क्रमदीपिका
प्रथमः पटलः
[[लेखकः :|]]
द्वितीयः पटलः →

प्रथमः पटलः

वेणुवादविनोदलालसं
दिव्यगन्धपरिलिप्तवक्षसं ।
वल्लवीहृदयवित्तहारिणं
भावये कं अपि गोपनन्दनं ।।

विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकप्रारिप्सितप्रतिबन्धकदुरितनिवृत्त्यसाधारणकारणं इष्टदेवताऽनुस्मरणपूर्वकं मङ्गलं आशीर्व्याजेन कृतं शिष्यशिक्षार्थं आदौ निबध्नाति कलात्तमायेत्यादिना ।

कलात्तमायालवकात्तमूर्तिः
कलक्वणद्वेणुनिनादरम्यः ।
श्रितो हृदि व्याकुलयंस्त्रिलोकीं
श्रियेऽस्तु गोपीजनवल्लभो वः ।। क्रमदीपिका१.१ ।।

गोपीजनवल्लभो युष्माकं श्रिये सम्पदेऽस्तु भूयादिति योजना । गोपीजनस्य गोपाङ्गनाजनस्य वल्लभः स्वामी । तथा च गोपीजनस्यैवाविज्ञातविनयप्रकरस्यापि वल्लभः किं पुनः साधकस्याशेषपूजाविधानकोविदस्येति भावः । यद्वा गोपी प्रकृतिर्जनो महदादिरनयोर्वल्लभः प्रेरक इत्यर्थः ।

कीदृशः कलायां ज्ञानस्वरूपे स्वस्मिनात्तायाः प्राप्ताया अध्यस्ताया मायाया लवकेन लेशेन विक्षेपात्मस्वभावेन आत्ता प्राप्ता मूर्तिर्येन स तथोक्तः । एतेन तस्य शरीरसम्बन्धेऽपि न स्वरूपानुसन्धानप्रच्युतिरावरणशक्तेरप्रामाण्यादिति भावः ।

अथ वा कला बन्धने, तथा च बन्धनात्मकसंसारप्रवर्तनार्थं स्वीकृतमायालेशात्मकजलतत्त्वात्मनाङ्गीकृतमूर्तिरिति । तोयेन जीवान्विससर्ज भूम्यां इति ।

अथवा, संमोहनमन्त्ररूपकं कामबीजं सकलगोपालमन्त्राणां बीजं उदाहरति कलेति । कश्च लश्च कलौ ताभ्यां अत्तौ गृहीतौ सम्बद्धौ मायालवकौ चतुर्थस्वरानुस्वारौ ताभ्यां आत्ता स्वीकृता बीजरूपा मूर्तिर्येन सः तथोक्तः कल इत्यत्राकार उच्चारणार्थः ।

पुनः कीदृशः । कलं अव्यक्तं मधुरं यथा स्यात्तथा क्वणन्शब्दायमानः वेणुर्वंशः कलक्वणंश्चासौ वेणुश्चेति कलक्वणद्वेणुः । तस्य निनादेन रम्यः सर्वमुखप्रद इत्यर्थः ।

पुनः कीदृशः । हृदि श्रितः हृत्पङ्कजे स्थितः हृदि ध्येय इत्यर्थः । यद्वा सर्वप्राणिनां हृदयेऽन्तर्यामिरूपेण स्थित इत्यर्थः ।

किं कुर्वन् । त्रयाणां लोकानां समाहारस्त्रिलोकी । त्रैलोक्यं व्याकुलयन्कर्तव्येषु विचारशून्यं कुर्वन्मायया मोहयन्नित्यर्थः । तदुक्तं गीतायां

ईश्वरः सर्वभूतेषु हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ।। इति ।

अत्र लघुदीपिकाकारः कलात्तमायेत्यादिना गोपीजनवल्लभ इत्यनेन च बीजसहितोऽत्र दशाक्षरः सूचितः । कलक्वणदित्यादिना ध्यानं सूचितं । त्रिलोकीं व्याकुलयन्नित्यनेन च वश्यादिप्रयोगाः सूचिताः इत्याह ।। टीका १.१ ।।

______________________________

गुरुनमस्कारपूर्वकं कर्तव्यं प्रतिजानीते

गुरुचरणसरोरुहद्वयोत्थान्
महितरजःकणकान्प्रणम्य मूर्ध्ना ।
गदितं इह विविच्य नारदाद्यैर्
यजनविधिं कथयामि शार्ङ्गपाणेः ।। क्रमदीपिका१.२ ।।

इह ग्रन्थे शार्ङ्गपाणेः श्रीकृष्णस्य यजनविधिं पूजाहोमादिकरणप्रकारं विविच्य विवेचनं कृत्वा कथयामि आसमाप्तेर्वर्तमानत्वात् । तथा च, प्राचीनग्रन्थेभ्यः स्वग्रन्थस्योपादेयता दर्शिता । कीदृशं ? नारदगौतमप्रभृतिभिर्गदितं । एतेन स्वोक्तेः स्वातन्त्र्यं निराकृतं इति भावः । किं कृत्वा ? मूर्ध्ना मस्तकेन महिताः पूजिता ये रजःकणका धूलिलेशास्तान्प्रणम्य कीदृशान्गुरुचरणद्वयं एव पद्मद्वयं तदुत्थान्तदुद्भवान् । एतेन गुरुभर्त्भत्त्यतिशयः सूचितः । तथा गुरुध्यानं शिरसि कर्तव्यं इत्यपि सूचितं ।। टीका १.२ ।।

______________________________

मन्त्रान्तरेभ्यो गोपालमन्त्रस्यातिशायितं वक्तुं भूमिकां रचयति

क्षितिसुरनृपविट्तुरीयजानां
मुनिवनवासिगृहस्थवर्णिनां च ।
जपहुतयजऽदिभिर्मनूनां
फलति हि कश्चन कस्यचित्कथञ्चिथ् ।। क्रमदीपिका१.३ ।।

