← अध्यायः २७ कौषीतकिब्राह्मणम्
अध्यायः २८
[[लेखकः :|]]
अध्यायः २९ →
सोमयागः(होत्रकशस्त्राणि)


२८.१ प्रैषानुप्रैषनिगदाश्च
प्रजापतिर् हि यज्ञम् ससृजे । तेन ह सृष्टेन देवा ईजिरे । तेन ह इष्ट्वा सर्वान् कामान् आपुः । तस्य हेतोर् आर्ध्यम् अपनिदधुः । य एते प्रैषाश् च निगदाश् च । अथ इतरेण यज्ञेन ऋषय ईजिरे । ते ह विजज्ञुः । असर्वेण ह वै यज्ञेन यजामहै न वै सर्वान् कामान् आप्नुम इति । ते ह श्रेमुः । त एते प्रैषांश् च निगदांश् च ददृशुः । तेन ह सप्रैषेण सनिगदेन इष्ट्वा सर्वान् कामान् आपुः । एतावते ह वा उ प्रैषाश् च निगदाश् च । यद् ऋग्भिर् यज्ञस्य अनाप्तम् तद् एभिः सर्वम् आप्स्याम इति । तान् एतान् प्रैषान् विश्वामित्रो ददर्श । अथो पुरोडाश प्रैषान् । अथ इतर ऋषय इतरान् । तद् आहुः कस्मान् मैत्रावरुण एव सर्वेभ्यः प्रेष्यति इति । एता ह वै देवताः प्रैषाणाम् आजिमीयुः । तन् मित्रावरुणा उज्जिग्यतुः । तस्मान् मैत्रावरुण एव सर्वेभ्यः प्रेष्यति । स वै तिष्ठन् प्रेष्यति । तिष्ठन् वै वीर्यवत्तमः । तिष्ठन्न् आश्रुत वदनतमः । वीर्यवतीम् आश्रुताम् देवेषु वाचम् उद्यासम् इति ।

२८.२ मैत्रावरुणकर्माणि
कुवक्र इव प्रणतो अनुब्रूयात् । तथा ह वर्षुकः पर्जन्यो भवति इति ह स्म आह कौषीतकिः । तद्द् ह स्म वै पुरा असुर रक्षसानि हवींषि विमथ्नते । तत एता वामदेवो अभिरूपा अपश्यद् अग्निर् होता नो अध्वर इति । ताभिर् ह अग्निम् परिनिण्युः । ततो वै तानि रक्षांसि नाष्ट्रा अपजघ्निरे । जुषस्व सप्रथस्तमम् इति जुष्टवतीम् अभिरूपाम् अन्वाह । जुष्टवतीम् अभिरूपाम् देवेषु वाचम् उद्यासम् इति । इमम् नो यज्ञम् अमृतेषु धेहि इति । स्तोकान् एव एताभिर् अग्नये स्वदयति । एता ह वा उ तेषाम् पुरोनुवाक्या एता याज्याः । तस्माद् अभिरूपा भवन्ति । वैश्वामित्रीम् पुरोडाश स्विष्टकृतः पुरोनुवाक्याम् अन्वाह तस्या उक्तम् ब्राह्मणम् । वैश्वामित्रीर् अनुसवनम् पुरोडाशानाम् पुरोनुवाक्या अन्वाह । विश्वामित्रो ह एतान् पुरोडाश प्रैषान् ददर्श सलोमतायै । माधुच्छन्दस्याव् अभिरूपे द्विदेवत्यानाम् प्रथमस्य पुरोनुवाक्ये अन्वाह । मधुच्छन्दा ह एतान् द्विदेवत्य प्रैषान् ददर्श सलोमतायै । गार्त्समदीम् च मैधातिथीम् च उत्तरयोर् अभिरूपे अन्वाह । मैधातिथीः प्रातःसवन उन्नीयमानेभ्यो अन्वाह । मेधातिथिर् ह प्रातःसवन इन्द्राय सोमम् प्रोवाच । ता वा आवत्यो हरिवत्यो भवन्ति पुरोनुवाक्या अनुरूपेण । ता वा ऐन्द्र्यो भवन्ति । ऐन्द्रो हि यज्ञ क्रतुः । ता वै गायत्र्यो भवन्ति । गायत्रम् प्रातःसवनम् । ता वै नव अन्वाह । नव न्व् आ अत्र चमसान् उन्नयन्ति ।

