93
अथाद्भुतानि १
वर्षे २
यक्षेषु ३
गोमायुवदने ४
कुले कलहिनि ५
भूमिचले ६
आदित्योपप्लवे ७
चन्द्रमसश्च ८
औषस्यामनुद्यत्याम् ९
समायां दारुणायाम् १०
उपतारकशङ्कायाम् ११
ब्राह्मणेष्वायुधिषु १२
दैवतेषु नृत्यत्सु च्योतत्सु हसत्सु गायत्सु १३
लाङ्गलयोः संसर्गे १४
रज्ज्वोस्तन्त्वोश्च १५
अग्निसंसर्गे १६
यमवत्सायां गवि १७
वडवार्गदभ्योर्मानुष्यां च १८
यत्र धेनवो लोहितं दुहते १९
अनडुहि धेनुं धयति २०
धेनौ धेनुं धयन्त्याम् २१
आकाशफेने २२
पिपीलिकानाचारे २३
नीलमक्षानाचारे २४
मधुमक्षानाचारे २५
अनाज्ञाते २६
अवदीर्णे २७
अनुदक उदकोन्मीले २८
तिलेषु समतैलेषु २९
हविःष्वभिमृष्टेषु ३०
प्रसव्येष्वावर्तेषु ३१
यूपे विरोहति ३२
उल्कायाम् ३३
धूमकेतौ सप्तर्षीनुपधूपयति ३४
नक्षत्रेषु पतापतेषु ३५
मांसमुखे निपतति ३६
अनग्नाववभासे ३७
अग्नौ श्वसति ३८
सर्पिषि तैले मधुनि च विष्यन्दे ३९
ग्राम्येऽग्नौ शालां दहति ४०
आगान्तौ च ४१
वंशे स्फोटति ४२
कुम्भोदधाने विकसत्युखायां
सक्तुधान्यां च ४३

९३

94
अथ यत्रैतानि वर्षाणि वर्षन्ति घृतं मांसं मधु च यद्धिरण्यं यानि चाप्यन्यानि घोराणि वर्षाणि वर्षन्ति तत्पराभवति कुलं वा ग्रामो वा जनपदो वा १
तत्र राजा भूमिपतिर्विद्वांसं ब्रह्माणमिच्छेत् २
एष ह वै विद्वान्यद्भृग्वङ्गिरोवित् ३
एते ह वा अस्य सर्वस्य शमयितारः प्रालयितारो यद्भृग्वङ्गिरसः ४
स आहोपकल्पयध्वमिति ५
तदुपकल्पयन्ते कंसमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् ६
त्रीणि पर्वाणि कर्मणः पौर्णमास्यमावास्ये पुण्यं नक्षत्रम् ७
अपि चेदेव यदा कदा चिदार्ताय कुर्यात् ८
स्नातोऽहतवसनः सुरभिर्व्रतवान्कर्मण्य उपवसत्येकरात्रं त्रिरात्रं षड्रात्रं द्वादशरात्रं वा ९
द्वादश्याः प्रातर्यत्रैवादः पतितं भवति तत उत्तरमग्निमुपसमाधाय १०
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ११
नित्यान्युरस्ताद्धोमान्हुत्वाज्यभागौ च १२
अथ जुहोति १३
घृतस्य धारा इह या वर्षन्ति पक्वं मांसं मधु च यद्धिरण्यम्
द्विषन्तमेता अनु यन्तु वृष्टयोऽपां वृष्टयो बहुलाः सन्तु मह्यम्
लोहितवर्षं मधुपांसुवर्षं यद्वा वर्षं घोरमनिष्टमन्यत्
द्विषन्तमेते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः
अग्नये स्वाहेति हुत्वा १४
दिव्यो गन्धर्व इति मातृनामभिर्जुहुयात् १५
वरमनड्वाहं ब्राह्मणः कर्त्रे दद्यात् १६
सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं
राजा १७
सा तत्र प्रायश्चित्तिः १८

९४

95
अथ यत्रैतानि यक्षाणि दृश्यन्ते तद्यथैतन्मर्कटः श्वापदो वायसः पुरुषरूपमिति
तदेवमाशङ्क्यमेव भवति १
तत्र जुहुयात् २
यन्मर्कटः श्वापदो वायसो यदीदं राष्ट्रं जातवेदः पतानि पुरुषरक्षसमिषिरं यत्पताति
द्विषन्तमेते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः
अग्नये स्वाहेति हुत्वा ३
दिव्यो गन्धर्व इति मातृनामभिर्जुहुयात् ४
सा तत्र प्रायश्चित्तिः ५

९५

96
अथ ह गोमायू नाम मण्डूकौ यत्र वदतस्तद्यन्मन्यन्ते मां प्रति वदतो मां प्रति वदत इति तदेवमाशङ्क्यमेव भवति १
तत्र जुहुयात् २
यद्गोमायू वदतो जातवेदोऽन्यया वाचाभि जञ्जभातः
रथंतरं बृहच्च सामैतद्द्विषन्तमेतावभि नानदैताम्
रथंतरेण त्वा बृहच्छमयामि बृहता त्वा रथंतरं शमयामि
इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः
इन्द्राग्निभ्यां स्वाहेति हुत्वा ३
दिव्यो गन्धर्व इति मातृनामभिर्जुहुयात् ४
सा तत्र प्रायश्चित्तिः ५

९६

97
अथ यत्रैतत्कुलं कलहि भवति तन्निरृतिगृहीतमित्याचक्षते १
तत्र जुहुयात् २
आरादरातिमिति द्वे ३
अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि
अयासा मनसा कृतोऽयास्यं हव्यमूहिषे
अया नो धेहि भेषजं
स्वाहेत्यग्नौ हुत्वा ४
तत्रैवैतान्होमाञ्जुहुयात् ५
आरादग्निं क्रव्यादे निरूहञ्जीवातवे ते परिधिं दधामि
इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः
इन्द्राग्निभ्यां स्वाहेति हुत्वा ६
अपेत एतु निरृतिरित्येतेन सूक्तेन जुहुयात् ७
अपेत एतु निरृतिर्नेहास्या अपि किं चन
अपास्याः सत्वनः पाशान्मृत्यूनेकशतं नुदे
ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे
तांस्ते यज्ञस्य मायया सर्वाँ अप यजामसि
निरितो यन्तु नैरृत्या मृत्यव एकशतं परः
सेधामैषां यत्तमः प्राणं ज्योतिश्च दध्महे
ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः
तेभ्यो अस्मान्वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः
ब्रह्म भ्राजदुदगादन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम्
ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद्ब्रह्मास्मदप हन्तु शमलं तमश्च ८
वरमनड्वाहमिति समानम् ९

९७

98
अथ यत्रैतद्भूमिचलो भवति तत्र जुहुयात् १
अच्युता द्यौरच्युतमन्तरिक्षमच्युताभूमिर्दिशो अच्युता इमाः
अच्युतोऽयं रोधावरोधाद्ध्रुवो राष्ट्रे प्रति तिष्ठाति जिष्णुः
यथा सूर्यो दिवि रोचते यथान्तरिक्षं मातरिश्वाभिवस्ते
यथाग्निः पृथिवीमा विवेशैवायं ध्रुवो अच्युतो अस्तु जिष्णुः
यथा देवो दिवि स्तनयन्वि राजति यथा वर्षं वर्षकामाय वर्षति
यथापः पृथिवीमा विविशुरेवायं ध्रुवो अच्युतो अस्तु जिष्णुः
यथा पुरीषं नद्यः समुद्रमहोरात्रे अप्रमादं क्षरन्ति
एवा विशः संमनसो हवं मेऽप्रमादमिहोपा यन्तु सर्वाः
दृंहतां देवी सह देवताभिर्ध्रुवा दृढाच्युता मे अस्तु भूमिः
सर्वपाप्मानमपनुद्यास्मदमित्रान्मे द्विषतोऽनु विध्यतु
पृथिव्यै स्वाहेति हुत्वा २
आ त्वाहार्षं ध्रुवा द्यौः सत्यं बृहदित्येतेनानु
वाकेन जुहुयात् ३
सा तत्र प्रायश्चित्तिः ४

९८

99
अथ यत्रैतदादित्यं तमो गृह्णाति तत्र जुहुयात् १
दिव्यं चित्रमृतूया कल्पयन्तमृतूनामुग्रं भ्रमयन्नुदेति
तदादित्यः प्रतरन्नेतु सर्वत आप इमां लोकाननुसंचरन्ति
ओषधीभिः संविदानाविन्द्राग्नी त्वाभि रक्षताम्
ऋतेन सत्यवाकेन तेन सर्वं तमो जहि
आदित्याय स्वाहेति हुत्वा २
विषासहिं सहमानमित्येतेन सूक्तेन जुहुयात् ३
रोहितैरुपतिष्ठते ४
सा तत्र प्रायश्चित्तिः ५

९९
100
अथ यत्रैतच्चन्द्रमसमुपप्रवति तत्र जुहुयात् १
राहू राजानं त्सरति स्वरन्तमैनमिह हन्ति पूर्वः
सहस्रमस्य तन्व इह नाश्याः शतं तन्वो वि नश्यन्तु
चन्द्राय स्वाहेति हुत्वा २
शकधूमं नक्षत्राणीत्येतेन सूक्तेन जुहुयात् ३
सा तत्र प्रायश्चित्तिः ४

१००

101
अथ यत्रैतदौषसी नोदेति तत्र जुहुयात् १
उदेतु श्रीरुषसः कल्पयन्ती पूल्यान्कृत्वा पलित एतु चारः
ऋतून्बिभ्रती बहुधा विरूपान्मह्यं भव्यं विदुषी कल्पयाति
औषस्यै स्वाहेति हुत्वा २
दिव्यो गन्धर्व इति मातृनामभिर्जुहुयात् ३
सा तत्र प्रायश्चित्तिः ४

१०१
102
अथ यत्रैतत्समा दारुणा भवति तत्र जुहुयात् १
या समा रुशत्येति प्राजापत्यान्वि धूनुते
तृप्तिं यां देवता विदुस्तां त्वा सं कल्पयामसि
व्याधकस्य मातरं हिरण्यकुक्षीं हरिणीम्
तां त्वा सं कल्पयामसि
यत्ते घोरं यत्ते विषं तद्द्विषत्सु नि दध्मस्यमुष्मिन्निति ब्रूयात् २
शिवेनास्माकं समे शान्त्या सहायुषा समायै स्वाहेति हुत्वा ३
समास्त्वाग्न इत्येतेन
सूक्तेन जुहुयात् ४
सा तत्र प्रायश्चित्तिः ५
१०
१०२

103
अथ यत्रैतदुपतारकाः शङ्कन्ते तत्र जुहुयात् १
रेवतीः शुभ्रा इषिरा मदन्तीस्त्वचो धूममनु ताः सं विशन्तु
परेणापः पृथिवीं सं विशन्त्वाप इमां लोकाननुसंचरन्तु
अद्भ्यः स्वाहेति हुत्वा २
समुत्पतन्तु प्र नभस्वेति वर्षीर्जुहुयात् ३
सा तत्र
प्रायश्चित्तिः ४
११
१०३

104
अथ यत्रैतद्ब्राह्मणा आयुधिनो भवन्ति तत्र जुहुयात् १
य आसुरा मनुष्या आत्तधन्वः पुरुषमुखाश्चरानिह
देवा वयं मनुष्यास्ते देवाः प्र विशामसि
इन्द्रो नो अस्तु पुरोगवः स नो रक्षतु सर्वत
इन्द्राय स्वाहेति हुत्वा २
मा नो विदन्नमो देववधेभ्य इत्येताभ्यां सूक्ताभ्यां जुहुयात् ३
सा तत्र प्रायश्चित्तिः ४
१२
१०४

