← तृतीयः पटलः क्रमदीपिका
चतुर्थः पटलः
[[लेखकः :|]]
पञ्चमः पटलः →

<poem> अथ मन्त्रजपादौ दीक्षितस्यैवाधिकारः तदुक्तं आगमान्तरे द्विजानां अनुपेतानां स्वकर्माध्ययनादिषु । यथाधिकारो नास्तीह स्याच्चोपनयनादनु ।। तथात्रादीक्षितानां तु मन्त्रदेवार्चनादिषु । नाधिकारोऽस्त्यतः कुर्यादात्मानं शिवसंस्तुतं ।। इति ।

अतो मन्त्रजपप्रधानाङ्गभूतां दीक्षां कथयामीत्याह

कथ्यते सपदि मन्त्रवर्ययोः साधनं सकलसिद्धिसाधनं । यद्विधाय मुनयो महीयसां सिद्धिं ईयुरिह नारदादयः ।। क्रमदीपिका४.१ ।।

सपदि साम्प्रतं मनुवर्ययोः दशाक्षराष्टाक्षरयोः साध्यते वाञ्छितं अनेनेति । साधनं दीक्षणं कथ्यते । कीदृशं ? सकलफलसाधनं यत्कृत्वा नारदादयो मुनयः महतीं सिद्धिं इह जगति प्राप्तवन्तः ।। टीका ४.१ ।।

ओ)O(ओ

दीक्षाया गुरुसाध्यत्वादौ गुरुलक्षणं आह

विप्रं प्रध्वस्तकामप्रभृतिरिपुघटं निर्मलाङ्गं गरिष्ठां भक्तिं कृष्णाङ्घ्रिपङ्केरुहयुगलरजोरागिणीं उद्वहन्तं । वेत्तारं वेदशास्तागमविमलपथां सम्मतं सत्सु दान्तं विद्यां यः संविवित्सुः प्रवणतनुमना देशिकं संश्रयेत ।। क्रमदीपिका४.२ ।।

यो विद्यां संविवितुर्मन्त्रं सम्यक्ज्ञातुं इच्छति स एतादृशं देशिकं गुरुं संश्रयेत्सेवेत । कीदृशं ? विप्रं ब्राह्मणजातं उपदेशे क्षत्रियादेरनधिकारात् ।

पुनः कीदृशं ? प्रकर्षेण दूरीभूता कामाद्यरिषड्वर्गघटा तया पूतं शरीरं यस्य तथा तं कामक्रोधौ लोभमोहौ मदमत्सरौ एते रिपवः कामादयः लोभाद्युपहतचित्तस्य निरन्तरं प्रत्यवायोत्पत्त्या सेव्यत्वाभावात् ।

पुनः कीदृशं ? श्रीकृष्णचरणकमलयुगले यद्रजस् तत्र रागयुक्तां अतिशायितां भक्तिं धारयन्तं अभ्यक्तस्य पुरुषार्थानवाप्तेः ।

पुनः कीदृशं ? वेदशास्त्रागमसम्बन्धिविमलमार्गाणां ज्ञातारं अन्यथा आगमशास्त्रविचारानुपपत्तेः । पुनः कीदृशं ? सत्सु जनेषु मध्ये सम्मतं सज्जनत्वेन प्रसिद्धं अन्यथा खलत्वात्शुश्रूषानर्हत्वात्सच्छब्दार्थ एव न स्यात् ।

पुनः किम्भूतं ? दान्तं वशीकृतेन्द्रियं अवशीकृतेन्द्रियस्य देवतापराङ्मुखत्वात् । कीदृशः ? प्रणतानम्रा विनीतातनुः कायो मनो हृदयं च यस्य स तथा अत्राधिकं मत्कृतशारदतिलकेऽवगन्तव्यं ।। टीका ४.२ ।।

सनातनः (ह्ब्व्१.३४) निर्मलाङ्गं व्याधिरहितं, वेदशास्त्रागमानां ये विमलाः पन्थानो मार्गास्तेषां वेत्तारं । सत्सु सतां मतं सम्मतं । विद्यां संसारदुःखतरणाद्युपायं मन्त्रं । प्रवणा नम्रा विनीता देशिकैकपरा वा तनुर्मनश्च यस्य तथाभूतः सन् । देशिकं गुरुं । एवं प्रवणतनुमनस्त्वादि श्रुत्युक्तसमित्पाणित्वादि च गुरूपसत्तेराद्यप्रकारो ज्ञेयः ।। टीका ४.२ ।।

ओ)O(ओ

गुरुसेवाप्रकारं आह

सन्तोषयेदकुटिलाद्रेतरान्तरात्मा तं स्वैर्धनैश्च वपुषाप्यनुकूलवाण्या । अब्दत्रयङ्कमलनाभधियाऽतिधीरस् तुष्टे विवक्षतु गुरावथ मन्त्रदीक्षां ।। क्रमदीपिका४.३ ।।

अथानन्तरं उक्तलक्षणं गुरुं वत्सरत्रयं पद्मनाभबुद्ध्या सन्तोषयेत् । कैः ? स्वीयद्रव्यैः तथा शरीरेण तथा प्रियवचनेन । कीदृशः ? सुधीरः पण्डितः । पुनः कीदृशः ? अवक्रोऽतिस्निग्धो अन्तरात्मा अन्तःकरणं यस्य स तथा अथानन्तरं तुष्टे गुरौ मन्त्रदीक्षां विवक्षतु वक्तुं इच्छतु शिष्य एव यत्त्वन्यत्रोक्तं एकाब्देन भवेद्विप्रो भवेदब्दद्वयान्नृपः । भवेदब्दत्रयैर्वैश्यः शूद्रो वर्षचतुष्टयैः ।। इति ।

अन्यथा तु त्रिषु वर्षेषु विप्रस्य षड्वर्षेषु नृपस्य च । विशो नवसु वर्षेषु परीक्षेतेति शस्यते । समास्वपि द्वादशसु तेषां ये वृषलादयः ।। इति बोद्धव्यं ।

विहितनक्षत्रादिकं मत्कृतशारदातिलकोद्योते बोद्धव्यं ।। टीका ४.३ ।।

ओ)O(ओ

कलावत्यादिभेदेन दीक्षाया बहुविधत्वात्मया पुनरत्र प्रपञ्चसारोक्ता क्रियावती दीक्षैव सङ्क्षेपेण प्रदर्श्यते इत्याह

प्रपञ्चसारप्रथिता तु दीक्षा संस्मार्यते सम्प्रतिसर्वसिद्ध्यै । ऋते यया सन्ततजापिनोऽपि सिद्धिं न वै दास्यति मन्त्रपूगः ।। क्रमदीपिका४.४ ।।

सम्प्रति दीक्षा क्रियावती संस्मार्यते तस्याः स्मरणमात्रं क्रियते न तु सम्यगभिधीयते । अत्र हेतुः यतः प्रपञ्चसारे विविच्योक्ता । किं अर्थं अभिधीयते ? सर्वेषां फलानां प्राप्त्यै यया दीक्षया विना सर्वदा जपकर्तुः पुरुषस्य मन्त्रसमूहः फलं यस्मान्न ददाति । यदाहुः

मन्त्रवर्गानुसारेण साक्षात्कृत्येष्टदेवतां । गुरुश्चेद्बोधयेच्छिष्यं मन्त्रदीक्षेति सोच्यते ।। इति ।

ओ)O(ओ

अथ शोधितशालादिस्थाने मण्डपपूर्वकृत्यं वास्तुबलिं आह

अथ पुरो विदधीत भुवः स्थलीम् अधि यथाविधि वास्तुबलिं बुधः । अचलदोर्मितं अत्र तु मण्डपं मसृणवेदिकं आरचयेत्ततः ।। क्रमदीपिका४.५ ।।

अथानन्तरं प्रथमं भुवः स्थलीं अधि पृथिव्यां उपरि यथाविधि यथोक्तप्रकारेण वास्तुबलिं बुधो पुरो दद्यात् । अत्र बलिदानादिविधिश्च मत्कृतशारदतिलकोद्द्योते बोद्धव्यः । ततस्तदनन्तरं अत्र संस्कृतभूमौ मण्डपं कुर्यात् । कीदृशं ? अचलदोर्मितं सप्तहस्तपरिमितं । तुशब्दो अनुक्तसमुच्चयार्थः । तेन पञ्चहस्तपरिमितं नवहस्तमितं चेति बोद्धव्यं । पुनः कीदृशं ? मसृणवेदिकं चिक्कणवेदिकं उक्तृष्टवेदिकं इत्यर्थः ।। टीका ४.५ ।।

______________________________

त्रिगुणतन्तुयुजा कुशमालया परिवृतं प्रकृतिध्वजभूषितं । मुखचतुष्कपयस्तरुतोरणं सितवितानविराजितं उज्ज्वलं ।। क्रमदीपिका४.६ ।।

पुनः कीदृशं ? कुशमालया वेष्टितं । किम्भूतया ? श्वेतरक्तश्यामवर्णतन्तुयुक्तया यद्वा त्रिगुणीकृतसूत्रयुक्तया । पुनः कीदृशं ? अष्टभिर्ध्वजैर्शोभितं प्रकृतिरष्टसङ्ख्यया । पुनः कीदृशं ? मुखचतुष्के द्वारचतुष्टये पयस्तरुभिर्क्षीरवृक्षैः तोरणं बहिर्द्वारं यत्र तादृशं । क्षीरवृक्षास्तु अश्वत्थोदुम्बरप्लक्षन्यग्रोधाख्याः । पुनः कीदृशं ? शुभ्रचन्द्रातपेन शोभितं । पुनः कीदृशं ? उज्ज्वलं निर्मलं ।। टीका ४.६ ।।

______________________________

कुण्डविधिं आह

वसुत्रिगुणिताङ्गुलप्रमितखाततारायातं वसोर्वसुपतेरथो ककुभिधिष्ण्यं अस्मिन्बुधः । करोतु वसुमेखलं वसुगणार्धकोणं प्रतीच्य् अवस्थितगजाधरप्रतिमयोनिसंलक्षितं ।। क्रमदीपिका४.७ ।।

