69
पित्र्यमग्निं शमयिष्यञ्ज्येष्ठस्य चाविभक्तिन एकाग्निमाधास्यन् १
अमावास्यायां पूर्वस्मिन्नुपशाले गां द्विहायनीं रोहिणीमेकरूपां बन्धयति २
निशि शामूलपरिहितो ज्येष्ठोऽन्वालभते ३
पत्न्यहतवसना ज्येष्ठम् ४
पत्नीमन्वञ्च इतरे ५
अथैनानभिव्याहारयत्यध्रिगो शमीध्वम् । सुशमि शमीध्वम् । शमीध्वमध्रिगा३ उ(द्र. तै.ब्रा. ३.६.६.४) इति त्रिः ६
अयमग्निः सत्पतिर्नडमा रोहेत्यनुवाकं महाशान्तिं च शान्त्युदक आवपते ७
अग्ने अक्रव्यादिति भ्रष्ट्राद्दीपं धारयति ८
भूमेश्चोपदग्धं समुत्खाय ९
आकृतिलोष्टवल्मीकेनास्तीर्य १०
शकृत्पिण्डेनाभिलिप्य ११
सिकताभिः प्रकीर्याभ्युक्ष्य १२
लक्षणं कृत्वा १३
पुनरभ्युक्ष्य १४
पश्चाल्लक्षणस्याभिमन्थनं निधाय १५
गोऽश्वाजावीनां पुंसां लोमभिरास्तीर्य व्रीहियवैश्च शकृत्पिण्डमभिविमृज्य प्राञ्चौ दर्भौ निदधाति १६
वृषणौ स्थ इत्यभिप्राण्यारण्यौ १७
तयोरुपर्यधरारणिम् १८
दक्षिणतो मूलान् १९
पश्चात्प्रजननामुर्वश्यसीत्यायुरसीति २०
मूलत उत्तरारणिमुपसंधाय २१
पृतनाजितमित्याहूय २२
अभिदक्षिणं ज्येष्ठस्त्रिरभिमन्थत्यॐ भूगायत्रं छन्दोऽनुप्रजायस्व त्रैष्टुभं जागतमानुष्टुभमॐ भूर्भुवः स्वर्जनदोमिति २३
अत ऊर्ध्वं यथाकामम् २४

६९

70
मन्थामि त्वा जातवेदः सुजातं जातवेदसम्।
स नो जीवेष्वा भज दीर्घमायुश्च धेहि नः।।
जातोऽजनिष्ठा यशसा सहाग्ने प्रजां पशूंस्तेजो रयिमस्मासु धेहि।
आनन्दिनो मोदमानाः सुवीरा अनामयाः सर्वमायुर्गमेम।।
उद्दीप्यस्व जातवेदोऽव सेदिं तृष्णां क्षुधं जहि।
अपास्मत्तम उच्छत्वप ह्रीतमुखो जह्यप दुर्हार्द्दिशो जहि।।
इहैवैधि धनसनिरिह त्वा समिधीमहि।
इहैधि पुष्टिवर्धन इह त्वा समिधीमहीति।। १
प्रथमया मन्थति २
द्वितीयया जातमनुमन्त्रयते ३
तृतीययोद्दीपयति ४
चतुर्थ्योपसमादधाति ५
यत्त्वा क्रुद्धा इति चॐ भूर्भुवः स्वर्जनदोमित्यङ्गिरसां त्वा देवानामादित्यानां व्रतेना दधे ।
द्यौर्मह्नासि भूमिर्भूम्ना तस्यास्ते देव्यदितिरुपस्थेऽन्नादायान्नपत्याया दधदिति ६
लक्षणे प्रतिष्ठाप्योपोत्थाय ७
अथोपतिष्ठते ८
अग्ने गृहपते सुगृहपतिरहं त्वयाग्ने गृहपतिना भूयसम्।
सु गृहपतिस्त्वं मयाग्ने गृहपतिना भूयाः।
अस्थूरि णौ गार्हपत्यानि दीदिहि शतं समा इति ९
व्याकरोमीति गार्हपत्यक्रव्यादौ समीक्षते १०
शान्तमाज्यं गार्हपत्यायोपनिदधाति ११
माषमन्थं क्रव्यादम् १२
उप त्वा नमसेति पुरोऽनुवाक्या १३
विश्वाहा त इति पूर्णाहुतिं जुहोति १४
यो नो अग्निरिति सह कर्त्रा हृदयान्यभिमृशन्ते १५