२८.३ प्रस्थितयाज्याः
षड् उ ह एके प्रातःसवन उन्नीयमानेभ्यो अन्वाहुः । स्वयम् अच्छावाकः सप्तमीम् । सप्त सप्त उत्तरयोः सवनयोः । सप्त वै प्राञ्च आसीना वषट् कुर्वन्ति इति वदन्तः । तद् वै खलु यथा सूक्तम् एव अनुब्रूयात् । होतुर् ह्य् एव एताः पुरोनुवाक्या भवन्ति । होतुर् ह्य् एव अनुचमसम् एतांश् चमसान् उन्नयन्ति । अथ होत्राः सम्यजन्ति । यजमानम् एव तद् अनृणतायै सम्प्रमुञ्चन्ति । मित्रम् वयम् हवामह इति मैत्रावरुण्या मैत्रावरुणः स्वया एव देवतया । यज्म मुखस्य अनवर अर्ध्यै । इन्द्र त्वा वृषभम् वयम् इत्य् ऐन्द्र्या ब्राह्मणाच्छंसी । ऐन्द्रो हि यज्ञ क्रतुः । मरुतो यस्य हि क्षय इति मारुत्यो पोता । यत्र ह तद् इन्द्रम् मरुतः पुपुवुः । तद् एनान् इन्द्रः सोम पीथे अन्वाभेजे । तस्मात् स मारुत्या पोता प्रथमतश् च अन्ततश् च यजति । अग्ने पत्नीर् इह आ वह इत्य् आग्निपात्नीवत्या त्वष्टृमत्या न नेष्टा । त्वष्टा वै देवानाम् पात्नीवतो नेष्टा ऋत्विजाम् । तस्मात् स आग्निपात्नीवत्या त्वष्टृमत्या नेष्टा प्रथमतश् च अन्ततश् च यजति । उक्ष अन्नाय वशा अन्नाय इत्य् आग्नेय्य् आग्नीध्रः । अग्निम् हि स समिन्धे । तस्मात् स आग्नेय्य् आग्नीध्रः प्रथमतश् च अन्ततश् च यजति ।

२८.४ अच्छावाकीयम्
अथ यत्र ह तन् नाभानेदिष्ठो मानवो अङ्गिरः सु उपहवम् ईषे । स एताम् होत्राम् अच्छावाकीयाम् प्रोवाच । स वा उपहूतायाम् इडायाम् आजगाम । तस्मात् तन् न प्रवृणते । स वा एतस्मात् पूर्वस्माद् उत्तराद् अवान्तर देशाद् आजगाम । तस्माद् एतस्याम् दिश्य् आसीनो अच्छावाक उपहवम् इच्छते । तद् आहुः कस्माद् अच्छावाकाय पुरोडाश दृगलम् परिहरन्ति इति । अलीकयुर् ह वाचस् पतो नैमिशीयानाम् दीक्षा उपसत्सु ब्रह्मा आस । स ह प्रसुते अच्छावाकीयाम् चकार । ते ह ऊचुः । अस्मै वा इमम् पुरा ब्रह्म भागम् पर्यहरन् । कस्मा एनम् परिहराम इति । तस्मा एव एनम् परिहरत इत्य् ऊचुः । तम् तस्मै परिजह्रुः । स एष ब्रह्म भाग एव । अथो इडा भाजो वा इतरे चमसाः । तस्माद् अच्छावाकाय पुरोडाश दृगलम् परिहरन्ति । चमसस्य एव अपरीडतायै ।