अथानन्तरं अस्मिन्मण्डपे बुधः वसोर्वह्नेर्धिष्ण्यं कुण्डं करोतु । कीदृशं ? वसुरष्टसङ्ख्या अष्टौ वसवः इति प्रसिद्धेः । तेषां वसूनां त्रिगुणानि चतुर्विंशाङ्गुलानि, तैः प्रमितं तत्प्रमाणं खातस्य गर्तस्य उच्चत्वं विस्तारश्च यत्र तादृशं । कुत्र ? वसुपतेः कुबेरस्य ककुभि दिशि उत्तरस्यां । पुनः कीदृशं ? वसुमेखलं । अत्र वसुशब्देन अग्निरुच्यते । स च गार्हपत्याहवनीयेत्यादि त्रिविधः । पुनः कीदृशं ? वसुगणार्धकोणं चतुष्कोणं । पुनः कीदृशं ? पश्चिमदिश्यवस्थितं गजोऽष्तसदृशद्वादशाङ्गुलायामा या योनिस्तया भूषितं । तदुक्तम्द्वादशाङ्गुलिरूपत्वाद्योनिः स्याद्द्वादशाङ्गुलिः इति । अपरोऽत्र विशेषः शारदातिलकतोऽवगन्तव्यः ।। टीका ४.७ ।।

______________________________

अधुना राशिमण्डलविधिं

ततो मण्डपे गव्यगन्धाम्बुसिक्ते लिखेन्मण्डलं सम्यगष्टच्छदाब्जं । सवृत्तत्रयं राशिपीठाङ्घ्रिवीथि चतुर्धारशोभोपशोभास्रयुक्तं ।। क्रमदीपिका४.८ ।।

ततो मण्डपानन्तरं अस्मिन्मण्डपे सम्यक्यथोक्तप्रकारेण मण्डलं लिखेत् । कीदृशे ? गव्यैः पञ्चगव्यैः शारदातिलकोक्तवैष्णवगन्धाष्टकजलेन प्रोक्षिते । कीदृशं ? अष्टदलपद्मसहितं । पुनः कीदृशं ? वृत्तत्रयसहितं । पुनः राशयो मेषादयः पीठं कलसस्थापनस्थानं तस्याङ्घ्रिपीठपात्रचतुष्टयं चतस्रो वीथयः चत्वारिद्वाराणि शोभा उपशोभा अस्रं कोणं एतैर्युक्तं । अयं अर्थःसार्धहस्तद्वयप्रमाणेन समं चतुरस्रं भूभागं परिष्कृत्य तत्र पूर्वापरायतानि सप्तदशसूत्राणि पालयेत् । एवं सति षट्पञ्चऽशद् उत्तरं द्विशतं कोष्ठानां भवति । तत्र कोष्ठविभागो मध्ये षोडशभिः कोष्ठैर्वृत्तत्रयान्वितं पद्मं लिखेत् । (तत्र च पद्मोपरिशिष्टे पीठं तदङ्गं च लिखेत् । तद्बहिरष्टाधिकचत्वारिंशताद्वादशराशीन्लिखेत् । तद्बहिः षट्त्रिंशतापीठं पीठाङ्गं च लिखेत् । (तद्बहिरशीतिभिः पदैर्लिखेत् ।) अत्रेदं बोद्धव्यं पद्मस्य दलाग्रस्थं वृत्तं पीठशक्तिश्च एतयोर्मध्ये पूर्वदक्षिणपश्चिमोत्तरं सूत्रचतुष्टयं दद्यात् । अनन्तरं द्वादशाधिकैः शतपदैर्द्वारशोभोपशोभाकोणानि विलिखेत् । तत्र सर्वस्यां दिशि द्वारं षट्पदं । तत्र प्रकारः बाह्यपङ्क्तिगतमध्यकोष्ठद्वयं तदन्तर्गतपङ्क्तिगतमध्यकोष्ठद्वयं इति द्वारस्यैकस्मिन्भागे कोष्ठचतुष्टयेनैका शोभा भवति । तत्र बाह्यपङ्क्तिगतं एककोष्ठं तदन्तर्गतपङ्क्तिगतं कोष्ठत्रयं इति । एवं कोष्ठचतुष्टयेनैकोपशोभा भवति । अत्र बाह्यपङ्क्तिगतकोष्ठत्रयतदन्तर्गतपङ्क्तिगतं एकं कोष्ठं इति तथा कोष्ठषट्केन कोणं इति । एवं अपरस्मिन्भागेऽपि शोभोपशोभाकोणानि बोद्धव्यानि । एवं दिक्चतुष्टये ऽपि मिलित्वा द्वादशाधिकं शतं भवतीति । अत्रानुक्तं शारदातिलके बोध्यं ।। टीका ४.८ ।।

______________________________

ततो देशिकः स्नानपूर्वं विधानं विधायात्मपूजावसानं विधिज्ञः । स्ववामाग्रतः शङ्खं अप्यर्घ्यपाद्या चमाद्यानि पात्राणि सम्पूरितानि ।। क्रमदीपिका४.९ ।।

विधायान्यतः पुष्पगन्धाक्षताद्यं करक्षालनं पृष्ठतश्चापि पात्रं । प्रदीपावलीदीपिते सर्वं अन्यत् स्वदृग्गोचरे साधनं चाददीत ।। क्रमदीपिका४.१० ।।

तदनन्तरं विधिज्ञः आगमोक्तप्रकारज्ञः देशिको गुरुः स्नानपूर्वकं विधानं स्वगृह्योक्तादिस्नानविधिं आत्मपूजापर्यन्तं समाप्य स्ववामाग्रे शङ्खार्घ्यपाद्याचमानीयपात्राणि जलादिस्वच्छद्रव्यैः सम्पूरितानि । कृत्वा यथोत्तरं स्थापयित्वान्यतो दक्षिणभागे पुष्पाणि पूजाद्रव्याणि निधाय करप्रक्षालणपात्रं एकं पृष्ठदेशे निधाय सर्वं अन्यत्साधनं उपकरणं स्वदृग्गोचरे चक्षुर्गोचरे प्रदीपश्रेणिविराजिते स्थापयेत् । अत्रापरो विशेषः श्रीपरमानन्दभट्टाचार्यकृते प्रपञ्चसारविवरणे द्रष्टव्यः ।। टीका ४.९१० ।।

______________________________

वायव्याशादीशपर्यन्तं अर्च्य पीठस्योदग्गौरवी पङ्क्तिरादौ । पूज्योऽन्यत्राप्याम्बिकेयः कराब्जैः पाशं दन्तं शृण्यभीती दधानः ।। क्रमदीपिका४.११ ।।

पीठस्य राशिपीठस्य उदकुत्तरभागे वायव्यकोणादीशानकोणपर्यन्तं गुरुसम्बन्धिनी पङ्क्तिरादौ प्रथमतः पूज्या । प्रयोगस्तु ओं गुरुभ्यो नमः इति । अन्यत्र दक्षिणभागे आम्बिकेयो गणपतिः पूज्यः । कीदृशं ? हस्तपद्मैः स्वदन्तं शृणिं अङ्कुशं अभयं दधानः ।। टीका ४.११ ।।

______________________________

अधुना कलशस्थापनप्रकारं दर्शयति यतो देशिक इत्यादिना

आराध्याधारशक्त्याद्यमरचरणपावध्यथो मध्यभागे धर्मादीन्वह्निरक्षःपवनशिवगतान्दिक्ष्वधर्मादिकांश्च । मध्ये शेषाब्जबिम्बत्रितयगुणगणात्मादिकं केशराणां वह्नेर्मध्ये च शक्तीर्नवसमभियजेत्पीठमन्त्रेण भूयः ।। क्रमदीपिका४.१२ ।।

अथानन्तरं मण्डलमध्यभागे आधारशक्तिं आरभ्य कल्पवृक्षपर्यन्तं आराध्य पूजयित्वा पीठन्यासक्रमेण वह्नीति अग्न्यादिकोणगतान्धर्मादीन्पूर्वादिचतुर्दिक्षु अधर्मादीन्तथा मध्ये शेषं पद्मं तथा सूर्यसोमवह्नीनां बिम्बत्रयं द्व्¸अदशषोडशदशकलाव्याप्तं मण्डलत्रयं तथात्मादिचतुष्टयं पूजयेत् । अथ केशराणां मध्ये कर्णिकायां च्च विमलाद्या नवशक्तीः पूर्वादिक्रमेण पूजयेत् । भूयः पुनरपि पूर्वोक्तेन पीठमन्त्रेण पीठं पूजयेदित्यर्थः ।। टीका ४.१२ ।।

______________________________

ततः शालीन्मध्येकमलं अमलांस्तण्डुलवरान् अपि न्यस्येद्दर्भांस्तदुपरि च कूर्चाक्षतयुतान् । न्यसेत्प्रादक्षिण्यात्तदुपरि कृशानोर्दश कला यकाराद्यर्णाद्या यजतु च सुगन्धादिभिरिमाः ।। क्रमदीपिका४.१३ ।।

तदनन्तरं मध्येकमलं कमलमध्ये शालीनाढकपरिमितान्तथा शुभ्रान्शाल्यष्टभागपरिमितान्तण्डुलान्श्रेष्ठान्न्यस्येत्स्थापयेत् । यदुक्तं शालीन्वै कर्णिकायां च निक्षिप्याढकसंमितान् । तण्डुलांश्च तदष्टांशान्दर्भैः कूर्चैः प्रविन्यसेत् ।। इति ।

तदुपरि तण्डुलोपरि कूर्चाक्षतयुक्तान्दर्भान्विन्यसेत् । कुशत्रयघटितो ब्रह्मग्रन्थिः कूर्चशब्देनोच्यते कूर्चः कुशमुष्टिरिति त्रिपाठिनः । तदुपरि कूर्चोपरि कृशानोर्वह्नेर्दश कला यकारादयो दशवर्णा आद्याः प्रथमा यासां ताः प्रादक्षिण्येन न्यसेत्तदनन्तरं इमा दश कला गन्धादिभिः पूजयेत् ।

ताश्च धूम्रार्चिरूष्माज्वलिनीज्वालिनीविस्फुलिङ्गिनी । सुश्रीः सुरूपा कपिला हव्यवहा कव्यवहा ।। इति ।

प्रयोगस्तु धूम्रार्चिषे नम इति ।। टीका ४.१३ ।।

______________________________

न्यसेत्कुम्भं तत्र त्रिगुणितलसत्तन्तुकलितं जपंस्तारं धूपैः सुपरिमलितं जोङ्कटमयैः । कभाद्यैः कुम्भेऽस्मिन्ठडवसितिभिर्वर्णयुगलैः तथान्यस्याभ्यर्च्यास्तदनु खमणेर्द्वादश कलाः ।। क्रमदीपिका४.१४ ।।

तत्र दशकलामये कूर्चे त्¸अरं ओङ्कारं उच्चरन्कुम्भं न्यसेत् । कुम्भस्तु सुवर्णादिनिर्मितः । तदुक्तम् सौवर्णं राजतं वापि मृण्मयं वा यथोदितं । क्षाणयेदस्त्रमन्त्रेण कुम्भं सम्यक्सुरेश्वरि ।। इति ।