७०

71
अंशो राजा विभजतीमागग्नी विधारयन्
क्रव्यादं निर्णुदामसि हव्यवाडिह तिष्ठत्विति विभागं जपति १
सुगार्हपत्य इति दक्षिणेन गार्हपत्ये समिधमादधाति २
यः क्रव्यात्तमशीशममिति सव्येन नडमयीं क्रव्यादि ३
अपावृत्येति मन्त्रोक्तं बाह्यतो निधाय ४
नडमा रोह समिन्धत इषीकां जरतीं प्रत्यञ्चमर्कमित्युपसमादधाति ५
यद्व्यग्निर्यो अग्निरविः कृष्णा मा नो रुरोः शुचद्विदः शिवो नो अस्तु भरतो रराणः । अतिव्याधी व्याधो अग्रभीष्ट कव्यादो अग्नीञ्छमयामि सर्वानिति शुक्त्या माषपिष्टानि जुहोति ६
सीसं दर्व्यामवधायोद्ग्रथ्य मन्थं जुह्वञ्छमयेत् ७
नडमा रोहेति चतस्रोऽग्ने अक्रव्यादिमं क्रव्याद्यो नो अश्वेष्वन्येभ्यस्त्वा हिरण्यपाणिमिति शमयति ८
दक्षिणतो जरत्कोष्ठे शीतं भस्माभिविहरति ९
शान्त्युदकेन सुशान्तंकृत्वावदग्धं समुत्खाय १०
परं मृत्यो इत्युत्थापयति ११
क्रव्यादमिति तिसृभिर्ह्रीयमाणमनुमन्त्रयते १२
दीपाद्याभिनिगदनात्प्रतिहरणेन व्याख्यातम् १३
अविः कृष्णेति निदधाति १४
उत्तमवर्जं ज्येष्ठस्याञ्जलौ सीसानि १५
अस्मिन्वयं सद्रिप्रं सीसे मृड्ढ्वमित्यभ्यवनेजयति १६
कृष्णोर्णया पाणिपादान्निमृज्य १७
इमा जीवा उदीचीनैरिति मन्त्रोक्तम् १८
त्रिः सप्तेति कूद्या पदानि योपयित्वा नदीभ्यः १९
मृत्योः पदमिति द्वितीयया नावः २०
परं मृत्यो इति प्राग्दक्षिणं कूदीं प्रविध्य २१
सप्त नदीरूपाणि कारयित्वोदकेन पूरयित्वा २२
आ रोहत सवितुर्नावमेतां सुत्रामाणं महीमू ष्विति सहिरण्यां सयवां नावमारोहयति २३
अश्वन्वती रीयत उत्तिष्ठता प्र तरता सखाय इत्युदीचस्तारयति २४

७१

72
उत्तरतो गर्त उदक्प्रस्रवणेऽश्मान निदधात्यन्तश्छिन्नम् १
तिरो मृत्युमित्यश्मानमतिक्रामति २
ता अधरादुदीचीरित्यनुमन्त्रयते ३
निस्सालामिति शालानिवेशनं संप्रोक्ष्य ४
ऊर्जं बिभ्रदिति प्रपादयति ५
वैश्वदेवीमिति वत्सतरीमालम्भयति ६
इममिन्द्रमिति वृषम् ७
अनड्वाहमहोरात्रे इति तल्यमालम्भयति ८
आ रोहतायुरित्यारोहति ९
आसीना इत्यासीनामनुमन्त्रयते १०
पिञ्जूलीराञ्जनं सर्पिषि पर्यस्येमा नारीरिति स्त्रीभ्यः प्रयच्छति ११
इमे जीवा अविधवाः सुजामय इति पुंभ्य एकैकस्मै तिस्रस्तिस्रस्ता अध्यध्युदधानं परिचृत्य प्रयच्छति १२
परं मृत्यो व्याकरोम्या रोहतान्तर्धिः प्रत्यञ्चमर्कं ये अग्नयो नमो देववधेभ्योऽग्नेऽभ्यावर्तिन्नग्ने जातवेदः सह रय्या पुनरूर्जेति १३
अग्नेऽभ्यावर्तिन्नभि न आ ववृत्स्व
आयुषा वर्चसा सन्या मेधया प्रजया धनेन
अग्ने जातवेदः शतं ते सहस्रं त उपावृतः
अधा पुष्टस्येशानः पुनर्नो रयिमा कृधि
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया
विश्वप्स्व्या विश्वतस्परि
पुनरूर्जा ववृत्स्व पुनरग्न इषायुषा
पुनर्नः पाह्यंहसः १४
शर्करान्स्वयमातृणाञ्छणरज्जुभ्यां विबध्य धारयति १५
समया खेन जुहोति १६
इमं जीवेभ्य इति द्वारे निदधाति १७
जुहोत्येतयर्चा । आयुर्दावा धनदावा बलदावा पशुदावा पुष्टिदावा प्रजापतये स्वाहेति १८
षट्संपातं माता पुत्रानाशयते १९
उच्छिष्टं जायाम् २०
संवत्सरमग्निं नोद्वायान्न हरेन्नाहरेयुः २१
द्वादशरात्र इत्येके २२
दश दक्षिणा २३
पश्चादग्नेर्वाग्यतः संविशति २४
अपरेद्युरग्निं चेन्द्राग्नी च यजेत २५
स्थालीपाकाभ्यामग्निं चाग्नीषोमौ च पौर्णमास्याम् २६
सायंप्रातर्व्रीहीनावपेद्यवान्वाग्नये स्वाहा प्रजापतये स्वाहेति २७
सायं सूर्याय स्वाहा प्रजापतये स्वाहेति २८
प्रातर्द्वादशरात्रेऽग्निं पशुना यजेत २९
स्थालीपाकेन वोभयोर्विरिष्यति ३०
संवत्सरतम्यां शान्त्युदकं कृत्वा ३१
घृताहुतिर्नो भवाग्ने अक्रव्याहुतिर्घृताहुतिं त्वा वयमक्रव्याहुतिमुपनिषदेम जातवेद इति चतुर उदपात्रे संपातानानीय ३२
तानुल्लप्य ३३
पुरस्तादग्नेः प्रत्यङासीनो जुहोति । हुते रमस्व हुतभाग एधि मृडास्मभ्यं मोत हिंसीः पशून्न इति ३४
यद्युद्वायाद्भस्मनारणिं संस्पृश्य तूष्णीं मथित्वोद्दीप्य ३५
पूर्णहोमं हुत्वा ३६
संनतिभिराज्यं जुहुयाद्व्याहृतिभिर्वा ३७
संसृष्टे चैवं जुहुयात् ३८
अग्नावनुगते जायमाने ३९
आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य ४०
होम्यमुपसाद्य ४१
प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहेत्यात्मन्येव जुहुयात् ४२
अथ प्रातरुत्थायाग्निं निर्मथ्य यथास्थानं प्रणीय यथापुरमग्निहोत्रं जुहुयात् ४३
सायमाशप्रातराशौ यज्ञावृत्विजौ ४४

