयोनेः ॥ २३ ॥
चतुरवचनभेदव्यञ्जितातीतवृत्तै-
 स्तद्नु सह वयस्यैरेष मन्दं जगाम ।
गलदतिगुरुकैश्य गन्धमातङ्गमन्द
 गमनमनधगाभ्याश्चिन्तयन्नन्धचेताः ॥ २४ ॥
गवा गेहं प्रियसहचरैः साकमारूढमूलं
 []मारात मनसि सततं गृहमानोऽपि धीमान्
तामेवान्तस्तरलनयनां कल्पयनल्पधैर्य
 क्षामक्षामः समजनि दिनैः पञ्चपैरेष कामी ॥ २५ ॥
वक्त्रं तदुद्गतमनोहरमन्दहासं
 वक्षोरुहावपि च तौ क्रमवर्धमानौ
विस्तारितं जघनमित्यनुवेलमस्य
  चित्तं क्रमेण तरुणीमयमेव जातम् ॥ २६॥
तस्मिन्ननुक्षणमिति प्रविजृम्ममाणे
 मारामये स तु कदाचिदुदारधामा ।


व्याजेन केनचिदनन्यगतिः स्वगेहा-
 देकः प्रियामबलुलोकयिधुः प्रतस्थे ॥ २७ ॥
असे वहन्नधिककोमलमजनानां
 चि[] ल्लीविलासचतुरं मधुरं श[]रासम् ।
अध्यानमन्तिकचरं कथयन्नवक्रं
 साहायमस्व विदधे स[]हकारबाणः ॥ २८ ॥
स्फुरद्रागोन्मेने चरमगिरिसौधावलभी
 नभोमध्यादद्धा विशति नलिनीजीवितसमे
असावक्षीणश्रीरधिकलुलिताङ्गोऽपि शनकैः
 प्रपेदे प्रेयस्याः प्रकृतिरमणीयं निलयनम् ॥ २९ ॥
तदनु मुदितचेताः साध्य वापीमदूरे
 विमलसलिलपूरस्पर्शवीताध्वखेदः ।
अधिकसुभगपातैः सेवितो बा[]नपोतैः
 संकुतुकमभिषेदे मन्दिर सुन्दरामयाः ॥ ३०॥
आवृण्वानामुरसिज़मरोत्सेधमेकेन दोष्णा
 विन्यस्यन्ती तदितरकरे वक्षमापाण्डुगण्डम्
अङ्के सख्या निहितचरणामध्वनि न्यस्तनेत्रा-
 मद्राक्षीत्त मुंदुनि त[१०]लिमें मुग्धगात्रीं शयानाम् ॥ ३१ ॥
तदनु मदनपीडां मानसे देहकान्त्या
 स्फुटमिक कलयन्ती प्रेक्ष्य कान्तामदूरे
कुतुकभरमनोजातकमिश्रीकृतात्मा
 द्रुतमभजत कामी वामनेत्रासकाशम् ॥ ३२ ॥


अभ्यर्थमानमनिशं मनसा पुरस्ता-
 दभ्यागतं समवलोक्य युवानमेनम्
सा स्वगतोक्तिमकरोदमृतद्रवार्द्र-
 मन्दारकान्तिलहरीसुहृदा स्मितेन ॥ ३३ ॥
ततः श्रान्ते कान्ते संविधभुवि सख्या चतुरया
 समानीत नव्यं तृणकटमलकुर्वति शनैः ।
न्यषीदत्सा [११] चारान्मितमधुरवाणीविलसितै-
 र्हरन्ती तच्चेतो हरिणतरुणीमुग्धनयना ॥ ३४ ॥
लपन्ताबन्योन्यं किमपि समुदाचारसरसं
 दिशन्तौ ताम्बूलं परिमिलितकर्पूरसकलम् ।
वदन्तावाकाङ्क्षामधिकचतुरैरक्षिवलनै-
 र्युवानौ तावास्तामुदयदधिकामोदसरसौ ॥ ३५ ॥
बाध्यात्रेण प्रतिष्ठासुमप्रतिष्ठालुमात्मना ।
 कामिनी कामुकं प्राह [१२]यामिनीकामुकामना ॥ ३६॥
यातप्रायमिदं दिवं कमलिनी दीनेयमालोक्यता
 नीरन्ध्रश्च पयोधरः स च शशी दूरेगुना वर्तते
विप्रागारमिदं तदाकसविधे स्वायत्तमेतच ते
 गेहं तत्क्षपय क्षपामिह महान्कार्यातिपातो न चेत् ॥३७॥
अध्वा निर्मल एव नापि सहसा संवर्धते वा तमो
 विद्यन्ते च निकेतनानि सुहृदामृद्धानि मध्येपथम् ।
मुग्धापाङ्गि प[१३]योधरः परमसौ संध्यागमे सांप्रतं
 प्रस्थानोद्यममुन्नमत्प[१४]रिगलद्धारो रुणद्ध्येव मे॥ ३८ ॥