हि यतः मनूनां गोपालमन्त्रव्यतिरिक्तानां मध्ये कश्चन मन्त्रोराश्यादिना शोधितः क्षितिसुरप्रभृतीनां वर्णानां मध्ये मुनिवनवासिप्रभृतीनां आश्रमाणां चकारात्स्त्रीणां मध्ये कस्यचित्कथंचिज्जनस्य भाग्यवशाज्जपहोमादिभिरादिशब्देन तर्पणादेः परिग्रहः । फलति फलं ददातीति योजना । हि शब्दोऽत्रावधारण इति कश्चित्क्षितिसुरो ब्राह्मणः । नृपः क्षत्रियः । विट्वैश्यः । तुरीयः शूद्रः । मुनिर्यतिः । वनवासी वानप्रस्थः । गृहस्थः कृतदारपरिग्रहः । वर्णी ब्रह्मचारी ।। टीका १.३ ।।

______________________________

अधुना गोपालमन्त्रस्य सर्वेषु सिद्धत्वं आह

सर्वेषु वर्णेषु तथाश्रमेषु
नारीषु नानाह्वयजन्मभेषु ।
दाता फलानां अभिवाञ्छितानां
द्रागेव गोपालकमन्त्र एषः ।। क्रमदीपिका१.४ ।।

सिद्धादिगणनानिरपेक्ष एवैष प्रथोपस्थितो वक्ष्यमाणदशाक्षरगोपालमन्त्रो न तु गोपालविषयको मन्त्रगणोऽतिप्रसङ्गात् ।

स्वाहाप्रणवसंयुक्तं मन्त्रं शूद्रे ददद्द्विजः ।
शूद्रो निरयगामी स्याद्द्विजः शूद्रोऽभिजायते ।।

इत्यागमविरोधात् । लक्षणापत्तेश्च । वाञ्छितानां स्वाभिमतानां फलानां द्रागेव झटित्येव दाता केषु सर्वेषु वर्णेषु ब्राह्मणादिषु सर्वाश्रमेषु ब्रह्मचारिप्रभृतिषु नारीषु नानाह्वयजन्मभेषु नानाप्रकारनामसु तह्ता नानाप्रकारजन्मनक्षत्रेषु स्तस्वपीत्यर्थः ।। टीका १.४ ।।

______________________________

एवं सत्यपि गुरुचरणशुश्रूषापरोपस्थिताय मन्त्रो देय इति व्यनक्ति

नूनं अच्युतकटाक्षपातेन
कारणं भवति भक्तिरञ्जसा ।
तच्चतुष्टयफलाप्तये ततो
भक्तिमानधिकृतो हरौ गुरौ ।। क्रमदीपिका१.५ ।।

यस्मान्नूनं निश्चितं अच्युतकटाक्षपातेन श्रीकृष्णकृपावलोकने भक्तिरञ्जसा तत्त्वतः कारणं ततस्तस्मात्कारणात्तच्चतुष्टयफलाप्तये प्रसिद्धधर्मादिपुरुषार्थचतुष्टयरूपफलप्राप्त्यर्थं हरौ विष्णौ गुरौ मन्त्रदातरि च भक्तियुक्तपुरुषो दीक्षादावधिकृतोऽधिकारी भवतीत्यर्थः । एतेन गुरुदेवतयोरभेदेन ध्यानं कर्तव्यं इति सूचितं ।। टीका १.५ ।।

______________________________

अधुना पूजाक्रमं आह

स्नातो निर्मलशुद्धसूक्स्मवसनो धौताङ्घ्रिपाण्याननः
स्वाचान्तः सपवित्रमुद्रितकरः श्वेतोर्ध्वपुण्ड्रोज्ज्वलः ।
प्राचीदिग्वदनो निबद्ध्यसुदृढं पद्मासनं स्वस्तिकं
वासीनः स्वगुरून्गणाधिपं अथो वन्देत बद्धाञ्जलिः ।। क्रमदीपिका१.६ ।।

स्नातः स्वगृह्योक्तविधिना आगमोक्तविधिनापीति केचित् । निर्मले विशदे प्रक्षालिते सूक्ष्मे वस्त्रे यस्य स तथोक्तः । धौतेति प्रक्षालितपाणिपादवदनः । स्वाचान्तः स्मृत्युक्तविधिना कृताचमनः । सपवित्रेति पवित्रसहितः मुद्रायुक्तहस्तः सुपवित्रेतिपाठे अतिशोभनपवित्रेण मुद्रितः मुद्रासम्बद्धो तिलकेनोज्ज्वलः । प्राचीदिग्वदनः पूर्वाभिमुखः ।

अत्र प्राग्वदनस्य कण्ठोक्तत्वात्प्राग्वदनं मुख्यं तदसम्भवे तूदङ्मुखत्वं रात्रौ तु सर्वपूजास्वेदोदङ्मुखत्वं पुराणे च तथैवाभिधानात् । अनन्तरं सुदृढं यथा स्यात्तथा पद्मासनं स्वस्तिकं वा कृत्वा । तत्र पद्मासनं प्रसिद्धं, स्वस्तिकं लक्षणं तु

जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे ।
ऋजुकायसमासीनं स्वस्तिकं तत्प्रचक्षते ।।

आसीन उपविष्टः स्वगुरून्गणेशं च वन्देत । अथो शब्दश्चार्थेऽनुक्तसमुच्चयेन तेनाग्रे दुर्गां पृष्ठे क्षेत्रपालं वन्देत तदुक्तं गौतमीये वामे गुरुं दक्षिणतो गणेशं दुर्गां पुरः क्षेत्रपतिं च पश्चात् । इति ।

प्रयोगश्च गुं गुर्भ्यो नमः, गं गणपतये नमः, दुं दुर्गायै नमः, क्षें क्षेत्रपालाय नमः । बद्धाञ्जलिः कृताञ्जलिपुटः सन्नित्यर्थः । अत्र शारदातिलकोक्तक्रमेणैतद्बोद्धव्यं दक्षिणे पूजाद्रव्यस्थापनं वामे जलकुम्भस्थापनं पृष्ठे करप्रक्षालनपात्रस्थापनं पुरतो दीपचामराद्युपकरणस्थापनं इति ।। टीका १.६ ।।

______________________________

भूतशुद्धेः पूर्वं कृत्यं आह

ततोऽस्त्रमन्त्रेण विशोध्य पाणी
त्रितालदिग्बन्धहुताशशालान् ।
विधाय भूतात्मकं एतदङ्गं
विशोधयेच्छुद्धमतिः क्रमेण ।। क्रमदीपिका१.७ ।।

