प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १३ कौषीतकिब्राह्मणम्
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →
सोमयागः( प्रातःसवनम् )


१४.१ आज्यशस्त्रम्
अथात आज्यम् । आज्येन वै देवाः सर्वान् कामान् आजयन्त् सर्वम् अमृतत्वम् । तथो एव एतद् यजमान आज्येन एव सर्वान् कामान् आजयति सर्वम् अमृतत्वम् । तद् वा इदम् षड्विधम् आज्यम् । तूष्णीम् जपस् तूष्णीम् शंसः पुरोरुक् सूक्तम् उक्थ वीर्यम् याज्या इति । षड् ऋतुः संवत्सरः षड्विधः । एतेन वै देवाः षड्विधेन आज्येन षड् ऋतुम् संवत्सरम् आप्नुवन् षड्विधम् । संवत्सरेण सर्वान् कामान्त् सर्वम् अमृतत्वम् । तथो एव एतद् यजमान एतेन एव षड्विधेन आज्येन षड् ऋतुम् संवत्सरम् आप्नोति षड्विधम् । संवत्सरेण सर्वान् कामान्त् सर्वम् अमृतत्वम् । अथ यत् पुरस्तात् तूष्णीम् जपम् जपति । स्वर्गो वै लोको यज्ञः । तद् यत् पुरस्तात् तूष्णीम् जपम् जपति । स्वस्त्ययनम् एव तत् कुरुते स्वर्गस्य लोकस्य समष्ट्यै । अथ एतम् तूष्णीम् शंसम् उपांशु संशति । सर्वेषाम् एव कामानाम् आप्त्यै । अग्निर् ज्योतिर् ज्योतिर् अग्निर् इति । तद् इमंल् लोकंल् लोकानाम् आप्नोति । प्रातःसवनम् यज्ञस्य । इन्द्रो ज्योतिर् ज्योतिर् इन्द्र इति । तद् अन्तरिक्ष लोकंल् लोकानाम् आप्नोति । माध्यंदिनम् सवनम् यज्ञस्य । सूर्यो ज्योतिर् ज्योतिः सूर्य इति । तद् अमुंल् लोकंल् लोकानाम् आप्नोति । तृतीय सवनम् यज्ञस्य । अथ वै निविद् असाव् एव यो असौ तपति । एष हि इदम् सर्वम् निवेदयन्न् एति । सा पुरस्तात् सूक्तस्य प्रातः सवने धीयते । पुरस्ताद्द् ह्य् एष तदा भवति । मध्ये सूक्तस्य माध्यंदिने सवने । मध्ये ह्य् एष तदा भवति । उत्तमाः परिशिष्य तृतीय सवने । पश्चाद्द् ह्य् एष तर्हि परिक्रान्तो भवति । तद् एतस्य एव रूपेण निविदम् दधद् एति । तद् उ वा आहुर् अञ्जयो वै प्रातःसवनम् वहन्ति । शिति पृष्ठा माध्यंदिनम् सवनम् । श्वेत अनुकाशास् ( अनूकाशास् ) तृतीय सवनम् इत्य् आदित्येन एव । द्वादश पदाम् पुरोरुचम् उपसंशंसति । द्वादश वै मासाः संवत्सरः । संवत्सरस्य एव आप्त्यै ।

१४.२ सूक्तपाठविधिः
अथ सप्तर्चम् आज्यम् शंसति । सप्त वै छन्दांसि । सर्वेषाम् एव छन्दसाम् आप्त्यै । तद् वा आनुष्टुभम् भवति । वाग् अनुष्टुप् । तद् यत् किंच वाचा अनुष्टुभा व्यनूक्तम् तत् सर्वम् आप्नोति । पदे विगृह्णाति । तत् प्रजात्यै रूपम् । वि इव वै स्त्रियै पुमान् गृह्णाति । यद् व् एव विगृह्णाति । प्रतिष्ठयोस् तद् रूपम् । अथो एतद्द् ह