२८.५ अच्छावाकीयम्
अथ एनम् अध्वर्युर् आह अच्छावाक वदस्व यत् ते वाद्यम् इति । अच्छावाक उपहवम् इच्छस्व इत्य् एव एनम् तद् आह । अच्छा वो अग्निम् अवस इत्य् अच्छावाक आग्नेयीर् अन्वाह । आग्नेयम् प्रातःसवनम् । ता वा अनुष्टुभो भवन्ति । गायत्री वै सा अनुष्टुप् । गायत्रम् अग्नेश् छन्दः । ता वै तिस्रो भवन्ति । त्रिवृद् वा अग्निर् अङ्गारा अर्चिर् धूम इति । उत्तमायै तृतीये वचने प्रणवेण निगदम् उपसंदधाति । यजमान होतर् अध्वर्यो अग्नीद् ब्रह्मन् पितर् नेष्टर् उत उपवक्तर् इति । प्रशास्ता वा उपवक्ता । अपि वा ऋचा अभ्युदितम् । उपवक्ता जनानाम् इति । इषेषयध्वम् (?) ऊर्जोर् जयध्वम् । अन्नम् वा इषम् अन्नम् ऊर्जम् । अन्नेन समुक्षध्वम् इत्य् एव एनांस् तद् आह । नि वो जामयो जिहताम् न्य् अजामय इति । यच् च जामि यच् च अजामि । तद् वो निजिहताम् इत्य् एव एनांस् तद् आह । अपि वा ऋचा अभ्युदितम् ।

२८.६ अच्छावाकीयम्
जामिम् अजामिम् प्र मृणीहि शत्रून् इति । नि सपत्ना यामनि बाधितास इति । निहता वः सपत्ना समरण इत्य् एव एनांस् तद् आह । जेषथ अभीत्वरीम् जेषथ अभित्वर्या इति । सेना अभीत्वरी । सेनया सेनाम् जयत इत्य् एव एनांस् तद् आह । श्रवद् व इन्द्रः शृणवद् वो अग्निर् इति । शृणोतु न इन्द्रः शृणोत्व् अग्निर् इत्य् आशिषम् एव तद् वदते । प्रस्थाय इन्द्र अग्निभ्याम् सोमम् वोचत उपो अस्मान् ब्राह्मणान् ब्राह्मण आह्वयध्वम् इति । सर्वेष्व् एव तद् उपहवम् इच्छते । तम् होता उपह्वयते । स हि तेषाम् श्रेष्ठी भवति । यम् वै श्रैष्ठ्य् उपह्वयते । स उपहूत इति ह स्म आह ।

२८.७ अच्छावाकीयम्
प्रत्य् अस्मै पिपीषत इत्य् अच्छावाक उन्नीयमानाय अन्वाह । ता वै चतस्रो भवन्ति । चतुष्टयम् वा इदम् सर्वम् । अस्य एव सर्वस्य आप्त्यै । ऐन्द्रीर् अन्वाह । ऐन्द्रो हि यज्ञ क्रतुः । ता वा अनुष्टुभो भवन्ति संशंसायै । बृहत्य् उत्तमा भवति । श्रीर् वै बृहती । श्रियाम् एव तद् अन्ततः प्रतितिष्ठति । प्रातर् यावभिर् आ गतम् इत्य् ऐन्द्राग्न्या यजति । ऐन्द्राग्नम् ह्य् अस्य उक्थम् भवति । गायत्र्या गायत्रम् प्रातःसवनम् । अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्यै । अनवानम् प्रातः सवने यजेयुर् इति ह स्म आह पैङ्ग्यः । क्षिप्रम् देवेभ्यो हविः प्रयच्छाम इति । अर्धर्चश इति कौषीतकिः । एतद् वै छन्दसाम् पर्व यद् अर्धर्चः । पर्वश एव तद् देवेभ्यो हविः प्रयच्छति ।