कीदृशं ? ग्रीवायां त्रिगुणिता लसन्तः शोभमाना ये तन्तवः कन्याकर्तितकार्पाससूत्राणि तैः कलितं अस्त्रमन्त्रेण वेष्टितं । पुनः कीदृशं ? जोङ्कटमयैः कृष्णागुरुप्रधानैर्धूपैः सुधूपितं तदनन्तरं खमणेः सूर्यस्य द्वादशकला अस्मिन्कुम्भे न्यस्य अनन्तरं पूज्याः । कैः ? वर्णयुगलैः । कीदृशैः ? कभाद्यैः ककारभकाराद्यैः । पुनः कीदृशैः ? ठडवसितिभिः ठकारडकारावसानैः । अयं अर्थःअनुलोमपठितककाराद्येकैकं अक्षरं प्रतिलोमपठितभकाराद्येकैकं अक्षरेण सहितं तपिन्यादिषु द्वादशकलासु संयोज्य न्यासादिकं कार्यं । ताश्च

तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ।। इति ।

प्रयोगस्तुकं भं तपिन्यै नमः । खं वं ताइन्यै नमः इत्यादि कार्यं ।।१४ ।।

______________________________

एवं सङ्कल्प्याग्निं आधाररूपं भानुं तद्वत्कुम्भरूपं विधिज्ञैः । न्यस्येत्तस्मिन्नक्षताद्यैः समेतं कूर्चं स्वर्णै रत्नवर्यैः प्रदीप्तं ।। क्रमदीपिका४.१५ ।।

एवं अनेन प्रकारेणाधाररूपं अग्निं सङ्कल्प्य तद्वत्कुम्भरूपं भानुं विचिन्त्य तस्मिन्कुम्भे विधिज्ञ आगमोक्तप्रकाराभिज्ञः मूलमन्त्रेणाक्षताद्यैः सहितं कूर्चं पूर्वोक्तलक्षणैः सुवर्णरत्नवर्यैर्नवरत्नैः शोभितं न्यसेत् । तदुक्तं भैरवेण एतान्नयित्वा तन्मध्ये शुक्लपुष्पं सिताक्षतं । नवरत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ।। इति ।। टीका ४.१५ ।।

______________________________

अथ क्वाथतोयैः क्षकारादिवर्णैर् अकारावसानैः समापूरयेत्तं । स्वमन्त्रत्रिजापावसानं पयोभिर् गवां पञ्चगव्यैर्जलैः केवलैर्वा ।। क्रमदीपिका४.१६ ।।

अथानन्तरं पीठकुम्भयोरैक्यं विचिन्त्य पञ्चाशद्वर्णैरोषधितोयैः पलाशत्वग्जलैः क्षीरद्रुमत्वक्क्वाथजलैर्वा सर्वौषधिजलैर्वा गवां पयोभिर्वा पञ्चगव्यैर्वा केवलजलैः कर्पूरादिजलैर्वा तीर्थजलैर्वा क्षकारादिवर्णैरकारावसानैर्विलोममातृकाभिः स्वमन्त्रत्रिजपावसानं मूलमन्त्रवारत्रयजप्¸अन्तं यथा स्यादेवं पूरयेत् ।। टीका ४.१६ ।।

______________________________

कलशजलेऽस्मिन्वसुयुगसङ्ख्याः स्वरगणपूर्वा न्यसतु तथैव । उडुपकलास्ताः सलिलसुगन्धा क्षतसुमनोभिस्तदनु यजेत ।। क्रमदीपिका४.१७ ।।

तस्मिन्कलशजले उडुपकलाश्चन्द्रकलाः वसुयुगसङ्ख्याः षोडशसङ्ख्याः स्वरगणपूर्वा अकारादिवर्णपूर्वा न्यसतु । तदनु तदनन्तरं ताश्चन्द्रकलास्तथैव तेनैव क्रमेण पुष्पाञ्जलिभिः पूजयेत् । ताश्चोक्ताः

अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः । शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।

पूर्णा पूर्णामृता च ।। इति ।

______________________________

अधुना वैष्णवगन्धाष्टकं आह

उदीच्यकुष्टकुङ्कुमाम्बुलोहसज्जटामुरैः । सशीतं इत्युदीरितं हरेः प्रियाष्टगन्धकं ।। क्रमदीपिका४.१८ ।।

उदीच्यं उशीरं कुष्टं कुङ्कुमं अम्बुबाला नेत्रबाला लोहः कृष्णागुरुर्जटया सह मुरा जटा मांसी च एतैः सह शीतं चन्दनं इति हरेः प्रियकारिगन्धाष्टकं उक्तं ।। टीका ४.१८ ।।

______________________________

शङ्खपूरणं आह

क्वाथतोयपरिपूरितोदरे संविलोड्य विधिनाष्टगन्धकं । सोमसूर्यशिखिनां पृथक्कलाः सेचकर्म विनियोजयेत्क्रमाथ् ।। क्रमदीपिका४.१९ ।।

उदरे शङ्खे विधिनागमोक्तप्रकारेण मूलमन्तेण पूर्वोक्तक्वाथजलेन परिपूरिते गन्ध्¸अष्टकं नमोमन्त्रेण सविलोड्य दत्त्वा सोमसूर्यवह्नीनां कलाः पृथक्समावाह्य सेचकर्म प्राणप्रतिष्ठाकर्म क्रमेण विनियोजयेत्कुर्यात् ।। टीका ४.१९ ।।

______________________________

तद्वदाक्षरभवास्तु कादिभिष् टादिभिः पुनरुकारजाः कलाः । पादिभिर्मलिपिजास्तु बिन्दुजाः षादिभिः स्वरगणेन नादजाः ।। क्रमदीपिका४.२० ।।

पूर्वोक्तप्रकारेण आक्षरभवा अकाराक्षरभवा दश कलाः कादिभिः ककारादिभिर्दशभिरक्षरैः सहिताः पुनरुकारजा उकाराक्षरभवा दश कलाः टादिभिर्दशभिरक्षरैः सहितास्तथा मलिपिजा मकाराक्षरभवा दश कलाः पादिभिर्दशभिरक्षरैः सहितास्तथा बिन्दुजा बिन्दुप्रभवाः चतस्रः कलाः षादिभिश्चतुरक्षरैः सहिताः तथा नादजा नादप्रभवाः षोडश्च कलाः स्वरसमूहेन षोडशभिः स्वरैः सहिताः शङ्खसलिले न्यस्याः । ताश्च

सृष्टिरृद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृइतः स्थिरा । स्थितिः सिद्धिरकारोत्थाः कला दश समीरितः ।। जरा च पालिनी शान्तिरैश्वरी रतिकामिके । वरदा ह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः ।। तीक्ष्णा रौद्रा भया निद्रा तन्तीर्क्षुत्क्रोधनी क्रिया । उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः ।। निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । इन्धिका दीपिका चैव रेचिका मोचिका परा ।। सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्यायनी तथा । व्यापिनी व्योमरूपा च अनन्ता नादसम्भवाः ।। इति ।

प्रयोगश्च कं सृष्ट्यै नम इत्यादि ।। टीका ४.२० ।।

______________________________

समावाहनान्तेऽसुसंस्थापनात्प्राक् ऋचस्तत्र तत्राभिजप्या बुधेन । समभ्यर्च्य तास्ताः पृथक्तच्च पाथो ऽर्पयेन्मूलमन्त्रेण कुम्भे यथावथ् ।। क्रमदीपिका४.२१ ।।

समावाहनस्यान्तेऽसुसंस्थापनात्प्राक्प्राणप्रतिष्ठायाः पूर्वं तत्र तत्र स्थाने पण्डितेन धार्याश्चाभिजप्याः पठनीयाः । अयं अर्थःशङ्खजलेऽकारप्रभवककारादिकलावाहनानन्तरं प्राणप्रतिष्ठायाः पूर्वं हंसः शुचिषदिति ऋचं पठेत् । उकारप्रभवटदिकलावाहनानन्तरं प्रतद्विष्णुः इति ऋचं पठेत् । मकारादिप्रभवपकारादिकलावाहनानन्तरं तत्सवितुरित्यादि ऋचं पठेत् । नादप्रभवतकारादिकलावाहनानन्तरं विष्णोर्योनिरित्यादि ऋचं पठेत् । अनन्तरं मूलमन्त्रं शङ्खजले विलोमेन जपेत् । तास्ताः कलाः पृथगेकैकशः यथावत्यथाविधि सम्पूज्य तच्च प्¸अथः तच्छङ्खोदकं मूलमन्त्रं पठित्वा कुम्भे विनिक्षिपेत् ।। टीका ४.२१ ।।

______________________________

सहकारबोधिपनसस्तवकैः शतमन्युवल्लिक्कलितैः कलशं । पिदधातु पुष्पफलतण्डुलकैर् अभिपूर्णयापि शुभचक्रिकया ।। क्रमदीपिका४.२२ ।।

सहकार आम्रः । बोधिरश्वत्थः । पनसः कण्टकिफलवृक्षः । एतेषां स्तवकैः पल्लवैः शतमन्युवल्लिकलितैरिन्दवल्लीबद्धैः कलशं कलशमुखं सुरद्रुमधिया पिदधातु समाच्छादयतु तथा पुष्पादिभिः परिपूर्णया शुभचक्रिकया शोभमानशरावेण तदुपरि पिदधात् ।। टीका ४.२२ ।।

______________________________

अभिवेष्टयेत्तदनु कुम्भमुखं नवनिर्मलांशुकयुगेन बुधः । समलङ्कृतेऽत्र कुसुमादिभिरप्य् अभिवाहयेत्परतरं च महः ।। क्रमदीपिका४.२३ ।।

तदनु तदनन्तरं नूतनमलरहितवस्त्रद्वयेन परितः कुम्भमुखं अभिवेष्टयेत् । अनन्तरं कुम्भे पुष्पादिभिरलङ्कृते परमोत्कृष्टं महस्तेजः पूज्यदेवतास्वरूपं आवाहयेतावाहनादिकं कुर्यात् । यथा श्रीकृष्णेहागच्छेह तिष्ठ इह संनिधेहि ।। टीका ४.२३ ।।

______________________________

सकलीविधाय कलशस्थं अमुं हरिं अर्णतत्त्वमनुविन्यसनैः । परिपूजयेद्गुरुरथावहितः परिवारयुक्तं उपचारगणैः ।। क्रमदीपिका४.२४ ।।