105
अथ यत्रैतद्देवतानि नृत्यन्ति च्योतन्ति हसन्ति गायन्ति वान्यानि वा रूपाणि कुर्वन्ति य आसुरा मनुष्या मा नो विदन्नमो देववधेभ्य इत्यभयैर्जुहुयात् १
सा तत्र प्रायश्चित्तिः २
१३
१०५

106
अथ यत्रैतल्लाङ्गले संसृजतः पुरोडाशं श्रपयित्वा १
अरण्यस्यार्धमभिव्रज्य २
प्राचीं सीतां स्थापयित्वा ३
सीताया मध्ये प्राञ्चमिध्ममुपसमाधाय ४
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः शम्याः परिधीन्कृत्वा ५
अथ जुहोति ।
वित्तिरसि पुष्टिरसि श्रीरसि प्राजापत्यानां तां त्वाहं मयि पुष्टिकामो जुहोमि
स्वाहा ६
कुमुद्वती पुष्करिणी सीता सर्वाङ्गशोभनी
कृषिः सहस्रप्रकारा प्रत्यष्टा श्रीरियं मयि
उर्वीं त्वाहुर्मनुष्याः श्रियं त्वा मनसो विदुः
आशयेऽन्नस्य नो धेह्यनमीवस्य शुष्मिणः
पर्जन्यपत्नि हरिण्यभिजितास्यभि नो वद
कालनेत्रे हविषो नो जुषस्व तृप्तिं नो धेहि द्विपदे चतुष्पदे
याभिर्देवा असुरानकल्पयन्यातून्मनून्गन्धर्वान्राक्षसांश्च
ताभिर्नो अद्य सुमना उपा गहि सहस्रापोषं सुभगे रराणा
हिरण्यस्रक्पुष्करिणी श्यामा सर्वाङ्गशोभनी
कृषिर्हिरण्यप्रकारा प्रत्यष्टा श्रीरियं मयि
अश्विभ्यां देवि सह संविदाना इन्द्रेण राधेन सह पुष्ट्या न आ गहि
विशस्त्वा रासन्तां प्रदिशोऽनु सर्वा अहोरात्रार्धमासमासा आर्तवा ऋतुभिः सह
भर्त्री देवानामुत मर्त्यानां भर्त्री प्रजानामुत मानुषाणाम्
हस्तिभिरितरासैः क्षेत्रसारथिभिः सह
हिरण्यैरश्वैरा गोभिः प्रत्यष्टा श्रीरियं मयि ७
अत्र शुनासीराण्यनुयोजयेत् ८
वरमनड्वाहमिति समानम् ९
१४
१०६

107
अथ यत्रैतत्सृजन्त्योर्वा कृन्तन्त्योर्वा नाना तन्तू संसृजतो मनायै तन्तुं प्रथममित्येतेन सूक्तेन जुहुयात् १
मनायै तन्तुं प्रथमं पश्येदन्या अतन्वत
तन्नारीः प्र ब्रवीमि वः साध्वीर्वः सन्तूर्वरीः
साधुर्वस्तन्तुर्भवतु साधुरेतु रथो वृतः
अथो होर्वरीर्यूयं प्रातर्वोढवे धावत
खर्गला इव पत्वरीरपामुग्रमिवायनम्
पतन्तु पत्वरीरिवोर्वरीः साधुना पथा
अवाच्यौ ते तोतुद्येते तोदेनाश्वतराविव
प्र स्तोममुर्वरीणां शशयानामस्ताविषम्
नारी पञ्चमयूखं सूत्रवत्कृणुते वसु
अरिष्टो अस्य वस्ता प्रेन्द्र वास उतोदिर २
वासः कर्त्रे दद्यात् ३
सा तत्र प्रायश्चित्तिः ४
१४
१०७

108
अथ यत्रैतदग्निनाग्निः संसृज्यते भवतं नः समनसौ समोकसावित्येतेन सू
क्तेन जुहुयात् १
भवतं नः समनसौ समोकसावरेपसौ
मा हिंसिष्टं यज्ञपतिं मा यज्ञं जातवेदसौ शिवौ भवतमद्य नः
अग्निनाग्निः संसृज्यते कविर्बृहस्पतिर्युवा
हव्यवाड्जुह्वास्यः
त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता
सखा सख्या समिध्यमे
पाहि नो अग्न एकया पाहि न उत द्वितीयया
पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो
समीची माहनी पातामायुष्मत्या ऋचो मा सत्सि
तनूपात्साम्नो वसुविदं लोकमनुसंचराणि २
रुक्मं कर्त्रे दद्यात् ३
सा तत्र प्रायश्चित्तिः ४
१६
१०८

109
अथ यत्रैतदयमसूर्यमौ जनयति तां शान्त्युदकेनाभ्युक्ष्य दोहयित्वा १
तस्या एव गोर्दुग्धे स्थालीपाकं श्रपयित्वा २
प्राञ्चमिध्ममुपसमाधाय ३
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य ४
एकैकयैषा सृष्ट्या सं बभूवेत्येतेन सूक्तेनाज्यं जुह्वन् ५
उदपात्रे संपातानानयति ६
उत्तमं संपातमोदने प्रत्यानयति ७
ततो गां च प्राशयति वत्सौ चोदपात्रादेनानाचामयति च संप्रोक्षति च ८
तां तस्यैव दद्यात् ९
सा तत्र प्रायश्चित्तिः १०
१७
१०९

110
अथ चेद्वडवा वा गर्दभी वा स्यादेवमेव प्राञ्चमिध्ममुपसमाधाय १
एवं परिस्तीर्य २
एवमुपसाद्य ३
एतेनैव सूक्तेनाज्यं जुह्वन् ४
उदपात्रे संपातानानयति ५
उदपात्रादेनानाचामयति च संप्रोक्षति च ६
तां तस्यैव दद्यात् ७
सा तत्र प्रायश्चित्तिः ८
१८
११०

111
अथ चेन्मानुषी स्यादेवमेव प्राञ्चमिध्ममुपसमाधाय १
एवं परिस्तीर्य २
एवमुपसाद्य ३
उपस्थे जातकावाधाय ४
एतेनैव सूक्तेनाज्यं जुह्वन् ५
अमीषां मूर्ध्नि स मातुः पुत्रयोरित्यनुपूर्वं संपातानानयति ६
उदपात्र उत्तरान्संपातान् ७
उदपात्रादेनानाचामयति च संप्रोक्षति च ८
तां तस्यैव दद्यात् ९
सा तत्र प्रायश्चित्तिः १०
तस्या निष्क्रयो यथार्हं यथासंपद्वा ११
१९
१११

112
अथ यत्रैतद्धेनवो लोहितं दुहते यः पौरुषेयेण क्रविषा समङ्क्त इत्येताभिश्चतसृभिर्जुहुयात् १
वरां धेनुं कर्त्रे दद्यात् २
सा तत्र प्रायश्चित्तिः ३
२०
११२

113
अथ यत्रैतदनड्वान्धेनुं धयति तत्र जुहुयात् १
अनड्वान्धेनुमधयदिन्द्रो गो रूपमाविशत्
स मे भूतिं च पुष्टिं च दीर्घमायुश्च धेहि नः
इन्द्राय स्वाहेति हुत्वा २
मा नो विदन्नमो देववधेभ्य इत्येताभ्यां सूक्ताभ्यां जुहुयात् ३
सा तत्र प्रायश्चित्तिः ४
२१
११३

114
अथ यत्रैतद्धेनुर्धेनुं धयति तत्र जुहुयात् १
योगक्षेमं धेनुं वाजपत्नीमिन्द्राग्निभ्यां प्रेषिते जञ्जभाने
तस्मान्मामग्ने परि पाहि घोरात्प्र नो जायन्तां मिथुनानि रूपशः
इन्द्राग्निभ्यां स्वाहेति हुत्वा २
दिव्यो गन्धर्व इति मातृनामभिर्जुहुयात् ३
सा तत्र प्रायश्चित्तिः ४
२२
११४

115
अथ यत्रैतद्गौर्वाश्वो वाश्वतरो वा पुरुषो वाकाशफेनमवगन्धयति तत्र जुहुयात् १
पयो देवेषु पय ओषधीषु पय आशासु पयोऽन्तरिक्षे
तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभिसंगृणन्तु
पयो यदप्सु पय उस्रियासु पय उत्सेषूत पर्वतेषु
तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभिसंगृणन्तु
यन्मृगेषु पय आविष्टमस्ति यदेजति पतति यत्पततत्रिषु तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभिसंगृणन्तु
यानि पयांसि दिव्यार्पितानि यान्यन्तरिक्षे बहुधा बहूनि । तेषामीशानं
वशिनी नो अद्य प्रदत्ता द्यावापृथिवी अहृणीयमाना इत्येतेन सूक्तेन जुहुयात् २
सा तत्र प्रायश्चित्तिः ३
२३
११५

116
अथ यत्रैतत्पिपीलिका अनाचाररूपा दृश्यन्ते तत्र जुहुयात् १
भुवाय स्वाहा भुवनाय स्वाहा भुवनपतये स्वाहा भुवां पतये स्वाहावोषाय स्वाहा विनताय स्वाहा शतारुणाय स्वाहा २
यः प्राच्यां दिशि श्वेतपिपीलिकानां राजा तस्मै स्वाहा
यो दक्षिणायां दिशि कृष्णपिपीलिकानां राजा तस्मै स्वाहा
यः प्रतीच्यां दिशि रजतपिपीलिकानां राजा तस्मै स्वाहा
य उदीच्यां दिशि रोहितपिपीलिकानां राजा तस्मै स्वाहा
यो ध्रुवायां दिशि बभ्रुपिपीलिकानां राजा तस्मै स्वाहा
यो व्यध्वायां दिशि हरितपिपीलिकानां राजा तस्मै स्वाहा
य ऊर्ध्वायां दिश्यरुणपिपीलिकानां राजा तस्मै स्वाहा ३
ताश्वेदेतावता न शाम्येयुस्तत उत्तरमग्निमुपसमाधाय ४
शरमयं बर्हिरुभयतः परिच्छिन्नं प्रसव्यं परिस्तीर्य ५
विषावध्वस्तमिङ्गिडमाज्यं शाकपला
शेनोत्पूतं बाधकेन स्रुवेण जुहोति ६
उत्तिष्ठत निर्द्रवत न व इहास्त्वित्यञ्चनम्
इन्द्रो वः सर्वासां साकं गर्भानाण्डानि भेत्स्यति
फड्ढताः पिपीलिका इति ७
इन्द्रो वो यमो वो वरुणो वोऽग्निवो वायुर्वः सूर्यो वश्चन्द्रो वः प्रजापतिर्व ईशानो व इति ८
२४
११६

117

अथ यत्रैतन्नीलमक्षा अनाचाररूपा दृश्यन्ते तत्र जुहुयात् १
या मत्यैः सरथं यान्ति घोरा मृत्योर्दूत्यः क्रविशः सं बभूवुः
शिवं चक्षुरुत घोषः शिवानां शं नो अस्तु द्विपदे शं चतुष्पदे
शान्तं चक्षुरुत वायसीनां या चासां घोरा मनसो विसृष्टिः
मनसस्पते तन्वा मा पाहि घोरान्मा वि रिक्षि
तन्वा मा प्रजया मा पशुभिर्वायवे स्वाहेति हुत्वा २
वात आ वातु भेषजमित्येतेन सूक्तेन जुहुयात् ३
वात आ वातु भेषजं शंभु मयोभु नो हृदे
प्र ण आयूंषि तार्षत्
उत वात पितासि न उत भ्रातोत नः सखा
स नो जीवातवे कृधि
यददो वात ते गृहे निहितं भेषजं गुहा
तस्य नो धेहि जीवस इत्येतेन सूक्तेन जुहुयात् ४
सा तत्र प्रायश्चित्तिः ५
२५
११७