२८.८ ऋतुप्रैषाः
अथ अत ऋतु प्रैषाणाम् एव मीमांसा । कण्वो ह एतान् ऋतु प्रैषान् ददर्श । मेधातिथिर् याज्याः । काण्वो ह वै मेधातिथिः । तेन तौ मृत्युम् पाप्मानम् अपजिघ्नाते । स य इच्छेन् मृत्युम् पाप्मानम् अपहन्याम् इति । (सोम एताभिर् जयेत् ।२७

२८.९ होत्रककर्मविवेचनम्
पुरुषो वै यज्ञः । तस्य वाग् एव आज्यम् । सा वा एका एव भवति । (होत्रक शस्त्राणि(प्रातःसवनम्)) तस्माद् एक देवत्यम् आज्यम् शंसति । प्राणाः प्रौगम् । ते वा इमे बहवः प्राणाः । तस्माद् बह्व्यो देवताः प्रउगे शस्यन्ते । बाहू मैत्रावरुणश् च अच्छावाकश् च । तौ वै द्विगुणौ भवतः । तस्मात् तौ प्रातः सवने द्विदेवत्याः शंसतः । इयम् एव वेना सेवनी मध्यम् ब्राह्मणाच्छंसी । तस्माद् ब्राह्मणाच्छंसी प्रातःसवन एक देवत्याः शंसति । आत्मा मध्यंदिनः । स वा एक एव भवति । तस्मान् मध्यंदिने होत्रा आशंसिन एकदेवत्याः शंसन्ति । होता च निष्केवल्यम् । ऊरू मैत्रावरुणश् च अच्छावाकाश् च । तौ वै द्विगुणौ भवतः । तस्मात् तौ तृतीय सवने द्विदेवत्याः शंसतः । इदम् एव शिश्नम् मध्यम् ब्राह्मणाच्छंसी । तस्माद् द्विरूपम् जायते स्त्री च पुमांश् च । तस्माद् ब्राह्मणाच्छंसी तृतीय सवने द्विदेवत्याः शंसति । ब्राह्मणाच्छंसी भूयिष्ठाः शंसति । मध्यम् वै ब्राह्मणाच्छंसी । तस्माद् इदम् आत्मनो मध्यम् स्थविष्ठम् ।

२८.१० प्रातःसवने होत्रकमन्त्राः
अथ यद् आवन्तः स्तोत्रिया अनुरूपा भवन्ति तत् प्रथमस्य अह्नो रूपम् । वैश्वामित्रौ मैत्रावरुणस्य च अच्छावाकस्य च स्तोत्रियौ भवतः । वासिष्ठौ नवर्चौ पर्यासौ । अन्ताव् एव एतत् सदृशौ कुर्वतः । स्तोत्रियान् शस्त्वा श्वः स्तोत्रियान् अनुरूपम् कुर्वते । अहीन संतत्या अहीन रूपतायै । अहर् एव तद् अह्नो अनुरूपम् कुर्वते । अहर् वा अह्नो अनुरूपम् । तद् आहुः कस्मात् स्तुतम् अनुशस्यते कस्मात् स्तोमम् अतिशंसन्ति इति । न वै तत् स्तुतम् भवति यन् न अनुशस्यते । न स स्तोमो देवान् गच्छति यम् न अतिशंसन्ति । तस्मात् स्तुतम् अनुशस्यते तस्मात् स्तोमम् अतिशंसन्ति इति । चतुर् आहावानि शस्त्राणि । पशवो वा उक्थानि । चतुष्टया वै पशवः । अथो चतुष्पादाः पशूनाम् एव आप्त्यै । ऐकाहिका उक्थ याज्याः । प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव । अनुवषट् कुर्वन्त्य् आहुतीनाम् एव शान्त्यै । आह्तीनाम् प्रतिष्ठित्या आहुतीनाम् प्रतिष्ठित्यै ।