बदलोरिति मुन्धहासमाध्यमिधुरं व्यजितमञ्जरागबन्धम् ।
अरुणं त[१५]रणेरवाप विम्ब व[१६] रुणाशातरुणीवतंसभाव ॥ ३९ ॥
 अथ स विहितसंच्यावन्दनाद्यः समीपे
  कवितधरणिदेवस्यालये तन्नियोगात् ।
 सकुतुकरुचि भुक्त्वा खाद्य संपन्नमन्न
  त्वरितमुपजगाम प्रेयसीवासगेहम् ॥ ४० ॥
 वातानुलिप्ततनुरागमनं तदीयं
  सा च प्रगाढकुतुका परिपालयन्ती
 मुग्वेक्षणा निजमसेवत वासगेह
  मुद्रादरिद्रमदनधुति मुग्धगात्री ॥ ४१ ॥
 उन्निद्रकान्तिलहरीमहनीयगात्रौं.
  संनाहिनी स[१७]रसिजायुधसंप्रहारे ।
 तां पश्यतः क्षितिसुरस्य समुज्जम्भे
  पूर्वाधिका मनसि कामि कुतूहल श्रीः ॥ ४२ ॥
 तल्योपान्ते तदनु चमिथः संनिविष्टौ दिशन्तो
  कपूरैलामिलनासुभगा शुनताम्बूलवीटीम् ।
 संख्या सार्क चतुरवचसा सूचितान्योन्यभाव-
  वैकालापैः कमपि समयं यापयांचक्रतुस्तौ ॥ ४३ ॥
पश्यन्ती पुनरनयोरिजितभेदैरनपरिपीडाम् ।
नातिचिरादतिनिपुणा नाटितनिद्रागमा सखी निरगात् ॥४४॥
 बहिः वल्पं तल्प तदनु स तया दीपकरया
  समादिष्टं भेजे मदनपरिदूनेन वयुषा ।


 हृदा तु प्रत्वयं प्र[१८]सवशरकेलीगृहगतं
  तदीयनत्यन्तं परिहसितपर्वेन्दुलुपमम् ॥ ४५॥
 तदनु शशिमुखी सा प्राप्य शय्यानिकेत
  निजमभजत तल्प निर्मरानपीडा।
 किमपि जनितकम्पैरङ्गकै ङ्गमाला-
  बचन(चरण)चलितमल्लीवल्लरीतुल्यकुल्यः ॥ ४६॥
मनसा सदृशानुरागभाजी मुहुन्धुक्तपरस्पराभिसारौं ।
अवमानभयेन जातचिन्ताबवलन्तौ वधुपा च तावभूताम् ॥ ४७ ॥
 तल्पादनत्परसमुच्चलितोऽथ तत्वा-
  त्पुष्पायुधेन बलिना परिणुद्यमानः
 सोऽयं निवेश शनकैः श[१९] फरेक्षणायाः
  शम्यागृहं शमितकल्पमणिप्रदीपम् ॥ ४८ ॥
 बद्धोधमा तदभिसारविधौ बिसोढुं.
  तत्तादृशं मदनतापमपारयन्ती ।
 मुग्धा विहाय शयनं खयमुत्थिता च
  न्यस्तं च तेन विवरे कुचयोः करानम् ॥ ४९ ॥
 पुलकिततनुवल्ली सा ततः प्रीतिवेगा-
  स्मृदुलभुजलताभ्यां गाढमालिङ्गय कान्तम् ।
 अधिककुतुकमारादानमय्या[२०]दसीयः
  वदनमघरबिम्ब चुम्बति स्म प्रकामम् ॥ ५०॥
 अनुदिवसमयोगे चेतसा कातितं य-
  द्यदपि मदननाम्ना [२१]देशिकेनोपदिष्टम्


