कौलोपनिषत्
॥ कौलोपनिषत् ॥
॥ श्रीः ॥ कौलोपनिषत् । शन्नः कौलिकः शन्नो वारुणी शन्नः शुद्धिः शन्नो।आग्निश्शन्नः सर्वं समभवत् । नमो ब्रह्मणे नमः पृथिव्यै नमोऽद्भ्यो नमोऽग्नये नमो वायवे नमो गुरुभ्यः । त्वमेव प्रत्यक्षं सैवासि । त्वामेव प्रत्यक्षं तां वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः । अथातो धर्मजिज्ञासा । ज्ञानं बुद्धिश्च । ज्ञानं मोक्षैककारणम् । मोक्षस्सर्वात्मतासिद्धिः । पञ्च विषयाः प्रपञ्चः । तेषां ज्ञानस्वरूपाः । योगो मोक्षः । अधर्मकारणाज्ञानमेव ज्ञानम् । प्रपञ्च ईश्वरः । अनित्यं नित्यम् । अज्ञानं ज्ञानम् । अधर्म एव धर्मः । एष मोक्षः । पञ्च बन्धा ज्ञानस्वरूपाः । पिण्डाज्जननम् । तत्रैव मोक्षः । एतज्ज्ञानम् । सर्वेन्द्रियाणां नयनं प्रधानम् । धर्मविरुद्धाः कार्य्याः । धर्मविहिता न कार्य्याः । सर्वं शाम्भवीरूपम् । आम्नाया न विद्यन्ते । गुरुरेकः । सर्वैक्यताबुद्धिमन्ते । आमन्त्रसिद्धेः । मदादिस्त्याज्यः । प्राकट्यं न कुर्य्यात् । न कुर्य्यात्पशुसम्भाषणम् । अन्यायो न्यायः । न गणयेत्कमपि । आत्मरहस्यं न वदेत् । शिष्याय वदेत् । अन्तः शाक्तः । बहिः शैवः । लोके वैष्णवः । अयमेवाचारः । आत्मज्ञानान्मोक्षः । लोकान्न निन्द्यात् । इत्यध्यात्मम् । व्रतं न चरेत् । न तिष्ठेन्नियमेन । नियमान्न मोक्षः । कौलप्रतिष्ठां न कुर्य्यात् । सर्वसमो भवेत् । स मुक्तो भवति । पठेदेतानि सूत्राणि प्रातरुत्थाय देशिकः । आज्ञासिद्धिर्भवेत्तस्य इत्याज्ञा पारमेश्वरी । यश्चाचारविहीनोऽपि यो वा पूजां न कुर्वते । यदि ज्येष्ठं न मन्येत नन्दते नन्दने वने । शन्नः कौलिकः । ॐ शान्तिः शान्तिः शान्तिः । ॥ कौलोपनिषत्समाप्ता ॥ ॥ इति कौलोपनिषत् ॥