कौन्तेयवृत्तम् (विद्यावागीशविरचितम्)
कौन्तेयवृत्तम् विद्यावागीशः |
श्रीविद्यावागीशकविविरचितं. कौन्तेयवृत्तम् । प्रथमः सर्गः। दिश्युत्तरस्यां निकषा हिमाचलं चकास्ति शैलः किल गन्धमादनम् । अन्वर्थमुद्रां निजनाम्नि योजयन्प्रसूनसंपत्तिविसारिसौरभैः ॥ १ ॥ सिञ्चन्ति चेतः सुखवृत्तिधारया यत्कन्दराभ्यन्तरवासिनश्चिरम् । मुञ्चन्ति किं चानुचिताः सनातनीर्निरन्वयं बन्धनवासनाः समाः ॥२॥ सदा सदारैरनुदारमानसैर्मुदा यदारामविहारसादरैः । सनादनालोकितमानुभानुभिर्विद्याधराद्यैरतिनीयते तपः ॥ ३ ॥ गाद परिष्वज्य रसार्द्रसुन्दरीरासां पिबन्तो रदनच्छदामृतम् । हिमागमे यत्र हि मायता दरीरध्यासते धन्यतरा निरन्तरम् ॥ ४॥ अधिश्रयन्तो यदधित्यकावनं न शाखिनः किं परिणाहशालिनः । करम्बितास्तारकमौक्तिकश्रिया स्फुरन्ति नित्यं निशि पुष्पिता इव ॥५॥ शृङ्गाणि यस्मिन्निशि भान्त्यनारतं विचित्ररत्नप्रचुराणि कानिचित् । विसृत्वरैरूर्ध्वमुखं मरीचिभिः किर्मीरयन्त्यन्तिकतारकागणम् ॥ ६ ॥ १. अस्य श्रीविद्यावागीशकवेर्देशकालौ न ज्ञायते, परंतु समाप्तिलेखे “माधवभट्ट- तनय भट्टाचार्य इति त्रुटिपूरणस्योपलभ्यमानत्वेन भट्टाचार्यपदस्य बङ्गेषु प्रसिद्धत्वेन बदेशः कदापि भवेत. मत्तापितरौ तु सर्गसमाप्तौ रमामाया स्वयमेव स्तवीति. २. अस्य काव्यस्य पुस्तकमेकमेव शुद्धप्राय सप्तपत्रात्मक प्राचीन श्रीकृष्णचन्द्रभट्टैः काव्यमालार्थ प्रत्तमिति तेषामुपकारवणेनेऽशकास्ताँचिरायुष्टाशिषा योजयाम, ३. सर्वा इत्यर्थः सदा इसी कौन्तेयवचम् । यत्रास्त किंचित्पुरुषायितश्रमास्तल्पान्तमध्यास्य शरन्निशान्तरे । सलीलमिन्दावरविन्दनालकैः पिबन्ति पीयूषरसं सुराङ्गानाः ॥ ७ ॥ प्रभिन्नसप्तच्छदगन्धिभिर्मदैर्निरस्तविन्यस्तपदैरपि क्रमात् । यस्मिन्मदान्धद्विपदर्शनोत्सुका मार्ग मृगेन्द्रा मृगयन्ति मानिनः ॥ ८॥ पञ्चापि पार्थास्तु विना धनंजयं पञ्चालभूपालजया जयान्विताः । तीर्थाश्रमारामगतिप्रसङ्गतो गिरीन्द्रमेनं समया समाययुः ॥ ९ ॥ संभेदमुन्नादतरं तरङ्गिणं वनानि मञ्झून्यवनानि नेत्रयोः । निरूपयन्तस्तदुपत्यकासु ते सुतेजसस्तत्र विचेरुरश्रमाः ॥ १० ॥ विचित्रधातुद्रवनिर्झरस्फुरन्नानामणीनिर्मितरामणीयकम् । अन्तर्विलोकोत्कलिकासमाकुलैस्तद्धर्मराजादिभिरारुरुक्षितम् ॥ ११ ॥ अथैकमत्या मिलिता जितश्रमाः प्रपातभागानपहाय ते समान् । अकृत्रिमेणैव गतागताध्वना नगं तमारोढुमुधोपचक्रमुः ॥ १२ ॥ अथाञ्जसा स्वेदर्पृषन्तिसंततिं मुक्तामणिश्रेणिमिवातिमञ्जुलाम् । शिरीषमृद्धी स्तनभारमन्थरा बभार मालाभरणं नितम्बिनी ॥ १३ ॥ स्रक्लुधे वक्रविधौ तथाविधे चलाञ्चले श्वासबलादुरःस्थले । सकम्पयोः किं च तदूरुदण्डयोHदुश्रियोः शोणपदारविन्दयोः । समाधिमन्तः स्तिमित्तातिकातराः पेतुश्चतुर्णां मसृणा दृगंशवैः॥ १४ ॥ विलासिनीनामिव चारुवीरुधामथाङ्गहारानुपशिक्षयन्निवः । वनाधिदेव्या मृदुचञ्चलीकृतात्किं तालवृन्तादुपलम्भमागतः ॥ १५ ॥ समीरणः शीकरसारमुनिरन्पराङ्गसङ्गी मकरन्दमेदुरः आनन्दयामास नितम्बिनीमिमां विश्रान्तिमेतेऽपि वितेरुरन्तरा ॥१६॥ तामाश्रयन्तीमथ मन्थरां गतिं तथानुकुर्वन्ननुरागसागरः । धर्मात्मजन्मा प्रथमामधित्यकां जगाम यामेन समें सहोदरैः ॥ १७ ॥ १. अस्वः क्षिप्त नष्ट इति यावत् २. जयेनान्विताः, अजयांगोनिजया वा. ३. नदीसंगममित्यर्थः: ४. पृषन्तिशब्दोऽपि रायमुकुटें स्वीकृतः, ५. आदर्श साधेश्लोके- Sो दत्तः नवगु० ९ काव्यमाला विधूनयद्भिस्तिमितांस्तनूरुहान्विहंगरन्तिक्रतो निवेदितम् । अन्विष्य तस्यां विमलापमाप सा सुधारसं पञ्चतयी सरोवरम् ॥ १८॥ अतिप्रकाशेन तलावलम्बिनीं विलोकमानेन कणामणीयसीम् । तटस्थलीमाश्रयताप्यनाविलं क्षणं न साक्षाक्रियते यदञ्जसा ॥ १९ ॥ अजस्रचक्षुःप्रसरावरोधिनो निस्वातभूमीवदनावलम्बिनः । चकासतः स्फाटिकपट्टकस्य यत्तुलामुपास्ते चतुरस्रताभृतः ।। २० ॥ समस्तमन्तर्गतमस्तसंशयं निवेदयन्नुल्लसितप्रभाप्रभम् । जानाति मन्ये जनता सरस्तया समीरणान्दोलितसंवरेण यत् ॥ २१॥ विराजिकादम्बनितम्बिनीगिरं रथाङ्गनारीरतिकेलिमन्दिरम् । पङ्केरुहस्तोमतिरोहितान्तरं तदन्तिके भाति वरं सरोऽत्तरम् ॥ २२ ॥ नितान्तदीव्यत्कलहंसकध्वनिः प्रतीकचञ्चन्मुकुरौर्जुनोर्मिका । मनोहरन्ती रुचिरेव पद्मिनी रसोत्तरेयं सरसी विराजते. ।। २३ ॥ सदारबिन्दद्युतिकृत्सरोहितां समुल्लसच्चञ्चलचारुपुष्करा । तिग्मातपोत्तापतिरस्कृतिक्षमा कादम्बिनी सा सरसीति निश्चयः ॥२४॥ उमेव गौरीयमथापि पार्वतीश्रिया युता किंच हरेस्तनूरिव । द्विजैरुपास्यारुणशोणपुष्करा प्रभातवेलेव विभाति निर्भरम् ॥ २५ ॥ लसन्ति चास्यां कमलानि मङ्गलं मृगेक्षणाया वदनं विलोकितुम् । तद्देवतायाः कृतमूर्तिसंततेः समुद्तानीव मुखानि कौतुकात् ॥ २६ ॥ यः सूचयन्नस्य नगाधिराजतां दधाति शैलस्य किलांतपत्रताम् सोऽयं विशालोन्मुखसुन्दराग्रणीरन्तस्तयोरस्ति पुराणरोहिणः ॥ २७ ॥ निःसंधिसौगन्ध्यसमृद्धिशालिना पर्यन्तविस्तारिपटीरशाखिना । निरन्तरं सौरभसारसंक्रमान्निसर्गगन्धां निजभङ्गमापितः॥२८॥(युग्मम्) अस्ति प्रशस्तोपलजालकल्पिता तन्मूलमालम्ब्य विशालवेदिका । संक्रान्तलक्षच्छदगर्भशोभया विभाति गारुत्मतनिर्मितेव या ॥ २९ ।। १. संवर जलम्, २. हंसाः, अटकाश्च. ३. मुकुरा बकुलाः, आदीश्च. ४. अर्जुनः वलश्च: ५. ऊर्मिकास्तरङ्गाः, अङ्गुलीयकं च. ६. पधिनी स्त्रीविशेषः, क- मस्वती न. ७. कृत कारिका, नाशिका च... सरोहिता सरोभ्यो हिताः रोहितेन स- हिता च एकरो मेघः जलं कसलं वा. कौन्तेयवृत्तम् अथो मृणालानि मृदूनि कानिचिन्मरन्दसाराणि सरोरुहाणि च । आदाय मध्येऽहनि विश्रमाय ते निषेदुरध्यासितसाधुवेदिकाः ॥ ३० ॥ आहर्तुकामो विहितेन हेतुना समानुमत्यात्तरसं रसोत्तरम् । भव्ये मृगव्ये विनिधाय मानसं जगाम जङ्घालतयार्जुनाग्रजः ॥ ३१ ॥ महोरुहच्छायमदभ्रमाश्रितं युवानमेकं तृणतृप्तमसलम् । सकृष्णसारं शरपातसंमितां महीमतीत्य स्थितिमन्तमैक्षत ॥ ३२ ॥ सं यावदिष्वासनिषङ्गसङ्गिनं विभाव्य भीमं बलते. पलायितुम् । संघाय बाणं पवमाननन्दनो जगाम तावत्तदुपान्तिके जवात् ॥ ३३ ॥ प्रस्कन्दमानं वसुहस्तपातिनं पश्यन्तमत्यन्तमधीरया दृशा । आलक्ष्यलक्ष्यं चलमेनमञ्जसा विभेद भीमो निशितेन पत्रिणा ॥ ३४॥ तेने ततस्तेन तदेतदद्भुतं गुणावतंसेन विसारि सौरभम् । विचित्रचेतोहरमाधुरीभर करम्बितं नूनमनूनतेमनैः ॥ ३५ ॥ विभज्य भोज्यं मृदुमेदुरोज्ज्वले शिलातले बल्लभयोपकल्पितम् । आस्वाद्य सर्वेऽपि विधाय विश्रमं विहार कासारमुपेयुत्सुकाः ।। ३६ ।। यथोचितं तान्यवचित्य कौतुकाददूरपद्माकरवारिजानि ते । प्रसन्नवारिण्यवसन्निषद्वरे सरोवरे चिक्षिपिरे विलासिनः ।। ३७ ।। तस्मिन्भवं ते भजमानमञ्जसा योगेन पनाकरनामधेयताम् । आश्लेषलेशादपि तापभञ्जनं शनैः शनैरेव सरो जगाहिरे ॥ ३८ ॥ पयोमिरुच्चैः करतालचालितैः पाणिद्वयीयन्त्रविनिर्गतैरपि । तो सारसासारसिकेलिसंगरं जायापती बिम्रमतो बितेनतुः ॥ ३९ ॥ तदा रसार्द्रेण हृदा कृतादरावनेकज्जातीयजलादिकेलिषुः । श्रियं दधानौ रतिपञ्चबाणयोर्जगन्ति जाने जयतः स्म जम्पती ॥ ४० ॥ तत्रारविन्दच्छदभाजि. वक्षसा भुजक्षिपाभिश्चरणप्रचारणैः निमग्नभङ्गया शयनीयशीलनैस्तेरुः कलाकौशलकल्पनैरमी ।। ४१ ।। निर्गम्य तमात्सरसो रसोत्तरास्तामारविन्दच्छदचारुचक्षुषः । आयासनिश्वाससमीरसंगमैरभ्यासमामोदमयं विधायिनः ।। १२ । १. असलं पुष्टम् काव्यमाला। हर्षावगाहोद्भवदेहलाघवाः खेलासमारम्भनिबद्धमध्यमाः। विश्रामकामां दयितामपीदृशीं निपीयमानाः सुदृशं विशश्रमुः ॥४३॥ मुदं दधानेन तपानुबन्धिना दिनेन तेनेत्थमुदित्वरश्रियम् । सीमानमुल्लङ्घय निसर्गनिर्मितां पराबभूवे कतमो न वासरः ॥ ४४ ॥ चित्रार्चिषो रोचिरुदञ्चयन्करैः संकोचयन्कंचन भानुसंचयम् । अचण्डचञ्चद्रुचियुग्विरोचनश्चुचुम्ब चूलं किल पाश्चिमाचलम् ॥ ४५ ॥ आसन्नविश्लेषमलीमसश्रियां विश्वासमाधातुमिहाम्वुजन्मनाम् । समाचरन्सत्यमिवात्मसंगमे दधार मध्येऽग्नि करं स रागवान् ॥ ४६ ।। दिवाधिकारादपनिद्रपद्मया जगन्ति संतोष्य चरत्करश्रिया । दैवादियं संकुचतीति भावयन्नदृश्यतां नूनममन्यतोचिताम् ॥ ४७ ।। जपावसाने जगतीविलोचनं बद्धा विवस्वन्तमुपासितुं मुदा । काले तदा कुड्मलदम्बुजन्मनां (तां) दधुस्तला(मा)मञ्जलयो द्विजन्मनाम् ।। निर्गम्य माहेन्दमहीध्रकंदरादुद्दामभात्वन्मणिमौलिमञ्जुना । निपीतकिंचित्पयसा पयोनिधौ न्यमज्ज्यताहीनदिनेन पश्चिमे ॥ ४९ प्रसादयन्निर्भरमम्बरस्पृशा करेण माहेन्द्रदिगङ्गनामुखम् । ततश्चिरोत्कण्ठचकोरचक्षुषामासेचनश्चारु चचार चन्द्रमाः ॥ ५० ततः प्रसन्नामुदिते कलानिधौ कुमुद्वतीं योषितमात्ममन्दिरात् । पद्मासना सत्वरमेत्य संमुखी शृङ्गारयामास मुदेव नन्दिनी ॥ ५१ ॥ श्रीसंनिधानत्रपया तया समं न प्राय साक्षात्परिरम्भसंभ्रमम् । प्रभाभिरेनां परिरभ्य निर्भरं प्रमोदयामास परं कलानिधिः ॥ ५२ ।। नीलैकभागं तदखण्डमण्डलं प्राकल्पि लोकैः किल शुक्तिसंपुटम् । गलन्ति यत्तारकवृन्दकैतवात्समौक्तिकार्नीति गृहीतयुक्तिभिः ।। ५३ ॥ ते कौमुदीसंगतचन्द्रकान्तस्रवत्सुघानिर्झरमञ्जुनादम् । निपीयमानाः किल कीरकण्ठीमालापयन्तो मधुरेति हान्तः ॥ ५४ ।। यामान्तरोज्जृम्भितवक्त्रचन्द्राः प्रमीलदम्भोरुहचारुनेत्राः । तयापि तादृग्विधया समेतातिरस्कृतोद्यद्रतिकामदर्पाः ।। ५५ १, चित्राषिों बक्के कौन्तेयवृत्तम् । मन्दं वहत्युत्पलगन्धवाहे समन्ततश्चन्दनकाननान्तः । शिलामिलत्पल्लवतूलिकायां निद्रामवायुः प्रमदार्द्रचित्ताः ।। ५६ ॥ गोपीकान्तपदारविन्दयुगलीरोलम्बशीलान्तरौ यं मातापितरौ हितोन्नतिपरौ श्रीमद्रमामाधवौ । स्निग्धाशीर्भिरपुप्यतां मधुभिदो भृत्येन तेनाहिते काव्येऽस्मिन्प्रमंदाङ्कवत्यवसितः सर्गोऽयमौपक्रमः ।। ५७ ॥ इति श्रीविद्यावागीशकृतौ कौन्तेयवृत्तामिधाने काव्ये स्नेहविहारो नाम प्रथमः सर्गः । द्वितीयः सर्गः। अथ सुप्तोत्थितानेतानसेवत समीरणः। कहारसारसुरभिर्धीरो नीरेणुरौत्तरः ।। १ । तदीयसौरभमरैरुत्तरोत्तरपीवरैः । अनाघ्रातचरैस्तेषामञ्जसा हृतचेतसाम् ॥ २ ॥ आनन्दोच्छृसदङ्गानां दर्शनोत्कलिकावताम् । विषयान्तरसंचारं मनागपि न विभ्रताम् ॥ ३ ॥ दत्तसादरदृष्टीनामुत्तरायतवर्त्म॑नि । कथंचित्सहमानानां तदालोकविलम्बनम् ॥ ४ ॥ कियतापि क्षणेनेदमभून्नयनगोचरः । अभ्यासमेप्यदानीतमनुकूलेन वायुना ॥ ५॥(पञ्चभिः कलापकम्) जघनाभोगभारेण मत्तवारणयामिनी । मनोरथेनाभिययौ द्रुतं द्रुपदनन्दिनी ॥ ६ ॥ उत्पक्ष्मणैकलक्षेण चक्षुषा वीक्षमाणया । करद्वये तदूर्ध्वाग्रे जगृहे महदेतया ॥ ७ ॥ सौगन्धिकमदो रेजे तन्वङ्गया करधारितम् । विकासिमीव राजीवे स्मेरं सरसिजान्तरम् ॥ ८॥ प्रकृत्या पुण्डरीकेण सदृशं पाणिपल्लवे । धार्यमाणमिदं सद्यो दधे कोकनदद्युतिम् ॥ ९ ॥ तन्मुखाम्भोजकह्णारमन्तरा दृग्द्युतिच्छटा । रेजे द्विरेफराजीव राजीवद्वयसंगता ॥ १० ॥ काव्यमाला। अनुजैः पूजितायेदं प्रेयसे धर्मजन्मने । ददौ स्मेराननं सुर्भ्रूमुदा मदिरलोचना ॥ ११ ॥ इदमात्तवतस्तस्य दत्तं दयितया तया । विचकास हृदम्भोजसुखाञ्जनयनाम्बुजम् ।। १२ ।। न स्पर्शन न रूपेण न सौरमभरेण च । तथा तं प्रीणयामास तद्वितीर्णतया यथा ॥ १३ ॥ अथ सौगन्धिकैरेव विहर्तुं विहितस्पृहा ।.. सितेनासिञ्चदधरं विवक्षास्फुरितं प्रिया ॥ १४ ॥ प्रेम्णातिशयमग्नेन धर्मराजेन तां प्रति । समुन्नीतविवक्षेण वचश्चतुरमाददे ॥ १५ ॥ यत्ते स्मितसुधासिक्तं स्फुरत्यधरपल्लवम् । तदिन्दुवदने किंचिद्विवक्षन्तीव लक्ष्यसे ।। १६ ॥ निजाधीने जने सुभ्रूः किंच संकोचमञ्चसि । विपञ्चीवाणि कल्याणि विकासय तदाशयम् ॥ १७ ॥ विन्यस्यन्ती भरं भीमे दृशा कर्णान्तिकस्पृशा । जगाद मधुरस्निग्धं तमवन्ध्यमनोरथा ॥ १८ ॥ नाथ निर्मातुमिच्छामि साधुसौगन्धिकस्रजः । कान्त कामं मम स्वान्तमेतैः खेलितुमीहते ॥ १९ ॥ दृशैवाशयमुन्नीय तस्या धर्मानुजन्मना । वितेने सूनृता वाणी मन्वानेनात्मनो जयम् ॥ २० ॥ चारुकह्वारसंभार मुदे हृदयदेवते । अहं समाहरिष्यामि हंसमालासमत्विषम् ॥ २१ ॥ इत्युक्त्वा वन्दमानस्य पवमानात्मजन्मनः। गदायुद्धप्रसिद्धस्थ बलसंपत्तिशालिनः ।। २२ ॥ प्रस्थानं भीमसेनस्य प्रयुञ्जानः शुभाशिषम् । अनुमेने धर्मसूनुः सत्यवादिधुरंधरः ॥ २३ ॥ कौन्तेयवृत्तम् । अथ प्रतस्थे परितः पादपान्प्रक्षिपन्पदा पार्थः पन्थानमपथे प्रथयन्एवनोपमः ॥ २४ ॥ कियद्दूरमतिक्रम्य स शूरस्तनिताकृतिम् । निरुध्य सरणिं सन्तं हनुमन्तमलोकत ॥ २५ ॥ मुञ्च पन्थानमित्युक्तो नाहं चलितुमुत्सहे । त्वमेव मामितः क्षिप्रं क्षिपति छद्मनाब्रवीत् ॥ २६ ॥ गिरं गृहीत्वा भूतार्थो यत्नैः क्रमविवर्धितैः । मनागपि स्पन्दयितुं न क्षमः प्रणनाम तम् ॥ २७ ॥ गम्भीरकरुणाम्भोधेः प्रकाशितनिजाकृतेः । तस्माद्विदितवृत्तान्तः श्रीदपद्माकरं ययौ ॥ २८ ॥ अन्तरायतया प्राप्ता यक्षा रक्षाधिकारिणः । क्षणेन भीमसेनस्य गदया विकलीकृताः ।। २९ ॥ समुपद्रवमाकर्ण्य धनदः प्राहिणोन्मुहुः । कटकं तमहो भीममरूतृण्याभिवाक्षिपत् ॥ ३० ॥ अथ स्वयमुपायातः कुबेरः परिचिन्त्य तन् । पूजयामास संपत्या तत्कार्यं चान्वमन्यत ॥ ३१ ॥ अवन्ध्यवीक्षणास्त(त्त)स्मादधिगम्य प्रभाविताम् । सौगन्धिकान्युपादाय यथेच्छमथ सोऽभ्ययात् ।। ३२ ।। ततस्तेन समागम्य त्र्यस्ते पाण्डुनन्दनाः । पाञ्चाली प्रमदं पूर्णमवापुः सिद्धलालसाः ॥ ३३ ।। गोपीकान्तपदारविन्द युगलीरोलम्बशीलान्तरौ यं मातापितरौ हितोन्नतिपरौ श्रीमद्रमामाधवौ । स्निग्धाशीर्मिरपुष्यतां मधुमिदो मृत्येन तेनाहिते काव्येऽस्मिन्प्रमदाङ्कवत्यवसितः सर्गो द्वितीयः शुभः ॥ ३४ इति श्रीविद्यावागीशकृतौ कौन्तेयवृत्ताभिधाने.काव्ये सौगन्धिकाहरणो नाम द्वितीयः सर्गः। समाप्तमिदं कौन्तेयवृत्ताभिधानं काव्यम् ॥