अमुं कलशस्थं हरिं सकलीकृत्य देवताङ्गे षडङ्गानां न्यासः स्यात्सकलीकृतिरिति । उत्तमाङ्गं विधाय वर्णतत्त्वं अन्विति अक्षरमयतत्त्वमन्त्रन्यासैः सहेति रुद्रधरः । अर्ण इति सृष्टिसंहारभेदेन अङ्गुल्यारोपणभेदेन च मन्त्रवर्णविन्यासोऽर्णन्यासो मनुन्यासः मनुपुटितमातृकान्यास इत्यर्थः । इत्यादिन्यासैस्तत्तेजोरूपधरं सकलं सगुणं शरीरं कुर्यादिति भैरवत्रिपाठिनः । विद्याधरोऽप्येवं आहपीटःअन्यासकरन्यासौ विनापि प्रथमद्वितीयपटलप्रोक्तन्यासादिजातैरिति । केचितष्टादशाक्षरे पक्षे तत्त्वन्यासस्थाने मन्त्राक्षरन्यासो द्रष्टव्यः । अथानन्तरं अवहितः सावधानो गुरुः सपरिवारं आवरणसमेतं उपचारगणैः षोडशपञ्चोपचारान्यतमोपचारेण पूजयेत् ।। टीका ४.२४ ।।

______________________________

पूजाक्रमं आह

दत्त्वासनं स्वागतं इत्युदीयः तथाध्यपाद्याचमनीयकानि । देयानि पूर्वं मधुपर्कयूञ्जि नन्दात्मजायाचमनान्तकानि ।। क्रमदीपिका४.२५ ।।

स्थानं च वासश्च विभूषणानि साङ्गाय तस्मै विनियोज्य मन्त्री । गात्रे पवित्रैरथ गन्धपुष्पैः पूर्वं यजेन्न्यासविधानतोऽस्य ।। क्रमदीपिका४.२६ ।।

तस्मै साङ्गाय नन्दात्मजाय कृष्णाय आसनं पद्मादिकुसुमरूपं दत्त्वा स्वागतं इत्युदीर्य स्वागतं इति शब्दं उच्चार्य अनन्तरं पूर्वं प्रथमतोऽर्घ्यपाद्याचमनीयकानि मधुपर्कसहितानि देयानि आचमनान्तकानि मधुपर्कं दत्त्वा पुनराचमनीयं देयं स्नानं गन्धजलादिभिः कार्यं वासो वस्त्रयुगलं शरीरे देयं विभूषणानि कुण्डलादीनि यथास्थानं विनियोज्यानि । अथानन्तरं अस्य परमेश्वरस्य गात्रे शरीरे पूर्वं प्रथमतः पवित्रैः शुद्धैर्गन्धपुष्पैर्न्यासप्रकारेण यजेत्पूजयेत् ।। टीका ४.२५२६ ।।

______________________________

पूजाप्रकारं एवाह

सृष्टिस्थिती स्वाङ्गयुगं च वेणुं मालां अभिज्ञानवराश्ममुख्यौ । मूलेन चात्मार्चनवत्प्रपूज्य समर्चयेदावरणानि भूयः ।। क्रमदीपिका४.२७ ।।

वर्णन्यासमन्त्रैर्यथाक्रमं पूजयेत् । ओं गों ओं नमः इत्यादि । सृष्टिस्थिती पूर्वोक्तं स्वाङ्गयुगं पञ्चाङ्गदशाङ्गन्यासौ वेणुं मालां वनमालां अभिज्ञानवरं श्रीवत्सलाञ्छनं इति अश्ममुख्यः कौस्तुभः । एतानि सम्पूज्य मूलेन चात्मार्चनवत्यथात्मनि परमेश्वरपूजा मूलमन्त्रेण पञ्चकृत्वः तुलस्यादिपुष्पाञ्जलिभिः पदद्वयादिषु कृता तथा कुम्भस्थं अपि सम्पूज्य भूयः पुनरपि आवरणानि वक्ष्यमाणानि पूजयेत् । अष्टादशार्णपक्षे सृष्ट्यादिस्थानेषु वर्णन्यासपदन्यासानां पूजा कार्येति बोद्धव्यं ।। टीका ४.२७ ।।

______________________________

आवरणपूजाक्रमं आह

दिक्ष्वथ दामसुदामौ वसुदामः किङ्किणी च सम्पूज्याः । तेजोरूपास्तद्बहिरङ्गानि च केशरेषु समभियजेथ् ।। क्रमदीपिका४.२८ ।।

अथानन्तरं कर्णिकायां देवस्य पूर्वादिचतुर्दिक्षु दामादयश्चत्वारः पूज्याः । कीदृशाः ? तेजोरूपा देदीप्यमानाः । प्रयोगस्तुओं दामाय नम इत्यादि । द्वितीयावरणं आह तद्बहिरिति । कर्णिकाकोणेषु अङ्गानि समभियजेत् ।। टीका ४.२८ ।।

______________________________

पूजाविधानं आह

हुतवहनिरृतिसमीरशिवदिक्षु हृदादिवर्मपर्यन्तं । पूर्वादिदिक्ष्वथास्त्रं क्रमेण गन्धादिभिः सुशुद्धमनाः ।। क्रमदीपिका४.२९ ।।

अग्न्यादिकोणचतुष्टयेषु हृदयादिकवचान्तानि चत्वार्यङ्गानि अथानन्तरं पूर्वादिचतुर्दिक्षु अस्त्रं अङ्गं पूजयेत् ।। टीका ४.२९ ।।

______________________________

अङ्गदेवताध्यानं आह

मुक्तेन्दुकान्तकुवलय हरिनीलहुताशसभाः प्रमदाः । अभयवरस्फुरितकराः प्रसन्नमुख्योऽङ्गदेवताः स्मर्याः ।। क्रमदीपिका४.३० ।।

अङ्गदेवता ध्येयाः । किम्भूताः ? प्रमदाः स्त्रीस्वभावाः । पुनः किम्भूताः ? मुक्ताः इन्दुकान्तश्चन्द्रकान्तमणिः कुवलयं नीलपद्मं हरिनीलः इन्द्रनीलमणिः हुताशो वह्निश्च एतेषां समानाभा प्रभा वर्णो यासान्तास्तथा । किम्भूताः ? अभयेन वरेण च शोभिताः करा यासां ताः । किम्भूताः ? प्रसन्नवदनाः ।। टीका ४.३० ।।

______________________________

तृतीयं आवरणं आह

रुक्मिण्याद्या महिषीर् अष्टौ सम्पूजयेद्दलेषु ततः । दक्षिणकरधृतकमला वसुभरितसुपात्रमुद्रितान्यकराः ।। क्रमदीपिका४.३१ ।।

ततस्तदनन्तरं दलेषु पूर्वादिपत्रेषु रुक्मिण्याद्याः अष्टौ महिषीर्मुख्या महादेवीः सम्पूजयेत् । किम्भूताः ? दक्षिणकरैर्धृतानि कमलानि याभिस्तास्तथा । पुनः किम्भूताः ? वसुपूरितपात्रैर्मुद्रिताः पूरिता अन्ये वामकरा यासां तास्तथा ।। टीका ४.३१ ।।

______________________________

अष्टौ वर्णयति

रुक्मिण्याख्या सत्या सनाग्निजित्याह्वया सुनन्दा च । भूयश्च मित्रविन्दा सुलक्ष्मणा ऋक्षजा सुशीला च ।। क्रमदीपिका४.३२ ।।

ऋक्षजा जाम्बवती ।। टीका ४.३२ ।।

______________________________

तासां रूपाणि दर्शयति

तपनीयमरकताभाः सुसित विचित्राम्बरा द्विशस्त्वेताः । पृथुकुचभरालसाङ्ग्या विविध मणिप्रकरविलसिताभरणाः ।। क्रमदीपिका४.३३ ।।

एता रुक्मिण्याद्या द्विशः युग्मशः क्रमेण काञ्चनमरकतयोरिवाभा दीप्तिर्यासां तास्तथा । पुनः किम्भूताः ? शोभमानानि शुक्लानि नानाप्रकाराणि वस्त्राणि यासां तास्तथा । पुनः किम्भूताः ? अचला ये कुचास्तेषां गौरवेण अलसानि निष्क्रियाणि अङ्गानि यासां तास्तथा । पुनः किम्भूताः ? नानाप्रकारो मणिप्रकर इन्द्रनीलादिसमूहस्तेषु विशेषेण शोभितानि आभरणानि यासां ।। टीका ४.३३ ।।

______________________________

चतुर्थावरणं आह

ततो यजेद्दलाग्रेषु वसुदेवं च देवकीं । नन्दगोपं यशोदां च बलभद्रं सुभद्रिकां । गोपान्गोपीश्च गोविन्दविलीनमतिलोचनान् ।। क्रमदीपिका४.३४ ।।

ततस्तदनन्तरं दलाग्रेषु पूर्वादिक्रमेण वसुदेवादीन्सम्पूजयेत् । कीदृशाः ? गोविन्दे विलीना सम्बद्धा मतिर्लोचनं येषां ते तथा ।। टीका ४.३४ ।।

______________________________

एतेषां आयुधा निदर्शयति

ज्ञानमुद्राभयकरौ पितरौ पीतपाण्डरौ । दिव्यमाल्याम्बरालेपभूषणे मातरौ पुनः ।। क्रमदीपिका४.३५ ।।

ज्ञानमुद्रा अभयं च करेषु ययोस्तौ पितरौ वसुदेवनन्दगोपौ । कीदृशौ ? हरिद्राभश्वेतौ मातरौ देवकीयशोदे । कीदृश्यौ ? दिव्यानि देवार्हाणि माल्याम्बरभूषणानि ययोस्तादृश्यौ ।। टीका ४.३५ ।।

______________________________

धारयन्त्यौ च वरदं पायसापूर्णपात्रकं । अरुणाश्यामले हारमणिकुण्डलमण्डिते ।। क्रमदीपिका४.३६ ।।

वरदं वरदानं मुद्राविशेषं पायसापूर्णपात्रं च धारयन्त्यौ । पुनः किम्भूते ? अरुणाश्यामले । पुनः कीदृश्यौ ? हारकुण्डलाभ्यां शोभिते ।। टीका ४.३६ ।।

______________________________

बलः शङ्खेन्दुधवलो मुसलं लाङ्गलं दधत् । हालालोलो नीलवासा हेलावानेककुण्डलः ।। क्रमदीपिका४.३७ ।।

बलो बलभद्रः शङ्खेन्दुधवलः श्वेतः लाङ्गलं मुसलं बिभ्राणः । पुनः कीदृशः ? हाला माध्वी तस्याः पाने लोलः चञ्चलः अमृष्यकारी । पुनः कीदृशः ? नीलवासाः । पुनः कीदृशः ? हेलावान्लीलावान् । पुनः कीदृशः ? एककुण्डलधारी ।। टीका ४.३७ ।।

