कौशिकपद्धतिः/अध्यायः ०९
← अध्यायः ०८ | कौशिकपद्धतिः अध्यायः ०९ केशवः |
अध्यायः १० → |
अथ नवमोऽध्यायः
अथ क्रव्याच्छमनेन सहावसथ्याधानं व्याख्यास्यामः
[पित्र्यमग्निं शमयिष्यञ्ज्येष्ठस्य चाविभक्तिन एकाग्निमाधास्यन् ॥ कौशिकसूत्र ९,१{६९}.१ ॥]
सादित्ये अरणिप्रदानं करोति । दक्षिणतः पत्नी अधरारणिं गृह्णाति । उत्तरतो यजमान उत्तरारणिम् । अरणिलक्षणे अरणिः उक्ता तत्र मन्थने यो विधिश्च ।ऽयो अश्वत्थःऽ (तैब्रा १.२.१) इति द्वाभ्यां यजमानं वाचयति.
अर्चयित्वा दहेद्रूपं चन्दनेन समालभेत्.
उभयोर्वाग्यमनं तावत्पूर्णाहुतिविसर्जनम् ॥
[अमावास्यायां पूर्वस्मिन्नुपशाले गां द्विहायनीं रोहिणीमेकरूपां बन्धयति ॥ कौशिकसूत्र ९,१{६९}.२ ॥]
अमावास्यायां पूर्वस्मिन्नुपशाले गां द्विवर्षां बन्धयति ॥
[निशि शामूलपरिहितो ज्येष्ठोऽन्वालभते ॥ कौशिकसूत्र ९,१{६९}.३ ॥]
कम्बलपरिहितो यजमानो गामन्वालभते ॥
पत्न्यहतवसना ज्येष्ठम् ॥ कौशिकसूत्र ९,१{६९}.४ ॥
पत्नीमन्वञ्च इतरे ॥ कौशिकसूत्र ९,१{६९}.५ ॥
त्रिर्मन्त्रजपम् ॥
[अथैनानभिव्याहारयति अध्रिगो शमीध्वम् । सुशमि शमीध्वम् । शमीध्वमध्रिगा ३ उ इति त्रिः ॥ कौशिकसूत्र ९,१{६९}.६ ॥]
ऽअध्रिगो शमीध्वम्ऽ इति कर्ता मन्त्रं ब्रवीत्युषसि । कर्ता शान्त्युदकं च करोति । शान्तिगणेऽयन्मातलीऽ (११.६.२३) यावत् ॥
[अयमग्निः सत्पतिः (७.६२) नडमा रोह (१२.२) इत्यनुवाकं महाशान्तिं च शान्त्युदक आवपते ॥ कौशिकसूत्र ९,१{६९}.७ ॥]
ऽअयमग्निः सत्पतिःऽ इत्यृचाऽनडमा रोहऽ इत्यनुवाकः वास्तोष्पत्यो मातृनामा चातनः शान्तिगणश्च । एतानि शान्त्युदक आवपति । ततः पश्चाद्यन्मातलीं कृत्वा शान्त्युदकं समापयेत् । ततः कर्ता आचामयति सम्प्रोक्षति च । पत्नीं च ॥
[अग्ने अक्रव्याद्(१२.२.४२) इति भ्रष्ट्राद्दीपं धारयति ॥ कौशिकसूत्र ९,१{६९}.८ ॥]
ऽअग्ने अक्रव्याद्ऽ इत्यृचा एकावसाना भ्राष्ट्रातम्बरीषान्महानसाद्वाग्निमानीयावसथ्याशालाया मध्ये । यवा यत्र स्थापितं तत्स्थानं भ्राष्ट्रमित्युच्यते । तस्मादग्निं विसृज्य भूमेः दीपं धारयति ॥
[भूमेश्चोपदग्धं समुत्खाय ॥ कौशिकसूत्र ९,१{६९}.९ ॥]
तेन दीपेन भूमिं दग्धां समुत्खाय ॥
आकृतिलोष्टवल्मीकेनास्तीर्य ॥ कौशिकसूत्र ९,१{६९}.१० ॥
[शकृत्पिण्डेनाभिलिप्य ॥ कौशिकसूत्र ९,१{६९}.११ ॥]
सिकताभिः प्रकीर्याभ्युक्ष्य ॥ कौशिकसूत्र ९,१{६९}.१२ ॥
लक्षणं कृत्वा ॥ कौशिकसूत्र ९,१{६९}.१३ ॥
पुनरभ्युक्ष्य ॥ कौशिकसूत्र ९,१{६९}.१४ ॥
तस्यां व्रीहीयवावोप्येत्यादि सर्वं भवति ॥
[पश्चाल्लक्षणस्याभिमन्थनं निधाय ॥ कौशिकसूत्र ९,१{६९}.१५ ॥]
ततः पश्चाल्लक्षणस्याभिमन्थनं निधाय मन्थनस्थाने ॥
मन्थनस्थानमुच्यते
[गोऽश्वाजावीनां पुंसां लोमभिरास्तीर्य व्रीहियवैश्च शकृत्पिण्डमभिविमृज्य प्राञ्चौ दर्भौ निदधाति ॥ कौशिकसूत्र ९,१{६९}.१६ ॥]
वृषभरोमाण्यश्वरोमाण्यजरोमाणि मेषरोमाणि पुरुषरोमाणि अग्निपतनस्थान आस्तीर्य व्रीहियवैश्च शुष्कगोमयानि च । प्राञ्चौ दर्भौ निदधाति ॥
[वृषणौ स्थः इत्यभिप्राण्यारण्यौ ॥ कौशिकसूत्र ९,१{६९}.१७ ॥
तयोरुपर्यधरारणिम् ॥ कौशिकसूत्र ९,१{६९}.१८ ॥
दक्षिणतोमूलाम् ॥ कौशिकसूत्र ९,१{६९}.१९ ॥
पश्चात्प्रजननामुर्वश्यसि इति ॥ कौशिकसूत्र ९,१{६९}.२० ॥
आयुरसि इति मूलत उत्तरारणिमुपसन्धाय ॥ कौशिकसूत्र ९,१{६९}.२१ ॥]
ऽवृषणौ स्थःऽ इत्यनेन मन्त्रेण तत्रोपरि अरणी दत्त्वा तस्योपरि उच्छ्वासं ददाति । अरणिलक्षण उक्तं मन्थनविधानम् ।ऽउर्वश्यसिऽ इति ।ऽआयुरसिऽ इत्यनेन मन्त्रेण उत्तरारणिमूलमधरारणिना सह संयोज्यम् । पत्नी पश्चान्मुखी मन्थं धारयति । पूर्वाभिमुखो यजमानो मन्थति ॥
[पृतनाजितम् (७.६३) इत्याहूय ॥ कौशिकसूत्र ९,१{६९}.२२ ॥]
ऽपृतनाजितम्ऽ इत्यृचाग्निमाह्वयति ॥