७२

73
पुरोदयादस्तमयाच्च पावकं प्रबोधयेद्गृहिणी शुद्धहस्ता
समतीते संधिवर्णेऽथ हावयेत्सुसमिद्धे पावक आहुतीषहिः १
अग्नये च प्रजापतये च रात्रावादित्यश्च दिवा प्रजापतिश्च
उदकं च समिधश्च होमेहोमे पुरो वरम् २
होम्यैः समिद्भिः पयसा स्थालीपाकेन सर्पिषा
सायंप्रातर्होम एतेषामेकेनापि सिध्यति ३
अभ्युद्धृतो हुतोऽग्निः प्रमादादुपशाम्यति
मथिते व्याहृतीर्जुहुयात्पूर्णहोमौ यथऋत्विजौ ४
वनस्पतिभ्यो वानस्पत्येभ्य ओषधिभ्यो वीरुद्भ्यः सर्वेभ्यो देवेभ्यो देवजनेभ्यः पुण्यजनेभ्य इति प्राचीनं तदुदकं निनीयते ५
स्वधा प्रपितामहेभ्यः स्वधा पितामहेभ्यः स्वधा पितृभ्य इति दक्षिणतः ६
तार्क्ष्यायारिष्टनेमयेऽमृतं
मह्यमिति पश्चात् ७
सोमाय सप्तर्षिभ्य इत्युत्तरतः ८
परिमृष्टे परिलिप्ते च पर्वणि व्रातपतं हावयेदन्नमग्नौ
भूयो दत्त्वा स्वयमल्पं च मुक्त्वापराह्णे व्रतमुपैति याज्ञिकम् ९
अनशनं ब्रह्मचर्यं च भूमौ शुचिरग्निमुपशेते सुगन्धिः १०
अग्नीषोमाभ्यां दर्शन इन्द्राग्निभ्यामदर्शने
आग्नेयं तु पूर्वं नित्यमन्वाहार्यं प्रजापतेः ११
अर्धाहुतिस्तु सौविष्टकृती सर्वेषां हविषां स्मृता
आनुमती वा भवति स्थालीपाकेष्वथर्वणाम् १२
उभौ च संधिजौ यौ वैश्वदेवौ यथऋत्विजौ
वर्जयित्वा सबर्हिषः साज्या यज्ञाः सदक्षिणाः १३
यथाशक्ति यथाबलं हुतादोऽन्ये अहुतादोऽन्ये
वैश्वदेवं हविरुभये संचरन्ति १४
ते सम्यञ्च इह मादयन्तामिषमूर्जं यजमाना यमिच्छत
विश्वे देवा इदं हविरादित्यासः सपर्यत
अस्मिन्यज्ञे मा व्यथिष्यमृताय हविष्कृतम् १५
वैश्वदेवस्य हविषः सायंप्रातर्जुहोति
सायमाशप्रातराशौ यज्ञावेतौ स्मृतावुभौ १६
अप्रतिभुक्तौ शुचिकार्यौ च नित्यं वैश्वदेवौ जानता यज्ञश्रेष्ठौ
नाश्रोत्रियो नानवनिक्तपाणिर्नामन्त्रविज्जुहुयान्नाविपश्चित् १७
बीभत्सवः शुचिकामा हि देवा नाश्रद्दधानस्य हविर्जुषन्ते
ब्राह्मणेन ब्रह्मविदा तु हावयेन्न स्त्रीहुतं शूद्रहुतं च देवगम् १८
यस्तु विद्याद्राज्यभागौ यज्ञान्मन्त्रपरिक्रमान्
देवताज्ञानमावृत आशिषश्च कर्म स्त्रिया अप्रतिषिद्धमाहुः १९

७३

74
तयोर्बलिहरणम् १
अग्नय इन्द्राग्निभ्यां वास्तोष्पतये प्रजापतयेऽनुमतय इति हुत्वा २
निष्क्रम्य बहिः प्रचीनं ब्रह्मणे वैश्रवणाय विश्वेभ्यो देवेभ्यः सर्वेभ्यो देवेभ्यो विश्वेभ्यो भूतेभ्यः सर्वेभ्यो भूतेभ्य इति बहुशो बलिं हरेत् ३
द्विः प्रोक्षन्प्रदक्षिणमावृत्यान्तरुपातीत्य द्वारे ४
द्वार्ययोर्मृत्यवे धर्माधर्माभ्याम् ५
उदधाने धन्वन्तरये समुद्रायौषधिवनस्पतिभ्यो द्यावापृथिवीभ्यामिति ६
स्थूणावंशयोर्दिग्भ्योऽन्तर्देशेभ्य इति ७
स्रक्तिषु वासुकये चित्रसेनाय चित्ररथाय तक्षोपतक्षाभ्यामिति ८
समन्तमग्नेराशायै श्रद्धायै मेधायै श्रियै ह्रियै विद्याया इति ९
प्राचीनमग्नेः गृह्याभ्यो देवजामिभ्य इति १०
भूयोऽभ्युद्धृत्य
ब्राह्मणान्भोजयेत् ११
तदपि श्लोको वदति
माब्राह्मणाग्रतः कृतमश्नीयाद्विषवदन्नमन्नकाम्या
देवानां देवो ब्राह्मणो भावो नामैष देवतेति १२
आग्रयणे शान्त्युदकं कृत्वा यथर्तु तण्डुलानुपसाद्य १३
अप्सु स्थालीपाकं
श्रपयित्वा पयसि वा १४
सजूरृतुभिः सजूर्विधाभिः सजूरग्नये स्वाहा । सजूरिन्द्राग्निभ्यां सजूर्द्यावापृथिवीभ्यां सजूर्विश्वेभ्यो देवेभ्यः सजूरृतुभिः सजूर्विधाभिः सजूः सोमाय स्वाहेत्येकहविर्वा स्यान्नानाहवींषि वा १५
सौम्यं तन्वच्छ्यामाकं शरदि १६
अथ यजमानः प्राशित्रं गृह्णीते १७
प्रजापतेष्ट्वा ग्रहं गृह्णामि । मह्यं भूत्यै मह्यं पुष्ट्यै मह्यं श्रियै मह्यं ह्रियै मह्यं यशसे मह्यमायुषे मह्यमन्नाय मह्यमन्नाद्याय मह्यं सहस्रपोषाय मह्यमपरिमितपोषायेति १८
अथ प्राश्नाति
भद्रान्नः श्रेयः समनैष्टदेवास्त्वयावसेन समशीमहि त्वा
स नः पितो मधुमाँ आ विवेश शिवस्तोकाय तन्वो न एहीति १९
प्राशितमनुमन्त्रयते
अमोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वाङसि प्रविष्टः
स मे जरां रोगमपनुद्य शरीरादनामयैधि मा रिषाम इन्दो इति २०
वत्सः प्रथमजो ग्रीष्मे वासः शरदि दक्षिणा २१
शक्त्या वा दक्षिणां दद्यात् २२
नातिशक्तिर्विधीयते नातिशक्तिर्विधीयत इति २३