______________________________

कलायश्यामला भद्रा सुभद्रा भद्रभूषणा । वराभययुता पीतवसना रूढयौवना ।। क्रमदीपिका४.३८ ।।

सुभद्रा कलायश्यामला भद्रा समीचीना भद्रभूषणा शोभमानाभरणा । पुनः किम्भूता ? वराभययुता । पुनः किम्भूता ? पीतवसना । पुनः किम्भूता ? प्रौढयौवना ।। टीका ४.३८ ।।

______________________________

वेणुवीणावेत्रयष्टिशङ्खशृङ्गादिपाणयः । गोपा गोप्यश्च विविधप्रभृतात्तकराम्बुजाः । मन्दारादींश्च तद्बाह्ये पूजयेत्कल्पपादपान् ।। क्रमदीपिका४.३९ ।।

वेणुर्वंशी । वीना तन्त्री । वेत्रं यष्टिः शङ्खः शृङ्गादि नानावस्तु पाणौ करे येषां एवं विशिष्टा गोपाः गोप्यः पुनर्नानाप्रकारं यत्प्राभृतं उपढौकनं तेनात्तं आयत्तं वशीकृतं कराब्जं यासां ताः ।

पञ्चमावरणं आहमन्दारादीनिति । तद्बाह्ये तदनन्तरं मन्दारादीनग्रे वक्ष्यमाणान्कल्पवृक्षान्पूजयेत् ।। टीका ४.३९ ।।

______________________________

मन्दारसन्तानकपारिजात कल्पद्रुमाख्यान्करिचन्दनं च । मध्ये चतुर्दिक्ष्वपि वाञ्छितार्थ दानैकदक्षान्फलनम्रशाखान् ।। क्रमदीपिका४.४० ।।

तानेवाह मन्दारेति । कुत्र कः पूजनीयः तत्राह मध्ये इति । मध्ये कर्णिकायां प्रथमपरित्यागे मानाभावात्प्रथमनिर्दिष्टवत्पूजा चतुर्दिक्षु पूर्वादिचतुर्दिक्षु एतादृशान्वाञ्छिता आकाङ्क्षिता ये अर्थास्तेषां दाने एकं अद्वितीया दक्षाः तान्तथा फलैः नम्राः शाखा येषु तान् । यद्वा, आकाङ्क्षितदाने अद्वितीयसमर्थान्तथा फलैः नम्राः शाखा येषु तान् ।। टीका ४.४० ।।

______________________________

षष्ठावरणं आह

हरिहव्यवाट्तरणिजक्षपाचराप्य् अतिवायुसोमशिवशेषपद्मजान् । प्रयजेत्स्वदिक्ष्वमलधीः स्वजात्यधी श्वरहेतिपत्रपरिवारसंयुतान् ।। क्रमदीपिका४.४१ ।।

हरिरिन्द्रः हव्यवाडग्निः तरणिजो यमः क्षपाचरो निशाचरो निरृतिः अप्पतिर्वरुणः वायुः सोमः ईशः शेषोऽनन्तः पद्मजो ब्रह्मा एतान्स्वदिक्षु पूर्वादिदिक्षु निर्मलमतिः पूजयेत् । अत्र निरृतिवरुणयोर्मध्येऽनन्तं सोमेशानयोर्मध्ये ब्रह्माणं स्वादिक्ष्वतिकथनातन्यत्र कल्पितपूर्वादिदिक्षु पूजावगम्यते । तदुक्तं आगमान्तरे

देवाग्रे स्वस्य वाप्यग्रे प्राची प्रोक्ता च देशिकैः । प्राची प्राच्येव विज्ञेया मुक्तये देवतार्चनं ।। इति ।

कीदृशान्? स्वजातिः इन्द्रत्वादिः । अधीश्वरोऽधिपतिः हेतिः शस्त्रं पत्रं वाहनं परिवारो गणः एतैः संयुक्तानेतेषां च बीजानि उच्चारयितव्यानि । प्रयोगस्तु लं इन्द्राय सर्वसुराधिपतये सायुधाय सवाहनाय सपरिवाराय नम एवं अन्यत्राप्यूहनीयः ।। टीका ४.४१ ।।

______________________________

इदानीं वर्णं आह

कपिशकपिलनीलश्यामलश्वेतधूम्रा मलसितशुचिरक्ता वर्णतो वासवाद्याः । करकमलविराजत्स्वायुधा दिव्यवेशा विविधमणिगणोऽस्रप्रस्फुरद्भूषणाढ्याः ।। क्रमदीपिका४.४२ ।।

कपिशः कनकवर्णः कपिलस्ताम्रवर्णाभः श्यामलः कृष्णः श्वेतः शुक्लः धूम्रोऽसितभेदः अमलसितः श्वेतः शुचिरपि श्वेत एव रक्तो लोहित एते वासवाद्याः वर्णतो वर्णेन यथाक्रमं पूर्वोक्तक्रमतः । पुनः कीदृशः ? हस्तपद्मे शोभमानानि आयुधानि येषां ते । पुनः उत्कृष्टवेशा नानाप्रकारमणिसमूहानां पद्मरागादीनां उस्रेण किरणेन प्रस्फुरद्देदीप्यमानं यद्भूषणं तेनाढ्या उपचिताः शोभमाना इत्यर्थः ।। टीका ४.४२ ।।

______________________________

सप्तमावरणं आह

दम्भोलिशक्त्यभिधदण्डकृपाणपाश चण्डाङ्कुशाह्वयगदात्रिशिखारिपद्माः । अर्च्या बहिर्निजसुलक्षितमौलियुक्ताः स्वस्वायुधभयसमुद्यतपाणिपद्मः ।। क्रमदीपिका४.४३ ।।

दम्भोलिर्वज्रं शक्त्यभिधं शक्तिनामकं अस्त्रं दण्डः कृपाणः खड्गः चण्डाङ्कुशाह्वयः उग्राङ्कुशाख्यः गदा त्रिशिखं त्रिशूलं अरि चक्रं पद्मं च एतानि वह्निवासवादितो बहिः सम्पूज्यानि । दम्भोलिप्रभृतयः कीदृशाः ? निज सुलक्षितमौलियुक्ताः वज्रादिलाञ्छितमुकुटाः । पुनः स्वस्वायुधैरस्त्रैरभयेन च समुद्यतं सुलक्षितं हस्तपद्मं येषां ते तथा ।। टीका ४.४३ ।।

______________________________

वज्रादीनां वर्णं आह

कनकरजततोयदाभ्रचम्पा रुणहिमनीलजवाप्रवालभासः क्रमतः । क्रमत इति रुचा तु वज्रपूर्वा रुचिरविलेपनवस्त्रमाल्यभूषाः ।। क्रमदीपिका४.४४ ।।

वज्रपूर्वाः वज्राद्याः रुचा वर्णेन क्रमतोऽनुक्रमेणैवंरूपा ज्ञेयाः । पुनः कीदृशाः ? काञ्चनं रौप्यं तोयदो मेघः अभ्रं चम्पकपुष्पं अरुणो रक्तः हिमं श्वेतः नीलः श्यामलः जवा औण्ड्रपुष्पं प्रवालो नवपल्लवः एवम्भूता दीप्तिर्येषां ते तथा । पुनः कीदृशाः ? रुचिरं मनोहरं विलेपनं चन्दनादि वस्त्रं माल्यं भूषणं च येषां ते तथा ।। टीका ४.४४ ।।

______________________________

पूर्वोक्तं उपसंहरति

कथितं आवृतिसप्तकं अच्युता र्चनविधाविति सर्वसुखावहं । प्रयतादथवाङ्गपुरन्दरा शनिमुखैस्त्रितयावरणं त्विदं ।। क्रमदीपिका४.४५ ।।

इति पूर्वोक्तप्रकारेण विष्णुपूजाविधौ आवरणसप्तकं कथितं । कीदृशं ? सकलसुखार्थदायकं । अशक्तं प्रत्याह प्रयजतादिति । पूर्वोक्ताशक्तः त्रितयावरणं आवरणत्रयसहितं प्रयजेत् । कैः ? अङ्गं इन्द्रवज्रं एतन्मुखैरेतत्प्रधानैरित्यर्थः ।। टीका ४.४५ ।।

______________________________

प्रकृतं उपसंहरन्पूजान्तरं आह

इत्यर्चयित्वा जलगन्धपुष्पैः कृष्णाष्टकेनाप्यथ कृष्णपूजां । कुर्याद्बुधस्तानि समाह्वयानि वक्ष्यामि तादादिनमोऽन्तिकानि ।। क्रमदीपिका४.४६ ।।

इति पूर्वोक्तप्रकारेण जलगन्धपुष्पैः पूजयित्वा अथानन्तरं कृष्णाष्टकेन वक्ष्यमाणेन बुधः पण्डितः कृष्णपूजां कुर्यात्तानि । समाह्वयानि नामानि प्रणवादिनमोऽन्तिकानि वक्ष्यमाणानि ओं कृष्णाय नम इत्यादीनि ।। टीका ४.४६ ।।

______________________________

तान्येव दर्शयति

श्रीकृष्णो वासुदेवश्च नारायणसमाह्वयः । देवकीनन्दनो यदुश्रेष्ठो वार्ष्णेय इत्यपि ।। क्रमदीपिका४.४७ ।। असुरान्तकशब्दान्ते भारहारीति सप्तमः । धर्मसंस्थापकश्चाष्टौ चतुर्थ्यन्ताः क्रमादिमे ।। क्रमदीपिका४.४८ ।।

असुरान्तकशब्दान्ते भारहारीत्यर्थः । इमे कृष्णादयः शब्दाः क्रमादेकैकशः प्रणवाद्याश्चतुर्थ्यन्ता नमोऽन्तकाश्च विज्ञेयाः ।। टीका ४.४७४८ ।।

______________________________

अत्यन्ताशक्तं प्रत्याह

एभिरेवाथवा पूजा कर्तव्या कंसवैरिणः । संसारसागरोत्तीर्त्यै सर्वकामाप्तये बुधैः ।। क्रमदीपिका४.४९ ।।

अथवा एभिरेव कृष्णादिभिः शब्दैः कंसवैरिणः श्रीकृष्णस्य पूजा बुधैः । पण्डितैः कर्तव्या । किं अर्थं ? संसार एव सागरः तस्य उत्तीर्त्यै उत्तरणाय । पुनः किं अर्थं ? सकलमनोरथप्राप्त्यर्थं ।। टीका ४.४९ ।।