118

अथ यत्रैतन्मधुमक्षिका अनाचाररूपा दृश्यन्ते मधु वात ऋतायत इत्येतेन
सूक्तेन जुहुयात् १
सा तत्र प्रायश्चित्तिः २
२६
११८

119

अथ यत्रैतदनाज्ञातमद्भुतं दृश्यते तत्र जुहुयात् १
यदज्ञातमनाम्नातमर्थस्य कर्मणो मिथः
अग्ने त्वं नस्तस्मात्पाहि स हि वेत्थ यथायथम्
अग्नये स्वाहा २
वायो सूर्य चन्द्रेति च ३
पुरुषसंमितोऽर्थः कर्मार्थः पुरुषसंमितः
वायुर्मा तस्मात्पातु स हि वेत्थ यथायथम् वायवे स्वाहा ४
अग्निर्मा सूर्यो मा चन्द्रो मेति च ५
२७
११९

120

अथ यत्रैतद्ग्रामे वावसाने वाग्निशरणे वा समज्यायां वावदीर्येत चतस्रो धेनव उपकॢप्ता भवन्ति श्वेता कृष्णा रोहिणी सुरूपा चतुर्थी १
तासामेतद्द्वादशरात्रं संदुग्धं नवनीतं निदधाति २
द्वादश्याः प्रातर्यत्रैवादोऽवदीर्णं भवति तत उत्तरमग्निमुपसमाधाय ३
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः श्वेताया आज्येन संनीय ४
अग्निर्भूम्यामिति तिसृभिरभिमन्त्र्यालभ्य ५
अथ जुहुयात् ६
तथा दक्षिणार्धे ७
तथा पश्चार्धे ८
उत्तरार्धे संस्थाप्य वास्तोष्पत्यैर्जुहुयात् ९
अवदीर्णे संपातानानीय संस्थाप्य होमान् १०
अवदीर्णं शान्त्युदकेन संप्रोक्ष्य ११
ता एव ब्राह्मणो दद्यात् १२
सीरं वैश्योऽश्वं प्रादेशिको
ग्रामवरं राजा १३
सा तत्र प्रायश्चित्तिः १४
२८
१२०

121

अथ यत्रैतदनुदक उदकोन्मीलो भवति हिरण्यवर्णा इत्यपां सूक्तैर्जुहुयात् १
सा तत्र प्रायश्चित्तिः २
२९
१२१

122

अथ यत्रैतत्तिलाः समतैला भवन्ति तत्र जुहुयात् १
अनूनाय स्वाहा । अक्षिताय स्वाहा । अपरिमिताय स्वाहा । परिपूर्णाय स्वाहा २
स यं द्विष्यात्तस्याशायां लोहितं ते प्र सिञ्चामीति दक्षिणामुखः प्रसिञ्चेत् ३
३०
१२२

123

अथ यत्रैतद्वपां वा हवींषि वा वयांसि द्विपदचतुष्पदं वाभिमृश्यावगच्छेयुर्ये अग्नयो नमो देववधेभ्य इत्येताभ्यां सूक्ताभ्यां जुहुयात् १
सा तत्र प्रायश्चित्तिः २
३१
१२३

124

अथ यत्रैतत्कुमारस्य कुमार्या वा द्वावावर्तौ मूर्धन्यौ भवतः सव्यावृदेको देशावर्तस्तत्र जुहुयात् १
त्वष्टा रूपाणि बहुधा विकुर्वञ्जनयन्प्रजा बहुधा विश्वरूपाः
स मे करोत्वविपरीतमस्माननुपूर्वं कल्पयतामिहैव त्वष्ट्रे स्वाहा २
अन्तर्गर्भेषु बहुधा सं तनोति जनयन्प्रजा बहुधा विश्वरूपाः
स मे करोत्वविपरीतमस्माननुपूर्वं कल्पयतामिहैव त्वष्ट्रे स्वाहा ३
यद्युन्मृष्टं यदि वाभिमृष्टं तिरश्चीनर्थ उत मर्मृजन्ते
शिवं तद्देवः सविता कृणोतु प्रजापतिः प्रजाभिः संविदानः त्वष्ट्रे स्वाहा ४
सव्यावृत्तान्युत या विश्वरूपा प्रत्यग्वृत्तान्युत या ते परुःषु
तान्यस्य देव बहुधा बहूनि स्योनानि शग्मानि शिवानि सन्तु
त्वष्टे स्वाहेति हुत्वा ५
त्वष्टा मे दैव्यं वच इत्येतेन सूक्तेन जुहुयात् ६
सा तत्र प्रायश्चित्तिः ७
३२
१२४

125

अथ यत्रैतद्यूपो विरोहति तत्र जुहुयात् १
यूपो विरोहञ्छतशाखो अध्वरः समावृतो मोहयिष्यन्यजमानस्य लोकान्
वेदाभिगुप्तो ब्रह्मणा परिवृतोऽथर्वभिः शान्तः सुकृतामेतु लोकम्
यूपो ह्यरुक्षद्द्विषतां वधाय न मे यज्ञो यजमानश्च रिष्यात्
सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि
वनस्पतये स्वाहेति हुत्वा २
वनस्पतिः सह देवैर्न आगन्निति जुहुयात् ३
सा तत्र प्रायश्चित्तिः ४
३३
१२५

126

अथ यत्रैतद्दिवोल्का पतति तदयोगक्षेमाशङ्कं भवत्यवृष्ट्याशङ्कं वा १
तत्र राजा भूमिपतिर्विद्वांसं ब्रह्माणं वृणीयात् २
स वृतोऽरण्यस्यार्धमभिव्रज्य तत्र द्वादशरात्रमनुशुष्येत् ३
स खलु पूर्वं नवरात्रमारण्यशाकमूलफलभक्षश्चाथोत्तरं त्रिरात्रं नान्यदुदकात् ४
श्वो भूते सप्त धेनव उपकॢप्ता भवन्ति श्वेता कृष्णा रोहिणी नीली पाटला सुरूपा बहुरूपा सप्तमी ५
तासामेतद्द्वादशरात्रं संदुग्धं नवनीतं निदधाति ६
द्वादश्याः प्रातर्यत्रैवासौ पतिता भवति तत उत्तरमग्निमुपसमाधाय ७
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः ८
अथामुं नवनीतं सौवर्णे पात्रे विलाप्य सौवर्णेन स्रुवेण रक्षोध्नैश्च सूक्तैर्यामाहुस्तारकैषा विकेशीत्येतेन सूक्तेनाज्यं जुह्वन् ९
अवपतिते संपातानानीय संस्थाप्य होमान् १०
अवपतितं शान्त्युदकेन संप्रोक्ष्य ११
ता एव ब्राह्मणो दद्यात् १२
सीरं वैश्योऽश्वं
प्रादेशिको ग्रामवरं राजा १३
सा तत्र प्रायश्चित्तिः १४
३४
१२६

127

अथ यत्रैतद्धूमकेतुः सप्तर्षीनुपधूपयति तदयोगक्षेमाशङ्कमित्युक्तम् १
पञ्च पशवस्तायन्ते वारुणः कृष्णो गौर्वाजो वाविर्वा हरिर्वायव्यो बहुरूपो दिश्यो मारुती मेष्याग्नेयः प्राजापत्यश्च क्षीरौदनोऽपां नप्त्र उद्रः २
उतेयं भूमिरिति
त्रिर्वरुणमभिष्टूय ३
अप्सु ते राजन्निति चतसृभिर्वारुणस्य जुहुयात् ४
वायवा रुन्द्धि नो मृगानस्मभ्यं मृगयद्भ्यः
स नो नेदिष्ठमा कृधि वातो हि रशनाकृत इति वायव्यस्य ५
आशानामिति दिश्यस्य ६
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे
मरुद्भिरग्न आ गहीति मारुतस्य ७
अपामग्निरित्याग्नेयस्य ८
प्रजापतिः सलिलादिति प्राजापत्यस्य ९
अपां
सूक्तैर्हिरण्यशकलेन सहोर्द्रमप्सु प्रवेशयेत् १०
प्र हैव वर्षति ११
सर्वस्वं
तत्र दक्षिणा १२
तस्य निष्क्रयो यथार्हं यथासंपद्वा १३
३५
१२७

128

अथ यत्रैतन्नक्षत्राणि पतापतानीव भवन्ति तत्र जुहुयात् १
यन्नक्षत्रं पतति जातवेदः सोमेन राज्ञेषिरं पुरस्तात्
तस्मान्मामग्ने परि पाहि घोरात्प्र णो जायन्तां मिथुनानि रूपशः
इन्द्राग्निभ्यां स्वाहेति हुत्वा २
सोमो राजा सविता च राजेत्येतेन सूक्तेन
जुहुयात् ३
सोमो राजा सविता च राजा भुवो राजा भुवनं च राजा
शर्वो राजा शर्म च राजा त उ नः शर्म यच्छन्तु देवाः
आदित्यैर्नो बृहस्पतिर्भगः सोमेन नः सह
विश्वे देवा उर्वन्तरिक्षं त उ नः शर्म यछन्तु देवाः
उताविद्वान्निष्कृदयाथोस्रघ्नी यथायथम्
मा नो विश्वे देवा मरुतो हेतिमिच्छत ४
रुक्मं कर्त्रे दद्यात् ५
सा तत्र प्रायश्चित्तिः ६
३६
१२८

129

अथ यत्रैतन्मांसमुखो निपतति तत्र जुहुयात् १
घोरो वज्रो देवसृष्टो न आगन्यद्वा गृहान्घोरमुता जगाम
तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे
रुद्राय स्वाहेति हुत्वा २
भवाशर्वौ मृडतं माभि यातमित्येतेन सूक्तेन जुहुयात् ३
सा तत्र प्रायश्चित्तिः ४
३७
१२९

130

अथ यत्रैतदनग्नाववभासो भवति तत्र जुहुयात् १
या तेऽवदीप्तिरवरूपा जातवेदोऽपेतो रक्षसां भाग एषः
रक्षांसि तया दह जातवेदो या नः प्रजां मनुष्यां सं सृजन्ते
अग्नये स्वाहेति हुत्वा २
अग्नी रक्षांसि सेधतीति प्रायश्चित्तिः ३
३८
१३०

131

अथ यत्रैतदग्निः श्वसतीव तत्र जुहुयात् १
श्वेता कृष्णा रोहिणी जातवेदो यास्ते तनूस्तिरश्चीना निर्दहन्तीः श्वसन्तीः
रक्षांसि ताभिर्दह जातवेदो या नः प्रजां मनुष्यां सं सृजन्ते
अग्नये स्वाहेति हुत्वा २
अग्नी रक्षांसि सेधतीति प्रायश्चित्तिः ३
३९
१३१

132

अथ यत्रैतत्सर्पिर्वा तैलं वा मधु वा विष्यन्दति यद्यामं चक्रुर्निखनन्त इत्येतेन
सूक्तेन जुहुयात् १
सा तत्र प्रायश्चित्तिः २
४०
१३२