वै मृत्योर् आस्यम् यद् एते पदे अन्तरेण । स यो अत्र अव अनन्तम् ब्रूयात् । मृत्योर् आस्यम् आपाति न जीविष्यति इति तथा ह स्यात् । तस्माद् अनवानम् संक्रामेत् । अमृतम् वै प्राणः । अमृतेन तन् मृत्युम् तरति । समस्तेन उत्तरेण अर्धर्चेन प्रणौति । वज्रम् एव तत् पाप्मने भ्रातृव्याय प्रहरति । ता दश गायत्र्यः सम्पद्यन्ते । अष्ट अक्षरम् हि दशमम् पदम् । गायत्री वै सा या अनुष्टुप् । गायत्रम् अग्नेश् छन्दः । दश प्रातः सवने अध्वर्युर् ग्रहान् गृह्णाति । नवसु बहिष् पवमानेन स्तुवते । हिंकारो दशमः । दश इमाः । ते नाना कुर्वन्तो विराजम् अभिषम्पादयन्ति । एतद् वै कृत्स्नम् अन्नाद्यम् यद् विराड् एव । तत् सम्पाद्य यजमाने प्रतिदधाति । त्रिः प्रथमया त्रिर् उत्तमया एकादश सम्पद्यन्ते । याज्या द्वादशी । द्वादश वै मासाः संवत्सरः । संवत्सरस्य एव आप्त्यै । ताः संशस्ताः षोडश गायत्र्यः सम्पद्यन्ते । तद् गायत्रीम् आज्यम् अभिसम्पद्यते । आग्नेन्द्र्या यजति । इन्द्रम् एव तद् अर्ध भाजम् सवनस्य करोति । तस्याम् देवता अन्वाभजत इति ह स्म आह कौषीतकिः । त्रयस् त्रिंशद् अक्षरा वै विराट् । त्रयस् त्रिंशद् देवताः । अक्षर भाजो देवताः करोति । अग्न इन्द्रश् च दाशुषो दुरोण इति पदम् परिशिष्य विराजो अर्धर्चे अवान् इति । श्रीर् विराड् अन्नाद्यम् । श्रियाम् तद् विराज्य् अन्न अद्ये प्रतितिष्ठति । उत्तरेण विराजो अर्धर्चेन वषट् करोति । स्वर्ग एव तल् लोके यजमानम् दधाति । अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्यै ।

१४.३ आह्वानम्
शोंसावो ३ इति प्रातःसवन आह्वयते । शोंसामो दैव इत्य् अध्वर्युः । तान्य् अष्टाव् अक्षराणि । उक्थम् अवाचि इति प्रातःसवन उपांशु होता ब्रूयात् । उक्थशा इत्य् अध्वर्युः । तान्य् अष्टौ । गायत्र्या सवनम् प्रतिपद्य गायत्र्याम् प्रत्यष्ठताम् । अध्वर्यो शोंसावो इति माध्यंदिने सवने आह्वयते । शोंसामो दैव इत्य् अध्वर्युः । तान्य् एकादश अक्षराणि । उक्थम् अवाचि इन्द्राय इति माध्यंदिने सवने उपांशु होता ब्रूयात् । उक्थशा इत्य् अध्वर्युः । तान्य् एकादश । त्रिष्टुभा सवनम् परिपद्य त्रिष्टुभि प्रत्यष्ठाताम् । अध्वर्यो शो शोंसावो इति तृतीय सवने अभ्यासम् आह्वयते । शो शोंसामो दैव इत्य् अध्वर्युः प्रत्यभ्यस्यति । तानि द्वादश अक्षराणि । लोमशेन त्रयोदश । वाचि इन्द्राय उक्थम् देवेभ्य इति तृतीय सवने उपांशु होता ब्रूयात् । उक्थशा इत्य् अध्वर्युः । तानि द्वादश । सम्प्रति जगत्या सवनम् प्रतिपद्य