ततस्तदनन्तरं भूतात्मकं पृथिव्यादिपञ्चमहाभूतमयं एतदङ्गं शरीरं शुद्धमतिः विशदमतिः विशोधयेद्देवतात्मकं कुर्यादित्यर्थः । नादेवो देवं अर्चयेदिति वचनात् । क्रमेण वक्ष्यमाणप्रकारेण । किं कृत्वा ? अस्त्रमन्त्रेणैव अस्त्राय फडित्यनेन तन्मन्त्राङ्गास्त्रमन्त्रेणैव वा, गन्धपुष्पाभ्यां हस्तौ संशोध्य करन्यासं कृत्वास्त्रमन्त्रेणैवोर्ध्वोर्ध्वं तालत्रयं कुर्यात् । तदुक्तं शारदायाम्करन्यासं समासाद्य कुर्यात्तालत्रयं ततः इति ।

अनन्तरं अस्त्रमन्त्रेणैव छोटिकया दशदिग्बन्धनं अस्त्रमन्त्रेणैव वह्निप्राकारं जलेनात्मनः परिवेष्टनरूपं विधाय कृत्वा । अत्र सम्प्रदायः हृत्पद्मकर्णिकास्थं दीपशिखानिभं जीवात्मानं हंस इति मन्त्रेण सुषुम्णावर्त्मना मस्तकोपरि सहस्रदलकमलावस्थितपरमात्मनि संयोज्य पृथव्यादिपञ्चविंशतितत्त्वानि तत्र विलीनानि विभाव्य भूतशुद्धिं कुर्यात् ।। टीका १.७ ।।

______________________________

भूतशुद्धिं आह
 
इडावक्त्रे धूम्रं सततगतिबीजं सलवकं
स्मरेत्पूर्वं मन्त्रो सकलभुवनोच्छोषणकरं ।
स्वकं देहं तेन प्रततवपुषापूर्यसकलं
विशोष्य व्यामुञ्चेत्पवनं अथ मार्गणखमणेः ।। क्रमदीपिका१.८ ।।

इडावक्त्रे वामनासापुटे सलवकं बिन्दुसहितं सततगतिबीजं वायुबीजं यं इति रूपं पूर्वं प्रथमं मन्त्री साधकः स्मरेत् । किं भूतं ? धूम्रं कृष्णवर्णं । पुनः किम्भूतं ? सकलेति । पञ्चभूतमयदेहशोषकं तथा च वामनासापुटेन वायुं आकर्षन्षोडश्वारं वायुबीजं जपेदिति भावः । अनन्तरं सकलं सर्वं स्वकीयं शरीरं तेन बीजमयेन वायुना प्रततवपुषा विस्तीर्णशरीरेणापूर्य पूरयित्वा देहस्थवायोर्बाह्येनैक्यं विचिन्त्य विशोषं नीत्वा
चतुःषष्ठिवारं वायुबीजं कुम्भकेन जप्त्वा खमणेः सूर्यस्य मार्गेण पिङ्गलया दक्षिणनासापुटेन रेचनेनैव वायुबीजं द्वात्रिंशद्वारं जपन्वायुं व्यामुञ्चेत्त्यजेदित्यर्थः ।। टीका १.८ ।।

______________________________

तेनैव मार्गेण विलीनमारुतं
बीजं विचिन्त्यारुणं आशुशुक्षणे ।
आपूर्य देहं परिदह्य वामतो
मुञ्चेत्समीरं सह भस्मना बहिः ।। क्रमदीपिका१.९ ।।

तेनैव खमणेः सूर्यस्य मार्गेण दक्षिणनासापुटेन विलीनः सम्बद्धो मारुतो वायुर्यत्र तदाशुशुक्षणेर्वह्नेर्बीजं रं इति अरुणं अरुणवर्णं विचिन्त्य वायुनापूर्य तद्बीजस्य षोडशवारजपेन पूरकं कृत्वानन्तरं कुम्भकेन चतुर्गुणं रंबीजं जपन्देहं परिदह्य तदूर्ध्वं रं इति द्वात्रिंशद्वारं जपन्वामत इडामार्गेण वामनासापुटेन भस्मना सह बहिः समीरं वायुं मुञ्चेदित्यर्थः ।। टीका १.९ ।।

______________________________

उत्पत्तिं दर्शयति

टपरं अतीव शुद्धं अमृतांशुपथेन विधुं
नयतु ललाटचन्द्रं अमुतः सकलार्णमयीं ।
लपरजपान्निपात्य रचयेच्च तया सकलं
वपुरमृतौघवृष्टिं अथ वक्त्रकराङ्गं इदं ।। क्रमदीपिका१.१० ।।

टस्य परष्टपरः ठकारस्तं अतीव शुद्धं श्वेतं विधुं चन्द्रबीजरूपं अमृतांशुपथेन वामनासापुटेन षोडशवारजपेन ललाटचन्द्रं ब्रह्मरन्ध्रस्थचन्द्रं नयतु प्रापयतु । ननु, सर्वशरीरस्य दग्धत्वात्कथं अमृतांशुपथेन चन्द्रबीजनयनं इति चेन्, न । पूर्वोक्तस्य भावनात्मकत्वात् । अथानन्तरं अमुतः अमृतांशोर्ललाटचन्द्राद्ब्रह्मरन्ध्रस्थशशङ्कात्सकलार्णमयीं मातृकामयीं अमृतसमूहवृष्टिं लपरो वकारः वरुणबीजं इति यावत्तज्जपेन कुम्भकेन चतुःषष्ठिवारजपेन निपात्य उत्पाद्य तथा मातृकामय्या वृष्ट्या इदं सकलं
शरीरं रचयेदारचयेत् । कीदृशं ? वपुर्वक्त्रकराङ्गं वक्त्रं च करश्च अङ्गं अवयवरूपं यत्र तत्तथा वक्त्रकराढ्यं इति पाठे वक्त्राढ्यं कराढ्यं चेत्यर्थः । अनन्तरं दक्षिणनासापुटेन वायुं रेचयेत्लं इति पृथ्वीबीजं पीतवर्णं द्वात्रिंशद्वारं जपन्तत्शरीरं सुदृष्टं चिन्तयेत् । तदनु सोऽहं इत्यात्ममन्त्रेण ब्रह्मरन्ध्राज्जीवं हृदयाम्भोजं आनयेदिति सम्प्रदायः ।। टीका १.१० ।।