133

अथ यत्रैतद्ग्राम्योऽग्निः शालां दहत्यपमित्यमप्रतीत्तमित्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं हुत्वा १
ममोभा मित्रावरुणा मह्यमापो मधुमदेरय
न्तामित्येताभ्यां सूक्ताभ्यां जुहुयात् २
ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती
मम त्वष्टा च पूषा च ममैव सविता वशे
मम विष्णुश्च सोमश्च ममैव मरुतो भवन्
सरस्वांश्च भगश्च विश्वे देवा वशे मम
ममोभा द्यावापृथिवी अन्तरिक्षं स्वर्मम
ममोमाः सर्वा ओषधीरापः सर्वा वशे मम
मम गावो ममाश्वा ममाजाश्चावयश्च ममैव पुरुषा भवन्
ममेदं सर्वमात्मन्वदेजत्प्राणद्वशे ममेति ३
अरणी प्रताप्य स्थण्डिलं परिमृज्य ४
अथाग्निं जनयेत् ५
इत एव प्रथमं जज्ञे अग्निराभ्यो योनिभ्यो अधि जातवेदाः । स गायत्र्या त्रिष्टुभु जगत्यानुष्टुभा देवो देवेभ्यो हव्यं वहतु प्रजानन्निति जनयित्वा ६
भवतं नः समनसौ समोकसावित्येतेन सूक्तेन जुहुयात् ७
सा तत्र प्रायश्चित्तिः ८
४१
१३३

134

अथ चेदागन्तुर्दहत्येवमेव कुर्यात् १
सा तत्र प्रायश्चित्तिः २
४२
१३४

135

अथ यत्रैतद्वंश स्फोटति कपालेऽङ्गारा भवन्त्युदपात्रं बर्हिराज्यं तदादाय १
शालायाः पृष्ठमुपसर्पति २
तत्राङ्गारान्वा कपालं वोपनिदधात्या संतपनात् ३
प्राञ्चमिध्ममुपसमाधाय ४
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य ५
परिचरणेनाज्यं परिचर्य ६
नित्यान्पुरस्ताद्धोमान्हुत्वाज्यभागौ च ७
अथ जुहोति ८
असौ वै नाम ते मातासौ वै नाम ते पिता
असौ वै नाम ते दूतः स्ववंशमधि तिष्ठति
उत्तमरात्री णाम मृत्यो ते माता तस्य ते अन्तकः पिता
समंदधानस्ते दूतः स्ववंशमधि तिष्ठति
बहवोऽस्य पाशा वितताः पृथिव्यामसंख्येया अपर्यन्ता अनन्ताः
याभिर्वशानभिनिदधाति प्राणिनां यान्कांश्चेमान्प्राणभृतां जिघांसन्
स इमं दूतं नुदतु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेशं मृत्यवे स्वाहा
बृहस्पतिराङ्गिरसो ब्रह्मणः पुत्रो विश्वे देवाः प्रददुर्विश्वमेजत्
स इमं दूतं नुदतु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेशं बृहस्पतय आङ्गिरसाय स्वाहा
यस्य तेऽन्नं न क्षीयते भूय एवोपजायते
यस्मै भूतं च भव्यं च सर्वमेतत्प्रतिष्ठितम्
स इमं दूतं नुदतु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेशमिन्द्राय स्वाहा
मुखं देवानामिह यो बभूव यो जानाति वयुनानां समीपे
यस्मै हुतं देवता भक्षयन्ति वायुनेत्रः सुप्रणीतिः सुनीतिः
स इमं दूतं नुदतु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेशमग्नये स्वाहा
यः पृथिव्यां च्यावयन्नेति वृक्षान्प्रभञ्जनेन रथेन सह संविदानः
रसान्गन्धान्भावयन्नेति देवो मातरिश्वा भूतभव्यस्य कर्ता
स इमं दूतं नुदतु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेशं वायवे स्वाहा
ब्रह्मचारी चरति ब्रह्मचर्यमृचं गाथां ब्रह्म परं जिगांसन्
तं विघ्ना अनुपरियन्ति सर्वे ये अन्तरिक्षे ये च दिवि श्रितासः
तं विशो अनुपर्यन्ति सर्वाः कर्माणि लोके परिमोहयन्ति
स इमं दूतं नुदतु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेद्शमादित्याय स्वाहा
यो नक्षत्रैः सरथं याति देवः संसिद्धेन रथेन सहं संविदानः
रूपंरूपं कृण्वानश्चित्रभानुः सुभानुः
स इमं दूतं नुदतु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेशं चन्द्राय स्वाहा
ओषधयः सोमराज्ञीर्यशस्विनीः
ता इमं दूतं नुदन्तु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेशमोषधीभ्यः सोमराज्ञीभ्यः स्वाहा
ओषधयो वरुणराज्ञीर्यशस्विनीः
ता इमं दूतं नुदन्तु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेशमोषधीभ्यो वरुणराज्ञीभ्यः स्वाहा
अष्टस्थूणो दशपक्षो यदृच्छजो वनस्पते
पुत्रांश्चैव पशूंश्चाभि रक्ष वनस्पते
यो वनस्पतीनामुपतापो बभूव यद्वा गृहान्घोरमुता जगाम
तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे
यो वनस्पतीनामुपतापो न आगद्यद्वा यज्ञं नोऽद्भुतमा जगाम
सर्वं तदग्ने हुतमस्तु भागशः शिवान्वयमुत्तरेमाभि वाजान्
त्वष्ट्रे स्वाहेति हुत्वा ९
त्वष्टा मे दैव्यं वच इत्यत्रोदपात्रं निनयति १०
कपालेऽग्निं चादायोपसर्पति ११
सा तत्र प्रायश्चित्तिः १२
४३
१३५

136

अथ यत्रैतत्कुम्भोदधानः सक्तुधानी वोखा वानिङ्गिता विकसति तत्र जुहुयात् १
भूमिर्भूमिमवागान्माता मातरमप्यगात्
ऋध्यास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति २
सदसि सन्मे भूयादिति सक्तूनावपेत् ३
अथ चेदोदनस्यान्नमस्यन्नं मे देह्यन्नं
मा मा हिंसीरिति त्रिः प्राश्य ४
अथ यथाकामं प्राश्नीयात् ५
अथ चेदुदधानः स्यात्समुद्रं वः प्र हिणोमीत्येताभ्यामभिमन्त्र्य ६
अन्यं कृत्वा ध्रुवाभ्यां दृंहयित्वा ७
तत्र हिरण्यवर्णा इत्युदकमासेचयेत् ८
स खल्वेतेषु कर्मसु सर्वत्र शान्त्युदकं कृत्वा सर्वत्र चातनान्यनुयोजयेन्मातृनामानि च ९
सर्वत्र वरां धेनुं कर्त्रे दद्यात् १०
सर्वत्र कंसवसनं गौर्दक्षिणा ११
ब्राह्मणान्भक्तेनोपेप्सन्ति १२
यथोद्दिष्टं चादिष्टास्विति प्रायश्चित्तिः प्रायश्चित्तिः १३
४४
१३६

इत्यथर्ववेदे कौशिकसूत्रे त्रयोदशोऽध्यायः समाप्तः

(१३,१[९३].१) अथाद्भुतानि

(१३,१[९३].२) वर्षे

(१३,१[९३].३) यक्षेषु

(१३,१[९३].४) गोमायुवदने

(१३,१[९३].५) कुले कलहिनि

(१३,१[९३].६) भूमिचले

(१३,१[९३].७) आदित्योपप्लवे

(१३,१[९३].८) चन्द्रमसश्च

(१३,१[९३].९) औषस्यामनुद्यत्याम्

(१३,१[९३].१०) समायां दारुणायाम्

(१३,१[९३].११) उपतारकशङ्कायाम्

(१३,१[९३].१२) ब्राह्मणेषु_आयुधिषु

(१३,१[९३].१३) दैवतेषु नृत्यत्सु च्योदत्सु हसत्सु गायत्सु

(१३,१[९३].१४) लाङ्गलयोः संसर्गे

(१३,१[९३].१५) रज्ज्वोस्तन्वोश्च

(१३,१[९३].१६) अग्निसंसर्गे

(१३,१[९३].१७) यमवत्सायां हवि

(१३,१[९३].१८) वडवागर्दभ्योर्मानुष्यां च

(१३,१[९३].१९) यत्र धेनवो लोहितं दुहते

(१३,१[९३].२०) अनडुहि धेनुं धयति

(१३,१[९३].२१) धेनौ धेनुं धयन्त्याम्

(१३,१[९३].२२) आकाशफेने

(१३,१[९३].२३) पिपीलिकानाचारे

(१३,१[९३].२४) नीलमक्षानाचारे

(१३,१[९३].२५) मधुमक्षानाचारे

(१३,१[९३].२६) अनाज्ञाते

(१३,१[९३].२७) अवदीर्णे

(१३,१[९३].२८) अनुदक उदकोन्मीले

(१३,१[९३].२९) तिलेषु समतैलेषु

(१३,१[९३].३०) हविःषु_अभिमृष्टेषु

(१३,१[९३].३१) प्रसव्येषु_आवर्तेषु

(१३,१[९३].३२) यूपे विरोहति

(१३,१[९३].३३) उल्कायाम्

(१३,१[९३].३४) धूमकेतौ सप्तर्षीनुपधूपयति

(१३,१[९३].३५) नक्षत्रेषु पतापतेषु

(१३,१[९३].३६) मांसमुखे निपतति

(१३,१[९३].३७) अनग्नौ_अवभासे

(१३,१[९३].३८) अग्नौ श्वसति

(१३,१[९३].३९) सर्पिषि तैले मधुनि च विष्यन्दे

(१३,१[९३].४०) ग्राम्ये_अग्नौ शालां दहति

(१३,१[९३].४१) आगन्तौ च

(१३,१[९३].४२) वंशे स्फोटति

(१३,१[९३].४३) कुम्भोदधाने विकसति_उखायां सक्तुधान्यां च


(१३,२[९४].१) अथ यत्र_एतानि वर्षाणि वर्षन्ति घृतं मांसं मधु च यद्धिरण्यं यानि चापि_अन्यानि घोराणि वर्षाणि वर्षन्ति तत्पराभवति कुलं वा ग्रामो वा जनपदो वा

(१३,२[९४].२) तत्र राजा भूमिपतिर्विद्वांसं ब्रह्माणमिछेत्

(१३,२[९४].३) एष ह वै विद्वान् यद्भृग्वङ्गिरोवित्

(१३,२[९४].४) एते ह वा अस्य सर्वस्य शमयितारः पालयितारो यद्भृग्वङ्गिरसः

(१३,२[९४].५) स आह_उपकल्पयध्वमिति

(१३,२[९४].६) तदुपकल्पयन्ते कंसमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम्

(१३,२[९४].७) त्रीणि पर्वाणि कर्मणः पौर्णमास्यमावास्ये पुण्यं नक्षत्रम्

(१३,२[९४].८) अपि चेदेव यदा कदा आर्ताय कुर्यात्

(१३,२[९४].९) स्नातो_अहतवसनः सुरभिर्व्रतवान् कर्मण्य उपवसति_एकरात्रं त्रिरात्रं षड्रात्रं द्वादशरात्रं वा

(१३,२[९४].१०) द्वादश्याः प्रातर्यत्र_एवादः पतितं भवति तत उत्तरमग्निमुपसमाधाय

(१३,२[९४].११) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य

(१३,२[९४].१२) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च

(१३,२[९४].१३) अथ जुहोति

(१३,२[९४].१४) <घृतस्य धारा इह या वर्षन्ति पक्वं मांसं मधु च यद्धिरण्यम् । द्विषन्तमेता अनु यन्तु वृष्टयोऽपां वृष्टयो बहुलाः सन्तु मह्यम् ॥ लोहितवर्षं मधुपांसुवर्षं यद्वा वर्षं घोरमनिष्टमन्यत् । द्विषन्तमेते अनु यन्तु सर्वे पराञ्चो यन्तु निर्वर्तमानाः ॥ अग्नये स्वाहा []>_इति हुत्वा

(१३,२[९४].१५) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात्

(१३,२[९४].१६) वरमनड्वाहं ब्राह्मणः कर्त्रे दद्यात्

(१३,२[९४].१७) सीरं वैश्यो_अश्वं प्रादेशिको ग्रामवरं राजा

(१३,२[९४].१८) सा तत्र प्रायश्चित्तिः


(१३,३[९५].१) अथ यत्र_एतानि यक्षाणि दृश्यन्ते तद्यथा_एतत्_मर्कटः श्वापदो वायसः पुरुषरूपमिति तदेवमाशङ्क्यमेव भवति