७४
इत्यथर्ववेदे कौशिकसूत्रे नवमोऽध्यायः समाप्तः



(९,१[६९].१) पित्र्यमग्निं शमयिष्यञ्ज्येष्ठस्य चाविभक्तिन एकाग्निमाधास्यन्

(९,१[६९].२) अमावास्यायं पूर्वस्मिन्नुपशाले गां द्विहायनीं रोहिणीमेकरूपां बन्धयति

(९,१[६९].३) निशि शामूलपरिहितो ज्येष्ठो_अन्वालभते

(९,१[६९].४) पत्नी_अहतवसना ज्येष्ठम्

(९,१[६९].५) पत्नीमन्वञ्च इतरे

(९,१[६९].६) अथ_एनानभिव्याहारयति_<अध्रिगो शमीध्वम् । सुशमि शमीध्वम् । शमीध्वमध्रिगा ओ उ [दृष्टव्यम्‌ तै.ब्रा. ३.६.६.४ इत्यादि]> इति त्रिः

(९,१[६९].७) <अयमग्निः सत्पतिर्[७.६२.१]> <नडमा रोह [१२.२.१]>_इत्यनुवाकं महाशान्तिं च शान्त्युदक आवपते

(९,१[६९].८) <अग्ने अक्रव्याद्[१२.२.४२]> इति भ्रष्टाद्दीपं धारयति

(९,१[६९].९) भूमेश्च_उपदग्धं समुत्खाय

(९,१[६९].१०) आकृतिलोष्टवल्मीकेनास्तीर्य

(९,१[६९].११) शकृत्पिण्डेनाभिलिप्य

(९,१[६९].१२) सिकताभिः प्रकीर्याभ्युक्ष्य

(९,१[६९].१३) लक्षणं कृत्वा

(९,१[६९].१४) पुनरभ्युक्ष्य

(९,१[६९].१५) पश्चाल्लक्षणस्याभिमन्थनं निधाय

(९,१[६९].१६) गोऽश्वाजावीनां पुंसां लोमभिरास्तीर्य व्रीहियवैश्च शकृत्पिण्डमभिविमृज्य प्राञ्चौ दर्भौ निदधाति

(९,१[६९].१७) <वृषणौ स्थः [तै.सं.१.३.७.१ इत्यादि]>_इत्यभिपाण्यारण्यौ

(९,१[६९].१८) तयोरुपरि_अधरारणिम्

(९,१[६९].१९) दक्षिणतो मूलान्

(९,१[६९].२०) पश्चात्प्रजननाम् <उर्वश्यसि [तै.सं.१.३.७.१ इत्यादि]>_इत्य्<आयुरसि [तै.सं.१.३.७.१ इत्यादि]>_इति

(९,१[६९].२१) मूलत उत्तरारणिमुपसंधाय

(९,१[६९].२२) <पृतनाजितं [७.६३.१]>_इत्याहूय

(९,१[६९].२३) अभिदक्षिणं ज्येष्ठस्त्रिरभिमन्थति_<ओं भूर्गायत्रं छन्दोऽनुप्रजायस्व त्रैष्ठुभं जागतमानुष्ठुबमों भूर्भुवः स्वर्जनदोम् [दृष्टव्यम्‌ तै.सं.१.३.७.१ इत्यादि]> इति

(९,१[६९].२४) अत ऊर्ध्वं यथाकामं


(९,२[७०].१) <मन्थामि त्वा जातवेदः सुजातं जातवेदसम् । स नो जीवेष्वा भज दीर्घमायुश्च धेहि नः ॥ []> <जातोऽजनिष्ठा यशसा सहाग्रे प्रजां पशूंस्तेजो रयिमस्मासु धेहि । आनन्दिनो मोदमानाः सुवीरा अनामयाः सर्वमायुर्गमेम ॥ [, दृष्टव्यम्‌ ॑षाङ्ख्॑ष्ष्२.१७.८> <उद्दीप्यस्व जातवेदोऽव सेदिं तृणां क्षुधं जहि । अपास्मत्तम उछत्वप ह्रीतमुखो जह्यप दुर्हार्द्दिशो जहि ॥> <इहैवैधि धनसनिरिह त्वा समिधीमहि । इहैधि पुष्टिवर्धन इह त्वा समिधीमहि [, दृष्टव्यम्‌ १८.४.३८ ]>_इति