______________________________

अधुना मातृकान्यासं दर्शयति

शिरोवदनवृत्तदृक्श्रवणघोणगण्डोष्ठक
द्वयेषु सशिरोमुखेषु च इति क्रमाद्विन्यसेत् ।
हलश्च करपादसन्धिषु तदग्रकेष्वादरात्
सपार्श्वयुगपृष्ठनाभ्युदरकेषु याद्यानथ ।। क्रमदीपिका१.११ ।।

हृदयकक्षककुत्करमूलदोः
पदयुगोदरवक्त्रागतान्बुधः ।
हृदयपूर्वं अनेन पथान्वहं
न्यसतु शुद्धकलेवरसिद्धये ।। क्रमदीपिका१.१२ ।।

अत्र शिरःशब्दो ललाटस्योपलक्षकः ललाटमुखं आवृतेति शारदादर्शनातेकत्राक्षरद्वयस्यापि न्यासापाताच्च । वदनवृत्तं मुखमण्डलं दृक्श्रवणघोणगण्डोष्ठदन्तानां द्वयं इति समासः । द्वयं इति दृगादावपि सर्वत्र सम्बध्यते । घोणा नासिका, दद्द्वये दन्तपङ्क्तिद्वये इत्युक्तेषु स्थानेषु अचः षोडशस्वरान्क्रमेणैकाक्षरक्रमेण विन्यसेत्तथा हलश्च कादीनि व्यञ्जनानि च तत्र कादीनि विंशत्यक्षराणि आदरातादरपूर्वकं करपादसन्धिषु तदग्रकेषु च विन्यसेत् । अनन्तरं यकारादीनि पञ्चाक्षराणि सपार्श्वयुगपृष्ठनाभ्युदरकेषु
पार्श्वयुगेन सह वर्तते यत्पृष्ठनाभ्युदरं तत्र विन्यसेत् । तथानन्तरं अनेन वक्ष्यमाणमार्गेण याद्यान्वर्णान्हृदयादिस्थानगतानत्रापि करपद्युगयोरुदरवक्त्रयोश्च हृदयपूर्वं यथा स्यात्तथा अन्वहं प्रतिदिनं न्यसतु । करपद्युगादीनां पूर्वैः पदैः समस्तानां अपि हृदयपूर्वं इति क्रियाविशेषणेन सह सम्बन्धः सापेक्षत्वादत्रासमास इति तु तुल्यप्रधानसापेक्षविषयं द्रष्टव्यं । किमर्थं शुद्धकलेवरसिद्धये शुद्धशरीरसम्पादनार्थं इत्यर्थः ।। टीका १.१११२ ।।

______________________________

इत्यारचय्य वपुरर्णशतार्धकेन
सार्धक्षपेशसविसर्गकसोभयैस्तैः ।
विन्यस्य केशवपुरःसरमूर्तयुक्तैः
कीर्त्यादिशक्तिसहितैर्न्यसतु क्रमेण ।। क्रमदीपिका१.१३ ।।

अथ कथयाम्यर्णानां मूर्तीः
शक्तीः समस्तभुवनमयीः ।
केशवकीर्ती नारायणकान्ती
माधवस्तथा तुष्टिः ।। क्रमदीपिका१.१४ ।।

इत्युक्तप्रकारेण वपुः शरीरं अर्णशतार्धेन पञ्चाशद्वर्णैः आरचय्य रचयित्वा अनन्तरं तैरेव पञ्चाशद्वर्णैः सार्धक्षपेशसविसर्गकसोभयैः । अर्धक्षपेशेन सह वर्तन्त इति सार्धक्षपेशाः अर्धचन्द्रसहिताः तैः सानुस्वारैरित्यर्थः । सविसर्गकैः विसर्गसहितैः सोभयैरनुस्वारविसर्गसहितैः विन्यस्य तथादौ शरीरसम्पादनार्थं शुद्धेर्मातृकाक्षरैर्विन्यस्य तदनन्तरं तेष्वेव ललाटादिषु मातृकास्थानेषु अं नम इत्यादीन्क्षं नम इत्यन्तान्, तथा अः नम इत्यादीन्क्षः नम
इत्यन्तान्वर्णान्विन्यसेदित्यर्थः । एवं चतुर्विधो मातृकान्यास उक्तः ।

ननु, कथं अर्णशतार्धकेनेत्युक्तवर्णानां एकपञ्चाशत्त्वादित्युच्यते क्षकारेणाक्षरद्वयस्यैकीकरणात् । लत्वेन लकारद्वयस्यैकीकरणाद्वा । लोकप्रसिद्धेर्वा प्रकरणेनैकपञ्चाशत्सङ्ख्यायास्तात्पर्येऽधिगते पञ्चाशद्वर्ण एव कपञ्चाशत्सङ्ख्यापर इति प्रपञ्चसारविवरणे श्रीप्रेमानन्दभट्टाचार्यशिरोमणयः । वस्तुतस्तु अर्णशतार्धं च क चार्णशतार्धकं तेनाक्षराणां एकपञ्चाशत्त्वं आयातं । असमविभागे वा अर्धशब्दः । केशवन्यासं आहविन्यस्य केशवेति । केशवः पुरःसरः प्रथमो यासां मूर्तीनां ताः तथा च केशवादिमूर्तिसहितैः कीर्त्यादिशक्तियुक्तैश्च मातृकाक्षरैर्ललाटादिषूक्तस्थानेषु यथाक्रमं
न्यासः कार्यः ।। टीका १.१३१४ ।।

______________________________

गोविन्दः पुष्टियुतो विष्णुधृती सूदनश्च मध्वाद्यः ।
शान्तिस्त्रिविक्रमश्च क्रियायुतो वामनो दयायुक्तः ।। क्रमदीपिका१.१५ ।।

सूदनश्च मध्वाद्यः मधुसूदनः इत्यर्थः ।। क्रमदीपिका१.१५ ।।

______________________________

श्रीधरयुता च मेधा हृषीकनाथश्च हर्षया युक्तं ।
अम्बुजनाभश्रद्धे दामोदरसंयुता तथा लज्जा ।। क्रमदीपिका१.१६ ।।

हृषीकनाथो हृषीकेश इत्यर्थः । अम्बुजनाभः पद्मनाभः ।। टीका १.१६ ।।

______________________________

लक्ष्मीः सवासुदेवा सङ्कर्षणकः सरस्वतीयुक्तः ।
प्राद्यो द्युम्नः प्रीतिसमेतोऽनिरुद्धको रतिरिमाः स्वरोपेताः ।। क्रमदीपिका१.१७ ।।