(१३,३[९५].२) तत्र जुहुयात्

(१३,३[९५].३) <यन्मर्कटः श्वापदो वायसो यदीदं राष्ट्रं जातवेदः पताति पुरुषरक्षसं इषिरं यत्पताति । द्विषन्तमेते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः ॥ अग्नये स्वाहा []>_इति हुत्वा

(१३,३[९५].४) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात्

(१३,३[९५].५) सा तत्र प्रायश्चित्तिः


(१३,४[९६].१) अथ ह गोमायू नाम मण्डूकौ यत्र वदतस्तद्यत्_मन्यन्ते मां प्रति वदतो मां प्रति वदत इति तदेवमाशङ्क्यमेव भवति

(१३,४[९६].२) तत्र जुहुयात्

(१३,४[९६].३) <यद्गोमायू वदतो जातवेदोऽन्यया वाचाभि जञ्जभातः । रथंतरं बृहच्च सामैतद्द्विषन्तमेतावभि नानदैताम् ॥ रथंतरेण त्वा बृहच्छमयामि बृहता त्वा रथटरं शमयामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा [, पै.सं.१.८३.४ द्]>_इति हुत्वा

(१३,४[९६].४) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात्

(१३,४[९६].५) सा तत्र प्रायश्चित्तिः


(१३,५[९७].१) अथ यत्र_एतत्कुलं कलहि भवति तन्निरृतिगृहीतमित्याचक्षते

(१३,५[९७].२) तत्र जुहुयात्

(१३,५[९७].३) <आरादरातिम् [८.२.१२]> इति द्वे

(१३,५[९७].४) <अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयासा मनसा कृतोऽयास्+सन् [एद्.ऽयास्य] हव्यमूहिषे । आ [+अया?] नो धेहि भेषजम् । [ंष्१.४.३५१.१०, Kष्५.४५७.१४, कौ.सू.१.५.१२ इत्यादि]> ॥ <स्वाहा>_इत्यग्नौ हुत्वा

(१३,५[९७].५) तत्र_एव_एतान् होमाञ्जुहुयात्

(१३,५[९७].६) <आरादग्निं क्रव्यादं निरूहञ्जिवातवे ते परिधिं दधामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा [८.२.९ द्, पै.सं.१६.३.८ द्॑ पै.सं.१.८३.४ द्]>_इति हुत्वा

(१३,५[९७].७) <अपेत एतु निरृतिर्[पै.सं.१९.२३.४ f.]> इत्यनेन सूक्तेन जुहुयात्

(१३,५[९७].८) <अपेत एतु निरृतिर्नेहास्या अपि किं चन । अपास्याः सत्वनः पाशान्मृत्यूनेकशतं नुदे ॥ ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । तांस्ते यज्ञस्य मायया सर्वा॑मप यजामसि ॥ निरितो यन्तु नैरृत्या मृत्यव एकशतं परः सेधामैषां यत्तमः प्राणं ज्योतिश्च दध्महे ॥ [पै.सं.१९.२३.४६]> <ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभ्यो अस्मान् वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः ॥ [पै.सं.१८.८२.७]> <ब्रह्म भ्राजदुदगादन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम् । ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद्ब्रह्मास्मदप हन्तु शमलं तमश्च ॥ [पै.सं.१६.१५०.२]>

(१३,५[९७].९) वरमनड्वाहमिति समानम्


(१३,६[९८].१) अथ यत्र_एतद्भूमिचलो भवति तत्र जुहुयात्

(१३,६[९८].२) <अच्युता द्यौरच्युतमन्तरिक्षमच्युता भूमिर्दिशो अच्युता इमाः । अच्युतोऽयं रोधावरोधाद्ध्रुवो राष्ट्रे प्रति तिष्ठामि जिष्णुः ॥ यथा सूर्यो दिवि रोचते यथान्तरिक्षं मातरिश्वाभिवस्ते । यथाग्निः पृथिवीमा विवेशैवायं ध्रुवो अच्युतो अस्तु जिष्णुः ॥ यथा देवो दिवि स्तनयन् वि राजति यथा वर्षं वर्षकामाय वर्षति । यथापः पृथिवीमा विविशुरेवायं ध्रुवो अच्युतो अस्तु जिष्णुः ॥ यथा पुरीषं नद्यः समुद्रमहोरात्रे अप्रमादं क्षरन्ति । एवा विशः संमनसो हवं मेऽप्रमादमिहोप यन्तु सर्वाः ॥ दृंहतां देवी सह देवताभिर्ध्रुवा दृढाच्युता मे अस्तु भूमिः । सर्वपाप्मानमपनुद्यास्मदमित्रान्मे द्विषतोऽनु विध्यतु ॥ पृथिव्यै स्वाहा [दृष्टव्यम्‌ आVড়रिश्११.१.११]>_इति हुत्वा

(१३,६[९८].३) <आ त्वाहार्षम् [६.८७.१]>_<ध्रुवा द्यौर्[६.८८.१]>_<सत्यं बृहद्[१२.१.१]> इत्येतेनानुवाकेन जुहुयात्

(१३,६[९८].४) सा तत्र प्रायश्चित्तिः


(१३,७[९९].१) अथ यत्र_एतदादित्यं तमो गृह्णाति तत्र जुहुयात्

(१३,७[९९].२) <दिव्यं चित्रमृतूया कल्पयन्तमृतूनामुग्रं भ्रमयन्नुदेति । तदादित्यः प्रतरन्नेतु सर्वत आप इमां लोकाननुसंचरन्ति ॥ ओषधीभिः संविदानाविन्द्राग्नी त्वाभि रक्षताम् । ऋतेन सत्यवाकेन तेन सर्वं तमो जहि ॥ आदित्याय स्वाहा []>_इति हुत्वा

(१३,७[९९].३) <विषासहिं सहमानं [१७.१.१]>_इत्यनेन सूक्तेन जुहुयात्

(१३,७[९९].४) रोहितैरुपतिष्ठते

(१३,७[९९].५) सा तत्र प्रायश्चित्तिः


(१३,८[१००].१) अथ यत्र_एतत्_चन्द्रमसमुपप्लवति तत्र जुहुयात्

(१३,८[१००].२) <राहू राजानं त्सरति स्वरन्तमैनमिह हन्ति पूर्वः । सहस्रमस्य तन्व इह नाश्याः शतं तन्वो वि नश्यन्तु ॥ चन्द्राय स्वाहा []>_इति हुत्वा

(१३,८[१००].३) <शकधूमं नक्षत्राणि [६.१२८.१]>_इत्येतेन सूक्तेन जुहुयात्

(१३,८[१००].४) सा तत्र प्रायश्चित्तिः


(१३,९[१०१].१) अथ यत्र_एतदौषसी न_उदेति तत्र जुहुयात्

(१३,९[१०१].२) <उदेतु श्रीरुषसः कल्पयन्ती पूल्यान् कृत्वा पलित एतु चारः । ऋतून् बिभ्रती बहुधा विरूपान्मह्यं भव्यं विदुषी कल्पयाति ॥ औषस्यै स्वाहा []>_इति हुत्वा

(१३,९[१०१].३) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात्

(१३,९[१०१].४) सा तत्र प्रायश्चित्तिः


(१३,१०[१०२].१) अथ यत्र_एतत्समा दारुणा भवति तत्र जुहुयात्

(१३,१०[१०२].२) <या समा रुशत्येति प्राजापत्यान् वि धूनुते । तृप्तिं यां देवता विदुस्तां त्वा सं कल्पयामसि ॥ व्याधकस्य मातरं हिरण्यकुक्षीं हरिणीम् । तां त्वा सं कल्पयामसि ॥ यत्ते घोरं यत्ते विषं तद्द्विषत्सु नि दध्मस्यमुष्मिन्न् []> इति ब्रूयात्

(१३,१०[१०२].३) <शिवेनास्माकं समे शान्त्या सहायुषा समायै स्वाहा []>_इति हुत्वा

(१३,१०[१०२].४) <समास्त्वाग्न [२.६.१]>_इत्येतेन सूक्तेन जुहुयात्

(१३,१०[१०२].५) सा तत्र प्रायश्चित्तिः


(१३,११[१०३].१) अथ यत्र_एतदुपतारकाः शङ्कन्ते तत्र जुहुयात्

(१३,११[१०३].२) <रेवतीः शुभ्रा इषिरा मदन्तीस्त्वचो धूममनु ताः सं विशन्तु । परेणापः पृथिवीं सं विशन्त्वाप इमां लोकाननुसंचरन्तु ॥ अद्भ्यः स्वाहा []>_इति हुत्वा

(१३,११[१०३].३) <समुत्पतन्तु [४.१५.१]> <प्र नभस्व [७.१८.१]>_इति वर्षीर्जुहुयात्

(१३,११[१०३].४) सा तत्र प्रायश्चित्तिः


(१३,१२[१०४].१) अथ यत्र_एतद्ब्राह्मणा आयुधिनो भवन्ति तत्र जुहुयात्

(१३,१२[१०४].२) <य आसुरा मनुष्या आत्तधन्वः पुरुषमुखाश्चरानिह । देवा वयं मनुष्यास्ते देवाः प्र विशामसि ॥ इन्द्रो नो अस्तु पुरोगवः स नो रक्षतु सर्वतः । इन्द्राय स्वाहा [, दृष्टव्यम्‌ आVড়रिश्३२.२९]>_इति हुत्वा

(१३,१२[१०४].३) <मा नो विदन् [१.१९.१]> <नमो देववधेभ्यो [६.१३.१]>_इति एताभ्यां सूक्ताभ्यां जुहुयात्

(१३,१२[१०४].४) सा तत्र प्रायश्चित्तिः


(१३,१३[१०५].१) अथ यत्र_एतद्दैवतानि नृत्यन्ति च्योतन्ति हसन्ति गायन्ति वान्यानि वा रूपाणि कुर्वन्ति <य आसुरा मनुष्या [, दृष्टव्यम्‌ कौ.सू.१०४.२]> <मा नो विदन् [१.१९.१]> <नमो देववधेभ्यो [६.१३.१]>_इति अभयैर्जुहुयात्

(१३,१३[१०५].२) सा तत्र प्रायश्चित्तिः


(१३,१४[१०६].१) अथ यत्र_एतत्_लाङ्गले संसृजतः पुरोडाशं श्रपयित्वा

(१३,१४[१०६].२) अरण्यस्यार्धमभिव्रज्य

(१३,१४[१०६].३) प्राचीं सीतां स्थापयित्वा

(१३,१४[१०६].४) सीताया मध्ये प्राञ्चमिध्ममुपसमाधाय

(१३,१४[१०६].५) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः शम्याः परिधीन् कृत्वा

(१३,१४[१०६].६) अथ जुहोति । <वित्तिरसि पुष्टिरसि श्रीरसि प्राजापत्यानां तां त्वाहं मयि पुष्टिकामो जुहोमि स्वाहा []>