[अभिदक्षिणं ज्येष्ठस्त्रिरभिमन्थति ओं भूर्गायत्रं छन्दोऽनुप्रजायस्व त्रैष्टुभं जागतमानुष्टुभमो भूर्भुवः स्वर्जनदोमिति ॥ कौशिकसूत्र ९,१{६९}.२३ ॥
अत ऊर्ध्वं यथाकामम् ॥ कौशिकसूत्र ९,१{६९}.२४ ॥]
ततो यजमानः प्रदक्षिणं त्रिरभिमन्थति ।ऽओं भूर्गायत्रं छन्दोऽनुप्रजायस्वऽ इत्याद्यधिकृतो मन्त्रः । त्रिर्मन्त्रावृत्तिः । मन्थनमन्त्राः ॥ नवमेऽध्याये प्रथमा कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ६९ ॥
________________________________
[मन्थामि त्वा जातवेदः सुजातं जातवेदसम् । स नो जीवेष्वा भज दीर्घमायुश्च धेहि नः ॥ जातोऽजनिष्ठा यशसा सहाग्ने प्रजां पशूंस्तेजो रयिमस्मासु धेहि । आनन्दिनो मोदमानाः सुवीरा अनामयाः सर्वमायुर्गमेम ॥ उद्दीप्यस्व जातवेदोऽव सेदिं तुष्णां क्षुधं जहि । अपास्मत्तम उछत्वप ह्रीतमुखो जह्यप दुर्हार्द्दिशो जहि ॥ इहैवैधि धनसनिरिह त्वा समिधीमहि । इहैधि पुष्टिवर्धन इह त्वा समिधीमहि इति ॥ कौशिकसूत्र ९,२{७०}.१ ॥
प्रथमया मन्थति ॥ कौशिकसूत्र ९,२{७०}.२ ॥
द्वितीयया जातमनुमन्त्रयते ॥ कौशिकसूत्र ९,२{७०}.३ ॥
तृतीययोद्दीपयति ॥ कौशिकसूत्र ९,२{७०}.४ ॥
चतुर्थ्योपसमादधाति ॥ कौशिकसूत्र ९,२{७०}.५ ॥
यत्त्वा क्रुद्धाः (१२.२.५) इति च ओं भूर्भुवः स्वर्जनदोमिति अङ्गिरसां त्वा देवानामादित्यानां व्रतेना दधे । द्यौर्महूनासि भूमिर्भूम्ना तस्यास्ते देव्यदितिरुपस्थेऽन्नादायान्नपत्याया दधतिति ॥ कौशिकसूत्र ९,२{७०}.६ ॥]
ऽमन्थामि त्वा जातवेदःऽ इत्यृचा मन्थति ।ऽजातोऽजनिष्ठाःऽ इत्यृचा जातमनुमन्त्रयते ।ऽउद्दीप्यस्वऽ इत्यृचा ज्वलन्तमनुमन्त्रयते ।ऽइहैवैधि धनसनिःऽ इत्यृचाऽयत्त्वा क्रुद्धाःऽ इत्यृचा च द्वाभ्यामग्नौ काष्ठान्यादधाति ॥
[लक्षणे प्रतिष्ठाप्योपोत्थाय ॥ कौशिकसूत्र ९,२{७०}.७ ॥
अथोपतिष्ठते ॥ कौशिकसूत्र ९,२{७०}.८ ॥
अग्ने गृहपते सुगृहपतिरहं त्वयाग्ने गृहपतिना भूयासम् । सुगृहपतिस्त्वं मयाग्ने गृहपतिना भूयाः । अस्थूरि णौ गार्हपत्यानि दीदिहि शतं समाः इति ॥ कौशिकसूत्र ९,२{७०}.९ ॥]
ऽओं भूर्भुवः स्वःऽ इत्यादिमन्त्रेण लक्षणे प्रतिष्ठाप्य तत उपतिष्ठते ।ऽसत्यं बृहत्ऽ (१२.१.१९) इति नवभिःऽशान्तिवाऽ (१२.१.५९) इति दशम्याऽउदायुषाऽ (३.३१.१०११) इति द्वाभ्याम्ऽअग्ने गृहपतेऽ इत्यृचा वैतानाग्निमुपतिष्ठते ॥
[व्याकरोमि (१२.२.३२) इति गार्हपत्यक्रव्यादौ समीक्षते ॥ कौशिकसूत्र ९,२{७०}.१० ॥]
ततः क्रव्यादं मन्थनात्पृथक्कृत्यऽव्याकरोमिऽ इत्यृचा गार्हपत्यक्रव्यादौ च समीक्षते ॥
[शान्तमाज्यं गार्हपत्यायोपनिदधाति ॥ कौशिकसूत्र ९,२{७०}.११ ॥]
शान्तमाज्यं गार्हपत्यसमीपे निदधाति ॥
[माषमन्थं क्रव्यादम् ॥ कौशिकसूत्र ९,२{७०}.१२ ॥]
माषमन्थं क्रव्यात्समीपे निदधाति ॥
[उप त्वा नमसा (३.१५.७) इति पुरोनुवाक्या ॥ कौशिकसूत्र ९,२{७०}.१३ ॥]
तत आज्यसंस्कारं कृत्वा स्रुचं च सम्मृज्य प्रतप्य स्रवं स्रुचि ग्रहणं कृत्वा ऊर्ध्वस्थितः समिदुत्तरांऽउप त्वा नमसाऽ इत्यृचान्ते ओंकारं कृत्वा पुरोनुवाक्यां वदेत् ॥
विश्वाहा ते (३.१५.८) इति पूर्णाहुतिं जुहोति ॥ कौशिकसूत्र ९,२{७०}.१४ ॥
अस्मिन् काले पुण्याहवाचनं सायंहोमदानम् । दश गाः कर्त्रे दद्यात् । हिरण्यदानं सदस्येभ्यो ददाति । ब्राह्मणभोजनमुत्सर्गः शतादि यथाशक्ति वा ॥
[यो नो अग्निः (१२.२.३३) इति सह कर्त्रा हृदयान्यभिमृशन्ते ॥ कौशिकसूत्र ९,२{७०}.१५ ॥]
ऽयो नो अग्निःऽ इत्यृचा सह कर्त्रा सर्वे हृदयान्यभिमृशन्ति ॥ द्वितीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ७० ॥
________________________________
[अंशो राजा विभजतीमावग्नी विधारयन् । क्रव्यादं निर्णुदामसि हव्यवाडिह तिष्ठतु इति विभागं जपति ॥ कौशिकसूत्र ९,३{७१}.१ ॥]
ऽअंशो राजा विभजतिऽ इत्यृचा मन्त्रेण क्रव्यादं विभजति ॥
[सुगार्हपत्यः (१२.२.४५) इति दक्षिणेन गार्हपत्ये समिधमादधाति ॥ कौशिकसूत्र ९,३{७१}.२ ॥]