प्राद्यो द्युम्नः प्रद्युम्नः ।। टीका १.१७ ।।

______________________________

चक्रिजये गदिदुर्गे शार्ङ्गी प्रभयान्वितस्तथा खड्गी ।
सत्या शङ्खीचण्डा हलिवाण्यौ मुसलियुग्बलासिन्किआ ।। क्रमदीपिका१.१८ ।।
शूली विज्या पाशी विरजा विशान्वितोऽम्बुशीर्भूयः ।
विमदा मुक्न्दयुक्ता नन्दजसुनन्दजे स्मृतिश्च नन्दियुता ।। क्रमदीपिका१.१९ ।।
नरऋद्धी नरकजितासमृद्धिरथ शुद्धियुग्घरिः कृष्णः ।
बुद्धियुतः सत्ययुतभक्तिर्मतियुक्तः स्यात्ततः शौरिः ।। क्रमदीपिका१.२० ।।
क्षमया शूरो रमया जनार्दनो मेचभूधरः क्लेदी ।
विश्वाद्यमूर्तियुक्ता क्लिन्ना वैकुण्ठयुक्तथा वसुदा ।। क्रमदीपिका१.२१ ।।

क्लेदी क्लेदिनीत्यर्थः । छन्दोभङ्गभयात्तथोक्तः । विश्वादिमूर्तिरिति विश्वमूर्तिरित्यर्थः ।। टीका १.१८२१ ।।

______________________________

पुरुषोत्तमश्च वसुधा बलिना च वरा बलानुजोपेता ।
भूयः परायणाख्या बालः सूक्ष्मा वृषघ्नसन्ध्ये च ।। क्रमदीपिका१.२२ ।।
सवृषा प्रज्ञा प्रभा वराहो निशा च विमलोऽमोघा ।
नरसिंहविद्युते च प्रणिगदिता मूर्तयो हलां शक्तियुताः ।। क्रमदीपिका१.२३ ।।

अमोघेति च्छेदः ।। टीका १.२२२३ ।।

______________________________
पूर्वोक्तकेशवादिमूर्तिकीर्त्यादिशक्तिन्यासप्रकारं दर्शयति

वर्णनुक्त्वा सार्धचन्द्रान्पुरस्तान्
मूर्तीः शक्तीर्ङेऽवसाना नतिं च ।
उक्त्वा न्यस्येत्यादिभि सप्तधातून्
प्राणं जीवं क्रोधं अप्यात्मनेऽन्तान् ।। क्रमदीपिका१.२४ ।।

पुरस्तात्प्रथमं वर्णानकारादिक्षकारऽन्तानुक्त्वा कथम्भूतान्वर्णान्सार्धचन्द्रान्सबिन्दूननन्तरं मूर्तीः केशवाद्याः शक्तीः कीर्त्याद्याः ङेऽवसानाः इत्युभयेन सम्बध्यते तन्न हृदयग्राहि प्रयासत्तेः लाघवाच्च अं केशवाय कीर्त्यै नम इति प्रयोगे केशवायेत्यत्र नमःपदस्य योगाभावाच्चतुर्थ्यनुपपत्तिः न हि विष्णवे सूर्याय नम इति भवति । भवति च विष्णवे नमः सूर्याय नम इति (तथा च केशवाय नमः कीर्त्यै नम इति) प्रयोगापत्तिः उभयत्र वा चकारो देयः समुच्चयख्यापनार्थः । स श्रिये चामृताय चेतिवत्तथा मातृकाक्षराणां अपि उभयसम्बन्धार्थं
द्विःप्रयोगापत्तिः । अं केशवकीर्तिभ्यां नम इति प्रयोगे तु नैते दोषाः पतन्ति तत्र द्वन्द्वसमासवशात्सहितावस्थितयोरेवोपस्थितौ चतुर्थ्यर्थान्वयसम्भवात्वर्नान्वयसम्भवाच्च अग्नीषोमयोरिव सहितावस्थितयोर्देवतात्वं । कथं तर्हि यादिषु त्वगादिप्रयोगः कार्यं ? इत्युच्यते यं त्वगात्मने पुरुषोत्तमवसुधाभ्यां नमः, रं असृगात्मने बलिपराभ्यां नम इत्येवं रूप इति । मन्त्रं उक्तावलिकारेण तथैवाभिधानात् । आत्मने इत्यस्य सुबन्तप्रतिरूपकनिपातत्वेनादोषादिति तु प्रपञ्चसारविवरणे परमानन्दभट्टाचार्याभ्याः । तथा च अं केशवकीर्तिभ्यां नम इति प्रयोगः
मन्त्रं उक्तावलीकारलघुदीपिकाकारत्रिपाठिरुद्रोपाध्यायविद्याधराचार्यपरमानन्दभट्टाचार्यसंमतः । अं केशवाय कीर्त्यै नम इति प्रयोगः पद्मपादाचार्यप्रभृतीनां संमत इति । ज्ञात्वा यथागुरुसम्प्रदायं व्यवहर्तव्यं इति । अत्रैव न्यासविशेषं आहयादिभिरिति यकाराद्यैर्दशभिरक्षरैः सह सप्त धातून्त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राख्यानात्मनेऽन्तानात्मने इति शब्दः अन्ते येषां ते तथा प्राणं जीवं क्रोधं च आत्मनेऽन्तं हृदयादिषु यथास्थानेषु विन्यस्येदित्यर्थः । प्राणं शक्तिं इत्यपि पाठान्तरं ।। टीका १.२४ ।।

______________________________

केशवादिन्यासे ध्यानं आहौद्यदिति ।

उद्यत्प्रद्योतनशतरुचिं तप्तहेमावदातं
पार्श्वद्वन्द्वे जलधिसुतया विश्वधात्र्या च जुष्टं ।
नानारत्नोल्लसितविविधाकल्पं आपीतवस्त्रं
विष्णुं वन्दे दरकमलक्ॐओदकीचक्रपाणिं ।। क्रमदीपिका१.२५ ।।