(१३,१४[१०६].७) <कुमुद्वती पुष्करिणी सीता सर्वाङ्गशोभनी । कृषिः सहस्रप्रकारा प्रत्यष्टा श्रीरियं मयि ॥ उर्वीं त्वाहुर्मनुष्याः श्रियं त्वा मनसो विदुः । आशयेऽन्नस्य नो धेह्यनमीवस्य शुष्मिणः ॥ [, दृष्टव्यम्‌ ॑षाङ्ख्ङ्ष्१.२७.७ इत्यादि]> <पर्जन्यपत्नि हरिण्यभिजितास्यभि नो वद । कालनेत्रे हविषो नो जुषस्व तृप्तिं नो धेहि द्विपदे चतुष्पदे ॥ याभिर्देवा असुरानकल्पयन् यातून्मनून् गन्धर्वान् राक्षसांश्च । ताभिर्नो अद्य सुमना उपा गहि सहस्रापोषं सुभगे रराणा ॥ [, दृष्टव्यम्‌ ७.४८.२ द्]> <हिरण्यस्रक्पुष्करिणी श्यामा सर्वाङ्गशोभनी । कृषिर्हिरण्यप्रकारा प्रत्यष्टा श्रीरियं मयि ॥ अश्विभ्यां देवि सह संविदाना इन्द्रेण राधेन सह पुष्ट्या न आ गहि । विशस्त्वा रासन्तां प्रदिशोऽनु सर्वा अहोरात्रार्धमासमासा आर्तवा ऋतुभिः सह ॥ भर्त्री देवानामुत मर्त्यानां भर्त्री प्रजानामुत मानुषाणाम् । हस्तिभिरितरासैः क्षेत्रसारथिभिः सह । हिरण्यैरश्वैरा गोभिः प्रत्यष्टा श्रीरियं मयि ॥ []>

(१३,१४[१०६].८) अत्र शूनासीराणि_अनुयोजयेत्

(१३,१४[१०६].९) वरमनड्वाहमिति समानम्


(१३,१५[१०७].१) अथ यत्र_एतत्सृजन्त्योर्वा कृतन्त्योर्वा नाना तन्तू संसृजतो <मनायै तन्तुं प्रथमं [पै.सं.२.८७.१]>_इत्येतेन सूक्तेन जुहुयात्

(१३,१५[१०७].२) <मनायै तन्तुं प्रथमं पश्येदन्या अतन्वत । तन्नारीः प्र ब्रवीमि वः साध्वीर्वः सन्तूर्वरीः ॥ साधुर्वस्तन्तुर्भवतु साधुरेतु रथो वृतः । अथो होर्वरीर्यूयं प्रातर्वोढवे धावत ॥ खर्गला इव पत्वरीरपामुग्रमिवायनम् । पतन्तु पत्वरीरिवोर्वरीः साधुना पथा ॥ अपाच्यौ ते तोतुद्येते तोदेनाश्वतराविव । प्र स्तोममुर्वरीणां शशयानामस्ताविषम् ॥ नारी पञ्चमयूखं सूत्रवत्कृणुते वसु । अरिष्टो अस्य वस्ता प्रेन्द्र वास उतोदिर ॥ [पै.सं.२.८७]>

(१३,१५[१०७].३) वासः कर्त्रे दद्यात्

(१३,१५[१०७].४) सा तत्र प्रायश्चित्तिः


(१३,१६[१०८].१) अथ यत्र_एतदग्निनाग्निः संसृज्यते <भवतं नः समनसौ समोकसाव्[]> इत्येतेन सूक्तेन जुहुयात्

(१३,१६[१०८].२) <भवतं नः समनसौ समोकसावरेपसौ । मा हि॑म्सिष्टं यज्ञपतिं मा यज्ञं जातवेदसौ शिवौ भवतमद्य नः [दृष्टव्यम्‌ वा.सं. ५.३ इत्यादि]> <अग्निनाग्निः संसृज्यसे कविर्बृहस्पतिर्युवा । हव्यवाङ्जुह्वास्यः ॥ [दृष्टव्यम्‌ .ऋ.वे. १.१२.६ इत्यादि]> <त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन् सता । सखा सख्या समिध्यसे ॥ [दृष्टव्यम्‌ .ऋ.वे. ८.४३.१४]> <पाहि नो अग्न एकया पाहि न उत द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जांपते पाहि चतसृभिर्वसो ॥ समीची माहनी पातामायुष्मत्या ऋचो मा सत्सि । तनूपात्साम्नो वसुविदं लोकमनुसंचराणि ॥ [पै.सं.२०.५२.४५]>

(१३,१६[१०८].३) रुक्मं कर्त्रे दद्यात्

(१३,१६[१०८].४) सा तत्र प्रायश्चित्तिः


(१३,१७[१०९].१) अथ यत्र_एतदयमसूर्यमौ जनयति तां शान्त्युदकेनाभ्युक्ष्य दोहयित्वा

(१३,१७[१०९].२) तस्या एव गोर्दुग्धे स्थालीपाकं श्रपयित्वा

(१३,१७[१०९].३) प्राञ्चमिध्ममुपसमाधाय

(१३,१७[१०९].४) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य

(१३,१७[१०९].५) <एकैकयैषा सृष्ट्या सं बभूव [३.२८.१]> इत्येतेन सूक्तेनाज्यं जुह्वन्

(१३,१७[१०९].६) उदपात्रे संपातानानयति

(१३,१७[१०९].७) उत्तमं संपातमोदने प्रत्यानयति

(१३,१७[१०९].८) ततो गां च प्राशयति वत्सौ च_उदपात्रादेनानाचामयति च संप्रोक्षति च

(१३,१७[१०९].९) तां तस्य_एव दद्यात्

(१३,१७[१०९].१०) सा तत्र प्रायश्चित्तिः


(१३,१८[११०].१) अथ चेद्वडवा वा गर्दभी वा स्यादेवमेव प्राञ्चमिध्ममुपसमाधाय

(१३,१८[११०].२) एवं परिस्तीर्य

(१३,१८[११०].३) एवमुपसाद्य

(१३,१८[११०].४) एतेन_एव सूक्तेनाज्यं जुह्वन्

(१३,१८[११०].५) उदपात्रे संपातानानयति

(१३,१८[११०].६) उदपात्रादेनानाचामयति च संप्रोक्षति च

(१३,१८[११०].७) तां तस्य_एव दद्यात्

(१३,१८[११०].८) सा तत्र प्रायश्चित्तिः


(१३,१९[१११].१) अथ चेद्_मानुषी स्यादेवमेव प्राञ्चमिध्ममुपसमाधाय

(१३,१९[१११].२) एवं परिस्तीर्य

(१३,१९[१११].३) एवमुपसाद्य

(१३,१९[१११].४) उपस्थे जातकौ_आधाय

(१३,१९[१११].५) एतेन_एव सूक्तेनाज्यं जुह्वन्

(१३,१९[१११].६) अमीषां मूर्ध्नि स मातुः पुत्रयोरित्यनुपूर्वं संपातानानयति

(१३,१९[१११].७) उदपात्र उत्तरान् संपातान्

(१३,१९[१११].८) उदपात्रादेनानाचामयति च संप्रोक्षति च

(१३,१९[१११].९) तां तस्य_एव दद्यात्

(१३,१९[१११].१०) सा तत्र प्रायश्चित्तिः

(१३,१९[१११].११) तस्या निष्क्रयो यथार्हं यथासंपद्वा


(१३,२०[११२].१) अथ यत्र_एतद्धेनवो लोहितं दुहते <यः पौरुषेयेण क्रविषा समङ्क्ते [८.३.१५]> इत्येताभिश्चतसृभिर्जुहुयात्

(१३,२०[११२].२) वरां धेनुं कर्त्रे दद्यात्

(१३,२०[११२].३) सा तत्र प्रायश्चित्तिः


(१३,२१[११३].१) अथ यत्र_एतदनड्वान् धेनुं धयति तत्र जुहुयात्

(१३,२१[११३].२) <अनड्वान् धेनुमधयदिन्द्रो गो रूपमाविशत् । स मे भूतिं च पुष्टिं च दीर्घमायुश्च धेहि नः ॥ इन्द्राय स्वाहा []>_इति हुत्वा

(१३,२१[११३].३) <मा नो विदन् [१.१९.१]> <नमो देववधेभ्यो [६.१३.१]>_इति एताभ्यां सूक्ताभ्यां जुहुयात्

(१३,२१[११३].४) सा तत्र प्रायश्चित्तिः


(१३,२२[११४].१) अथ यत्र_एतद्धेनुर्धेनुं धयति तत्र जुहुयात्

(१३,२२[११४].२) <योगक्षेमं धेनुं वाजपत्नीमिन्द्राग्निभ्यां प्रेषिते जञ्जभाने । तस्मान्मामग्ने परि पाहि घोरात्प्र +णो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा [, दृष्टव्यम्‌ कौ.सू.१२८.२]>_इति हुत्वा

(१३,२२[११४].३) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात्

(१३,२२[११४].४) सा तत्र प्रायश्चित्तिः


(१३,२३[११५].१) अथ यत्र_एतद्गौर्वाश्वो वाश्वतरो वा पुरुषो वाकाशफेनमवगन्धयति तत्र जुहुयात्

(१३,२३[११५].२) <पयो देवेषु पय ओषधीषु पय आशासु पयोऽन्तरिक्षे । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभि सं गृणन्तु ॥ पयो यदप्सु पय उस्रियासु पय उत्सेषूत पर्वतेषु । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभि सं गृणन्तु ॥ यन्मृगेषु पय आविष्टमस्ति यदेजति पतति यत्पतत्रिषु [चोर्र्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. पततत्रिषु] । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभि सं गृणन्तु ॥ यानि पयांसि दिव्यार्पितानि यान्यन्तरिक्षे बहुधा बहूनि । तेषामीशानं वशिनी नो अद्य प्र दत्ता द्यावापृथिवी अहृणीयमाना ॥ [पै.सं.१.९१]> इत्येतेन सूक्तेन जुहुयात्

(१३,२३[११५].३) सा तत्र प्रायश्चित्तिः


(१३,२४[११६].१) अथ यत्र_एतत्पिपीलिका अनाचाररूपा दृश्यन्ते तत्र जुहुयात्

(१३,२४[११६].२) <भुवाय स्वाहा भुवनाय स्वाहा भुवनपतये स्वाहा भुवां पतये स्वाहावोषाय स्वाहा विनताय स्वाहा शतारुणाय स्वाहा>

(१३,२४[११६].३) <यः प्राच्यां दिशि श्वेतपिपीलिकानां राजा तस्मै स्वाहा । यो दक्षिणायां दिशि कृष्णपिपीलिकानां राजा तस्मै स्वाहा । यः प्रतीच्यां दिशि रजतपिपीलिकानां राजा तस्मै स्वाहा । य उदीच्यां दिशि रोहितपिपीलिकानां राजा तस्मै स्वाहा । यो ध्रुवायां दिशि बभ्रुपिपीलिकानां राजा तस्मै स्वाहा । यो व्यध्वायां दिशि हरितपिपीलिकानां राजा तस्मै स्वाहा । य ऊर्ध्वायां दिश्यरुणपिपीलिकानां राजा तस्मै स्वाहा>

(१३,२४[११६].४) ताश्चेदेतावता न शाम्येयुस्तत उत्तरमग्निमुपसमाधाय

(१३,२४[११६].५) शरमयं बर्हिरुभयतः परिछिन्नं प्रसव्यं परिस्तीर्य

(१३,२४[११६].६) विषावध्वस्तमिङ्गिडमाज्यं शाकपलाशेन_उत्पूतं बाधकेन स्रुवेण जुहोति

(१३,२४[११६].७) <उत्तिष्ठत निर्द्रवत न व इहास्त्वित्यञ्चनम् । इन्द्रो वः सर्वासां साकं गर्भानाण्डानि भेत्स्यति [पै.सं.१७.१३.३]> <फड्ढताः पिपीलिकाः [दृष्टव्यम्‌ कौ.सू.४७.२१]>_इति (१३,२४[११६].८) <इन्द्रो वो यमो वो वरुणो वोऽग्निर्वो वायुर्वः सूर्यो वश्चेन्द्रो वः प्रजापतिर्व ईशानो वः>_इति