 स्फुरितममवदन्तर्यत्त[२२]दात्वे च यूनोः
  सुरतमननुभूतं संवभूबाभिराभम् ॥ ५१ ॥
 मिथुनमिदभुदाखेदलेशानुविद्धं
  पुलकि गलितधैर्यं पुष्यदानन्दभारम् ।
 दृढमभजत जाग्रत्स्वप्नयोर्मध्यसंस्थां
  मदनससमुत्थामत्युदारामवस्थाम् ॥ ५२ ॥
 अथ सुरतविरामे विस्मृतान्योन्यभेदं
  कृतधनपरिरम्भं कोमलाभ्यां कराभ्याम् (भुजाभ्याम्)।
 मिलितवदनबिम्बं मिश्रितोरुप्रकाण्डं
  शयनमभजतां तौ श्रान्तिभाजौ युवानौ ॥ ५३ ॥
 नाराचवाण(पात)परुथे चरणायुधानां
  सादे ततः सरति कर्णयुगान्तरालम् ।
 गाढं कुचान्तरगत परिरभ्य कान्तं.
  वान्ताशुबिन्दु क[२३]मनी बचन बभाये ॥ ५४ ॥
 आबाल्यादपि कान्त कर्णविवरं प्राप्तैस्वदीयैर्गुणै-
  रासक्तं त्वयि मानसे द्विगुणितं जातं त्वदालोकनात् ।
 प्राप्तोऽस्यद्य पुनर्मदीयसुकृतैस्तन्मामनन्याश्रयां
  त्यक्त्वाद्यैव न याहि पाहि मदनातङ्केन दूनामिमाम् ॥५५॥
तन्व्या तया निगदितं शृण्वन्कर्णामृतं बचः ।
प्रत्युवाच प्रसन्नात्मा स कामी वामलोचनाम् ॥ ५६ ॥
अभ्यर्थनीयमतिरागजुषा मया य-
  न्मुग्धे त्वयैव गदितं तदिदं तथापि ।


एतावदद्य कथयामि शपे कुचाभ्या-
 माभ्याममुं जनमवैहि तवैव दासम् ॥ ५७ ॥
इति कृतसमयोऽसौ कल्यमुत्थाय गत्वा
 द्विजवरगृहमारादात्मगेहोपमानम् ।
विहितसकलकृत्यो मृष्टमास्वाद्य चान्नं
 सपदि मुदितचेताः प्राप कान्तानिकेतम् ॥ ५८ ॥
सा च स्वानाद्यखिलमविलम्बेन निर्वर्त्य कृत्यं
 पत्युः प्रत्यागमनपदवीदत्तनेत्रारविन्दा ।
भूयोभूयः किमपि रजनीवृत्तमेव सरन्ती
 पुष्पामोदात्पुलकिततनुः स्वैरमस्थादलिन्दे ॥ ५९ ॥
आयातेन समे प्रियेण सुमुखी सा प्राप्य वासालयं
 स्वच्छप्रच्छदभाजि केलितलिमे तन्वी शयाना सुखम् ।
न्यूनप्रणयप्रवाहसुभगैराकातिश्चेतसा
 तैम्तैनर्मभिरुन्मिषत्परिमलैरहाय निन्ये दिनम् ॥ ६० ॥
क्षणादस्तं याते दिनकृति शनैर्वाति पवने
 समादायामोदं दरदलितजातीसुमनसाम् ।
समारूढे चेन्दौ गगनममृतस्यन्दिकिरणे
 स्मरोन्मादावेगादधिकविवशौ तावभवताम् ॥ ६१ ॥
गतनिजपरभावं गाढगाढप्रहारं
 माणितभरितगेहं मञ्जभूषाविरावम् ।
सुरतमधिकमासीदुद्धतं चित्तरङ्गे
 सति मदनविलासे कामिनां का व्यवस्था ॥ ६२ ॥
समदिवसनिशीथं क्रीडतोरेवमेव
 क्षणवदविदितांशा वत्सराः केऽपि याताः ।