ऽसुगार्हपत्यःऽ इत्यर्धर्चद्वयेन गार्हपत्ये शान्तसमिध आदधाति ॥
[यः क्रव्यात्तमशीशममिति सव्येन नडमयीं क्रव्यादि ॥ कौशिकसूत्र ९,३{७१}.३ ॥]
ऽयः क्रव्यात्तमशीशमम्ऽ इति यजुषा वामेन हस्तेन नडमयीं समिधमादधाति । नडो नलः ॥
[अपावृत्य (१२.२.३४३९) इति मन्त्रोक्तं बाह्यतो निधाय ॥ कौशिकसूत्र ९,३{७१}.४ ॥]
ऽअपावृत्यऽ इति षड्भिरृग्भिः क्रव्यादं गृहीत्वा एकाग्निं प्रदक्षिणं कृत्वा दक्षिणस्यां दिशि निष्क्रम्य ततो गृहद्वारे भूमौ निदधाति क्रव्यादम् ॥
[नडमा रोह (१२.२.१) समिन्धते (१२.२.१११२) इषीकां जरतीम् (१२.२.५४) प्रत्यञ्चमर्कम् (१२.२.५५) इत्युपसमादधाति ॥ कौशिकसूत्र ९,३{७१}.५ ॥]
ततोऽनडमा रोहऽ इत्यृचा,ऽसमिन्धतेऽ इति द्वे,ऽइषीकां जरतीम्ऽ इत्येका,ऽप्रत्यञ्चमर्कम्ऽ इत्येका । एताभिः पुराणी इषीका शरवीरिणतिल्पिञ्जिकानलाश्चैतानि काष्ठान्यादधाति सकृद्वामेन हस्तेन ॥
[यद्यग्निः (१२.२.४) यो अग्निः (१२.२.७) अविः कृष्णा (१२.२.५३) मा नो रुरोः शुचद्विदः शिवो नो अस्तु भरतो रराणः । अतिव्याधी व्याधो अग्रभीष्ट क्रव्यादो अग्नीञ्छमयामि सर्वानिति शक्त्या माषपिष्टानि जुहोति ॥ कौशिकसूत्र ९,३{७१}.६ ॥]
ऽयद्यग्निःऽ इत्येका,ऽयो अग्निः क्रव्याद्ऽ इत्येका,ऽअविः कृष्णाऽ इत्येका,ऽमा नो रुरोःऽ इत्येका एताभिः शुक्त्या माषपिष्टं जुहोति ॥
[सीसं दर्व्यामवधायोद्ग्रथ्य मन्थं जुह्वञ्छमयेत् ॥ कौशिकसूत्र ९,३{७१}.७ ॥]
तस्मिन् सीसं दर्विदण्डे बद्ध्वा ततो माषमन्थं दर्व्या जुहोति ॥
[नडमा रोह (१२.२.१४) इति चतस्रः अग्ने अक्रव्याद्(१२.२.४२) इमं क्रव्याद्(१२.२.४३) यो नो अश्वेषु (१२.२.१५) अन्येभ्यस्त्वा (१२.२.१६१८) हिरण्यपाणिम् (३.२.१.८१०) इति शमयति ॥ कौशिकसूत्र ९,३{७१}.८ ॥]
ऽनडमा रोहऽ इति चतस्रः,ऽअग्ने क्रव्याद्ऽ इत्येका,ऽइमं क्रव्यादा विवेशऽ इत्येका,ऽयो नो अश्वेषु वीरेषुऽ इत्येका,ऽअन्येभ्यस्त्वा पुरुषेभ्यःऽ इति तिस्रः एतैर्मन्त्रैर्माषमन्थं जुहोति सकृत्क्रव्यादि ।ऽहिरण्यपाणिम्ऽ इति तिसृभिः सक्तुमन्थं जुहोति । यथा शमयति तथा होतव्यम् ॥
[दक्षिणतो जरत्कोष्ठे शीतं भस्माभिविहरति ॥ कौशिकसूत्र ९,३{७१}.९ ॥
शान्त्युदकेन सुशान्तं कृत्वावदग्धं समुत्खाय ॥ कौशिकसूत्र ९,३{७१}.१० ॥
परं मृत्यो (१२.२.२१) इत्युत्थापयति ॥ कौशिकसूत्र ९,३{७१}.११ ॥]
ततः जीर्णपिटके क्रव्यादं भस्म कृत्वा ततः शान्त्युदकेन तद्भूमिस्थानं सुशान्तं कृत्वा दग्धं खात्वा पिटके प्रक्षिप्य ततःऽपरं मृत्योऽ इत्यृचा पिटकं यजमानशिरसि ददाति ॥
[क्रव्यादम् (१२.२.८१०) इति तिसृभिर्ह्रीयमाणमनुमन्त्रयते ॥ कौशिकसूत्र ९,३{७१}.१२ ॥]
ऽक्रव्यादमग्निम्ऽ इति तिसृभिर्ह्रीयमाणमनुमन्त्रयते ॥
[दीपाद्याभिनिगदनात्प्रतिहरणेन व्याख्यातम् ॥ कौशिकसूत्र ९,३{७१}.१३ ॥]
वामेन हस्तेन दीपं धारयति । दक्षिणेन हस्तेन अलाबु उदकपूर्णं धारयति । शिरसि क्रव्यादपिटकमग्ने स्थित्वा वाग्यताः सर्वे पश्चाद्गच्छन्ति ॥
[अविः कृष्णा (१२.२.५३) इति निदधाति ॥ कौशिकसूत्र ९,३{७१}.१४ ॥]
अरण्ये ऊषरादिदेशेऽअविः कृष्णाऽ इत्यृचा क्रव्यादपिटकं निदधाति । ततः अलाबूदकेन दीपमवसिच्यऽयथा सूर्यऽ (१०.१.३२) इत्यृचा प्रदक्षिणमावृत्य तत आव्रजन्ति सर्वे ॥
[उत्तमवर्जं ज्येष्ठस्याञ्जलौ सीसानि ॥ कौशिकसूत्र ९,३{७१}.१५ ॥]
सीसं नदीफेनं लोहमृत्तिका एतानि त्रीणि द्रव्याणि यजमानस्याञ्जलौ दत्त्वा ॥
[अस्मिन् वयम् (१२.२.१३१४) यद्रिप्रम् (१२.२.४०) सीसे मृड्ढ्वम् (१२.२.१९२०) इत्यभ्यवनेजयति ॥ कौशिकसूत्र ९,३{७१}.१६ ॥]
ऽअस्मिन् वयं सङ्कुसुकेऽ इति द्वे,ऽयद्रिप्रं शमलम्ऽ इत्येका,ऽसीसे मृड्ढ्वम्ऽ इति द्वे इत्येतैर्मन्त्रैरुदकसहितेन सीसेन हस्तप्रक्षालनं करोति ॥
[कृष्णोर्णया पाणिपादान्निमृज्य ॥ कौशिकसूत्र ९,३{७१}.१७ ॥