(९,२[७०].२) प्रथमया मन्थति

(९,२[७०].३) द्वितीयया जातमनुमन्त्रयते

(९,२[७०].४) तृतीयया_उद्दीपयति

(९,२[७०].५) चतुर्थ्या_उपसमादधाति

(९,२[७०].६) <यत्त्वा क्रुद्धाः [१२.२.५, दृष्टव्यम्‌ ंष्१.७.१ इत्यादि]>_इति च_<ओं भूर्भुवः स्वर्जनदोम्> इत्य्<अङ्गिरसां त्वा देवानामादित्यानां व्रतेना दधे [दृष्टव्यम्‌ Kष्७.१३७६.१५ f. इत्यादि]> । <द्यौर्मह्नासि भूमिर्भूम्ना तस्यास्ते देव्यदितिरुपस्थेऽन्नादायान्नपत्याया दधत्[दृष्टव्यम्‌ Kष्७.१३७६.१७ . इत्यादि]> इति

(९,२[७०].७) लक्षणे प्रतिष्ठाप्य_उपोत्थाय

(९,२[७०].८) अथ_उपतिष्ठते

(९,२[७०].९) <अग्ने गृहपते सुगृहपतिरहं त्वयाग्ने गृहपतिना भूयासम् । सुगृहपतिस्त्वं मयाग्ने गृहपतिना भूयाः । अस्थूरि णौ गार्हपत्यानि दीदिहि शतं समाः [दृष्टव्यम्‌ वा.सं. २.२७ इत्यादि]>_इति

(९,२[७०].१०) <व्याकरोमि [१२.२.३२]>_इति गार्हपत्यक्रव्यादौ समीक्षते

(९,२[७०].११) शान्तमाज्यं गार्हपत्याय_उपनिदधाति

(९,२[७०].१२) माषमन्थं क्रव्यादम्

(९,२[७०].१३) <उप त्वा नमसा [३.१५.७]>_इति पुरोऽनुवाक्या

(९,२[७०].१४) <विश्वहा ते [३.१५.८]>_इति पूर्णाहुतिं जुहोति

(९,२[७०].१५) <यो नो अग्निः [१२.२.३३]>_इति सह कर्त्रा हृदयानि_अभिमृशन्ते


(९,३[७१].१) <अंशो राजा विभजतीमावग्नी विधारयन् । क्रव्यादं निर्णुदामसि हव्यवाडिह तिष्ठतु []>_इति विभागं जपति

(९,३[७१].२) <सुगार्हपत्यो [१२.२.४५ ]>_इति दक्षिणेन गार्हपत्ये समिधमादधाति

(९,३[७१].३) <यः क्रव्यात्तमशीशमम् [दृष्टव्यम्‌ ३.२१.९]> इति सव्येन नडमयीं क्रव्यादि

(९,३[७१].४) <अपावृत्य [१२.२.३४]>_इति मन्त्रोक्तं बाह्यतो निधाय

(९,३[७१].५) <नडमा रोह [१२.२.१]> <समिन्धते [१२.१.११]>_<इषीकां जरतीम् [१२.१.५४]>_<प्रत्यञ्चमर्कं [१२.१.५५]>_इत्युपसमादधाति

(९,३[७१].६) <यद्यग्निः [१२.२.४]>_<यो अग्निः [१२.२.७]>_<अविः कृष्णा [१२.२.५३]> <मा नो रुरोः शुचद्विदः शिवो नो अस्तु भरतो रराणः । अतिव्याधी व्याधो अग्रभीष्ट क्रव्यादो अग्नीञ्शमयामि सर्वान् []> इति शुक्त्या माषपिष्टानि जुहोति

(९,३[७१].७) सीसं दर्व्यामवधाय_उद्ग्रथ्य मन्थं जुह्वन्_शमयेत्

(९,३[७१].८) <नडमा रोह [१२.२.१]>_इति चतस्रो_<अग्ने अक्रव्याद्[१२.२.४२]> <इमं क्रव्याद्[१२.२.४३]> <यो नो अश्वेषु [१२.२.१५]>_<अन्येभ्यस्त्वा [१२.२.१६]> <हिरण्यपाणिं [३.२१.८]>_इति शमयति

(९,३[७१].९) दक्षिणतो जरत्कोष्ठे शीतं भस्माभिविहरति

(९,३[७१].१०) शान्त्युदकेन सुशान्तं कृत्वावदग्धं समुत्खाय

(९,३[७१].११) <परं मृत्यो [१२.२.२१]> इत्युत्थापयति

(९,३[७१].१२) <क्रव्यादम् [१२.२.८]> इति तिसृभिर्ह्रीयमाणमनुमन्त्रयते

(९,३[७१].१३) दीपादि_आभिनिगदनात्प्रतिहरणेन व्याख्यातम्

(९,३[७१].१४) <अविः कृष्णा [१२.२.५३]>_इति निदधाति

(९,३[७१].१५) उत्तमवर्जं ज्येष्ठस्याञ्जलौ सीसानि

(९,३[७१].१६) <अस्मिन् वयं १२.२.१३]> <यद्रिप्रं [१२.२.४०]> <सीसे मृड्ढ्वं [१२.२.१९]>_इत्यभ्यवनेजयति