______________________________

धूपदानविधिं दर्शयति

साराङ्गारे घृतविलुलितैर्जर्जरै संविकीर्णैर् गुग्गुल्वाद्यैर्घनपरिमलैर्धूपं आपाद्य मन्त्री । दद्यान्नीचैर्दनुजमथनायापरेणाथ दोष्णा घण्टां गन्धाक्षतकुसुमकैरर्चितां वादयानः ।। क्रमदीपिका४.५० ।।

साराङ्गारे दृढकाष्ठाङ्गारे । खादिराङ्गारे इति त्रिपाठिनः । संविकीर्णैः क्षिप्तैः गुग्गुल्वाद्यैः गुग्गुलुशर्करामधुचन्दनागुरुशीरैः घृतविलुलितैर्धृतप्लुतैः जर्जरैः कुट्टनेन चूर्णितैर्घनपरिमलैर्निविडसौरभशालिभिः धूपं आपाद्य कृत्वा मन्त्री उपासकः नीचैर्नाभिप्रदेशे दनुजमथनाय गोपालकृष्णाय दद्यात् । किं कुर्वन्? अथानन्तरं अपरेण वामेन दोष्णा हस्तेन गजध्वनिमन्त्रमातः स्वाहेति घण्टां वादयन् । किम्भूतां ? गन्धाक्षतपुष्पैः पूजितां ।। टीका ४.५० ।।

______________________________

दीपदाने विधिं दर्शयति

तद्वद्दीपं सुरभिघृतसंसिक्तकर्पूरवर्त्या दीप्तं दृष्ट्याद्यतिविशदधीः पद्मपर्यन्तं उच्चैः । दत्त्वा पुष्पाञ्जलिं अपि च विधायार्पयित्वा च पाद्यं साचामं कल्पयतु विपुलस्वर्णपात्रे निवेद्य ।। क्रमदीपिका४.५१ ।।

तद्वदापाद्य दीपं कुर्यात् । कया ? सुरभि सुगन्धि यद्घृतं तेन सिक्ता उक्षिता कर्पूरसहिता वर्तिस्तया । कीदृशं ? दृष्ट्या दीप्तं । दृष्टिमनोहरं इति रुद्रधरः । पद्मपर्यन्तं मस्तकपर्यन्तं उच्चैरुपरि दत्त्वा दृष्ट्यादीति दक्षिणावर्तेन पद्मपर्यन्तं । चरणकमलपर्यन्तं इति त्रिपाठिनः । पादपर्यन्तं इति क्वचित्पाठः । अनन्तरं पुष्पाञ्जलिं अपि शिरसि दत्त्वा पाद्याचमनीये च दत्त्वा विपुलस्वर्णपात्रे बृहत्कनकभाजने नैवेद्यं कल्पयतु सम्पादयतु । साचामं आचमनसहितं प्रथमं वदनेत्यादिभिराचमनं दत्त्वा अनन्तरं नैवेद्यं ददात्वित्यर्थः ।। टीका ४.५१ ।।

______________________________

नैवेद्यस्वरूपं दर्शयति

सुरभितरेण दुग्धहविषा सुशृतेन सिता समुपदेशकै रुचिरहृद्यविचित्ररसैः । दधिनवनीतनूतनसितोपलपूपपुलि घृतगुडनारिकेलकदलीफलपुष्परसैः ।। क्रमदीपिका४.५२ ।।

अतिसुरभिणा दुग्धान्नेन सुशृतेन सुपक्वेन सितासमुपदेशकैः शर्कराव्यञ्जनैः सह । शर्करया सह उपदंशकैर्व्यञ्जनैरिति त्रिपाठिनः । अस्मिन्पक्षे शुचितेन सितासमुपदंशकैरिति पाठः । रुचिर इच्छ्¸अकरः हृद्यः सुस्वादः विचित्रो मधुरादिरसो येषु तैः नूतनं श्रेष्ठं सितोपलं खण्डादिप्रसिद्धं पुष्परसो मधु एतैर्द्रव्यैर्नैवेद्यं कल्पयतु ।। टीका ४.५२ ।।

______________________________

किं विशिष्टं नैवेद्यं कल्पयतु, तत्राह

अस्त्रोक्षितं तदरिमुद्रिकयाभिरक्ष्य वायव्यतीयपरिशोषितमग्निदोष्णा । सन्दह्य वामकरसौधरसाभिपूर्णं मन्त्रामृतीकृतं अथाभिमृषन्प्रजप्याथ् ।। क्रमदीपिका४.५३ ।।

मनुं अष्टशः सुरभिमुद्रिकया परिपूर्णं अर्चयतु गन्धमुखैः । हरिं अर्चयेदथ कृतप्रसवाञ्जलिर् आस्यतोऽस्य प्रसरेच्च महः ।। क्रमदीपिका४.५४ ।।

मूलमन्त्रास्त्रमन्त्रेणास्त्राय फडित्यनेन वा उक्षितं सिक्तं चक्रमुद्रयाभिरक्ष्य वायव्येति वायुबीजजप्तोदकप्रोक्षणपरिशोषितदोषं अग्निदोष्णा सन्दह्येति रं इति वह्निबीजाभिजप्तदक्षिणकरेण स्पृष्ट्वा दोषान्दग्ध्वा वामकरसौधरसाभिपूरणं इति वामहस्तेन पिधाय बंबीजजपेनामृतरसाभिपूर्णं विचिन्त्य मूलमन्त्रेणामृतरूपं विचिन्त्याथानन्तरं तदेतादृशं नैवेद्यं अभिमृशन्स्पृष्ट्वा मनुं मन्त्रं अष्टशः अष्टवारं प्रजपतु सुरभिमुद्रिकया धेनुमुद्रिकया परिपूर्णं नैवेद्यं विचिन्त्य गन्धमुखैः चन्दनाद्यैः पूजयतु । दानप्रकारं दर्शयतिहरिं इत्यादिना । कृतप्रसवाञ्जलिर्हरिं प्रत्यर्चयेत्नैवेद्यग्रहणायास्यतस्तेजो निःसरत्विति प्रार्थयेत् । अथानन्तरं अस्य हरेरास्यतो मुखतस्तेजो निःसरेत्प्रसरत्विति चिन्तयेत् । नैवेद्ये संयोजयेदिति त्रिपाठिनः ।। टीका ४.५३५४ ।।

______________________________

वीतिहोत्रदयितान्तं उच्चरन् मूलमन्त्रं अथ निक्षिपेज्जलं । अर्पयेत्तदमृतात्मकं हविर् दोर्युजा सुकुसुमं समुद्धरन् ।। क्रमदीपिका४.५५ ।।

अथानन्तरं वीतिहोत्रदयितान्तं स्वाहाकारान्तं मूलमन्त्रं उच्चरन्किंचिज्जलं तदुपरि क्षिपेत्प्रोक्षयेत् । अत्र स्वाहान्तेऽपि मन्त्रे पुनः स्वाहापदप्रयोगः कार्यः एतद्बलादेव अनन्तरदोर्युजा हस्तद्वयेन सकुसुमं सपुष्पं समुद्धरनुत्तोलयन्तदमृतात्मकं हविः समर्पयेत् ।। टीका ४.५५ ।।

______________________________

नैवेद्यार्पणमन्त्रं आह

निवेदयामि भगवते जुषाणेदं हविर्हरे । निवेद्यार्पणमन्त्रोऽयं सर्वार्चासु निजाख्यया ।। क्रमदीपिका४.५६ ।।

अयं मन्त्रः सर्वासु देवानां पूजासु निजाख्ययेति हरे इत्यस्मिन्स्थाने यस्मै देवाय दीयते तन्नामग्रहणंकर्तव्यं इति निजाख्याशब्दार्थः । निवेद्याख्ययेति केचित् ।। टीका ४.५६ ।।

______________________________

भोजनोपयोगिमुद्राविशेषं दर्शयति

ग्रासमुद्रां वामदोष्णा विकचोत्पलसन्निभां । प्रदर्शयेद्दक्षिणेन प्राणादीनां च दर्शयेथ् ।। क्रमदीपिका४.५७ ।।

वामदोष्णा ग्रासमुद्रां दर्शयेत् । किम्भूतां ? प्रफुल्लोत्पलसदृशीं । अनन्तरं दक्षिणहस्तेन प्राणादीनां वक्ष्यमाणां मुद्रां दर्शयेदिति ।। टीका ४.५७ ।।

______________________________

स्पृशेत्कनिष्ठोपकनिष्ठे द्वे अङ्गुष्ठमूर्ध्ना प्रथमेह मुद्रा । तथापरा तर्जनीमध्यमे स्याद् अनामिकमध्यमिके च मध्या ।। क्रमदीपिका४.५८ ।।

अनामिकतर्जनीमध्यमाः स्यात् तद्वच्चतुर्थीसकनिष्ठिकास्तः । स्यात्पञ्चमी तद्वदिति प्रदिष्टा प्राणादिमुद्रा निजमन्त्रयुक्ताः ।। क्रमदीपिका४.५९ ।।

कनिष्ठोपकनिष्ठे कनिष्ठानामिके द्वे स्वाङ्गुष्ठमूर्ध्ना स्पृशेत् । इह मुद्रा प्रथमा तथा तर्जनीमध्यमे स्वाङ्गुष्ठमूर्ध्ना स्पृशेतनामिकमध्यमिके च तेन स्पृशेदेवं व्यानमुद्रा अनामातर्जनीमध्यमास्तेन स्पृशेत् । चतुर्थी उदानस्य तास्तिस्रः कनिष्ठासहिताः । तद्वत्स्वाङ्गुष्ठमूर्ध्ना यदि स्पृशेत्तदा समानमुद्रा इत्यनेन प्रकारेण प्राणादिमुद्राः प्रदिष्टाः कथिताः । किम्भूताः ? यथायोग्यस्वमन्त्रसहिताः मन्त्रसाहित्येन तासां मुद्रात्वं भवति बिल्वमुद्रावदित्यर्थः ।। टीका ४.५८५९ ।।

______________________________

के ते मन्त्रा इत्याकाङ्क्षायां प्राणादीनां मन्त्रानाह

प्राणापानव्यानोदानसमानाः क्रमाच्चतुर्थ्यन्ताः । ताराधारा वध्वा चेद्धाः कृष्णाध्वनस्त्विमे मनवः ।। क्रमदीपिका४.६० ।।