२८.१ प्रैषानुप्रैषनिगदाश्च
प्रजापतिर् हि यज्ञम् ससृजे ।
तेन ह सृष्टेन देवा ईजिरे ।
तेन ह इष्ट्वा सर्वान् कामान् आपुः ।
तस्य हेतोर् आर्ध्यम् अपनिदधुः ।
य एते प्रैषाश् च निगदाश् च ।
अथ इतरेण यज्ञेन ऋषय ईजिरे ।
ते ह विजज्ञुः ।
असर्वेण ह वै यज्ञेन यजामहै न वै सर्वान् कामान् आप्नुम इति ।
ते ह श्रेमुः ।
त एते प्रैषांश् च निगदांश् च ददृशुः ।
तेन ह सप्रैषेण सनिगदेन इष्ट्वा सर्वान् कामान् आपुः ।
एतावते ह वा उ प्रैषाश् च निगदाश् च ।
यद् ऋग्भिर् यज्ञस्य अनाप्तम् तद् एभिः सर्वम् आप्स्याम इति ।
तान् एतान् प्रैषान् विश्वामित्रो ददर्श ।
अथो पुरोडाश प्रैषान् ।
अथ इतर ऋषय इतरान् ।
तद् आहुः कस्मान् मैत्रावरुण एव सर्वेभ्यः प्रेष्यति इति ।
एता ह वै देवताः प्रैषाणाम् आजिमीयुः ।
तन् मित्रावरुणा उज्जिग्यतुः ।
तस्मान् मैत्रावरुण एव सर्वेभ्यः प्रेष्यति ।
स वै तिष्ठन् प्रेष्यति ।
तिष्ठन् वै वीर्यवत्तमः ।
तिष्ठन्न् आश्रुत वदनतमः ।
वीर्यवतीम् आश्रुताम् देवेषु वाचम् उद्यासम् इति ।

२८.२ मैत्रावरुणकर्माणि
कुवक्र इव प्रणतो अनुब्रूयात् ।
तथा ह वर्षुकः पर्जन्यो भवति इति ह स्म आह कौषीतकिः ।
तद्द् ह स्म वै पुरा असुर रक्षसानि हवींषि विमथ्नते ।
तत एता वामदेवो अभिरूपा अपश्यद् अग्निर् होता नो अध्वर इति ।
ताभिर् ह अग्निम् परिनिण्युः ।
ततो वै तानि रक्षांसि नाष्ट्रा अपजघ्निरे ।
जुषस्व सप्रथस्तमम् इति जुष्टवतीम् अभिरूपाम् अन्वाह ।
जुष्टवतीम् अभिरूपाम् देवेषु वाचम् उद्यासम् इति ।
इमम् नो यज्ञम् अमृतेषु धेहि इति ।
स्तोकान् एव एताभिर् अग्नये स्वदयति ।
एता ह वा उ तेषाम् पुरोनुवाक्या एता याज्याः ।
तस्माद् अभिरूपा भवन्ति ।
वैश्वामित्रीम् पुरोडाश स्विष्टकृतः पुरोनुवाक्याम् अन्वाह तस्या उक्तम् ब्राह्मणम् ।
वैश्वामित्रीर् अनुसवनम् पुरोडाशानाम् पुरोनुवाक्या अन्वाह ।
विश्वामित्रो ह एतान् पुरोडाश प्रैषान् ददर्श सलोमतायै ।
माधुच्छन्दस्याव् अभिरूपे द्विदेवत्यानाम् प्रथमस्य पुरोनुवाक्ये अन्वाह ।
मधुच्छन्दा ह एतान् द्विदेवत्य प्रैषान् ददर्श सलोमतायै ।
गार्त्समदीम् च मैधातिथीम् च उत्तरयोर् अभिरूपे अन्वाह ।
मैधातिथीः प्रातःसवन उन्नीयमानेभ्यो अन्वाह ।
मेधातिथिर् ह प्रातःसवन इन्द्राय सोमम् प्रोवाच ।
ता वा आवत्यो हरिवत्यो भवन्ति पुरोनुवाक्या अनुरूपेण ।
ता वा ऐन्द्र्यो भवन्ति ।
ऐन्द्रो हि यज्ञ क्रतुः ।
ता वै गायत्र्यो भवन्ति ।
गायत्रम् प्रातःसवनम् ।
ता वै नव अन्वाह ।
नव न्व् आ अत्र चमसान् उन्नयन्ति ।