(९,३[७१].१७) कृष्णोर्णया पाणिपादान्निमृज्य

(९,३[७१].१८) <इमे [एद्. इमा॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ७८] जीवा [१२.२.२२]> <उदीचीनैः [१२.२.२९]>_इति मन्त्रोक्तम्

(९,३[७१].१९) <त्रिः सप्त [१२.२.२९ ]>_इति कूद्या पदानि लोपयित्वा [एद्. योपयित्वा चोर्रिगेन्द एद्. प्. ४२४] नदीभ्यः

(९,३[७१].२०) <मृत्योः पदं [१२.२.३०]>_इति द्वितीयया नावः

(९,३[७१].२१) <परं मृत्यो [१२.२.२१]> इति प्राग्दक्षिणं कूदीं प्रविध्य

(९,३[७१].२२) सप्त नदीरूपाणि कारयित्वा_उदकेन पूरयित्वा

(९,३[७१].२३) <आ रोहत सवितुर्नावमेतां [१२.२.४८ ]> <सुत्रामाणं [७.६.३]> <महीमू षु [७.६.२]>_इति सहिरण्यां सयवां नावमारोहयति

(९,३[७१].२४) <अश्मन्वती रीयते [१२.२.२६]>_<उत्तिष्ठता प्र तरता सखायो [१२.२.२७]>_इत्युदीचस्तारयति


(९,४[७२].१) उत्तरतो गर्त उदक्प्रस्रवणे_अश्मान निदधात्यन्तश्छिन्नम्

(९,४[७२].२) <तिरो मृत्युं [१२.२.२३ ]>_इत्यश्मानमतिक्रामति

(९,४[७२].३) <ता अधरादुदीचीर्[१२.२.४१]> इत्यनुमन्त्रयते

(९,४[७२].४) <निस्सालाम् [२.१४.१]> इति शालानिवेशनं संप्रोक्ष्य

(९,४[७२].५) <ऊर्जं बिभ्रद्[७.६०.१]> इति प्रपादयति

(९,४[७२].६) <वैश्वदेवीं [१२.२.२८]>_इति वत्सतरीमालम्भयति

(९,४[७२].७) <इममिन्द्रं [१२.२.४७]> इत्य्वृषम्

(९,४[७२].८) <अनड्वाहं [१२.२.४८]> <अहोरात्रे [१२.२.४९]> इति तल्पमालम्भयति

(९,४[७२].९) <आ रोहतायुर्[१२.२.२४]> इत्यारोहति

(९,४[७२].१०) <आसीना [१२.२.३० ]> इत्यासीनामनुमन्त्रयते

(९,४[७२].११) पिञ्जूलीराञ्जनं सर्पिषि पर्यस्य_<इमा नारीर्[१२.२.३१]> इति स्त्रीभ्यः प्रयछति

(९,४[७२].१२) <इमे जीवा अविधवाः सुजामय [दृष्टव्यम्‌ १२.२.२२,३१ अन्द्पै.सं.१७.३३.२]> इति पुंभ्य एक_एकस्मै तिस्रस्तिस्रस्ता अध्यध्युदधानं परिचृत्य प्रयछति

(९,४[७२].१३) <परं मृत्यो [१२.२.२१]> <व्याकरोमि [१२.२.३२]>_<आ रोहत [१२.२.२४(४८)]>_<अन्तर्धिर्[१२.२.४४]>_<प्रत्यञ्चमर्कं [१२.२.५५]> <ये अग्नयो [३.२१.१]> <नमो देववधेभ्यो [६.१३.१]>_<अग्नेऽभ्यावर्तिन्न् [पै.सं.१.४१.१]> <अग्ने जातवेदः [पै.सं.१.४१.२]> <सह रय्या [पै.सं.१.४१.३]> <पुनरूर्जा [पै.सं.१.४१.४]>_इति

(९,४[७२].१४) <अग्नेऽभ्यावर्तिन्नभि न आ ववृत्स्व । आयुषा वर्चसा सन्या मेधया प्रजया धनेन ॥ अग्ने जातवेदः शतं ते सहस्रं त उपावृतः । अधा पुष्टस्येशानः पुनर्नो रयिमा कृधि ॥ सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्न्या विश्वतस्परि ॥ पुनरूर्जा ववृत्स्व पुनरग्न इषायुषा । पुनर्नः पाह्यंहसः ॥ [पै.सं.१.४१.१४]>

(९,४[७२].१५) शर्करान् स्वयमातृणान्_शणरज्जुभ्यां विबध्य धारयति

(९,४[७२].१६) समया खेन जुहोति

(९,४[७२].१७) <इमं जीवेभ्यः [१२.२.२३]> इति द्वारे निदधाति

(९,४[७२].१८) जुहोति_एतया_ऋचा । <आयुर्दावा धनधावा बलदावा पशुदावा पुष्टिदावा प्रजापतये स्वाहा []>_इति

(९,४[७२].१९) षट्संपातं माता पुत्रानाशयते

(९,४[७२].२०) उच्छिष्टं जायाम्

(९,४[७२].२१) संवत्सरमग्निं न_उद्वायात्_न हरेत्_नाहरेयुः

(९,४[७२].२२) द्वासशरात्र इत्येके

(९,४[७२].२३) दश दक्षिणा

(९,४[७२].२४) पश्चादग्नेर्वाग्यतः संविशति

(९,४[७२].२५) अपरेद्युर्च_इन्द्राग्नी च यजेत

(९,४[७२].२६) स्थालीपाकाभ्यामग्निं चाग्निषोमौ च पौर्णमास्याम्

(९,४[७२].२७) सायंप्रातर्व्रीहीनावपेद्यवान् वा_<अग्नये स्वाहा प्रजापतये स्वाहा>_इति सायम् [सूत्रदिविसिओन् wइथ्Cअलन्द्, Kल्. ष्छ्र्., प्. ३०]