प्राणादयः पञ्च क्रमाच्चतुर्थीविभक्तिसहिताः तथा ताराधाराः ओंकाराधाराः प्रणवाद्या इत्यर्थः । तथा कृष्णाध्वनोऽग्नेर्वध्वा प्रियया इद्धा उद्दीप्ताः सम्बद्धाः स्वाहाकारान्ता इत्यर्थः । एवं च सति ओं प्राणाय स्वाहा इत्याद्याः पञ्च मन्त्रा भवतीत्यर्थः ।। टीका ४.६० ।।

______________________________

निवेद्यमुद्रां प्रदर्शयन्मन्त्रं च दर्शयति

ततो निवेद्य मुद्रिकां प्रधानया करद्वये । स्पृशन्ननामिकां निजं मनुं जपन्प्रदर्शयेथ् ।। क्रमदीपिका४.६१ ।।

ततस्तदनन्तरं निवेद्यमुद्रां प्रदर्शयेत् । किं कुर्वन्? करद्वये करयोरनामिकां प्रधानयाङ्गुष्ठेन स्पृशन् । पुनः किं कुर्वन्? निजं स्वीयं मनुं मन्त्रं प्रजपन् ।। टीका ४.६१ ।।


______________________________

मन्त्रं उद्धरति

नन्दजोऽम्बुमनुबिन्दुयुङ्नतिः पार्श्वरामरुदवात्मने नि च । रुद्धङेयुतनिवेद्यं आत्मभूर् मासपार्श्वं अनिलस्तथाऽमियुक् ।। क्रमदीपिका४.६२ ।।

नन्दजः ठकारः अम्बुः वकारः मनुः औकारः बिन्दुः एतैर्युक्ता नतिर्नमः पार्श्वः पकारः रा इति स्वरूपं मरुत्यकारः अवात्मने इति अनि स्वरूपं रुद्धं इति स्वरूपं ङे चतुर्थी अनिरुद्धशब्दश्चतुर्थीयुक्त इत्यर्थः । निवेद्यं इति त्रयः आत्मभूः ककारः मांसो लकारः पार्श्वः पकारः लकारयकाराभ्यां युक्तोऽनिलो यकारः अमीति स्वरूपं तथा ठ्व्ॐ नमः पर्यावात्मने अनिरुद्धाय नैवेद्यं कल्पयामि इति मन्त्रः ।। टीका ४.६२ ।।

______________________________

मण्डलं अभितो मन्त्री बीजाङ्कुरभाजनानि विन्यस्य । पिष्टमयानपि दीपान् घृतपूर्णान्विन्यसेत्सुदीप्तशिखान् ।। क्रमदीपिका४.६३ ।।

मण्डलपरितो बीजाङ्कुरपात्राणि संस्थाप्य तथैव पिष्टकृतान्घृतपरिपूर्णान्प्रज्वलितशिखान्प्रदीपान्स्थापयेत् ।। टीका ४.६३ ।।

______________________________

दीक्षाङ्गहोमविधिं दर्शयति

अथ संस्कृते हुतवहेऽमलधीर् अभिवाह्य सम्यगभिपूज्य हरिं । जुहुयात्सिताघृतयुतेन पयः परिसाधितेन सितदीधितिना ।। क्रमदीपिका४.६४ ।।

अष्टोत्तरं सहस्रं समाप्य होमं पुनर्बलिं दद्यात् । राशिष्वधिनाथेभ्यो नक्षत्रेभ्यस्ततश्च करणेभ्यः ।। क्रमदीपिका४.६५ ।।

अथानन्तरं शास्त्रोक्तसंस्कारैः संस्कृते वह्नौ निर्मलबुद्धिः यथोक्तरूपं हरिं आवाह्य गन्धादिभिश्च यथाविधि सम्पूज्याष्टोत्तरसहस्रं जुहुयात् । केन सितदीधितिना भक्तेन कीदृशेन पयःपरिसाधितेन दुग्धपरिपाचितेन परमान्नेनेत्यर्थः । पुनः कीदृशेन ? सिताघृतयुतेन शर्कराघृतसहितेन अनन्तरं यथोक्तहोमं समाप्यावशिष्टपरमान्नेन राशिषु मेषादिषु अधिनाथेभ्यो राशिदेवताभ्यो मङ्गलादिभ्यः नक्षत्रेभ्योऽश्विन्यादिभ्यः करणेभ्यो ववादिभ्यो बलिं दद्यात् । प्रयोगस्तु मेषवृश्चिकाधिपतये मङ्गलाय एष बलिर्नमः एवं वृषतुलाधिपतये शुक्राय मिथुनकन्याधिपतये बुधाय कर्कटाधिपतये चन्द्राय सिंहाधिपतये सूर्याय दनुर्मीनाधिपतये गुरवे मकरकुम्भाधिपतये शनये एव बलिर्नमः । एवं अश्वनीभरणीकृत्तिकापादीयमेषराशये एष बलिर्नम इत्यादि । एवं वववालकीलवतैतिलगरवणिजविष्टिभ्यः एष बलिर्नमः ।। टीका ४.६४६५ ।।

______________________________

पूजानन्तरं प्रकारं आह

सम्पाद्य पानीयसुधां समर्प्य दत्त्वाम्भ उदास्य मुखार्चिरास्ये नैवेद्यं उद्धृत्य निवेद्य विष्वक् सेनाय पृथ्वीं उपलिप्य भूयः ।। क्रमदीपिका४.६६ ।।

पानीयं एव धेनुमुद्रया सुधां कृत्वा पानार्थं कृष्णाय समर्प्याम्भो दत्त्वा जलं आचमनार्थं दत्त्वा मुखार्चिर्देवमुखान्नैवेद्येऽवतारितं तेज आस्ये देवमुखे उद्वास्य निवेश्य नैवेद्यं उत्तोल्य विश्वक्सेनाय देवगणाय नैवेद्यं समर्प्य पृथिवीं उपलिप्य ।। टीका ४.६६ ।।

______________________________

गण्डूषदन्तधवनाचमनास्यहस्त मृज्यानुलेपमुखवासकमाल्यभूषाः । ताम्बूलं अप्यभिसमर्प्य सुवाद्यनृत्य गीतैः सुतृप्तं अभिपूजयतात्पुनरेव ।। क्रमदीपिका४.६७ ।।

भूयः पुनरपि गण्डूषं चुलूकोदकं दन्तधवनं दन्तकाष्ठं । दन्तधवनं दन्तधावनं इति त्रिपाठिनः । आचमनं शेषाचमने द्विराचमनं आस्यहस्तयोर्मृज्यं मुखहस्तयोः प्रोञ्छनवस्त्रं अनुलेपश्चन्दनादिः मुखं वास्यते सुरभि क्रियते अनेनेति मुखवासं कर्पूरादि माल्यं पुष्पं भूषालङ्करणं ताम्बूलं अपि समुच्चये एतानि समर्प्य पुनरेव यथापूर्वं पूजा कृता एवं सुवाद्यनृत्यगीतैः सुतृप्तं हरिं नत्वा भिपूजयेत् ।। टीका ४.६७ ।।

______________________________

गन्धादिभिः सपरिवारं अथार्घं अस्मै दत्त्वा विधाय कुसुमाञ्जलिं आदरेण । स्तुत्वा प्रणम्य शिरसा चुलुकोदकेन स्वात्मानं अर्पयतु तच्चरणाब्जमूले ।। क्रमदीपिका४.६८ ।।

कैः ? गन्धादिभिः सपरिवारं पूर्वोक्तावरणसहितं अथानन्तरं अस्मै हरये अर्घ्यं दत्त्वा आदरेण पुष्पाञ्जलिं दत्त्वा स्तुत्वा शिरसा प्रणम्य सच्चरणारविन्दमूले स्वात्मानं चुलुकेन अर्घशेषजलेन समर्पयतु ।। टीका ४.६८ ।।

______________________________

आत्मनः समर्पणमन्त्रं आह इत इत्यादिना स्वात्मसमर्पणे इत्यन्तेन ग्रन्थेन

इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यां उदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये सम्यगर्पये ओं तत्सदिति च प्रोक्तमन्त्रः स्वात्मसमर्पणे ।।

______________________________

एतच्च मन्त्रत्रयं स्पष्टत्वान्न लिख्यते

अनुस्मरन्कलशगं अच्युतं जपेत् सहस्रकं मनुं अथ साष्टकं बुधः । वपुष्यथो दितिजाजितः समावृतीर् विलाप्य तास्तदपि नयेत्सुधात्मतां ।। क्रमदीपिका४.६९ ।।

अथानन्तरं बुधः पण्डितः कलशगं कुम्भादिनिष्ठं हरिं चिन्तयन्साष्टकं अष्टसहितं सहस्रं मनुं मन्त्रं जपेत् । अथानन्तरं दितिजजितः श्रीकृष्णस्य वपुषि शरीरे ताः पूर्वोक्ताः समावृतीः आवरणदेवता विलाप्य्विलीना इति विचिन्त्य तदपि देववपुः सुधात्मतां अमृततां नयेत् ।। टीका ४.६९ ।।

______________________________

ध्वजतोरणदिक्कलशादिगताम् अपि मण्डपमण्डलकुण्डगतां । अभियोज्य चितिं कलशे कुसुमैः परिपूज्य जपेत्पुनरष्टशतं ।। क्रमदीपिका४.७० ।।

कलशे चितिं मन्त्रदेवतां चैतन्यरूपं अभियोज्य कुसुमैः पुष्पैः सम्पूज्य पुनरष्टसहितं शतं जपेत् । किम्भूतां ? चितिं ध्वजतोरणदिक्कलशादिगतां न केवलं ध्वजादिगतां अपि तु मण्डले मण्डपे कुण्डगतां ।। टीका ४.७० ।।

______________________________

अथ शिष्य उपोषितः प्रभाते कृतनैत्यः सुसिताम्बरः सुवेशः । धरणीधनधान्यगोकुलैर् धिनुयाद्विप्रवरान्हरेः प्रसत्त्यैः ।। क्रमदीपिका४.७१ ।।

अथानन्तरं उपोषितः कृतोपवासः शिष्यः प्रभाते प्रातःकाले कृतनित्यकृत्यः शुक्लवस्त्रधरः सुवेशः शोभनभूषणः धरणी पृथिवी धनं सुवर्णादि धान्यं व्रीह्यादि गौर्दोग्ध्री दुकूलं पट्टवस्त्रं एतैर्यथायोग्यं विप्रवरान्ब्राह्मणश्रेष्ठान्धिनुयात्प्रीणयेत् । किमर्थं ? हरेः श्रीकृष्णस्य प्रसादार्थं ।। टीका ४.७१ ।।