२८.३ प्रस्थितयाज्याः
षड् उ ह एके प्रातःसवन उन्नीयमानेभ्यो अन्वाहुः ।
स्वयम् अच्छावाकः सप्तमीम् ।
सप्त सप्त उत्तरयोः सवनयोः ।
सप्त वै प्राञ्च आसीना वषट् कुर्वन्ति इति वदन्तः ।
तद् वै खलु यथा सूक्तम् एव अनुब्रूयात् ।
होतुर् ह्य् एव एताः पुरोनुवाक्या भवन्ति ।
होतुर् ह्य् एव अनुचमसम् एतांश् चमसान् उन्नयन्ति ।
अथ होत्राः सम्यजन्ति ।
यजमानम् एव तद् अनृणतायै सम्प्रमुञ्चन्ति ।
मित्रम् वयम् हवामह इति मैत्रावरुण्या मैत्रावरुणः स्वया एव देवतया ।
यज्म मुखस्य अनवर अर्ध्यै ।
इन्द्र त्वा वृषभम् वयम् इत्य् ऐन्द्र्या ब्राह्मणाच्छंसी ।
ऐन्द्रो हि यज्ञ क्रतुः ।
मरुतो यस्य हि क्षय इति मारुत्यो पोता ।
यत्र ह तद् इन्द्रम् मरुतः पुपुवुः ।
तद् एनान् इन्द्रः सोम पीथे अन्वाभेजे ।
तस्मात् स मारुत्या पोता प्रथमतश् च अन्ततश् च यजति ।
अग्ने पत्नीर् इह आ वह इत्य् आग्निपात्नीवत्या त्वष्टृमत्या न नेष्टा ।
त्वष्टा वै देवानाम् पात्नीवतो नेष्टा ऋत्विजाम् ।
तस्मात् स आग्निपात्नीवत्या त्वष्टृमत्या नेष्टा प्रथमतश् च अन्ततश् च यजति ।
उक्ष अन्नाय वशा अन्नाय इत्य् आग्नेय्य् आग्नीध्रः ।
अग्निम् हि स समिन्धे ।
तस्मात् स आग्नेय्य् आग्नीध्रः प्रथमतश् च अन्ततश् च यजति ।

२८.४ अच्छावाकीयम्
अथ यत्र ह तन् नाभानेदिष्ठो मानवो अङ्गिरः सु उपहवम् ईषे ।
स एताम् होत्राम् अच्छावाकीयाम् प्रोवाच ।
स वा उपहूतायाम् इडायाम् आजगाम ।
तस्मात् तन् न प्रवृणते ।
स वा एतस्मात् पूर्वस्माद् उत्तराद् अवान्तर देशाद् आजगाम ।
तस्माद् एतस्याम् दिश्य् आसीनो अच्छावाक उपहवम् इच्छते ।
तद् आहुः कस्माद् अच्छावाकाय पुरोडाश दृगलम् परिहरन्ति इति ।
अलीकयुर् ह वाचस् पतो नैमिशीयानाम् दीक्षा उपसत्सु ब्रह्मा आस ।
स ह प्रसुते अच्छावाकीयाम् चकार ।
ते ह ऊचुः ।
अस्मै वा इमम् पुरा ब्रह्म भागम् पर्यहरन् ।
कस्मा एनम् परिहराम इति ।
तस्मा एव एनम् परिहरत इत्य् ऊचुः ।
तम् तस्मै परिजह्रुः ।
स एष ब्रह्म भाग एव ।
अथो इडा भाजो वा इतरे चमसाः ।
तस्माद् अच्छावाकाय पुरोडाश दृगलम् परिहरन्ति ।
चमसस्य एव अपरीडतायै ।