(९,४[७२].२८) <सूर्याय स्वाहा प्रजापतये स्वाह>_इति प्रातः [सूत्रदिविसिओन् wइथ्Cअलन्द्, Kल्. ष्छ्र्., प्. ३०]

(९,४[७२].२९) द्वादशरात्रे_अग्निं पशुना यजेत

(९,४[७२].३०) स्थालीपाकेन वा_उभयोर्विरिष्यति

(९,४[७२].३१) संवत्सरतम्यां शान्त्युदकं कृत्वा

(९,४[७२].३२) <घृताहुतिर्नो भवाग्ने अक्रव्याहुतिर्घृताहुतिं त्वा वयमक्रव्याहुतिमुप नि षदेम जातवेदः []>_इति चतुर उदपात्रे संपातानानीय

(९,४[७२].३३) तान् +उल्लुप्य [एद्. उल्लप्य]

(९,४[७२].३४) पुरस्तादग्नेः प्रत्यङासीनो जुहोति । <हुते रभस्व हुतभाग एधि मृडास्मभ्यं मोत हिंसीः पशून्नः []>_इति

(९,४[७२].३५) यद्युद्वायाद्भस्मनारणिं संस्पृश्य तूष्णीं मथित्वा_उद्दीप्य

(९,४[७२].३६) पूर्णहोमं हुत्वा

(९,४[७२].३७) संनतिभिराज्यं जुहुयाद्व्याहृतिभिर्वा

(९,४[७२].३८) संसृष्टे चैवं जुहुयात्

(९,४[७२].३९) अग्नौ_अनुगते जायमाने

(९,४[७२].४०) आनडुहेन शकृत्पिण्डेनाग्न्यायतानि परिलिप्य

(९,४[७२].४१) होम्यमुपसाद्य

(९,४[७२].४२) <प्राणापानाभ्यां स्वहा समानव्यानाभ्यां स्वाहा_उदानरूपाभ्यां स्वाहा>_इत्यात्मनि_एव जुहुयात्

(९,४[७२].४३) अथ प्रातरुत्थायाग्निं निर्मथ्य यथास्थानं प्रणीय यथापुरमग्निहोत्रं जुहुयात्

(९,४[७२].४४) सायामाशप्रात्राशौ यज्ञौ_ऋत्विजौ


(९,५[७३].१) <पुरोदयादस्तमयाच्च पावकं प्रबोधयेद्गृहिणी शुद्धहस्ता । समतीते संधिवर्णेऽथ हावयेत्सुसमिद्धे पावक आहुतीषहिः []>

(९,५[७३].२) <अग्नये च प्रजापतये च रात्रावादित्यश्च दिवा प्रजापतिश्च । उदकं च समिधश्च होमेहोमे पुरो वरम् []>

(९,५[७३].३) <होम्यैः समिद्भिः पयसा स्थालीपाकेन सर्पिषा । सायंप्रातर्होम एतेषामेकेनापि सिध्यति []>

(९,५[७३].४) <अभ्युद्धृतो हुतोऽग्निः प्रमादादुपशाम्यति । मथिते व्याहृतीर्जुहुयात्पूर्णहोमौ यथऋत्विजौ []>

(९,५[७३].५) <वनस्पतिभ्यो वानस्पतेभ्य ओषधिभ्यो वीरुद्भ्यः सर्वेभ्यो देवेभ्यो देवजनेभ्यः पुण्यजनेभ्यः [, दृष्टव्यम्‌ ११.६.२४]>_इति प्राचीनं तदुदकं निनीयते

(९,५[७३].६) <स्वधा प्रपितामहेभ्यः स्वधा पितामहेभ्यः स्वधा पितृभ्यः []>_इति दक्षिणतः

(९,५[७३].७) <तार्क्ष्यायारिष्टनेमयेऽमृतं मह्यम् []> इति पश्चात्

(९,५[७३].८) <सोमाय सप्तर्षिभ्यः []>_इति उत्तरतः

(९,५[७३].९) <परिमृष्टे परिलिप्ते च पर्वणि व्रातपतं हावयेदन्नमग्नौ । भूयो दत्त्वा स्वयमल्पं च भुक्त्वापराह्णे व्रतमुपैति याज्ञिकम् []>

(९,५[७३].१०) <अनशनं ब्रह्मचर्यं च भूमौ शुचिरग्निमुपशेते सुगन्धिः []>

(९,५[७३].११) <अग्नीषोमाभ्यां दर्शन इन्द्राग्निभ्यामदर्शने । आग्नेयं तु पूर्वं नित्यमन्वाहार्यं प्रजापतेः []>

(९,५[७३].१२) <अर्धाहुतिस्तु सौविष्टकृती सर्वेषां हविषां स्मृता । आनुमती वा भवति स्थालीपाकेष्वथर्वणाम् []>

(९,५[७३].१३) <उभौ च संधिजौ यौ वैश्वदेवौ यथऋत्विजौ । वर्जयित्वा सबर्हिषः साज्या यज्ञाः सदक्षिणाः []>

(९,५[७३].१४) यथाशक्ति यथाबलं <हुतादोऽन्ये अहुतादोऽन्ये । वैश्वदेवं हविरुभये सं चरन्ति । ते सम्यञ्च इह मादयन्तामिषमूर्जं यजमाना यमिछत [पै.सं.५.१५.२]> [सूत्र दिविसिओनेमेन्देद्!]