______________________________

भूयः प्रतर्प्य प्रणिपत्य देशिकं तस्मै परस्मै पुरुषाय देहिने । तां वित्तशाठ्यं परिहृत्य दक्षिणां दत्त्वा तनुं स्वां च समर्पयेत्सुधीः ।। क्रमदीपिका४.७२ ।।

भूयः पुनरपि प्रतर्प्य ब्राह्मणान्सन्तोष्य पुनः कथनं अत्यन्ततर्पणार्थं परीत्येति पाठे प्रदक्षिणीकृत्येत्यर्थः । देशिकं गुरुं प्रणिपत्य नमस्कृत्य तस्मै गुरवे देहिने देहधारिणे परस्मै पुरुषाय श्रीकृष्णाय धनशाठ्यं परिहृत्य वैभवानुसारेण तां प्रसिद्धां वित्तार्धं चतुर्थांशं वा दत्त्वा न तु दक्षिणां इव मन्त्रादानानन्तरं एव तत्प्रसङ्गात्स्वां स्वीयां तनुं सुबुद्धिः समर्पयेत् ।। टीका ४.७२ ।।

______________________________

अथाभिषेकमण्डपे सुखोपविष्टं आसने । गुरुर्विशोधयेदमुं पुरेव शोषणादिभिः ।। क्रमदीपिका४.७३ ।।

अथानन्तरं गुरुरमुं शिष्यं पुरेव पूर्ववदेव शोषणादिभिर्भूतशुद्ध्यादिभिर्विशोधयेत् । कीदृशं ? अभिषेकमण्डपे आसने सुखोपविष्टं ।। टीका ४.७३ ।।

______________________________

पीठन्यासावसानं वपुषि विमलधीर्न्यस्य तस्यासिकाया मन्त्रेणाभ्यर्च्य दूर्वाक्षतकुसुमयुतां रोचनां के निधाय । आशीर्वादैर्द्विजानां विशदपटुरवैर्गीतवादित्रघोषैर् माङ्गल्यैरानयत्तं कलशं अभिवृतस्तत्समीपं प्रतीतः ।। क्रमदीपिका४.७४ ।।

तस्य शिष्यस्य वपुषि शरीरे पीठन्यासावसानं पीठन्यासपर्यन्तं सकलं न्यासं विन्यस्य आसिकाया आसनस्य मन्त्रेणासनं पूजयित्वा रोचनां मस्तके निधाय तिलकं कारयित्वा । कीदृशीं रोचनां ? दूर्वाक्षतपुष्पसहितां । अनन्तरं द्विजानां आशीर्वादैर्गीतिमङ्गलादिशब्दैः । कीदृशैरेतैः ? विशदपटुरवैः स्पष्टोत्तमशब्दैः तथा अन्यैरपि माङ्गल्यैर्मङ्गलस्योपयुक्तैः सहितं तं कलशं अभिवृत आचार्यत्वेन वृतः तत्समीपं शिष्यसमीपं आनयेत् । कीदृशः ? शिष्यात्मीयतया प्रतीतो विश्वासान्वितो यः कश्चिदित्यर्थः ।। टीका ४.७४ ।।

______________________________

तेनाभिलीनमणिमन्त्रमहौषधेन धाम्ना पेरण परमामृतरूपभाजा । सम्पूरयन्वपुरमुष्य ततो वितन्वन् तत्सामरस्यमभिषेचयताद्यथावथ् ।। क्रमदीपिका४.७५ ।।

कुम्भस्य पल्वलान्शिष्यशिरसि निधाय तेन कलसेनेत्यर्थाद्यथावत्यथायुक्तप्रकारेणाभिषेचयेतभिषेचनं कुर्यात् । तदुक्तम्

विधिवत्कुम्भं उद्धृत्य तन्मुखस्थान्सुरद्रुमान् । शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ।। इति ।

किम्भूतेन ? अभिलीनः संलीनः मणिर्नवरत्नानि मन्त्रः ऋक्महौषधं दिव्यपिप्पलीप्रभृति यत्र तेन । कीदृशेन ? परेण धाम्ना परतेजःस्वरूपेण । पुनः कीदृशेन ? परमामृतरूपभाजा परमामृतरूपमयेन । किं कुर्वन्? अमुष्य शिशोर्वपुः शरीरं पूरयन् । किं कुर्वन्? ततस्तदनन्तरं तत्सामरस्यं तेन तेन तेजोरूपेण कलशैक्यं वितन्वन् ।। टीका ४.७५ ।।

______________________________

अभिषेकं आह

क्षाद्यैरान्तैर्वर्णैरभिपूर्णतनुस्त्रिरुक्तमन्त्रान्तैः । परिहितसिततरवमनद्वितीयो वाचंयमः समाचान्तः ।। क्रमदीपिका४.७६ ।।

क्षऽदिर्येषां तैः आन्तैः अकारान्तो येषां तैर्वर्णैर्मातृकाक्षरैर्मूलमन्त्रत्रिजपावसानैरभिषिक्तशरीरः शिष्यः धृतनवीनातिशुक्लवसनयुगलः मौनी कृतद्विराचमनः ।। टीका ४.७६ ।।

______________________________

बहुशः प्रणम्य देशिकनामानं हरिं अथोपसङ्गम्य । तद्दक्षिणत उपास्तां अभिमुखं एकाग्रमानसः शिष्यः ।। क्रमदीपिका४.७७ ।।

बहुवारं देशिकनामानं गुरुरूपं हरिं नत्वा अथानन्तरं उपसङ्गृह्य गुरुचरणौ व्यत्यस्तहस्तद्वयं कृत्वा तद्दक्षिणतो गुरुदक्षिणे अभिमुखं गुरुसंमुखं एकाग्रमानसः एकचित्तस्तिष्ठेतुपविशेत् ।। टीका ४.७७ ।।

______________________________

न्यासैर्यथाविधि तं अच्युतसाद्विधाय गद्न्हाक्षतादिभिरलङ्कृतवर्ष्मणोऽस्य । ऋष्यादियुक्तं अथ मन्त्रवरं यथावद् ब्रूयात्त्रिशो गुरुरनर्घ्यं अवामकरेण ।। क्रमदीपिका४.७८ ।।

अथानन्तरं यथाविधि यथोक्तप्रकारेण न्यासैः पञ्चाङ्गन्यासादिभिः ते शिष्यं अच्युतसाद्विधाय श्रीकृष्णरूपं कृत्वा गन्धाक्षतपुष्पैः विभूषितशरीरस्यास्य अवामकर्णे दक्षिणकर्णे ऋषिच्छन्दोदेवतासहितं अनर्घ्यं अमूल्यं मन्त्रवरं मन्त्रश्रेष्ठं त्रिशः त्रिवारं ब्रूयात्यथावत्यथोक्तप्रकारेण स च प्रकारः प्रथमं दक्षिणहस्ते गुरुर्जलं ददाति अमुकमन्त्रं ददामीति अनेन शिष्योऽपि ददस्व इति ब्रूयात्ततो मन्त्रं दद्यादिति अत्रावश्यं वारत्रयं गुरुणा मन्त्रः पठनीयः दत्ते यावच्छिष्यस्य मन्त्रः स्वायत्तो भवति तावत्पठनीय इति ।। टीका ४.७८ ।।

______________________________

मन्त्रग्रहणानन्तरं शिष्यकृत्यं दर्शयति

गुरुणा विधिवत्प्रसादितं मनुं अष्टोर्ध्वशतं प्रजप्य भूयः । अभिवाद्य ततः शृणोतु सम्यक् समयान्भक्तिभरेण नम्रमूर्तिः ।। क्रमदीपिका४.७९ ।।

यथाविधि गुरुणा हेतुना प्राप्तं मन्त्रं प्रसाधितं अनुग्रहेण दत्तं इति त्रिपाठिनः । अष्टौ ऊर्ध्वं यस्य तस्य तदष्टाधिकशतं प्रजप्य भूयः पुनरपि गुरुं अभिवाद्यं नमस्कृत्य दण्डवत्प्रणम्य ततो गुरुतः समयानाचारान्सम्यक्कृत्वा शृणोतु यत्तु विद्यां अष्टकृत्वो जपेदिति तत्तन्न्यूनसङ्ख्याकलजपनिषेधपरं । कीदृशः ? भक्त्यातिशयेन नम्रशरीरः ।। टीका ४.७९ ।।

______________________________

मन्त्रदानानन्तरं गुरुकृत्यं आह

दत्त्वा शिष्याय मनुं न्यस्याथ गुरुः कृतात्मयजनविधिः । अष्टोत्तरं सहस्रं स्वशक्तिहान्यनवाप्तये जप्याथ् ।। क्रमदीपिका४.८० ।।

अथानन्तरं गुरुः शिष्याय मन्त्रं दत्त्वा न्यस्य न्यासादिकं कृत्वा कृतात्मयजनविधिः कृताभ्यन्तरयागः अष्टाधिकं सहस्रं स्वसामर्थ्यहान्यनवाप्तये स्वसामर्थ्यरक्षार्थं दत्तमन्त्रं जपेत् ।। टीका ४.८० ।।

______________________________

शिष्यकृत्यं आह

कुम्भादिकं च सकलं गुरवे समर्प्य सम्भोजयेद्द्विजवरानपि भोज्यजातैः । कुर्वन्त्य्हनेन विधिना य इहाभिषेकं ते सम्पदां निलयनं हि त एव धन्याः ।। क्रमदीपिका४.८१ ।।

कुम्भादिकं सकलं मण्डलसहितं मण्डपावस्थितद्रव्यं गुरवे समर्प्य दत्त्वा भोज्यसमूहैर्द्विजश्रेष्ठान्सन्तोषयेतेतत्करणस्य फलं आहैह जगति अनेन विधिना अनया परिपाट्या ये अभिषेकं कुर्वन्ति ते सम्पदां सर्वसमृद्धीनां निलयनं स्थानं त एव धन्याः पुरुषार्थभागिनः ।। टीका ४.८१ ।।

______________________________

उक्तं अर्थं उपसंहरति

सङ्क्षिप्य किंचिदुदिता दीक्षा संस्मरणाय हि विशदधियां । एतां प्रविश्य मन्त्री सर्वान् जपेज्जुहोतु यजेच्च मनून् ।। क्रमदीपिका४.८२ ।।

किंचित्सङ्क्षिप्य दीक्षा उक्ता कथिता विशदधियां निर्मलबुद्धीनां संस्मरणाय एतां दीक्षां प्रविश्य प्राप्य मन्त्री साधकः सर्वान्मन्त्रान्जपेत्यजेज्जुहोतु ।। टीका ४.८२ ।।

इति श्रीकेशवाचार्यविरचितायां क्रमदीपिकायां दीक्षापूजानाम चतुर्थपटलः <poem>