इमे जीवाः (१२.२.२२) उदीचीनैः (१२.२.२९) इति मन्त्रोक्तम् ॥ कौशिकसूत्र ९,३{७१}.१८ ॥
त्रिः सप्त (१२.२.२९) इति कूद्या पदानि योपयित्वा नदीभ्यः ॥ कौशिकसूत्र ९,३{७१}.१९ ॥]
कृष्णोर्णया पाणिपादान्मार्जयित्वा निज्येष्ठाःऽइमे जीवा वि मृतैःऽ इत्यृचा प्राङ्मुखा आगच्छन्ति ।ऽउदीचीनैःऽ इत्यर्धर्चेन तत उदङ्मुखा आगच्छन्ति । अभिमन्त्रयते ।ऽत्रिः सप्त कृत्वःऽ इत्यर्धर्चेन कूद्या पदानि लोपयित्वा आ नदीभ्यः ॥
[मृत्योः पदम् (१२.२.३०) इति द्वितीयया नावः ॥ कौशिकसूत्र ९,३{७१}.२० ॥]
ऽमृत्योः पदम्ऽ इत्यर्धर्चेन द्वितीयया कूद्या पदानि लोपयति आ नावः ॥
[परं मृत्यो (१२.२.२१) इति प्राग्दक्षिणं कूदीं प्रविध्य ॥ कौशिकसूत्र ९,३{७१}.२१ ॥]
ऽपरं मृत्योऽ इत्येकया प्राग्दक्षिणस्यां दिशि कूदीं प्रक्षिपति ॥
[सप्त नदीरूपाणि कारयित्वोदकेन पूरयित्वा ॥ कौशिकसूत्र ९,३{७१}.२२ ॥]
गृहसमीपे गत्वा सप्त नदीरूपाणि कारयित्वोदकेन पूरयित्वा सप्त नावः कारयति । तासु प्रक्षिप्य सहिरण्याः सयवाः सर्वे भवन्ति ॥
[आ रोहत सवितुर्नावमेताम् (१२.२.४८) सुत्रामाणम् (७.६.३) महीमू षु (७.६.२) इति सहिरण्यां सयवां नावमारोहयति ॥ कौशिकसूत्र ९,३{७१}.२३ ॥]
ततः सर्वे नावमारोहन्ति । एतैर्मन्त्रैः कर्तानुमन्त्रयते । सकृन्मन्त्रः ।ऽआ रोहत सवितुःऽ इत्यर्धर्चेनऽसुत्रामाणंऽऽमहीमू षुऽ इत्येकैका । सकृन्मन्त्रः । सप्त नावान्ते सर्वे उत्तरन्ति ॥
[अश्मन्वती रीयते, उत्तिष्ठता प्रतरता सखायः (१२.२.२६२७) इत्युदीचस्तारयति ॥ कौशिकसूत्र ९,३{७१}.२४ ॥]
ऽअश्मन्वती रीयतेऽ इत्येकाऽउत्तिष्ठता प्र तरता सखायःऽ इत्येका एताभ्यामुदङ्मुखोत्तरतामनुमन्त्रयते । केचित्तस्मिन्नावां सहिरण्यं यवान् प्रक्षिप्य तत उत्तरन्ति । नवमेऽध्याये तृतीया कण्डिका ॥ Kऔशिकपद्धतिकण्डिका ७१ ॥
________________________________
[उत्तरतो गर्त उदक्प्रस्रवणेऽश्मानं निदधात्यन्तश्छिन्नम् ॥ कौशिकसूत्र ९,४{७२}.१ ॥]
उत्तरतो गर्त उदक्प्रस्रवणे कर्तव्यः । तस्मिन्नकर्णमश्मानमुदकमध्य निदधाति ॥
[तिरो मृत्युम् (१२.२.२३) इत्यश्मानमतिक्रामति ॥ कौशिकसूत्र ९,४{७२}.२ ॥]
ऽतिरो मृत्युम्ऽ इति पादेनाश्मानं स्वपद्भ्यामतिक्रामति कर्ता ॥
[ता अधरादुदीचीः (१९.२.४१) इत्यनुमन्त्रयते ॥ कौशिकसूत्र ९,४{७२}.३ ॥]
ऽता अधरादुदीचीःऽ इत्यृचानुमन्त्रयते ॥
[निस्सालाम् (२.१४) इति शालानिवेशनं सम्प्रोक्ष्य ॥ कौशिकसूत्र ९,४{७२}.४ ॥]
ऽनिःसालाम्ऽ इति सूक्तेनाग्निशालागृहं शान्त्युदकेन सम्प्रोक्ष्य ॥
[ऊर्जं बिभ्रत्(७.६०) इति प्रपादयति ॥ कौशिकसूत्र ९,४{७२}.५ ॥]
ऽऊर्जं बिभ्रत्ऽ इति प्रतिपादयति । सर्वत्र सूक्तप्रयोगः । एतयोः सर्वत्र विधिकर्म । सर्वे शालां प्रविशन्ति । केचिद्गृहद्वारे महाशान्तिं चतुर्गणीमुच्चैरभिनिगदन्ति । केचिन्न कुर्वन्ति । तत्र विकल्पः ॥
[वैश्वदेवीम् (१२.२.२८) इति वत्सतरीमालम्भयति ॥ कौशिकसूत्र ९,४{७२}.६ ॥]
ऽवैश्वदेवीम्ऽ इत्यृचा वत्सिकामालम्भयति ॥
[इममिन्द्रम् (१२.२.४७) इति वृषम् ॥ कौशिकसूत्र ९,४{७२}.७ ॥]
ऽइममिन्द्रम्ऽ इत्यर्द्धर्चत्रयेण वृषभमभिमन्त्रयते । अनड्वाहं वा ॥
[अनड्वाहम् (१२.२.४८) अहोरात्रे (१२.२.४९५२) इति तल्पमालम्भयति ॥ कौशिकसूत्र ९,४{७२}.८ ॥]
ऽअहोरात्रे अन्वेषिऽ इति चतसृभिः शयनमालम्भयति ॥
[आ रोहतायुः (१२.२.२४२५) इत्यारोहति ॥ कौशिकसूत्र ९,४{७२}.९ ॥]
ऽआ रोहतायुर्जरसम्ऽ इति द्वाभ्यामृग्भ्यां शयने सर्वे आरोहन्ति ॥
[आसीनाः (१२.२.३०) इत्यासीनामनुमन्त्रयते ॥ कौशिकसूत्र ९,४{७२}.१० ॥]
ऽआसीना मृत्युम्ऽ इत्यर्द्धर्चेन शयन उपविश्यानुमन्त्रयते ॥
[पिञ्जूलीराञ्जनं सर्पिषि पर्यस्य इमा नारीः (१२.२.३१) इति स्त्रीभ्यः प्रयच्छति ॥ कौशिकसूत्र ९,४{७२}.११ ॥]