(९,५[७३].१५) <विश्वे देवा इदं हविरादित्यासः सपर्यत । अस्मिन् यज्ञे मा व्यथिष्यमृताय हविष्कृतम् [पै.सं.१९.३५.१]>

(९,५[७३].१६) <वैश्वदेवस्य हविषः सायंप्रातर्जुहोति । सायमाशप्रातराशौ यज्ञावेतौ स्मृतावुभौ []>

(९,५[७३].१७) <अप्रतिभुक्तौ शुचिकार्यौ च नित्यं वैश्वदेवौ जानता यज्ञश्रेष्ठौ । नाश्रोत्रियो नानवनिक्तपाणिर्नामन्त्रविज्जुहुयान्नाविपश्चित्[]>

(९,५[७३].१८) <बीभत्सवः शुचिकामा हि देवा नाश्रद्दधानस्य हविर्जुषन्ते । ब्राह्मणेन ब्रह्मविदा तु हावयेन्न स्त्रीहुतं शूद्रहुतं च देवगम् []>

(९,५[७३].१९) <यस्तु विद्यादाज्यभागौ यज्ञान्मन्त्रपरिक्रमान् । देवताज्ञानमावृत आशिषश्च कर्म स्त्रिया अप्रतिषिद्धमाहुः []>


(९,६[७४].१) तयोर्बलिहरणम्

(९,६[७४].२) <अग्नय इन्द्राग्निभ्यां वास्तोष्पतये प्रजापतयेऽनुमतये>_इति हुत्वा

(९,६[७४].३) निष्क्रम्य बहिः प्रचीनं <ब्रह्मणे वैश्रवणाय विश्वेभ्यो देवेभ्यः सर्वेभ्यो देवेभ्यो विश्वेभ्यो भूतेभ्यः सर्वेभ्यो भूतेभ्यः>_इति बहुशो बलिं हरेत्

(९,६[७४].४) द्विः प्रोक्षन् प्रदक्षिणमावृत्यान्तरुपातीत्य द्वारे

(९,६[७४].५) द्वार्ययोर्<मृत्यवे धर्माधर्माभ्याम्>

(९,६[७४].६) उदधाने धन्वन्तरये <समुद्रायौषधिवनस्पतिभ्यो द्यावापृथिवीभ्याम्> इति

(९,६[७४].७) स्थूणावंशयोर्<दिग्भ्योऽन्तर्देशेभ्यः>_इति

(९,६[७४].८) स्रक्तिषु <वासुकये चित्तसेनाय चित्तरथाय तक्षोपतक्षाभ्याम्> इति

(९,६[७४].९) समन्तमग्नेर्<आशायै श्रद्धायै मेधायै श्रियै ह्रियै विद्यायै>_इति

(९,६[७४].१०) प्राचीनं अग्नेः <गृह्याभ्यो देवजामिभ्यः>_इति

(९,६[७४].११) भूयो_अभ्युद्धृत्य ब्राह्मणान् भोजयेत्

(९,६[७४].१२) तदपि श्लोको वदति । <माब्राह्मण अग्रतः [एम्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. माब्राह्मणाग्रतः] कृतमश्नीयाद्विषवदन्नमन्नकाम्या । देवानां देवो ब्राह्मणो भ्ःवो नामैष देवता>_इति

(९,६[७४].१३) आग्रयणे शान्त्युदकं कृत्वा यथर्तु तण्डुलानुपसाद्य

(९,६[७४].१४) अप्सु स्थालीपाकं श्रपयित्वा पयसि वा

(९,६[७४].१५) <सजूरृतुभिः सजूर्विधाभिः सजूरग्नये स्वाहा । सजूरिन्द्राग्निभ्यां सजूर्द्यावापृथिवीभ्यां सजूर्विश्वेभ्यो देवेभ्यः सजूरृतुभिः सजूर्विधाभिः सजूः सोमाय स्वाहा>_इत्येकहविर्वा स्यात्_नानाहवींषि वा

(९,६[७४].१६) सौम्यं तन्वत्_श्यामाकं शरदि

(९,६[७४].१७) अथ यजमानः प्राशित्रं गृह्णीते

(९,६[७४].१८) <प्रजापतेष्ट्वा ग्रहं गृह्णामि । मह्यं भूत्यै मह्यं पुष्ट्यै मह्यं श्रियै मह्यं ह्रियै मह्यं यशसे मह्यमायुषे मह्यमन्नाय मह्यमन्नाद्याय मह्यं सहस्रपोषाय मह्यमपरिमितपोषाय [दृष्टव्यम्‌ ॑षाङ्ख्ङ्ष्३.८.२]>_इति

(९,६[७४].१९) अथ प्राश्नाति । <भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नः पितो मधुमा॑मा विवेश शिवस्तोकाय तन्वो न एहि [दृष्टव्यम्‌ तै.सं.५.७.२.४, ॑षाङ्ख्ङ्ष्३.८.३ इत्यादि]>_इति

(९,६[७४].२०) प्राशितमनुमन्त्रयते । <अमोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वाङसि प्रविष्ट । स मे जरां रोगमपनुद्य शरीरादनामयैधि मा रिषाम इन्दो [दृष्टव्यम्‌ ॑षाङ्ख्ङ्ष्३.८.४ इत्यादि]> इति

(९,६[७४].२१) वत्सः प्रथमजो ग्रीष्मे वासः शरदि दक्षिणा

(९,६[७४].२२) शक्त्या वा दक्षिणां दद्यात्

(९,६[७४].२३) नातिशक्तिर्विधीयते नातिशक्तिर्विधीयत इति


(कौ.सू.९ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे नवमोऽध्यायः समाप्तः