न च सुरतसुखे तौ वीततृष्णावभूतां
 न खलु विषयसङ्गः शीलनेनैति शान्तिम् ॥ ६३॥
इत्थं निवसतोः स्वैरं नित्यं प्र[२४]त्यायोस्तयोः ।
 कदाचिस्वगृहं याता वयस्या कार्यगौरवात् ॥ ६४ ॥
शय्योत्थायमर्थकदा प्रियतम याते प्रभातागमें
 निद्राशेषनिमीलिताक्षिकमला तन्वी शयाना क्षणम् ।
दुर्वारं खलु दैवदुर्विलसित स्वमं स्वयं सा विलो-
 क्यान्यासङ्गिनमात्मवल्लभमतिक्रुद्धा विवुद्धाभवत् ॥ ६५ ॥
निद्राविरामसमयेऽपि रुषा स्फुरन्त्या
 मुद्रादरिद्रतरया परिवृत्तचेताः ।
स्वप्नानुभूतमपि वस्तु तदस्तधैर्या
 तन्वी चिराय परमार्थतयैव मेने ॥ ६६ ॥
सा भामिनी परुषरोपनिनीतचित्ता
 नैवोच्चचाल शयनादतिदूयमाना ।
क्षौमोपधानममलं नयनान्तवान्तै-
 रातन्वती मलिनमश्चभिरझनाक्तैः ॥ ६७ ॥
यथापुरमुपस्थितः स तु विलोकयन्प्रेयसीं
 विकारमयथापुरं विधृतमानमासेदुषीम् ।
विषादभरविह्वलः किमिति चिन्तयन्नन्धधी-
 रुवाच कलितादरं सुरसया गिरा सान्त्वयन् ॥ ६८ ॥
किमेतदयि बल्लभे कथय किं न जानासि मा-
 ममुं तत्र पदाश्रयं किमिति मानमालम्बसे ।


अकारणसमुद्गमामपनयाशु दूरे रुषं
 विवादभरिताशये‌ मयि विधेहि दासे दवाम् ॥ ६९ ॥
अलितचिकुरबन्धं मण्डसंसक्तबाष्पं
 विचलदधरविम्बं विश्लथन्मुग्वगात्रम्
शयनमिदमकाण्डे व्यायतश्वासवातं
 चकितयति मदीयं चण्डि चेतः प्रकामम् ॥ ७०॥
मुच मानम[२५]निदानमिदानीमञ्चिताक्षि हृदि संचिनु मोदम् ।
 सिच वामयनुवाभिरवीरं पञ्चसायकहतं जनमेनम् ॥ ७१ ॥
इति विविधतराभिः सान्त्व्यमानापि वाग्भिः
 प्रतिबचनमुदश्रुः सा यदा न न्यगादीत् ।
अधिकुचतटमस्याः भातराक्ष्यास्तदासौ
 मृदु निजकरपद्मं न्यस्तवानस्तधैर्यम् ॥ ७२ ॥
कितव शठ किमेतन्मा स्पूशेत्यातभाषा
 निजकुचयुगमध्यन्यस्तमुत्सार्य हस्तम् ।
तरुणमरुणिताभ्यामश्रुपूर्णान्तराभ्यां
 नयनसरसिजाभ्यां वीक्ष्य रूक्ष बभाषे ॥ ७३ ॥
अपसर शठबुद्धे मामकीनाजिकेला-
 दलमतिनयवाचा विस्तरैः कृत्रिमस्ते
ऋजुमतिरहमेवं त्वय्युपासडरागा
 ध्रुवम[२६] वमतिपात्रं हन्त जाता जनानाम् ॥ ७४ ॥
तामेव नूतनां याहि किं मया [२७] यातयामया ।
 सति सूने दरोत्फुल्ले कस्य वृ[२८] न्तश्लथे स्पृहा ॥ ७५ ॥