ऽइमा नारीरविधवाःऽ इत्यृचा दर्भपिञ्जूलीः घृतेनाभ्यज्य ततोऽभिमन्त्र्य स्त्रीभ्यः प्रयच्छति । एकैकां सर्वाभ्यः कुलस्त्रीभ्यः । त्रीणि दर्भपवित्राण्येकत्र बद्ध्वा पिञ्जूलीत्युच्यते । केचिदेकं दर्भग्रन्थिं तं पिञ्जूलीत्युच्यते ॥
[इमे जीवा अविधवाः सुजामयः इति पुम्भ्य एकैकस्मै तिस्रस्तिस्रस्ता अध्यध्युदधानं परिचृत्य प्रयच्छति ॥ कौशिकसूत्र ९,४{७२}.१२ ॥]
ऽइमे जीवा अविधवाः सुजामयःऽ इत्यनेनाञ्जनेन सर्पिषा सह उदकं कृत्वा पिञ्जूलीरुदकघटोपरि भ्रामयित्वा यजमानादिपुरुषेभ्यः प्रयच्छति । एकैकस्मै पुरुषाय तिस्रस्तिस्रः ॥
[परं मृत्यो (१२.२.२१) व्याकरोमि (१२.२.३२) आ रोहत (१२.२.२४२५) अन्तर्धिः (१२.२.४४) प्रत्यञ्चमर्कम् (१२.२.५५) ये अग्नयः (३.२१) नमो देववधेभ्यः (६.१३) अग्नेऽभ्यावर्तिन्, अग्ने जातवेदः, सह रय्या, पुनरूर्जा इति ॥ कौशिकसूत्र ९,४{७२}.१३ ॥
अग्नेऽभ्यावर्तिन्नभि न आ ववृत्स्व । आयुषा वर्चसा सन्या मेधया प्रजया धनेन ॥
अग्ने जातवेदः शतं ते सहस्रं त उपावृतः । अधा पुष्टस्येशानः पुनर्नो रयिमा कृधि ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्नन्या विश्वतस्परि ॥
पुनरूर्जा ववृत्स्व पुनरग्न इषायुषा । पुनर्नः पाह्यंहसः ॥ कौशिकसूत्र ९,४{७२}.१४ ॥]
ततः अभ्यातानान्तं कृत्वाऽपरं मृत्योऽ इत्येका,ऽव्याकरोमिऽ इत्येका,ऽआ रोहतायुःऽ इति द्वे,ऽअन्तर्द्धिर्देवानाम्ऽ इत्येका,ऽप्रत्यञ्चमर्कम्ऽ इत्येका,ऽये अग्नयःऽ इति सप्तर्चं,ऽनमो देववधेभ्यःऽ इति तृचं सूक्तं,ऽअग्नेऽभ्यावर्तिन्ऽ इति चतस्र एतैर्मन्त्रैराज्यं जुहोति ॥
[शर्करान् स्वयमातृण्णाञ्छणरज्जुभ्यां विबध्य धारयति ॥ कौशिकसूत्र ९,४{७२}.१५ ॥]
शर्करान् स्वयञ्छिद्रितान् शणरज्जुभ्यां बद्ध्वाग्नेरुपरि निदधाति ॥
[समया खेन जुहोति ॥ कौशिकसूत्र ९,४{७२}.१६ ॥]
अन्यः शर्कराछिद्रेण एभिर्मन्त्रैराज्यं जुहोति ॥
[इमं जीवेभ्यः (१२.२.२३) इति द्वारे निदधाति ॥ कौशिकसूत्र ९,४{७२}.१७ ॥]
ऽइमं जीवेभ्यः परिधिम्ऽ इति त्रिभिः पादैः शर्करान् गृहद्वारे निखनति ।ऽइमं जीवेभ्यःऽ इत्यृचा एकामाहुतिं जुहोति ॥
[जुहोत्येतयर्चा आयुर्दावा धनदावा बलदावा पशुदावा पुष्टिदावा प्रजापतये स्वाहा इति ॥ कौशिकसूत्र ९,४{७२}.१८ ॥
षट्सम्पातं माता पुत्रानाशयते ॥ कौशिकसूत्र ९,४{७२}.१९ ॥]
ऽआयुर्दावाऽ इत्यादिमन्त्रेण एकामाहुतिमाज्येन जुहोति ।ऽआयुर्दावाऽ इत्यादि षट्कृत्वः भक्तं सम्पात्याभिमन्त्र्य ततो माता पुत्रान् दुहितॄश्चाशयति ॥
[उच्छिष्टं जायाम् ॥ कौशिकसूत्र ९,४{७२}.२० ॥
संवत्सरमग्निं नोद्वायान्न हरेन्नाहरेयुः ॥ कौशिकसूत्र ९,४{७२}.२१ ॥
द्वादशरात्र इत्येके ॥ कौशिकसूत्र ९,४{७२}.२२ ॥]
यजमानोऽशित्वा उच्छिष्टं जायायै दद्यात् । ततोऽभ्यातानाद्युत्तरतन्त्रम् । इत्यावसथ्याधानं समाप्तम् ॥
[दश दक्षिणा ॥ कौशिकसूत्र ९,४{७२}.२३ ॥]
आधाने दश गा दक्षिणा दद्यात् ॥
पश्चादग्नेर्वाग्यतः संविशति ॥ कौशिकसूत्र ९,४{७२}.२४ ॥
[अपरेद्युरग्निं चेन्द्राग्नी च यजेत ॥ कौशिकसूत्र ९,४{७२}.२५ ॥]
ततः द्वितीयेऽहनि प्रतिपदि पाकयज्ञविधानेनाग्निमिन्द्राग्नी च यजति ॥
स्थालीपाकाभ्याम् ॥
ऽउदेनमुत्तरं नयऽ (६.५) इति तृचेन सूक्तेनऽप्रजापते न त्वद्ऽ (७.८०.३) इत्यृचा वा आग्नेयं चरुं जुहोति ।ऽइन्द्राग्नी रोचनाऽ (Kऔश्ष् । ५.२) इति चतुरृचेन ऐन्द्राग्नं चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । इत्यमावास्याधाने विशेषः ॥
[अग्निं चाग्नीषोमौ च पौर्णमास्याम् ॥ कौशिकसूत्र ९,४{७२}.२६ ॥]
अथ पौर्णमास्याधानम् । पाकयज्ञविधानतः । अग्निं चाग्नीषोमौ च पौर्णमास्यां यजेत ।ऽउदेनमुत्तरं नयऽ (६.५) इति सूक्तेनऽप्रजापते न त्वद्ऽ (७.८०.३) इत्यृचा वाग्नेयं चरुं जुहोति ।ऽअस्मै क्षत्रमग्नीषोमौऽ (६.५४.२) इत्यृचाऽअग्नीषोमा सवेदसाऽ (Kऔश्ष्५.१) इति तृचेन अग्नीषोमीयं चरुं जुहोति । ततः पार्वणाद्युत्तरतन्त्रम्.