(१३,२५[११७].१) अथ यत्र_एतत्_नीलमक्षा अनाचाररूपा दृश्यन्ते तत्र जुहुयात्

(१३,२५[११७].२) <या मत्यैः सरथं यान्ति घोरा मृत्योर्दूत्यः क्रविशः सं बभूवुः । शिवं चक्षुरुत घोषः शिवानां शं नो अस्तु द्विपदे शं चतुष्पदे ॥ शान्तं चक्षुरुत वायसीनां या चासां घोरा मनसो विसृष्टिः । मनसस्पते तन्वा मा पाहि घोरान्मा वि रिक्षि तन्वा मा प्रजया मा पशुभिर्वायवे स्वाहा []>_इति हुत्वा

(१३,२५[११७].३) <वात आ वातु भेषजं [पै.सं.१९.४६.७ इत्यादि]>_इत्येतेन सूक्तेन जुहुयात्

(१३,२५[११७].४) <वात आ वातु भेषजं शंभु मयोभु नो हृदे । प्र ण आयूंषि तारिषत् ॥ उत वात पितासि न उत भ्रातोत नः सखा । स नो जीवातवे कृधि ॥ यददो वात ते गृहे निहितं भेषजं गुहा । तस्य नो देहि जीवसे [पै.सं.१९.४६.७९, Vऐत्ष्३८.१ इत्यादि]>_इत्येतेन सूक्तेन जुहुयात्

(१३,२५[११७].५) सा तत्र प्रायश्चित्तिः


(१३,२६[११८].१) अथ यत्र_एतत्_मधुमक्षिका अनाचाररूपा दृश्यन्ते <मधु वाता [एद्. वात] ऋतायते [पै.सं.१९.४५.५, दृष्टव्यम्‌ कौ.सू.९०.२५९१.१]> इत्येतेन सूक्तेन जुहुयात्

(१३,२६[११८].२) सा तत्र प्रायश्चित्तिः


(१३,२७[११९].१) अथ यत्र_एतदनाज्ञातमद्भुतं दृश्यते तत्र जुहुयात्

(१३,२७[११९].२) <यदज्ञातमनाम्नातमर्थस्य कर्मणो मिथः । अग्ने त्वं नस्तस्मात्पाहि स हि वेत्थ यथायथम् ॥ अग्नये स्वाहा []>

(१३,२७[११९].३) <वायो सूर्य चन्द्र>_इति च

(१३,२७[११९].४) <पुरुषसंमितोऽर्थः कर्मार्थः पुरुषसंमितः । वायुर्मा तस्मात्पातु स हि वेत्थ यथायथम् ॥ वायवे स्वाहा []>

(१३,२७[११९].५) <अग्निर्मा सूर्यो मा चन्द्रो मा>_इति च


(१३,२८[१२०].१) अथ यत्र_एतद्ग्रामे वावसाने वाग्निशरणे समज्यायां वावदीर्येत चतस्रो धेनव उपकॢप्ता भवन्ति श्वेता कृष्णा रोहिणी सुरूपा चतुर्थी

(१३,२८[१२०].२) तासामेतद्द्वादशरात्रं संदुग्धं नवनीतं निदधाति

(१३,२८[१२०].३) द्वादश्याः प्रातर्यत्र_एवादो_अवदीर्णं भवति तत उत्तरमग्निमुपसमाधाय

(१३,२८[१२०].४) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः श्वेताया आज्येन संनीय

(१३,२८[१२०].५) <अग्निर्भूम्याम् [१२.१.१९]> इति तिसृभिरभिमन्त्र्यालभ्य

(१३,२८[१२०].६) अथ जुहुयात्

(१३,२८[१२०].७) तथा दक्षिणार्धे

(१३,२८[१२०].८) तथा पश्चार्धे

(१३,२८[१२०].९) उत्तरार्धे संस्थाप्य वास्तोष्पत्यैर्जुहुयात्

(१३,२८[१२०].१०) अवदीर्णे संपातानानीय संस्थाप्य होमान्

(१३,२८[१२०].११) अवदीर्णं शान्त्युदकेन संप्रोक्ष्य

(१३,२८[१२०].१२) ता एव ब्राह्मणो दद्यात्

(१३,२८[१२०].१३) सीरं वैश्यो_अश्वं प्रादेशिको ग्रामवरं राजा

(१३,२८[१२०].१४) सा तत्र प्रायश्चित्तिः


(१३,२९[१२१].१) अथ यत्र_एतदनुदक उदकोन्मीलो भवति <हिरण्यवर्णाः [१.३३.१]>_इत्यपां सूक्तैर्जुहुयात्

(१३,२९[१२१].२) सा तत्र प्रायश्चित्तिः


(१३,३०[१२२].१) अथ यत्र_एतत्तिलाः समतैला भवन्ति तत्र जुहुयात्

(१३,३०[१२२].२) <अनूनाय स्वाहा । अक्षिताय स्वाहा । अपरिमिताय स्वाहा । परिपूर्णाय स्वाहा>

(१३,३०[१२२].३) स यं द्विष्यात्तस्याशायां <लोहितं ते प्र सिञ्चामि>_इति दक्षिणामुखः प्रसिञ्चेत्


(१३,३१[१२३].१) अथ यत्र_एतद्वपां वा हवींषि वा वयांसि द्विपदचतुष्पदं वाभिमृश्यावगछेयुर्<ये अग्नयो [३.२१.१]> <नमो देववधेभ्यो [६.१३.१]>_इत्येताभ्यां सूक्ताभ्यां जुहुयात्

(१३,३१[१२३].२) सा तत्र प्रायश्चित्तिः


(१३,३२[१२४].१) अथ यत्र_एतत्कुमारस्य कुमार्या वा द्वौ_आवर्तौ मूर्धन्यौ भवतः सव्यावृदेको देशावर्तस्तत्र जुहुयात्

(१३,३२[१२४].२) <त्वष्टा रूपाणि बहुधा विकुर्वञ्जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्वविपरीतमस्माननुपूर्वं कल्पयतामिहैव ॥ त्वष्ट्रे स्वाहा []>

(१३,३२[१२४].३) <अन्तर्गर्भेषु बहुधा सं तनोति जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्वविपरीतमस्माननुपूर्वं कल्पयतामिहैव ॥ त्वष्ट्रे स्वाहा []>

(१३,३२[१२४].४) <यद्युन्मृष्टं यदि वाबिमृष्टं तिरश्चीनर्थ उत मर्मृजन्ते । शिवं तद्देवः सविता कृणोतु प्रजापतिः प्रजाभिः संविदानः ॥ त्वष्ट्रे स्वाहा []>

(१३,३२[१२४].५) <सव्यावृत्तान्युत या विश्वरूपा प्रत्यग्वृत्तान्युत या ते परुषः । तान्यस्य देव बहुधा बहूनि स्योनानि शग्मानि शिवानि सन्तु ॥ त्वष्ट्रे स्वाहा []>_इति हुत्वा

(१३,३२[१२४].६) <त्वष्टा मे दैव्यं वचः [६.४.१]>_इत्येतेन सूक्तेन जुहुयात्

(१३,३२[१२४].७) सा तत्र प्रायश्चित्तिः


(१३,३३[१२५].१) अथ यत्र_एतद्यूपो विरोहति तत्र जुहुयात्

(१३,३३[१२५].२) <यूपो विरोहञ्छतशाखो अध्वरः समावृतो मोहयिष्यन् यजमानस्य लोकान् । वेदाभिगुप्तो ब्रह्मणा परिवृतोऽथर्वभिः शान्तः सुकृतामेतु लोकान् ॥ यूपो ह्यरुक्षद्द्विषतां वधाय न मे यज्ञो यजमानश्च रिष्यात् । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥ वनस्पते स्वाहा [, दृष्टव्यम्‌ कात्या.श्रौ.सू.२.२.८]]>_इति हुत्वा

(१३,३३[१२५].३) <वनस्पतिः सह देवैर्न आगन्न् [१२.३.१५]> इति जुहुयात्

(१३,३३[१२५].४) सा तत्र प्रायश्चित्तिः


(१३,३४[१२६].१) अथ यत्र_एतद्दिवोल्का पतति तदयोगक्षेमाशङ्कं भवति_अवृष्ट्याशङ्कं वा

(१३,३४[१२६].२) तत्र राजा भूमिपतिर्विद्वांसं ब्रह्माणं वृणीयात्

(१३,३४[१२६].३) स वृतो_अरण्यस्यार्धमभिव्रज्य तत्र द्वादशरात्रमनुशुष्येत्

(१३,३४[१२६].४) स खलु पूर्वं नवरात्रमारण्यशाकमूलफलभक्षश्चाथ_उत्तरं त्रिरात्रं नान्यदुदकात्

(१३,३४[१२६].५) श्वो भूते सप्त धेनव उपकॢप्ता भवन्ति श्वेता कृष्णा रोहिणी नीला पाटला सुरूपा बहुरूपा सप्तमी

(१३,३४[१२६].६) तासामेतद्द्वादशरात्रं संदुग्धं नवनीतं निदधाति

(१३,३४[१२६].७) द्वादश्याः प्रातर्यत्र_एवासौ पतिता भवति तत उत्तरमग्निमुपसमाधाय

(१३,३४[१२६].८) परिसमूह्य पर्युक्ष्य परिस्तीर्य बर्हिः

(१३,३४[१२६].९) अथामुं नवनीतं सौवर्णे पात्रे विलाप्य सौवर्णेन स्रुवेण रक्षोघ्नैश्च सूक्तैर्<यामाहुस्तारकैषा विकेशीति [५.१७.४]>_एतेन सूक्तेनाज्यं जुह्वन्

(१३,३४[१२६].१०) अवपतिते संपातानानीय संस्थाप्य होमान्

(१३,३४[१२६].११) अवपतितं शान्त्युदकेन संप्रोक्ष्य

(१३,३४[१२६].१२) ता एव ब्राह्मणो दद्यात्

(१३,३४[१२६].१३) सीरं वैश्यो_अश्वं प्रादेशिको ग्रामवरं राजा

(१३,३४[१२६].१४) सा तत्र प्रायश्चित्तिः


(१३,३५[१२७].१) अथ यत्र_एतद्धूमकेतुः सप्तर्षीनुपधूपयति तदयोगक्षेमाशङ्कमित्युक्तम्

(१३,३५[१२७].२) पञ्च पशवस्तायन्ते वारुणः कृष्णो गौर्वाजो वाविर्वा हरिर्वायव्यो बहुरूपो दिश्यो मारुती मेष्याग्नेयः प्राजापत्यश्च क्षीरौदनो_अपां नप्त्र उद्रः

(१३,३५[१२७].३) <उतेयं भूमिर्[४.१६.३]> इति त्रिर्वरुणमभिष्टूय

(१३,३५[१२७].४) <अप्सु ते राजन्न् [७.८३.१]> इति चतसृभिर्वारुणस्य जुहुयात्

(१३,३५[१२७].५) <वायवा रुन्धि नो मृगानस्मभ्यं मृगयद्भ्यः । स नो नेदिष्ठमा कृधि वातो हि रशनाकृतः [पै.सं.२०.५१.४]>_इति वायव्यस्य

(१३,३५[१२७].६) <आशानाम् [१.३१.१]> इति दिश्यस्य

(१३,३५[१२७].७) <प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । मरुद्भिरग्न आ गहि [पै.सं.६.१७.१, .ऋ.वे. १.१९.१]>_इति मारुतस्य