का सा कामिनि कथ्यतां तव सदा या मानसे वर्तते
 सा चेच्चण्डि... त्वमेव समये यातं तदैतद्गते ।
अद्याप्येवमिदं शपे चरणयोर्दृष्टे विवादैरलं
 स्वप्नः किं न्वयमम्बुजाक्षि सकलं स्वप्नोपमं दृश्यते ॥ ७६ ॥
 परिचयवशादस्या रागः थः किमु सप्रित
  धृतरुचिरभूदन्यस्मिन्वा न वेनि नवें जने ।
 किम तमुपभोगोद्रेकामे गतं किमु शुन्यता (?)
  न पुनरधुना मानस्थान मनागपि लक्षये ॥ ७७॥
 गतधृतिरिति तत्तत्तर्कग्रन्कर्कशेन
  सरपरिमक्शोकेनाकुलीमूतचेताः ।
 क्षणमथः धृतमौनं यलसंस्तम्भिता.
  नतवदनमतिष्ठत्संनिधौ सनताङ्ग्याः ॥ ७८ ॥
तथा विषीदन्तमनन्यसंश्रयं न किंचिंदेषा निजगाद भासिनी
अतिप्रमाणारुणितेन केवल दिपक्षतीवक्षत चक्षुषा रुषा ॥ ७९ ॥
 आरोपितागसम[२९]नागसि मय्यकम्मा-
  न्मानोद्धरामनुनयोक्तिभिरप्यसाध्याम् ।
 एना त्यजाम्यहमिति क्षणजातबुद्धिः
  क्रुध्यन्नसौ कृतघनश्वसित प्रतस्थे ॥ ८० ॥
अथ विलम्ब्य विलम्ब्य शनैः शनैः प्रियतमानुगतिं प्रतिपालयन् ।
नियतिमेव मुहः परिगर्हयन्निजमवाप चिरेण निकेतनम् ॥ ८१ ॥
 चिराद्दृष्टैरिष्टैर्विदितनिखिलात्मीयचरितै-
  वैसन्गेहे साकं सुमधुरवचोभिः सहचरैः ।


सारन्मानाकान्ता मनसि दयितामेव सतत
 कथावन्धेस्तस्याः कथमपि स कालं क्षमितवान् ॥ ८२ ॥
निघृतधैर्यविभवे हदि नित्यमित्थं
 निध्यायतः प्रियतमा प्रतिपत्रदैन्यम् ।
अल्पीयसैव समयेन समुज्जम्भे
 पुष्पायुधातिरतिमानमसातापा ॥ ८३ ॥
उरसि निहितं मुक्ताहार क्षिपन्नहिशङ्कया
 मलयजरसं मन्वानोऽन्तर्महाविषसोदरम् ।
पुषि सहसा जातवेदो हिमाम्बुनिषेचने
 शिवशिव बभूवाय साय क्रमासुहृदामसौ ॥ ८४ ॥
गमिष्याम्यवाहं गतदुरभिमानः परिसर
 प्रियाया हीही मां पुनरपोयुननु जनाः ।
कथं वा सोदव्यो मदनपरितापः स्थितमिदं
 न सा द्रष्टव्या मे स्फुरति हृदये सैव तरुणी ॥ ८५ ॥
इति बहुविधविकल्पदोलाधिरूढे कान्ते सा तुः--
याते च कोपविचशे दुयिते वगेहा-
 धोते च चेतसि मनागनुतापलेशे ।
सा भामिनी तद[३०]नुनीतिधृताग्रहापि
 सौभाग्यलोभचकिता न चचाल तल्पात् ॥ ८६ ॥
उत्थाय सेयमुदितस्मृतिरुत्पलाक्षी
 तत्पादनत्पतरसाध्वसनुद्यमाना ।
मत्वा बहिस्तमनिरीक्ष्य युवानमारा-
 दुद्वेलशोकविवशीकृतमानसाभूत् ॥ ८७ ॥