जीवत्पितृको वा मृतपितृको वा क्रव्याच्छमनसहितमेवाधानं भवति । न केवलाधानम् । जीवभ्रातृको वा मृतभ्रातृको वा क्रव्याच्छमनसहितमेवाधानं भवति । यदा पुनराधानं करोति तदा केवलाधानमेव भवति ॥
[प्रातर्द्वादशरात्रेऽग्निं पशुना यजेत ॥ कौशिकसूत्र ९,४{७२}.२९ ॥]
अथाधानाद्द्वादशरात्रावतीते त्रयोदशेऽहनि आग्नेयं पशुमालभेत । वशाविधानेन ।ऽउदेनमुत्तरं नयऽ (६.५) इति तृचेन सूक्तेन शान्त्युदकमनुयोजयेत् । अवदानहोमे स्थालीपाकहोमे च त्रिषु स्थानेष्वपि सूक्तं भवति । शेषं समानम् ॥
[स्थालीपाकेन वोभयोर्विरिष्यति ॥ संवत्सरतम्यां शान्त्युदकं कृत्वा ॥ घृताहुतिर्नो भवाग्ने अक्रव्याहुतिर्घृताहुतिं त्वा वयमक्रव्याहुतिमुपनिषदेम जातवेदः इति चतुर उदपात्रे सम्पातानानीय ॥ तानुल्लुप्य ॥ पुरस्तादग्नेः प्रत्यङ्ङासीनो जुहोति हुते रमस्व हुतभाग एधि मृडास्मभ्यं मोत हिंसीः पशून्नः इति ॥ यद्युद्वायाद्भस्मनारणिं संस्पृश्य तूष्णीं मथित्वोद्दीप्य ॥ पूर्णहोमं हुत्वा ॥ सन्नतिभिराज्यं जुहुयाद्व्याहृतिभिर्वा ॥ संसृष्टे चैवं जुहुयात् ॥ अग्नावनुगते जायमाने ॥ आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य ॥ होम्यमुपसाद्य ॥ प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहा इत्यात्मन्येव जुहुयात् ॥ कौशिकसूत्र ९,४{७२}.३०४२ ॥]
अथवाग्नेयस्थालीपाकमाज्यभागान्तं कृत्वाऽउदेनमुत्तरं नयऽ (६.५) इति तिसृभिःऽप्रजापते न त्वद्ऽ (७.८०.३) इत्यृचा स्थालीपाकं जुहोति । पार्वणाद्युत्तरतन्त्रम् । त्रयोदशेऽहनि कर्म समाप्तम् ॥
अथ सायंहोमविधानमुच्यते
[सायम्प्रातर्व्रीहीनावपेद्यवान् वा अग्नये स्वाहा प्रजापतये स्वाहा इति ॥ सायं सूर्याय स्वाहा प्रजापतये स्वाहा इति ॥ कौशिकसूत्र ९,४{७२}.२७२८ ॥
अथ प्रातरुत्थायाग्निं निर्मथ्य यथास्थानं प्रणीय यथापुरमग्निहोत्रं जुहुयात् ॥ सायमाशप्रातराशौ यज्ञावृत्विजौ ॥ कौशिकसूत्र ९,४{७२}.४३४४ ॥] ॥ Kऔशिकपद्धतिकण्डिका ७२ ॥
________________________________
[पुरोदयादस्तमयाच्च पावकं प्रबोधयेद्गृहिणी शुद्धहस्ता.
समतीते सन्धिवर्णेऽथ हावयेत्सुसमिद्धे पावक आहुतीषहिः ॥ कौशिकसूत्र ९,५{७३}.१ ॥
अग्नये च प्रजापतये च रात्रावादित्यश्च दिवा प्रजापतिश्च.
उदकं च समिधश्च होमेहोमे पुरो वरम् ॥ कौशिकसूत्र ९,५{७३}.२ ॥
होम्यैः समिद्भिः पयसा स्थालीपाकेन सर्पिषा.
सायम्प्रातर्होम एतेषामेकेनापि सिध्यति ॥ कौशिकसूत्र ९,५{७३}.३ ॥
अभ्युद्धृतो हुतोऽग्निः प्रमादादुपशाम्यति.
मथिते व्याहृतीर्जुहुयात्पूर्णहोमौ यथऋत्विजौ ॥ कौशिकसूत्र ९,५{७३}.४ ॥]
ऽअव्यसश्चऽ (१९.६९.१)ऽविष्णोर्मनसाऽ (Kऔश्ष्१.३७) इति हविरुत्पवनम् ।ऽऋतं त्वा सत्येनऽ (Kऔश्ष्३.४) इति त्रिः पर्युक्षणम् । ततस्तिस्रः समिध आदधाति ।ऽअग्नये स्वाहाऽऽप्रजापतये स्वाहाऽ इति व्रीहीन् जुहोति । पुनस्तिस्रः समिध आदधाति ।ऽसत्यं त्वर्तेनऽ इति पर्युक्षणं च ॥
[वनस्पतिभ्यो वानस्पत्येभ्य ओषधिभ्यो वीरुद्भ्यः सर्वेभ्यो देवेभ्यो देवजनेभ्यः पुण्यजनेभ्यः इति प्राचीनं तदुदकं निनीयते ॥ कौशिकसूत्र ९,५{७३}.५ ॥]
उदकं पात्रे कृत्वाऽवनस्पतिभ्यो वानस्पत्येभ्यःऽ इति मन्त्रेण तदुदकं प्राचीनं निनयति ॥
[स्वधा प्रपितामहेभ्यः स्वधा पितामहेभ्यः स्वधा पितृभ्यः इति दक्षिणतः ॥ कौशिकसूत्र ९,५{७३}.६ ॥]
अपसव्यं कृत्वाऽस्वधा प्रपितामहेभ्यःऽ इति मन्त्रेण दक्षिणतो निनयति ॥
[तार्क्ष्यायारिष्टनेमयेऽमृतं मह्यमिति पश्चात् ॥ कौशिकसूत्र ९,५{७३}.७ ॥]
ऽतार्क्ष्यायारिष्टनेमयेऽमृतं मह्यम्ऽ इति पश्चान्निनयति ॥
[सोमाय सप्तर्षिभ्यः इत्युत्तरतः ॥ कौशिकसूत्र ९,५{७३}.८ ॥]
ऽसोमाय सप्तऋषिभ्यःऽ इति मन्त्रेण उत्तरतः निनयति ।ऽयस्मात्कोशात्ऽ (१९.७२) इति । समाप्तं सायंहोमविधानम् । अथ प्रातर्होमेऽसूर्याय स्वाहाऽ इति विशेषः । शेषं पूर्ववत् । प्रातर्होमविधानं समाप्तम् ॥
[परिमृष्टे परिलिप्ते च पर्वणि व्रातपतं हावयेदन्नमग्नौ.
भूयो दत्त्वा स्वयमल्पं च भुक्त्वापराह्णे व्रतमुपैति याज्ञिकम् ॥ कौशिकसूत्र ९,५{७३}.९ ॥
अनशनं ब्रह्मचर्यं च भूमौ शुचिरग्निमुपशेते सुगन्धिः ॥ कौशिकसूत्र ९,५{७३}.१० ॥
अग्नीषोमाभ्यां दर्शन इन्द्राग्निभ्यामदर्शने.
आग्नेयं तु पूर्वं नित्यमन्वाहार्यं प्रजापतेः ॥ कौशिकसूत्र ९,५{७३}.११ ॥
अर्घाहुतिस्तु सौविष्टकृती सर्वेषां हविषां स्मृता.
आनुमती वा भवति स्थालीपाकेष्वथर्वणाम् ॥ कौशिकसूत्र ९,५{७३}.१२ ॥
उभौ च सन्धिजौ यौ वैश्वदेवौ यथऋत्विजौ.
वर्जयित्वा सबर्हिषः साज्या यज्ञाः सदक्षिणाः ॥ कौशिकसूत्र ९,५{७३}.१३ ॥
यथाशक्ति यथाबलम् ॥ हुतादोऽन्ये अहुतादोऽन्ये.
वैश्वदेवं हविरुभये सञ्चरन्ति ॥ कौशिकसूत्र ९,५{७३}.१४ ॥
ते सम्यञ्च इह मादयन्तामिषमूर्जं यजमाना यमिछत.
विश्वे देवा इदं हविरादित्यासः सपर्यत.
अस्मिन् यज्ञे मा व्यथिष्यमृताय हविष्कृतम् ॥ कौशिकसूत्र ९,५{७३}.१५ ॥
वैश्वदेवस्य हविषः सायम्प्रातर्जुहोति.
सायमाशप्रातराशौ यज्ञावेतौ स्मृतावुभौ ॥ कौशिकसूत्र ९,५{७३}.१६ ॥
अप्रतिभुक्तौ शुचिकार्यौ च नित्यं वैश्वदेवौ जानता यज्ञश्रेष्ठौ.