२८.५ अच्छावाकीयम्
अथ एनम् अध्वर्युर् आह अच्छावाक वदस्व यत् ते वाद्यम् इति ।
अच्छावाक उपहवम् इच्छस्व इत्य् एव एनम् तद् आह ।
अच्छा वो अग्निम् अवस इत्य् अच्छावाक आग्नेयीर् अन्वाह ।
आग्नेयम् प्रातःसवनम् ।
ता वा अनुष्टुभो भवन्ति ।
गायत्री वै सा अनुष्टुप् ।
गायत्रम् अग्नेश् छन्दः ।
ता वै तिस्रो भवन्ति ।
त्रिवृद् वा अग्निर् अङ्गारा अर्चिर् धूम इति ।
उत्तमायै तृतीये वचने प्रणवेण निगदम् उपसंदधाति ।
यजमान होतर् अध्वर्यो अग्नीद् ब्रह्मन् पितर् नेष्टर् उत उपवक्तर् इति ।
प्रशास्ता वा उपवक्ता ।
अपि वा ऋचा अभ्युदितम् ।
उपवक्ता जनानाम् इति ।
इषेषयध्वम् (?) ऊर्जोर् जयध्वम् ।
अन्नम् वा इषम् अन्नम् ऊर्जम् ।
अन्नेन समुक्षध्वम् इत्य् एव एनांस् तद् आह ।
नि वो जामयो जिहताम् न्य् अजामय इति ।
यच् च जामि यच् च अजामि ।
तद् वो निजिहताम् इत्य् एव एनांस् तद् आह ।
अपि वा ऋचा अभ्युदितम् ।

२८.६ अच्छावाकीयम्
जामिम् अजामिम् प्र मृणीहि शत्रून् इति ।
नि सपत्ना यामनि बाधितास इति ।
निहता वः सपत्ना समरण इत्य् एव एनांस् तद् आह ।
जेषथ अभीत्वरीम् जेषथ अभित्वर्या इति ।
सेना अभीत्वरी ।
सेनया सेनाम् जयत इत्य् एव एनांस् तद् आह ।
श्रवद् व इन्द्रः शृणवद् वो अग्निर् इति ।
शृणोतु न इन्द्रः शृणोत्व् अग्निर् इत्य् आशिषम् एव तद् वदते ।
प्रस्थाय इन्द्र अग्निभ्याम् सोमम् वोचत उपो अस्मान् ब्राह्मणान् ब्राह्मण आह्वयध्वम् इति ।
सर्वेष्व् एव तद् उपहवम् इच्छते ।
तम् होता उपह्वयते ।
स हि तेषाम् श्रेष्ठी भवति ।
यम् वै श्रैष्ठ्य् उपह्वयते ।
स उपहूत इति ह स्म आह ।

२८.७ अच्छावाकीयम्
प्रत्य् अस्मै पिपीषत इत्य् अच्छावाक उन्नीयमानाय अन्वाह ।
ता वै चतस्रो भवन्ति ।
चतुष्टयम् वा इदम् सर्वम् ।
अस्य एव सर्वस्य आप्त्यै ।
ऐन्द्रीर् अन्वाह ।
ऐन्द्रो हि यज्ञ क्रतुः ।
ता वा अनुष्टुभो भवन्ति संशंसायै ।
बृहत्य् उत्तमा भवति ।
श्रीर् वै बृहती ।
श्रियाम् एव तद् अन्ततः प्रतितिष्ठति ।
प्रातर् यावभिर् आ गतम् इत्य् ऐन्द्राग्न्या यजति ।
ऐन्द्राग्नम् ह्य् अस्य उक्थम् भवति ।
गायत्र्या गायत्रम् प्रातःसवनम् ।
अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।
अनवानम् प्रातः सवने यजेयुर् इति ह स्म आह पैङ्ग्यः ।
क्षिप्रम् देवेभ्यो हविः प्रयच्छाम इति ।
अर्धर्चश इति कौषीतकिः ।
एतद् वै छन्दसाम् पर्व यद् अर्धर्चः ।
पर्वश एव तद् देवेभ्यो हविः प्रयच्छति ।