जगत्याम् प्रत्यष्ठाताम् । एतद् वै तद् यन् मध्य ओप्यते । स यदि ह वा अपि व्यूढच् छन्दा भवति । क्लृप्तान्य् एव एवम् विदुषश् छन्दांसि यज्ञम् वहन्ति । अथो एतद् एष ऋग् अभ्यनूक्ता इति ह स्म आह । यद् गायत्रे अधि गायत्रम् आहितम् त्रैष्टुभाद् वा त्रैष्टुभम् निरतक्षत । यद् वा जगज् जगत्य् आहितम् पदम् य इत् तद् विदुस् ते अमृतत्वम् आनशुर् इति । अथो यद् इमा देवता एषु लोकेष्व् अध्यूढाः । गायत्रे अस्मिंल् लोके गायत्रो अयम् अग्निर् अध्यूढः । त्रैष्टुभे अन्तरिक्ष लोके त्रैष्टुभो वायुर् अध्यूढः । जागते अमुष्मिंल् लोके जागतो असाव् आदित्यो अध्यूढः ।

१४.४ प्रउगशस्त्रम्
आज्यम् शस्त्वा प्रउगम् शंसति । आत्मा वै यजमानस्य आज्यम् । प्राणाः प्रउगम् । तद् यद् आज्यम् शस्त्वा प्रउगम् शंसति । तथा ह यजमानः सर्वम् आयुर् अस्मिंल् लोक एत्य आप्नोत्य् अमृतत्वम् अक्षितिम् स्वर्गे लोके । पवमाने स्तुत आज्यम् शंसति । आज्ये स्तुते प्रउगम् । तद् एतत् पवमान उक्थम् एव यत् प्रउगम् । आज्यम् एव आज्यस्य उक्थम् । ते एतद् विहरति । यथा रथस्य अन्तरौ रश्मी व्यतिषजेद् एवम् तत् । ग्रहान् अनु शंसति इति ह स्म आह कौषीतकिः । यो असौ वायोर् इन्द्र वाय्वोर् ग्रहः । तम् वायव्येन च ऐन्द्रवायवेन च । मैत्रावरुणम् मैत्रावरुणेन । आश्विनम् आश्विनेन । यत् प्रस्थितानाम् यजति तद् ऐन्द्रेण । यद्द् होत्राः सम्यजन्ति तद् वैश्वदेवेन । वाग् एव सरस्वती सर्वेषु सवनेषु । अथ वै पुरोरुग् असाव् एव यो असौ तपति । एष हि पुरस्ताद् रोचते । अथ वै पुरोरुक् प्राण एव आत्मा सूक्तम् । अथ वै पुरोरुग् आत्मा एव । प्रजा पशवः सूक्तम्। तस्मान् न पुरोरुचम् च सूक्तम् च अन्तरेण व्याह्वयते । संशस्य पुरोरुचा सूक्तम् । पुरोरुचे पुरोरुच एव आह्वयते । वायुर् अग्रेगास् तत् प्राण रूपम् । वायवा तद् अपानस्य रूपम् । गायत्रम् प्रउगम् शंसति । तेन प्रातःसवनम् आप्तम् । ऐन्द्रम् शंसति । तेन माध्यंदिनम् सवनम् आप्तम् । वैश्वदेवम् शंसति । तेन तृतीय सवनम् आप्तम् ।

१४.५ प्रउगशस्त्रम्
अथ वैश्वदेवीम् पुरोरुचम् शंसति । सा षट्पदा भवति । ताम् ताम् ऋतव इत्य् आहुः । षड् ढ्य् ऋतवः । तस्यै द्वे द्वे पदे अवग्राहम् शंसति । तस्माद् द्वन्द्वम् समस्ता ऋतव आख्यायन्ते ग्रीष्मो वर्षा हेमन्त इति । अत्र ह एके सारस्वतीम् पुरोरुचम् शंसन्ति । न तथा कुर्यात् । अतिरिक्तम् तत् । रुचिता वै वाक् । स्वयम् पुरोरुग् वै वाक् । वायव् आ याहि दर्शत अश्विना यज्वरीर् इष इत्य् एते उभे तत् प्रउगम् नवर्चम् च द्वादशर्चम् च । तद् एकविंशतिः । एकविंशो वै चतुष्टोमः स्तोमानाम् परमः । तत् परमम् स्तोमम् आप्नोति । यद् व् एव एकविंशतिः । द्वादश मासाः पञ्चर्तवस् त्रय इमे लोकाः । असाव् आदित्य एकविंशः । तेन एव तत् सलोकतायाम् यजमानम् अध्यूहति । तानि वै सप्त तृचानि भवन्ति । सप्त वै छन्दांसि । सर्वेषाम् एव छन्दसाम् आप्त्यै । अथो एतैर् वै देवा असुराणाम् सप्त साप्तान्य् अवृञ्जत । तथो एव एतद् यजमान एतैर् एव द्विषतो भ्रातृव्यस्य सप्त साप्तानि वृङ्क्ते । अग्नेर् अग्रे प्रातःसवनम् आसीत् । इन्द्रस्य माध्यंदिनम् सवनम् । विश्वेषाम् देवानाम् तृतीय सवनम् । सो अग्निर् अकामयत । स्यान् मे माध्यंदिने सवने अथो तृतीय सवन इति । इन्द्रो अकामयत । स्यान् मे प्रातः सवने अथो तृतीय सवन इति । विश्वे देवा अकामयन्त । स्यान् नो माध्यंदिने सवने अथो प्रातःसवन इति । ता अमुतो अर्वाच्यो देवतास् तृतीय सवनात् प्रातःसवनम् अभिप्रायुञ्जत । तद् यद् अभिप्रायुञ्जत । तत् प्रउगस्य प्रउगत्वम् । तस्माद् बह्व्यो देवताः प्रउगे शस्यन्ते । तस्मात् सर्वाणि सवनानि सर्व देवत्यानि भवन्ति । वैश्वेभिः सोम्यम् मध्व् इत्य् उक्थम् शस्त्वा यजति वैश्वदेव्याः । वैश्वदेवम् ह्य् एतद् उक्थम् । गायत्र्या गायत्रम् प्रातःसवनम् । अन्व् इद् उ वषट् करवद् अन्विद् उ वषट् करवत् ।  


१४.१ आज्यशस्त्रम्
अथात आज्यम् ।
आज्येन वै देवाः सर्वान् कामान् आजयन्त् सर्वम् अमृतत्वम् ।
तथो एव एतद् यजमान आज्येन एव सर्वान् कामान् आजयति सर्वम् अमृतत्वम् ।
तद् वा इदम् षड्विधम् आज्यम् ।
तूष्णीम् जपस् तूष्णीम् शंसः पुरोरुक् सूक्तम् उक्थ वीर्यम् याज्या इति ।
षड् ऋतुः संवत्सरः षड्विधः ।
एतेन वै देवाः षड्विधेन आज्येन षड् ऋतुम् संवत्सरम् आप्नुवन् षड्विधम् ।
संवत्सरेण सर्वान् कामान्त् सर्वम् अमृतत्वम् ।
तथो एव एतद् यजमान एतेन एव षड्विधेन आज्येन षड् ऋतुम् संवत्सरम् आप्नोति षड्विधम् ।
संवत्सरेण सर्वान् कामान्त् सर्वम् अमृतत्वम् ।
अथ यत् पुरस्तात् तूष्णीम् जपम् जपति ।
स्वर्गो वै लोको यज्ञः ।
तद् यत् पुरस्तात् तूष्णीम् जपम् जपति ।
स्वस्त्ययनम् एव तत् कुरुते स्वर्गस्य लोकस्य समष्ट्यै ।
अथ एतम् तूष्णीम् शंसम् उपांशु संशति ।
सर्वेषाम् एव कामानाम् आप्त्यै ।
अग्निर् ज्योतिर् ज्योतिर् अग्निर् इति ।
तद् इमंल् लोकंल् लोकानाम् आप्नोति ।
प्रातःसवनम् यज्ञस्य ।
इन्द्रो ज्योतिर् ज्योतिर् इन्द्र इति ।
तद् अन्तरिक्ष लोकंल् लोकानाम् आप्नोति ।
माध्यंदिनम् सवनम् यज्ञस्य ।
सूर्यो ज्योतिर् ज्योतिः सूर्य इति ।