नाश्रोत्रियो नानवनिक्तपाणिर्नामन्त्रविज्जुहुयान्नाविपश्चित् ॥ कौशिकसूत्र ९,५{७३}.१७ ॥
बीभत्सवः शुचिकामा हि देवा नाश्रद्दधानस्य हविर्जुषन्ते.
ब्राह्मणेन ब्रह्मविदा तु हावयेन्न स्त्रीहुतं शूद्रहुतं च देवगम् ॥ कौशिकसूत्र ९,५{७३}.१८ ॥
यस्तु विद्यादाज्यभागौ यज्ञान्मन्त्रपरिक्रमान्.
देवताज्ञानमावृत आशिषश्च कर्म स्त्रिया अप्रतिषिद्धमाहुः ॥ कौशिकसूत्र ९,५{७३}.१९ ॥]
अथ मध्याह्ने सायं च वैश्वदेवविधानमुच्यते ।ऽअव्यसश्चऽ (१९.६९.१) इति जपित्वा प्रोक्षणं द्विः कृत्वा सिद्धस्य पाकस्योत्पवनंऽऋतं त्वा सत्येनऽ इति पर्युक्षणम् । समिदाधानम् ।ऽहुतादोऽन्येऽऽविश्वे देवा इदं हविःऽ इति द्वाभ्यां हविर्जुहोति । पुनः समिदाधानं पर्युक्षणं च ॥ Kऔशिकपद्धतिकण्डिका ७३ ॥
________________________________
ततः बलिहरणं कुर्यात्
[तयोर्बलिहरणम् ॥ कौशिकसूत्र ९,६{७४}.१ ॥
अग्नय इन्द्राग्निभ्यां वास्तोष्पतये प्रजापतयेऽनुमतये इति हुत्वा ॥ कौशिकसूत्र ९,६{७४}.२ ॥]
ऽअग्नये स्वाहा, इन्द्राग्निभ्यां स्वाहा, वास्तोष्पतये स्वाहा, प्रजापतये स्वाहा, अनुमतये स्वाहाऽ इत्यग्नौ हुत्वा ॥
[निष्क्रम्य बहिः प्राचीनं ब्रह्मणे वैश्रवणाय विश्वेभ्यो देवेभ्यः सर्वेभ्यो देवेभ्यो विश्वेभ्यो भूतेभ्यः सर्वेभ्यो भूतेभ्यः इति बहुशो बलिं हरेत् ॥ कौशिकसूत्र ९,६{७४}.३ ॥]
निःष्क्रम्य बहिः प्राचीनमुदकेन मण्डलं प्रोक्ष्य ततो बलिहरणं करोति । ब्रह्मणे बलिं हरामि वषट् । वैश्रवणाय बलिं हरामि वषट् । विश्वेभ्यो देवेभ्यो बलिं हरामि वषट् । सर्वेभ्यो देवेभ्यो बलिं हरामि वषट् । विश्वेभ्यो भूतेभ्यो बलिं हरामि वषट् । सर्वेभ्यो भूतेभ्यो बलिं हरामि वषट् । बहुशो बलिं हरेत् ॥
[द्विः प्रोक्षन् प्रदक्षिणमावृत्यान्तरुपातीत्य द्वारे ॥ कौशिकसूत्र ९,६{७४}.४ ॥]
द्विः प्रोक्षन् प्रदक्षिणमावृत्यान्तरुपातीत्य तत अग्निगृहे प्रविश्य मध्ये ददाति ॥
[द्वार्ययोः मृत्यवे धर्माधर्माभ्याम् ॥ कौशिकसूत्र ९,६{७४}.५ ॥]
ततो द्वारपार्श्वयोः ददाति । मृत्यवे बलिं हरामि वषट् । धर्माय बलिं हरामि वषट् । अधर्माय बलिं हरामि वषट् ॥
[उदधाने धन्वन्तरये समुद्रायौषधिवनस्पतिभ्यो द्यावापृथिवीभ्यामिति ॥ कौशिकसूत्र ९,६{७४}.६ ॥]
उदककलशे ददाति । धन्वन्तरये बलिं हरामि वषट् । समुद्राय बलिं हरामि वषट् । ओषधिवनस्पतिभ्यो बलिं हरामि वषट् । द्यावापृथिवीभ्यां बलिं हरामि वषट् ॥
[स्थूणावंशयोः दिग्भ्योऽन्तर्देशेभ्यः इति ॥ कौशिकसूत्र ९,६{७४}.७ ॥]
स्थूणावंशे द्वयं ददाति । चतुर्षु कोणेष्वग्रे बलिचतुष्टयं ददाति । दिग्भ्योऽन्तर्देशेभ्यो बलिं हरामि वषट् ॥
[स्रक्तिषु वासुकये चित्रसेनाय चित्ररथाय तक्षोपतक्षाभ्यामिति ॥ कौशिकसूत्र ९,६{७४}.८ ॥]
पूर्वादिचतुर्दिक्षु बलिचतुष्टयं ददाति । वासुकये बलिं हरामि वषट् । चित्रसेनाय बलिं हरामि वषट् । चित्ररथाय बलिं हरामि वषट् । तक्षकोपतक्षाभ्यां बलिं हरामि वषट् ॥
[समन्तमग्नेः आशायै श्रद्धायै मेघायै श्रियै ह्रियै विद्यायै इति ॥ कौशिकसूत्र ९,६{७४}.९ ॥]
अग्निसमीपे पूर्वासु दिक्षु ददाति । आशायै बलिं हरामि वषट् । श्रद्धायै बलिं हरामि वषट् । मेधायै बलिं हरामि वषट् । श्रियै बलिं हरामि वषट् । ह्रियै बलिं हरामि वषट् । विद्यायै बलिं हरामि वषट् ॥
[प्राचीनमग्नेः गृह्याभ्यो देवजामिभ्यः इति ॥ कौशिकसूत्र ९,६{७४}.१० ॥]
अग्नेः प्राचीनंऽगृह्याभ्यो देवजामिभ्यो बलिं हरामि वषट्ऽ । अपसव्यंऽस्वधा प्रपितामहेभ्यः स्वधा पितामहेभ्यः स्वधा पितृभ्यः सपत्नीकेभ्यः स्वधाऽ इत्यनेन मन्त्रेण पात्रस्थं सर्वं भक्तं दक्षिणतो निनयति । ततःऽयस्मात्कोशात्ऽ
(१९.७२) इति । इति वैश्वदेवं समाप्तम् । द्वौ कालौ वैश्वदेवस्य । सायङ्काले मध्याह्नकाले वैश्वदेवं कुर्यात् ॥
[भूयोऽभ्युद्धृत्य ब्राह्मणान् भोजयेत् ॥ कौशिकसूत्र ९,६{७४}.११ ॥]
ततो हन्तकारं मनुष्येभ्यो गवादिकेभ्यश्च वायसेभ्योऽन्नं दद्यात् । ब्राह्मणान् भोजयेत् । एको द्वौ वा बहवः । यथाशक्ति अन्नं भिक्षुकेभ्यो ददाति ॥
[तदपि श्लोको वदति
माब्राह्मणाग्रतःकृतमश्नीयाद्विषवदन्नमन्नकाम्या.