अहं विष्णुं वन्दे । कीदृशं ? उद्यन्नुदयं गच्छन्प्रद्योतनः सूर्यस्तस्य यच्छतं तस्येव रुचिदीप्तिर्यस्य तं पुनः तप्तेति वह्निमध्यनिक्षिप्तकाञ्चनवद्गौरं । पुनः कीदृशं पार्श्वद्वन्द्वे इति दक्षिणवामपार्श्वद्वये जलधिसुतया लक्ष्म्या तथा विश्वधात्र्या पृथिव्या जुष्टं सेवितं । पुनः किम्भूतं ? नानाविधरत्नेन शोभितो नाना बहुप्रकार आकल्पो भूषणं यस्य । पुनः कीदृशं ? आपीतेति आसम्यक्प्रकारेण पीते वस्त्रे यस्य तं । पुनः कीदृशं ? दरः शङ्खः पद्मं
कमलं क्ॐओदकी गदा चक्रं एतानि पाणौ यस्य तं । अत्र ऊर्ध्वाधः क्रमेण वामभागे शङ्खपद्मे दक्षिणभागे गदाचक्रे इति बोध्यं ।। टीका १.२५ ।।

______________________________

ध्यानन्यासयोः फलं आहध्यात्वैवं इति ।

ध्यात्वैवं परमपुमांसं अक्षरैर्यो
विन्यस्योद्दिनं अनु केशवादियुक्तैः ।
मेधायुःस्मृतिधृतिकीरित्कान्तिलक्ष्मी
सौभाग्यैश्चिरं उपबृंहितो भवेत्सः ।। क्रमदीपिका१.२६ ।।

एवं उक्तप्रकारं परमपुमांसं विष्णुं ध्यात्वा योऽनुदिनं प्रत्यहं केशवादिसहितैर्मातृकाकाऐर्विन्यस्येत्स पुरुषः । मेधादिभिश्चिरं बहुकालं उपबृंहित उपचितो भवति मेधा धारणावती बुद्धिः आयुर्जीवनं स्मृतिः स्मरणं धृतिर्धैर्यं कीर्तिरुत्कृष्टकर्मकथा कान्तिः सौन्दर्यं लक्ष्मीरैश्वर्यं सौभाग्यं सर्वप्रियत्वं ।। टीका १.२६ ।।

______________________________

न्यासविशेषं आहामुं इति ।

अमुं एव रमापुरःसरं
प्रभजेद्यो मनुजो विधिं बुधः ।
समुपेत्य रमां प्रथीयसीं
पुनरन्ते हरितां व्रजत्यसौ ।। क्रमदीपिका१.२७ ।।

यः पण्डितो मनुष्यः अमुं एव विधिं केशवादिन्यासप्रकारं रमापुरःसरं श्रीबीजं आदौ दत्त्वा प्रभजेत्करोति असौ पुमानिह लोके प्रथीयसीं महतीं रमां लक्ष्मीं समुपेत्य प्राप्य पुनरन्ते अवसाने हरितां विष्णुत्वं व्रजति प्राप्नोतीत्यर्थः ।। टीका १.२७ ।।

______________________________

तत्त्वन्यासं दर्शयतिइत्यच्युतीत्यादि ।

इत्यच्युतीकृततनुर्विदधीत तत्त्व
न्यासं मपूर्वकपराक्षरनत्युपेतं ।
भूयः पराय च तदाह्वयं आत्मने च
नत्यन्तं उद्धरतु तत्त्वमनून्क्रमेण ।। क्रमदीपिका१.२८ ।।

इति पूर्वोक्तप्रकारेण अच्युतीकृततनुः सम्पादितविष्णुशरीरः तत्त्व
न्यासं वक्ष्यमाणप्रकारं विदधीत कुर्यात् । प्रकारं दर्शयतिमः पूर्वो यस्य स मपूर्वः । कः परो यस्य स कपरः । नत्युपेतं नमःशब्दसहितं । तथा च मकारादिव्युत्क्रमेण ककारपर्यन्तं एकैकाक्षरं नमःपदसहितं कृत्वा भूयोऽनन्तरं परायेतिपदं दत्त्वा अनन्तरं तदाह्वयं तेषां तत्त्वानां आद्वयं वक्ष्यमाणं नाम दत्त्वा अनन्तरं आत्मने इति पदं दत्त्वा अनन्तरं नत्यन्तं नमःपदं अन्ते दत्त्वा क्रमेण तत्त्वमनून्तत्त्वमन्त्रानुद्धरतु ।। टीका १.२८ ।।

______________________________

अधुना तत्त्वानां नामानि न्यासं स्थानं च दर्शयति

सकलवपुषि बीजं प्राणं आयोज्य मध्ये
न्यसतु मतिं अहङ्कारं मनश्चेति मन्त्री ।
कमुखहृदयगुह्याङ्घ्रिष्वथो शब्दपूर्वं
गुणगणं अथ कर्तादिस्थितं श्रोत्रपूर्वं ।। क्रमदीपिका१.२९ ।।

सकलवपुषि सर्वाङ्गव्यापके जीवं प्राणं च मन्त्रे आयोज्य तेन न्यस्यतु तथा च मं नमः पराय जीवात्मने नमः भं नमः पराय प्राणात्मने नमः इति द्वयं सर्वशरीरे विन्यस्येदित्यर्थः । इति तत्त्वपदं दत्त्वा मं नमः पराय जीवतत्त्वात्मने नमः इति केचित्तत्प्रयोगान्कुर्वन्ति तन्न प्रमाणाभावात्मूर्तिपञ्जरन्यासेऽपि मूर्तिपदप्रयोगापत्तेः । अत्र मकरादीनां बिन्दुसाहित्यं सम्प्रदायावगतं बोद्धव्यं । मध्ये हृदये मतिं अहङ्कारं मनश्च मन्त्र आयोज्य तेन मन्त्री न्यस्यतु तथा बं नमः पराय मन आत्मने नमः फं
नमः पराय अहङ्कारात्मने नमः पं नमः पराय मन आत्मने नमः इति त्रयं हृदि विन्यस्येदित्यर्थः । अथोऽनन्तरं कमुखहृदयगुह्याङ्घ्रिषु पञ्चसु स्थानेषु शब्दपूर्वं गुणसमुदायं शब्दस्पर्शरूपरसगन्धात्मकं मन्त्रे आयोज्य तेन न्यस्यतु तथा च नं नमः पराय रूपात्मने नमः इति हृदये, थं नमः पराय रसात्मने नमः इति गुह्ये, तं नमः पराय गन्धात्मने नमः पादयोर्विन्यस्येदित्यर्थः । अथानन्तरं श्रोत्रत्वग्दृक्जिह्वाघ्राणात्मकं कर्णादिस्थितं कर्णत्वग्दृक्जिह्वाघ्राणेषु
स्थितं यथा स्यात्तथा न्यस्यतु तथा च णं नमः पराय श्रोत्रात्मने नमः इति श्रोत्रयोः ढं नमः पराय त्वगात्मने नमः इति त्वचि, डं नमः पराय दृगात्मने नमः इति नेत्रयोः । ठं नमः पराय जिह्वात्मने नमः इति जिह्वायां । टं नमः पराय घ्राणात्मने नमः इति घ्राणयोरिति विन्यस्येत् ।। टीका १.२९ ।।