२८.८ ऋतुप्रैषाः
अथ अत ऋतु प्रैषाणाम् एव मीमांसा ।
कण्वो ह एतान् ऋतु प्रैषान् ददर्श ।
मेधातिथिर् याज्याः ।
काण्वो ह वै मेधातिथिः ।
तेन तौ मृत्युम् पाप्मानम् अपजिघ्नाते ।
स य इच्छेन् मृत्युम् पाप्मानम् अपहन्याम् इति । (सोम एताभिर् जयेत् ।२७

२८.९ होत्रककर्मविवेचनम्
पुरुषो वै यज्ञः ।
तस्य वाग् एव आज्यम् ।
सा वा एका एव भवति । (होत्रक शस्त्राणि(प्रातःसवनम्))
तस्माद् एक देवत्यम् आज्यम् शंसति ।
प्राणाः प्रौगम् ।
ते वा इमे बहवः प्राणाः ।
तस्माद् बह्व्यो देवताः प्रउगे शस्यन्ते ।
बाहू मैत्रावरुणश् च अच्छावाकश् च ।
तौ वै द्विगुणौ भवतः ।
तस्मात् तौ प्रातः सवने द्विदेवत्याः शंसतः ।
इयम् एव वेना सेवनी मध्यम् ब्राह्मणाच्छंसी ।
तस्माद् ब्राह्मणाच्छंसी प्रातःसवन एक देवत्याः शंसति ।
आत्मा मध्यंदिनः ।
स वा एक एव भवति ।
तस्मान् मध्यंदिने होत्रा आशंसिन एकदेवत्याः शंसन्ति ।
होता च निष्केवल्यम् ।
ऊरू मैत्रावरुणश् च अच्छावाकाश् च ।
तौ वै द्विगुणौ भवतः ।
तस्मात् तौ तृतीय सवने द्विदेवत्याः शंसतः ।
इदम् एव शिश्नम् मध्यम् ब्राह्मणाच्छंसी ।
तस्माद् द्विरूपम् जायते स्त्री च पुमांश् च ।
तस्माद् ब्राह्मणाच्छंसी तृतीय सवने द्विदेवत्याः शंसति ।
ब्राह्मणाच्छंसी भूयिष्ठाः शंसति ।
मध्यम् वै ब्राह्मणाच्छंसी ।
तस्माद् इदम् आत्मनो मध्यम् स्थविष्ठम् ।

२८.१० प्रातःसवने होत्रकमन्त्राः
अथ यद् आवन्तः स्तोत्रिया अनुरूपा भवन्ति तत् प्रथमस्य अह्नो रूपम् ।
वैश्वामित्रौ मैत्रावरुणस्य च अच्छावाकस्य च स्तोत्रियौ भवतः ।
वासिष्ठौ नवर्चौ पर्यासौ ।
अन्ताव् एव एतत् सदृशौ कुर्वतः ।
स्तोत्रियान् शस्त्वा श्वः स्तोत्रियान् अनुरूपम् कुर्वते ।
अहीन संतत्या अहीन रूपतायै ।
अहर् एव तद् अह्नो अनुरूपम् कुर्वते ।
अहर् वा अह्नो अनुरूपम् ।
तद् आहुः कस्मात् स्तुतम् अनुशस्यते कस्मात् स्तोमम् अतिशंसन्ति इति ।
न वै तत् स्तुतम् भवति यन् न अनुशस्यते ।
न स स्तोमो देवान् गच्छति यम् न अतिशंसन्ति ।
तस्मात् स्तुतम् अनुशस्यते तस्मात् स्तोमम् अतिशंसन्ति इति ।
चतुर् आहावानि शस्त्राणि ।
पशवो वा उक्थानि ।
चतुष्टया वै पशवः ।
अथो चतुष्पादाः पशूनाम् एव आप्त्यै ।
ऐकाहिका उक्थ याज्याः ।
प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।
अनुवषट् कुर्वन्त्य् आहुतीनाम् एव शान्त्यै ।
आह्तीनाम् प्रतिष्ठित्या आहुतीनाम् प्रतिष्ठित्यै ।