देवानां देवो ब्राह्मणो भावो नामैष देवतेति ॥ कौशिकसूत्र ९,६{७४}.१२ ॥]
तत्र श्लोकः मा ब्राह्मणाग्रतःकृतमश्नीयाद्विषवदन्नमन्नकाम्या । देवानां देवो ब्राह्मणो भावो नामैष देवतेति ॥
केवलाधान अरणिप्रदानादि माषाशितवर्ज्यं पूर्णाहुत्यन्तं कृत्वा तत्रैतत्षट्सम्पातं भक्तमशनं शान्तिर्भवति । यस्य पुनराधानं तस्य केवलाधान अधिकारः । क्रव्याच्छमनसहितं वाधानं भवति । न केवलं पुनराधानेऽपि क्रव्याच्छमनविकल्पेन । अथवाचमनं कृत्वा गोदानिकं वपनम् । ततः पूर्णाहुत्यन्तं कृत्वा षट्सम्पातानां भवति । शेषं समानम् । पुनराधानं समाप्तम् ॥
अथाग्रयणमुच्यते
[आग्रयणे शान्त्युदकं कृत्वा यथर्तु तण्डुलानुपसाद्य ॥ कौशिकसूत्र ९,६{७४}.१३ ॥]
शरद्वसन्तयोराग्रयणं भवति ।ऽअव्यसश्चऽ (१९.६८) । बर्हिर्लवनम्, वेद्युत्तरवेद्यग्निप्रणयनं, अग्निप्रतिष्ठापनं, व्रतग्रहणं, पवित्रकरणं, पवित्रेणेध्मोपसमाधानं, बर्हिःप्रोक्षणं, स्तरणम् । निर्वापकाले एते देवता निर्वप्तव्याः । पञ्च चरवो भवन्ति । अग्नये जुष्टं निर्वपामि । इन्द्राग्निभ्यां द्यावापृथिवीभ्यां विश्वेभ्यो देवेभ्यो व्रीहिभिर्वा एतेषां निर्वापकार्यं च । चत्वारश्चरवः ।ऽसोमायऽ इति पञ्चमं चरुं श्यामाकेन कुर्वन् । वसन्ते यवैः पञ्चमं कुर्यात् । ततः अभ्यातानान्तं कृत्वा शान्त्युदकं करोति उक्तेन विधानेन । आग्रयणे शारदे व्रीहीन् श्यामाकाश्चाशरदि वा । शालिश्यामाकाभावे तत्स्थाने यवानुपसाद्य । पञ्च चरवः सम्पद्यन्ते ॥
[अप्सु स्थालीपाकं श्रपयित्वा पयसि वा ॥ कौशिकसूत्र ९,६{७४}.१४ ॥]
तेनोदकेन चरूणां श्रपणं कुर्यात् । अथवा पयसि चरुश्रपणं कुर्यात् ।ऽशुद्धाः पूताःऽ (११.१.१७)ऽब्रह्मणा शुद्धाःऽ (११.१.१८) इति द्वाभ्याम् । आपस्थाने पयः कुर्यात् । शेषं समानम् । तावत्समानं यावदाज्यभागौ हुत्वा । ततः पञ्चानां चरूणां होमः ॥
[सजूरृतुभिः सजूर्विधाभिः सजूरग्नये स्वाहा । सजूरिन्द्राग्निभ्यां सजूर्द्यावापृथिवीभ्यां सजूर्विश्वेभ्यो देवेभ्यः सजूरृतुभिः सजूर्विधाभिः सजूः सोमाय स्वाहा इत्येकहविर्वा स्यान्नानाहवींषि वा ॥ कौशिकसूत्र ९,६{७४}.१५ ॥]
ऽसजूरृतुभिःऽ इति प्रत्यृचम् । चत्वारश्चरवः ॥
[सौम्यं तन्वच्छ्यामाकं शरदि ॥ कौशिकसूत्र ९,६{७४}.१६ ॥]
पञ्चमं चरुं सौम्यं श्यामाकं पञ्चमया ऋचा जुहोति । पार्वणादिस्विष्टकृदन्तं कृत्वा ततः चरुप्राशनं करोति यजमानः । कर्ता प्राशित्रहरणे द्विरवदानं चरूणाम् । सर्वेषां प्रतिहविषां समुद्धृत्य प्राशित्रहरणे कृत्वा यजमानाय प्रयच्छति ॥
[अथ यजमानः प्राशित्रं गृह्णीते ॥ कौशिकसूत्र ९,६{७४}.१७ ॥
प्रजापतेष्ट्वा ग्रहं गृह्णामि । मह्यं भूत्यै मह्यं पुष्ठ्यै मह्यं श्रिये मह्यं ह्रियै मह्यं यशसे मह्यमायुषे मह्यमन्नाय मह्यमन्नाद्याय मह्यं सहस्रपोषाय मह्यमपरिमितपौषाय इति ॥ कौशिकसूत्र ९,६{७४}.१८ ॥]
अथ यजमानः प्राशित्रं गृह्णीतेऽप्रजापतेष्ट्वा ग्रहं गृह्णामिऽ इति मन्त्रेण ॥
[अथ प्राश्नाति भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नः पितो मधुमा॑मा विवेश शिवस्तोकाय तन्वो न एहि इति ॥ कौशिकसूत्र ९,६{७४}.१९ ॥]
ऽभद्रान्नः श्रेयःऽ इति मन्त्रेण प्राशित्रं प्राश्नाति । ततः स्मृतिविहितं भक्षणम् । द्विराचमनं कृत्वा ततः कर्म कुर्यात् ॥
[प्राशितमनुमन्त्रयते अमोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वाङसि प्रविष्टः । स मे जरां रोगमपनुद्य शरीरादनामयैधि मा रिषाम इन्दो इति ॥ कौशिकसूत्र ९,६{७४}.२० ॥]
ततः हृदयमन्वालभ्य जपतिऽअमोऽसि प्राणऽ इति मन्त्रेण ।ऽस्वाहेष्टेभ्यःऽ इत्यादि उत्तरतन्त्रम् ॥
वत्सः प्रथमजो ग्रीष्मे वासः शरदि दक्षिणा ॥ कौशिकसूत्र ९,६{७४}.२१ ॥
[शक्त्या वा दक्षिणां दद्यात् ॥ कौशिकसूत्र ९,६{७४}.२२ ॥
नातिशक्तिर्विधीयते नातिशक्तिर्विधीयत इति ॥ कौशिकसूत्र ९,६{७४}.२३ ॥]
यथाशक्त्या दक्षिणां दद्यात् । आग्रयणं समाप्तम् । सर्वनित्यनैमित्तिककाम्येषु यथाशक्ति दक्षिणादानम् ।ऽनातिशक्तिर्विधीयतेऽ इति वचनात् ॥
पितृभ्रात्राग्निसदनं नवमे को ति केन त्वा.
अवशिष्टानि कार्यार्थमग्न्याधेयं च कीर्तितम् ॥
अध्यायस्यान्ते सर्वे रुद्रस्य श्लोकाः ॥ Kऔशिकपद्धतिकण्डिका ७४ ॥
इति कौशिकपद्धतौ नवमोऽध्यायः समाप्तः ॥
____________________________________________________________________________