तद् अमुंल् लोकंल् लोकानाम् आप्नोति ।
तृतीय सवनम् यज्ञस्य ।
अथ वै निविद् असाव् एव यो असौ तपति ।
एष हि इदम् सर्वम् निवेदयन्न् एति ।
सा पुरस्तात् सूक्तस्य प्रातः सवने धीयते ।
पुरस्ताद्द् ह्य् एष तदा भवति ।
मध्ये सूक्तस्य माध्यंदिने सवने ।
मध्ये ह्य् एष तदा भवति ।
उत्तमाः परिशिष्य तृतीय सवने ।
पश्चाद्द् ह्य् एष तर्हि परिक्रान्तो भवति ।
तद् एतस्य एव रूपेण निविदम् दधद् एति ।
तद् उ वा आहुर् अञ्जयो वै प्रातःसवनम् वहन्ति ।
शिति पृष्ठा माध्यंदिनम् सवनम् ।
श्वेत अनुकाशास् ( अनूकाशास् ) तृतीय सवनम् इत्य् आदित्येन एव ।
द्वादश पदाम् पुरोरुचम् उपसंशंसति ।
द्वादश वै मासाः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।

१४.२ सूक्तपाठविधिः
अथ सप्तर्चम् आज्यम् शंसति ।
सप्त वै छन्दांसि ।
सर्वेषाम् एव छन्दसाम् आप्त्यै ।
तद् वा आनुष्टुभम् भवति ।
वाग् अनुष्टुप् ।
तद् यत् किंच वाचा अनुष्टुभा व्यनूक्तम् तत् सर्वम् आप्नोति ।
पदे विगृह्णाति ।
तत् प्रजात्यै रूपम् ।
वि इव वै स्त्रियै पुमान् गृह्णाति ।
यद् व् एव विगृह्णाति ।
प्रतिष्ठयोस् तद् रूपम् ।
अथो एतद्द् ह वै मृत्योर् आस्यम् यद् एते पदे अन्तरेण ।
स यो अत्र अव अनन्तम् ब्रूयात् ।
मृत्योर् आस्यम् आपाति न जीविष्यति इति तथा ह स्यात् ।
तस्माद् अनवानम् संक्रामेत् ।
अमृतम् वै प्राणः ।
अमृतेन तन् मृत्युम् तरति ।
समस्तेन उत्तरेण अर्धर्चेन प्रणौति ।
वज्रम् एव तत् पाप्मने भ्रातृव्याय प्रहरति ।
ता दश गायत्र्यः सम्पद्यन्ते ।
अष्ट अक्षरम् हि दशमम् पदम् ।
गायत्री वै सा या अनुष्टुप् ।
गायत्रम् अग्नेश् छन्दः ।
दश प्रातः सवने अध्वर्युर् ग्रहान् गृह्णाति ।
नवसु बहिष् पवमानेन स्तुवते ।
हिंकारो दशमः ।
दश इमाः ।
ते नाना कुर्वन्तो विराजम् अभिषम्पादयन्ति ।
एतद् वै कृत्स्नम् अन्नाद्यम् यद् विराड् एव ।
तत् सम्पाद्य यजमाने प्रतिदधाति ।
त्रिः प्रथमया त्रिर् उत्तमया एकादश सम्पद्यन्ते ।
याज्या द्वादशी ।
द्वादश वै मासाः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
ताः संशस्ताः षोडश गायत्र्यः सम्पद्यन्ते ।
तद् गायत्रीम् आज्यम् अभिसम्पद्यते ।
आग्नेन्द्र्या यजति ।
इन्द्रम् एव तद् अर्ध भाजम् सवनस्य करोति ।
तस्याम् देवता अन्वाभजत इति ह स्म आह कौषीतकिः ।
त्रयस् त्रिंशद् अक्षरा वै विराट् ।
त्रयस् त्रिंशद् देवताः ।
अक्षर भाजो देवताः करोति ।
अग्न इन्द्रश् च दाशुषो दुरोण इति पदम् परिशिष्य विराजो अर्धर्चे अवान् इति ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियाम् तद् विराज्य् अन्न अद्ये प्रतितिष्ठति ।