______________________________

वागादीति ।

वागादीन्द्रियवर्गं आत्मनिलयेष्वाकाशपूर्वं गणं
मूर्ध्यास्ये हृदये शिरे चरणयोर्हृत्पुण्डरीकं हृदि ।
बिम्बानि द्विषडष्टयुग्दशकलाव्याप्तानि सूर्योडुराड्
वह्नीनां च यतस्तु भूतवसुं उष्यन्त्याक्षरैर्मन्त्रविथ् ।। क्रमदीपिका१.३० ।।

वागादीन्द्रियवर्गं वाक्पाणिपादपायूपस्थात्मकं कर्मेन्द्रियपञ्चकं मन्त्रे आयोज्य आत्मनिलयेषु मुखपाणिपादपायूपस्थेषु न्यस्यतु । तथा च अं नमः पराय वागात्मने नमः इति मुखे । झं नमः पराय पाण्यात्मने नमः इति पाण्योः । जं नमः पराय पादात्मने नमः इति पादयोः । छं नमः पराय पाय्वात्मने नमः इति पायौ । चं नमः पराय उपस्थात्मने नमः इत्युपस्थे विन्यस्येदित्यर्थः । आकाशपूर्वं गणं आकाशवाय्वग्निजलपृथिव्यात्मकं मन्त्रे आयोज्य मूर्धन्यास्ये हृदये शिवे लिङ्गे चरणयोर्न्यस्यतु
 । तथा च ङं नमः पराय आकाशात्मने नमः इति शिरसि । धं नमः पराय वाय्वात्मने नमः इति मुखे । गं नमः परायाग्न्यात्मने नमः इति हृदये । खं नमः पराय जलात्मने नमः इति लिङ्गे । कं नमः पराय पृथिव्यात्मने नमः इति पादयोर्न्यस्येदित्यर्थः । हृत्पुण्डरीकं इत्यादेरयं अर्थः । हृत्पुण्डरीकं तथा सूर्योड्डराद्वह्नीनां बिम्बानि सूर्यचन्द्राग्नीनां मण्डलानि त्रीणि द्विषडष्टयुग्दशकलाव्याप्तानि द्वादशषोडशदशकलायुक्तानि यतस्तु भूतवसुमुन्यक्ष्यक्षरैः यतो यकाराद्यो
भूतवर्णः पञ्चमवर्णः शकारः वसुवर्णोऽष्तमार्णो हकारः मुनिवर्णः सप्तमः सकारः अक्षिवर्णो द्वित्यवर्णो रेफः । एतैश्च सहितानि मन्त्रे आयोज्य हृदि न्यस्यतु । तथा चशं नमः पराय हृत्पुण्डरीकात्मने नमः । हं नमः पराय द्वादशकलाव्याप्तसूर्यमण्डलात्मने नमः । सं नमः पराय षोडशकलाव्याप्तचन्द्रमण्डलात्मने नमः । रं नमः पराय दशकलाव्याप्तवह्निमण्डलात्मने नमः इति चतुष्टयं हृदये न्यस्यतु ।। टीका १.३० ।।

______________________________

अथ परमेष्ठिपुमांसौ विश्वनिवृत्ती सर्वहत्युपनिषदं
न्यसेदाकाशादिस्थानस्थानषोयबलवार्थिः सलावः ।। क्रमदीपिका१.३१ ।।

अथानन्तरं परमेष्ठिपुमांसौ विश्वनिवृत्ती सर्व इत्युपनिषदो रहस्यान्षोपरबलार्णैरिति षकारः रेफस्य उप समीपं तेन रेफसमीपवर्तिनौ यकारलकारौ लक्ष्येते वकारो लकारश्च एतैः सलवकैर्बिन्दुसहितैः सहितानाकाशादिस्थाने न्यस्येदाकाशादि न्यासस्थानेषु मूर्ध्न्यास्ये हृदये लिङ्गे चरणयोर्न्यस्येत् ।। टीका १.३१ ।।

______________________________

अत्रैव विशेषं आहवासुदेव इति ।

वासुदेवः सङ्कर्षणः प्रद्युम्नाश्चानिरुद्धकः
नारायणश्च क्रमशह्परमेष्ठ्यादिभिर्युतः ।। क्रमदीपिका१.३२ ।।

क्रमशः क्रमेण परमेष्ट्यादिभिः सहिता वासुदेवादयो न्यस्नीया तथा च षं नमः पराय वासुदेवाय परमेष्ठ्यात्मने नमः इति शिरसि । यं नमः पराय सङ्कर्षणाय पुरुषात्मने नमः इति मुखे, लं नमः पराय प्रद्युम्नाय विश्वात्मने नम इति हृदये । वं नमः पराय अनिरुद्धाय निवृत्त्यात्मने नम इति लिङ्गे, लं नम इति हृदये । वं नमः पराय अनिरुद्धाय निवृत्यात्मने नम इति लिङ्गे । लं नमः पराय नारायणाय सर्वात्मने नम इति चरणयोः । विन्यस्येदित्यर्थः । केचित्तु परमेष्ठ्यादेरनन्तरं वासुदेवादेः
प्रयोगं कुर्वन्ति ।। टीका १.३२ ।।

______________________________

ततः कोपतत्त्वं क्षरौ विन्दुयुक्तं
नृसिंहं न्यसेत्सर्वगात्रेषु तज्ज्ञः ।
क्रमेणेति तत्त्वात्मको न्यास उक्तः
स्वासान्निकृद्विश्वमूर्त्यादिषु स्याथ् ।। क्रमदीपिका१.३३ ।।