(१३,३५[१२७].८) <अपामग्निस्[४.१५.१०]>_इत्याग्नेयस्य

(१३,३५[१२७].९) <प्रजापतिः सलिलाद्[४.१५.११]>_इति प्राजापत्यस्य

(१३,३५[१२७].१०) अपां सूक्तैर्हिरण्यशकलेन सह_उद्रमप्सु प्रवेशयेत्

(१३,३५[१२७].११) प्र हैव वर्षति

(१३,३५[१२७].१२) सर्वस्वं तत्र दक्षिणा

(१३,३५[१२७].१३) तस्य निष्क्रयो यथार्हं यथासंपद्वा


(१३,३६[१२८].१) अथ यत्र_एतत्_नक्षत्राणि पतापतानीव भवन्ति तत्र जुहुयात्

(१३,३६[१२८].२) <यन्नक्षत्रं पतति जातवेदः सोमेन राज्ञेषिरं पुरस्तात् । तस्मान्मामग्ने परि पाहि घोरात्प्र णो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा [, दृष्टव्यम्‌ कौ.सू.११४.२]>_इति हुत्वा

(१३,३६[१२८].३) <सोमो राजा सविता च राजा [पै.सं.१९.३३.१]>_इत्येतेन सूक्तेन जुहुयात्

(१३,३६[१२८].४) <सोमो राजा सविता च राजा भुवो राजा भुवनं च राजा । शर्वो राजा शर्म च राजा त उ नः शर्म यछन्तु देवाः ॥ आदित्यैर्नो बृहस्पतिर्भगः सोमेन नः सह । विश्वे देवा उर्वन्तरिक्षं त उ नः शर्म यछन्तु देवाः ॥ उताविद्वान्निष्कृदयाथोस्रघ्नी यथायथम् । मा नो विश्वे देवा मरुतो हेतिमिछत [पै.सं.१९.३३.१३]>

(१३,३६[१२८].५) रुक्मं कर्त्रे दद्यात्

(१३,३६[१२८].६) सा तत्र प्रायश्चित्तिः


(१३,३७[१२९].१) अथ यत्र_एतत्_मांसमुखो निपतति तत्र जुहुयात्

(१३,३७[१२९].२) <घोरो वज्रो देवसृष्टो न आगन् यद्वा गृहान् घोरमुता जगाम । तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ रुद्राय स्वाहा []>_इति हुत्वा

(१३,३७[१२९].३) <भवाशर्वौ मृडतं माभि यातं [११.२.१]>_इत्येतेन सूक्तेन जुहुयात्

(१३,३७[१२९].४) सा तत्र प्रायश्चित्तिः


(१३,३८[१३०].१) अथ यत्र_एतदनग्नौ_अवभासो भवति तत्र जुहुयात्

(१३,३८[१३०].२) <या तेऽवदीप्तिरवरूपा जातवेदोऽपेतो रक्षसां भाग एषः । रक्षांसि तया दह जातवेदो या नः प्रजां मनुष्यां संसृजन्ते ॥ अग्नये स्वाहा []>_इति हुत्वा

(१३,३८[१३०].३) <अग्नी रक्षांसि सेधति [८.३.२६]>_इति प्रायश्चित्तिः


(१३,३९[१३१].१) अथ यत्र_एतदग्निः श्वसतीव तत्र जुहुयात्

(१३,३९[१३१].२) <श्वेता कृष्णा रोहिणी जातवेदो यास्ते तनूस्तिरश्चीना निर्दहन्तीः श्वसन्तीः । रक्षांसि ताभिर्दह जातवेदो या नः प्रजां मनुष्यां संसृजन्ते ॥ अग्नये स्वाहा []>_इति हुत्वा

(१३,३९[१३१].३) <अग्नी रक्षांसि सेधति [८.३.२६]>_इति प्रायश्चित्तिः


(१३,४०[१३२].१) अथ यत्र_एतत्सर्पिर्वा तैलं वा मधु वा विष्यन्दति <यद्यामं चक्रुर्निखनन्तो [६.११६.१]>_इत्येतेन सूक्तेन जुहुयात्

(१३,४०[१३२].२) सा तत्र प्रायश्चित्तिः


(१३,४१[१३३].१) अथ यत्र_एतद्ग्राम्यो_अग्निः शालां दहति_<अपमित्यमप्रतीत्तं [६.११७११९]>_इत्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं हुत्वा

(१३,४१[१३३].२) <ममोभा मित्रावरुणा [पै.सं.१.४०]> <मह्यमापो मधुमदेरयन्तां [६.६१.१]>_इत्येताभ्यां सूक्ताभ्यां जुहुयात्

(१३,४१[१३३].३) <ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती । मम त्वष्टा च पूषा च ममैव सविता वशे ॥ मम विष्णुश्च सोमश्च ममैव मरुतो भवन् । सरस्वांश्च भगश्च विश्वे देवा वशे मम ॥ ममोभे [एद्. मिस्प्रिन्त्ममोभा] द्यावापृथिवी अन्तरिक्षं स्वर्मम । ममेमाः सर्वा ओषधीरापः सर्वा वशे मम ॥ मम गावो ममाश्वा ममाजाश्चावयश्च ममैव पुरुषा भवन् । ममेदं सर्वमात्मन्वदेजत्प्राणद्वशे मम ॥ [पै.सं.१.४०]>_इति

(१३,४१[१३३].४) अरणी प्रताप्य स्थण्डिलं परिमृज्य

(१३,४१[१३३].५) अथाग्निं जनयेत्

(१३,४१[१३३].६) <इत एव प्रथमं जज्ञे अग्निराभ्यो योनिभ्यो अधि जातवेदाः । स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा देवो देवेभ्यो हव्यं वहतु प्रजानन्न् []> इति जनित्वा

(१३,४१[१३३].७) <भवतं नः समनसौ समोकसाव्[, दृष्टव्यम्‌ कौ.सू.१०८.२]> इत्येतेन सूक्तेन जुहुयात्

(१३,४१[१३३].८) सा तत्र प्रायश्चित्तिः


(१३,४२[१३४].१) अथ चेदागन्तुर्दहति_एवमेव कुर्यात्

(१३,४२[१३४].२) सा तत्र प्रायश्चित्तिः


(१३,४३[१३५].१) अथ यत्र_एतद्वंश स्फोटति कपाले_अङ्गारा भवन्ति_उदपात्रं बर्हिराज्यं तदादाय

(१३,४३[१३५].२) शालायाः पृष्ठमुपसर्पति

(१३,४३[१३५].३) तत्राङ्गारान् वा कपालं वा_उपनिदधाति_आ संतपनात्

(१३,४३[१३५].४) प्राञ्चमिध्ममुपसमाधाय

(१३,४३[१३५].५) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य

(१३,४३[१३५].६) परिचरणेनाज्यं परिचर्य

(१३,४३[१३५].७) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च

(१३,४३[१३५].८) अथ जुहोति

(१३,४३[१३५].९) <असौ वै नाम ते मातासौ वै नाम ते पिता । असौ वै नाम ते दूतः स्ववंशमधि तिष्ठति ॥ उत्तमरात्री णाम मृत्यो ते माता तस्य ते अन्तकः पिता । समंदधानस्ते दूतः स्ववंशमधि तिष्ठति ॥ बहवोऽस्य पाशा वितताः पृथिव्यामसंख्येया अपर्यन्ता अनन्ताः । याभिर्वंशानभिनिदधाति प्राणिनां यान् कांश्चेमान् प्राणभृतां जिघांसन् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं मृत्यवे स्वाहा ॥ बृहस्पतिराङ्गिरसो ब्रह्मणः पुत्रो विश्वे देवाः प्र ददुर्विश्वमेजत् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं बृहस्पतय आङ्गिरसाय स्वाहा ॥ यस्य तेऽन्नं न क्षीयते भूय एवोपजातये । यस्मै भूतं च भव्यं च सर्वमेतत्प्रतिष्ठितम् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमिन्द्राय स्वाहा ॥ मुखं देवानामिह यो बभूव यो जानाति वयुनानां समीपे । यस्मै हुतं देवता भक्षयन्ति वायुनेत्रः सुप्रणीतिः सुनीतिः । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमग्नये स्वाहा ॥ यः पृथिव्यां च्यावयन्नेति वृक्षान् प्रभञ्जनेन रथेन सह संविदानः । रसान् गन्धान् भावयन्नेति देवो मातरिश्वा भूतभव्यस्य कर्ता । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं वायवे स्वाहा ॥ ब्रह्मचारी चरति ब्रह्मचर्यमृचं गाथां ब्रह्म परं जिगांसन् । तं विघ्ना अनुपरियन्ति सर्वे ये अन्तरिक्षे ये च दिवि श्रितासः । तं विशो अनुपर्यन्ति सर्वाः कर्माणि लोके परिमोहयन्ति । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमादित्याय स्वाहा ॥ यो नक्षत्रैः सरथं याति देवः संसिद्धेन रथेन सह संविदानः । रूपंरूपं कृण्वानश्चित्रभानुः सुभानुः । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं चन्द्राय स्वाहा ॥ ओषधयः सोमराज्ञीर्यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमोषधीभ्यः सोमराज्ञीभ्यः स्वाहा ॥ ओषधयो वरुणराज्ञीर्यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमोषधीभ्यो वरुणराज्ञीभ्यः स्वाहा ॥ अष्टस्थूणो दशपक्षो यदृछजो वनस्पते । पुत्रांश्चैव पशूंश्चाभि रक्ष वनस्पते ॥ यो वनस्पतीनामुपतापो बभूव यद्वा गृहान् घोरमुता जगाम तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ यो वनस्पतीनामुपतापो न आगद्यद्वा यज्ञं नोऽद्भुतमा जगाम । सर्वं तदग्ने हुतमस्तु भागशः शिवान् वयमुत्तरेमाभि वाजान् ॥ त्वष्ट्रे स्वाहा []>_इति हुत्वा

(१३,४३[१३५].१०) <त्वष्टा मे दैव्यं वचः [६.४.१]>_इत्यत्र_उदपात्रं निनयति

(१३,४३[१३५].११) कपाले_अग्निं चादाय_उपसर्पति

(१३,४३[१३५].१२) सा तत्र प्रायश्चित्तिः


(१३,४४[१३६].१) अथ यत्र_एतत्कुम्भोदधानः सक्तुधानी वा_उखा वानिङ्गिता विकसति तत्र जुहुयात्

(१३,४४[१३६].२) <भूमिर्भूमिमगान् [एद्. एम्. अवागान्, बुत्नोते आVড়रिश्४०.६.५ अन्द्Kएशव] माता मातरमप्यगात् । ऋध्यास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम् []> इति

(१३,४४[१३६].३) सदसि सन्मे भूयादिति सक्तूनावपते

(१३,४४[१३६].४) अथ चेदोदनस्य_<अन्नमस्यन्नं मे देह्यन्नं मा मा हिंसीर्> इति त्रिः प्राश्य

(१३,४४[१३६].५) अथ यथाकामं प्राश्नीयात्

(१३,४४[१३६].६) अथ चेदुदधानः स्यात्<समुद्रं वः प्र हिणोमि [१०.५.२३२४]>_इत्येताभ्यामभिमन्त्र्य

(१३,४४[१३६].७) अन्यं कृत्वा ध्रुवाभ्यां दृंहयित्वा

(१३,४४[१३६].८) तत्र <हिरण्यवर्णाः [१.३३.१]>_इत्युदकमासेचयेत्

(१३,४४[१३६].९) स खलु_एतेषु कर्मसु सर्वत्र शान्त्युदकं कृत्वा सर्वत्र चातनानि_अनुयोजयेत्_मातृनामानि च

(१३,४४[१३६].१०) सर्वत्र वरां धेनुं कर्त्रे दद्यात्

(१३,४४[१३६].११) सर्वत्र कंसवसनं गौर्दक्षिणा

(१३,४४[१३६].१२) ब्राह्मणान् भक्तेन_उपेप्सन्ति

(१३,४४[१३६].१३) यथोद्दिष्टं चादिष्टासु_इति प्रायश्चित्तिः प्रायश्चित्तिः


(कौ.सू.१३ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे त्रयोदशोऽध्यायः समाप्तः