उत्तरेण विराजो अर्धर्चेन वषट् करोति ।
स्वर्ग एव तल् लोके यजमानम् दधाति ।
अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।

१४.३ आह्वानम्
शोंसावो ३ इति प्रातःसवन आह्वयते ।
शोंसामो दैव इत्य् अध्वर्युः ।
तान्य् अष्टाव् अक्षराणि ।
उक्थम् अवाचि इति प्रातःसवन उपांशु होता ब्रूयात् ।
उक्थशा इत्य् अध्वर्युः ।
तान्य् अष्टौ ।
गायत्र्या सवनम् प्रतिपद्य गायत्र्याम् प्रत्यष्ठताम् ।
अध्वर्यो शोंसावो इति माध्यंदिने सवने आह्वयते ।
शोंसामो दैव इत्य् अध्वर्युः ।
तान्य् एकादश अक्षराणि ।
उक्थम् अवाचि इन्द्राय इति माध्यंदिने सवने उपांशु होता ब्रूयात् ।
उक्थशा इत्य् अध्वर्युः ।
तान्य् एकादश ।
त्रिष्टुभा सवनम् परिपद्य त्रिष्टुभि प्रत्यष्ठाताम् ।
अध्वर्यो शो शोंसावो इति तृतीय सवने अभ्यासम् आह्वयते ।
शो शोंसामो दैव इत्य् अध्वर्युः प्रत्यभ्यस्यति ।
तानि द्वादश अक्षराणि ।
लोमशेन त्रयोदश ।
वाचि इन्द्राय उक्थम् देवेभ्य इति तृतीय सवने उपांशु होता ब्रूयात् ।
उक्थशा इत्य् अध्वर्युः ।
तानि द्वादश ।
सम्प्रति जगत्या सवनम् प्रतिपद्य जगत्याम् प्रत्यष्ठाताम् ।
एतद् वै तद् यन् मध्य ओप्यते ।
स यदि ह वा अपि व्यूढच् छन्दा भवति ।
क्लृप्तान्य् एव एवम् विदुषश् छन्दांसि यज्ञम् वहन्ति ।
अथो एतद् एष ऋग् अभ्यनूक्ता इति ह स्म आह ।
यद् गायत्रे अधि गायत्रम् आहितम् त्रैष्टुभाद् वा त्रैष्टुभम् निरतक्षत ।
यद् वा जगज् जगत्य् आहितम् पदम् य इत् तद् विदुस् ते अमृतत्वम् आनशुर् इति ।
अथो यद् इमा देवता एषु लोकेष्व् अध्यूढाः ।
गायत्रे अस्मिंल् लोके गायत्रो अयम् अग्निर् अध्यूढः ।
त्रैष्टुभे अन्तरिक्ष लोके त्रैष्टुभो वायुर् अध्यूढः ।
जागते अमुष्मिंल् लोके जागतो असाव् आदित्यो अध्यूढः ।

१४.४ प्रउगशस्त्रम्
आज्यम् शस्त्वा प्रउगम् शंसति ।
आत्मा वै यजमानस्य आज्यम् ।
प्राणाः प्रउगम् ।
तद् यद् आज्यम् शस्त्वा प्रउगम् शंसति ।
तथा ह यजमानः सर्वम् आयुर् अस्मिंल् लोक एत्य आप्नोत्य् अमृतत्वम् अक्षितिम् स्वर्गे लोके ।
पवमाने स्तुत आज्यम् शंसति ।
आज्ये स्तुते प्रउगम् ।
तद् एतत् पवमान उक्थम् एव यत् प्रउगम् ।
आज्यम् एव आज्यस्य उक्थम् ।
ते एतद् विहरति ।
यथा रथस्य अन्तरौ रश्मी व्यतिषजेद् एवम् तत् ।
ग्रहान् अनु शंसति इति ह स्म आह कौषीतकिः ।
यो असौ वायोर् इन्द्र वाय्वोर् ग्रहः ।
तम् वायव्येन च ऐन्द्रवायवेन च ।
मैत्रावरुणम् मैत्रावरुणेन ।
आश्विनम् आश्विनेन ।