अपश्यन्ती कान्तं किमिदमिति चिन्तापरवशा
 विनिन्दन्ती द्वैवं मुहुरधिकदूनेन मनसा ।
क्षिपन्ती बाप्पाम्भ:प्रसरकलधे दिक्षु नयने
 क्षणं तस्थौ तन्वी कुचनिहित[३१]बाहासरसिजा ॥ ८८॥
स्थित्वा किंचन वञ्चिलामि विधिनेत्युत्कापमानान्तरा
 पश्यन्ती बजतः पदानि कमितुस्तन्वी बहिः प्राङ्गणे ।
भूयः खीयमुपेत्य वासभवनं मानसमारार्तित्रपा-
 शोकव्याकुलिता पपात शयने लूनेव मल्लीलता ॥ ८९ ॥
इतः प्राङिyढाः प्रणयपरिपाटीसुरभिला
 रहः क्रीडास्तास्ताः प्रियदयित विस्मृत्य हृदये।
इदानी मामीपत्कलहकलुषीमूतहृदया-
 मनापृच्छयाकाण्डे यदसि चलितस्तकिमुचितम् ॥९०॥
यन्निमित्त परित्यक्ता पूर्व प्राणसमा मया ।
 सन्निमित्त परित्याज्याः प्राणाश्चाद्य न संशयः ॥ ९१ ॥
तत्तचिन्ताशबलहृदयां प्रान्तगात्री शयानां
 तन्वीमित्यं तपकिरणालीढवल्लीसकुल्याम् ॥
प्राप्ता दैवात्सपदि सविधं तत्सखी जातखेदा
 श्चोतन्माली (?) सरसवचना सान्त्वपूर्व बभाषेः ॥ ९२ ॥
नियसखि वदनं ते किं गलवाष्पमेत-
 द्वहति तुहिनसिक्तेनाम्बुजेनाद्य मैत्रीम् ।
अयि कथय निदानं संविभक्तं हि दुःखं
 ननु भवति जनानां सह्यपीडातिरेकम् ॥ ९३ ॥


क्व ते यातः प्रेयान्प्रहसितहिमांशुं कुमुदिनीं
 गतच्छाया भूयस्तनुरनुकरोतीथमधुना ।
शुचा दीनो मौनं भजति च निकामं परिजनः
 किमेतन्नो जाने वद सखि वयस्यास्मि ननु ते ॥ १४ ॥
 इति पृष्टा तया तन्वी कृत्वा निःश्वसितं शनैः ।
 आदितो दुरवस्थां तामातुरा सन्यवेदयत् ॥ ९५ ॥
श्रुत्वा वृत्तमुवाच सा च युक्योरस्मिन्नवस्थान्तरे
 ना[३२] गः किंचन विद्यते हतविधेरैतद्विलासान्तरम् ।
आयास्यत्यचिरात्तथापि दयितस्त्वत्संनिधिं खिन्नधी
 सौभाग्यं तब तादृशं प्रणयितां तस्यापि ताइग्विधा ॥९६॥
विरहानलेन तव मानसं यथा नियमानसं च परितप्यते भुवम् ।
युदयोः परस्परनिमेलना ततः सुकरा भवेत्सुर[३३] भिवाणशिल्पिनः ॥९७॥
सततमिति बचोमिः स्निग्ध्या केलिसख्या
 विदितहृदयपीडोदन्तया सान्त्व्यमाना
समधिकारितापक्षीयमाणावल्ली
 समयमनयदेषा संस्मरन्ती तमेव ॥ ९८ ॥
इत्थं दैवावधिगतवतोरप्रियं विप्रयोग
 रोषप्रेमव्यतिकरजुषोः सीदतोर्जातखेदम्
यूनोरासीत्सपदि पुरतो बा[३४] रिदानामनेहा
 मानव्याधिक्षपणनिपुणः कामिनीकामुकानाम् ॥ ९९ ॥
चातकीमनसि मोदमावहन्केतकीकुसुमसौरभं वहन् ।
धूतनूतनधनः समाययौ चू[३५]तसायकसखा समीरणः ॥ १०० ॥