यत् प्रस्थितानाम् यजति तद् ऐन्द्रेण ।
यद्द् होत्राः सम्यजन्ति तद् वैश्वदेवेन ।
वाग् एव सरस्वती सर्वेषु सवनेषु ।
अथ वै पुरोरुग् असाव् एव यो असौ तपति ।
एष हि पुरस्ताद् रोचते ।
अथ वै पुरोरुक् प्राण एव आत्मा सूक्तम् ।
अथ वै पुरोरुग् आत्मा एव ।
प्रजा पशवः सूक्तम्।
तस्मान् न पुरोरुचम् च सूक्तम् च अन्तरेण व्याह्वयते ।
संशस्य पुरोरुचा सूक्तम् ।
पुरोरुचे पुरोरुच एव आह्वयते ।
वायुर् अग्रेगास् तत् प्राण रूपम् ।
वायवा तद् अपानस्य रूपम् ।
गायत्रम् प्रउगम् शंसति ।
तेन प्रातःसवनम् आप्तम् ।
ऐन्द्रम् शंसति ।
तेन माध्यंदिनम् सवनम् आप्तम् ।
वैश्वदेवम् शंसति ।
तेन तृतीय सवनम् आप्तम् ।

१४.५ प्रउगशस्त्रम्
अथ वैश्वदेवीम् पुरोरुचम् शंसति ।
सा षट्पदा भवति ।
ताम् ताम् ऋतव इत्य् आहुः ।
षड् ढ्य् ऋतवः ।
तस्यै द्वे द्वे पदे अवग्राहम् शंसति ।
तस्माद् द्वन्द्वम् समस्ता ऋतव आख्यायन्ते ग्रीष्मो वर्षा हेमन्त इति ।
अत्र ह एके सारस्वतीम् पुरोरुचम् शंसन्ति ।
न तथा कुर्यात् ।
अतिरिक्तम् तत् ।
रुचिता वै वाक् ।
स्वयम् पुरोरुग् वै वाक् ।
वायव् आ याहि दर्शत अश्विना यज्वरीर् इष इत्य् एते उभे तत् प्रउगम् नवर्चम् च द्वादशर्चम् च ।
तद् एकविंशतिः ।
एकविंशो वै चतुष्टोमः स्तोमानाम् परमः ।
तत् परमम् स्तोमम् आप्नोति ।
यद् व् एव एकविंशतिः ।
द्वादश मासाः पञ्चर्तवस् त्रय इमे लोकाः ।
असाव् आदित्य एकविंशः ।
तेन एव तत् सलोकतायाम् यजमानम् अध्यूहति ।
तानि वै सप्त तृचानि भवन्ति ।
सप्त वै छन्दांसि ।
सर्वेषाम् एव छन्दसाम् आप्त्यै ।
अथो एतैर् वै देवा असुराणाम् सप्त साप्तान्य् अवृञ्जत ।
तथो एव एतद् यजमान एतैर् एव द्विषतो भ्रातृव्यस्य सप्त साप्तानि वृङ्क्ते ।
अग्नेर् अग्रे प्रातःसवनम् आसीत् ।
इन्द्रस्य माध्यंदिनम् सवनम् ।
विश्वेषाम् देवानाम् तृतीय सवनम् ।
सो अग्निर् अकामयत ।
स्यान् मे माध्यंदिने सवने अथो तृतीय सवन इति ।
इन्द्रो अकामयत ।
स्यान् मे प्रातः सवने अथो तृतीय सवन इति ।
विश्वे देवा अकामयन्त ।
स्यान् नो माध्यंदिने सवने अथो प्रातःसवन इति ।
ता अमुतो अर्वाच्यो देवतास् तृतीय सवनात् प्रातःसवनम् अभिप्रायुञ्जत ।
तद् यद् अभिप्रायुञ्जत ।
तत् प्रउगस्य प्रउगत्वम् ।
तस्माद् बह्व्यो देवताः प्रउगे शस्यन्ते ।
तस्मात् सर्वाणि सवनानि सर्व देवत्यानि भवन्ति ।
वैश्वेभिः सोम्यम् मध्व् इत्य् उक्थम् शस्त्वा यजति वैश्वदेव्याः ।
वैश्वदेवम् ह्य् एतद् उक्थम् ।
गायत्र्या गायत्रम् प्रातःसवनम् ।
अन्व् इद् उ वषट् करवद् अन्विद् उ वषट् करवत् ।