सह मदनधनुर्ज्यानिःस्वनेनोज्जजृम्भे
 वियति विततिभाजामारवो नीरदानाम् ।
अपतवनिपृष्ठे नूतना तोयधारा
 सह च विरहभाजां विश्लथैरश्रुपूरैः ॥ १०१ ॥
इत्थं प्रवृत्ते समये धनानामुद्वेलमुद्धूलितसूनरेणुः ।
 उच्छूनमानं मिथुनं तदुच्चैरुच्चाटयामास मनोजमन्त्री ॥ १०२ ॥
विरहमसहमानौ वीतनिःशेषमानौ
 तदनु रहसि दीनौ नुधमानौ स्मरेण
निबिडतमसि घोरे जृम्भमाणे निशीथे
 निजनिजनिलयात्तौ निःसृतौ निःसहायौ ॥ १०३ ॥
शृण्वन्तौ श्रुतिकटु निःवनं धनानां पन्थानं पदयुगलेन वीक्षमाणो ।
 कुबाणौ हृदि च मनोरथाननेकान्दुरिसरविवशौ बिचेरतुस्तौ ॥१०४॥
निग्धश्यामस्तमालरविरलदलसंघातनीरधशाखै-
 राकान्ते प्रान्तभृङ्गोकुलंबिततगमण्डलीमाण्डितान्ते
स्फायद्घोरान्धकारस्थगितदिशि निशीथान्तरे तत्र कुत्रा-
 प्यारामे मारपीडाभरपरिललितैरङ्गकैः संगतौ तौ ॥ १०५ ॥
आबद्धमानौ निभृतं चरन्तावा कस्मिकस्पर्शविकम्पिताऔ ।
 आवेदयामासः परस्परं तावानन्दचन्द्रः स्वयमभ्युञ्चन् ॥ १०६ ॥
आमग्नाङ्गममन्दरागमधुरं तादाश्लिषन्तावुभा-
 वस्त्राम्भोविसरैरतीव शिशिरैरासिच्यमानाङ्गकौ ।
आमोदादगलद्विरावभिनवीभूताविवात्युत्सुका-
 वानन्दामृतवारिधावकुरुतामव्याजमामज्जनम् ॥१०७॥

इति महाकविश्रीनारायणाभट्टपादविरचितं कोटिविरहम् ।


  1. कवर्देशकाली काव्यमालाया संकविशेऽके स्वाहासुधाकर प्रारम्भदिपणे द्रष्टव्यौं. कोटिनिरामयोऽथ अन्य उत्तरमलबार(करल)देशान्तवति कटयनद राजेन श्रीमदुदयवर्मणा करलीयलिपितो देवनागराक्षरैबिलिख्यास्मभ्यं प्रेषित "इति महदुपकृतं भूसूता
  2. केरलीयाः सदाशिवशानिणस्तु कोडिअविरहम् इस अन्धुवास वक्ति, कोडिशब्दः केरलभाषामा भूतनुजाचक इति तदर्थ च.
  3. इंसी
  4. साखिलाना इत्यपि पाठ
  5. कामव्यथाम्
  6. भूमंशमनोहरमः
  7. धनुः,
  8. कामः:
  9. मन्दकायुभिः
  10. तल्पे.
  11. आरात्समीपे सा च न्यवादत्
  12. चन्द्रानना
  13. स्ल्नो मेघध्ल
  14. परिंगलतूहारः (पले) परिगलत धारः
  15. सूर्यस्य.
  16. पश्चिमा दिक्
  17. सदनयुद्ध सनद्धाम्,
  18. कामः
  19. मीनलोचनायाः
  20. एतदीयम्
  21. गुरुणा
  22. तस्मिन्काले
  23. नायिका
  24. प्रत्यहं नूतनयोः
  25. निष्कारणम्
  26. अवमानभाजन
  27. भुरुपायया
  28. लिपिळवन्धने मलान इति यावत्
  29. निरपराधे मायि समारोपितापयधाम्.
  30. अनुनीतिरनुनयः
  31. करकमला बाहाशब्दस्तु भुजावाचक एव प्रसिद्ध
  32. न अपराधः,
  33. मदनशिल्पित
  34. प्रावदसमयः,
  35. कामदेवराहत,
"https://sa.wikisource.org/w/index.php?title=कोटिविरहम्&oldid=290897" इत्यस्माद् प्रतिप्राप्तम्