ततस्तदनन्तरं क्रमेण गुरूपदेशक्रमेण तज्ज्ञः नृसिंहबीजज्ञः क्षरौ क्षकाररेफाउकार इति मिलितस्वरूपं बिन्दुयुक्तं तथा कोपतत्त्वं नृसिंहं च मन्त्रे आयोज्य सर्वगात्रेषु न्यस्येत् । तथा चक्ष्र्ॐ नमः पराय नृसिंहाय कोपात्मने नमः इति सर्वगात्रेषु न्यस्येदित्यर्थः । तत्त्वन्यासं उपसंहरति इत्युक्तप्रकारेण तत्त्वात्मको न्यासः कथितो भवति । कीदृशः ? विश्वमूर्त्यादिषु स्वसान्निध्यकृत्कृष्णसान्निध्यकृत्बिम्बादिष्विति केचिद्बिम्बं प्रतिमा मूर्तिः शरीरं आदिपदेन मणिमन्त्रादिसकलस्य
परिग्रहः एतेषु हरेः सान्निध्यं करोतीत्यर्थः । क्वचिन्मर्त्यादिष्विति पाठः ।। टीका १.३३ ।।

______________________________

एतन्न्यासप्रयोजनं आहैति कृत इति ।

इति कृतोऽधिकृतो भवति ध्रुवं
सकलवैष्णवमन्त्रजपादिषु ।
पवनसंयवलतत्त्वमनुना चरेत्
तत्त्वं इह जप्तुं असौ मनुच्छति ।। क्रमदीपिका१.३४ ।।

तत्त्वन्यासे कृते ध्रुवं निश्चितं अधिकृतो भवति न केवलं गोपालविषयमन्त्रकथनादत्रैव अपि तु सकलवैष्णवमन्त्रजपादिष्वपीत्यर्थः । अधुना प्राणायामप्रकारं आहपवनसंयमनं इति । असौ साधकः यं मनुं इह व्यवहारभूमौ जप्तुं इच्छति अमुना मन्त्रेण पवनसंयमनं प्राणायामं चरतु कुर्यादित्यर्थः ।। टीका १.३४ ।।

______________________________

अत्रैव प्रकारान्तरं आहाथवेति ।

अथवाखिलेषु हरिमन्त्र
जपविधिषु मूलमन्त्रतः ।
संयमनं अमलधीर्मरुतो
विधिनाभ्यसंश्चरतु तत्त्वसङ्ख्यया ।। क्रमदीपिका१.३५ ।।

मूलमन्त्रतो मूलमन्त्रेण । वक्ष्यमाणदशाक्षरेणेति केचित् । वस्तुतस्तु सप्ताक्षरगोपीजनवल्लभमन्त्रेण तस्यैव मूलमन्त्रत्वेनाभिधानात्तद्वचनस्य प्रयोजनान्तराभावात्तत्त्वसङ्ख्ययाष्टाविंशतिवारं चतुर्विंशतिवारं इति केचित् ।। टीका १.३५ ।।

______________________________

पुरतो जपस्य परतोऽपि
विहितं अथ तत्त्रयं बुधैः ।
षोडश य इह समाचरेद्दिनेशः
परिपूयते स खलु मासतोऽं हंसः ।। क्रमदीपिका१.३६ ।।

पुरतो जपादौ पश्चाच्च तत्त्रयं बुधैर्विहितं प्राणायामत्रयं, रेचकादित्रयं इति केचित् । एतेन जपाङ्गत्वाच्च तत्राद्यन्तेऽयं दर्शितः ।। टीका १.३६ ।।

सनातनःः जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु कालः । तत्त्रयं प्राणायामत्रयं इति सङ्ख्या । यो जनो दिनशः प्रत्यहं षोडशप्राणायामानाचरेत्, स मासतः मासेनैकेन अंहसः पापात्परिपूयते शुद्धो भवतीति सामान्यतः फलं । परं च सर्वं पुर्वं लिखितं एव ।। (हरिभक्तिविलास ५.१३२)

______________________________

अत्रैव प्रकारान्तरं आहाथवेति ।

अयवाङ्गजन्मममुनानुसुसंयमं
सकलेषु कृष्णमनुजापकर्मसु ।
सहिऐकसप्तकृतिवारं अभ्यसेत्
तनुयात्समस्तदुरितापहारिणा ।। क्रमदीपिका१.३७ ।।

कृतीति कृतिच्छन्दसो विंशत्यक्षरत्वात्सहितं एकं यत्र तादृशसप्तकृतिवारं । अथवा सहितानि मिलितानि एक सप्तकृतयः उभयत्राष्टाविंशतिवारं इत्यर्थह् । सर्वेषु कृष्णमनुजापकर्मसु अङ्गजन्ममनुना कामबीजेन प्राणायामं अभ्यसंस्तनुयात् । प्रथमं एकं ततः सप्त ततो विंशति ततोऽभ्यासपाटवेऽष्टाविंशतिवारं इत्यर्थः । कश्चित्तु प्रथमं सप्त ततो विंशतिस्तत एकं ततोऽष्टाविंशतिवारं अभ्यासक्रमेणेति तात्पर्यं आह तत्र प्रमाणं स एव प्रष्टव्यः ।। टीका १.३७ ।।

______________________________

मन्त्रविशेषप्राणायामप्रकारं आहाष्टाविंशतीति ।

अष्टाविंशतिसङ्ख्यं इष्टफलदं मन्त्रं दशार्णं जपन्
नायच्छेत्पवनं सुसंयतमतिस्त्वष्टौ दशार्णेन चेत् ।
अभ्यस्यन्नविवारं अन्यं अनुभिर्वर्णानुरूपं जपन्
कुर्याद्रेचकपूर्वकं अनिपणः प्राणप्रयोगं नरः ।। क्रमदीपिका१.३८ ।।

सुसंशितमतिर्विमलबुद्धिः अष्टाविंशतिसंख्यं दशार्णं दशाक्षरमन्त्रं जपन्प्रायच्छेत्प्राणायामं कुर्यात्कीदृशं दशार्णं इष्टफलदं स्वाभिमतफलदं तत्र दशाक्षरमन्त्रस्य वारचतुष्टयं जपेन रेचकं । अष्टवारजपेन पूरकं षोडशवारजपेन कुम्भकं कुर्यादिति गुरुसम्प्रदायः । अष्टादशार्णे चेत्प्राणायामः क्रियत इति शेषः । तदा रविवारं द्वादशवारं अभ्यस्यन्प्राणायामं कुर्यादिति गुरुसम्प्रदायः । अन्यमनुभिरन्यमन्त्रैश्चेत्प्राणायामः
क्रियते । तदा वर्णानुरूपं मन्त्रवर्णानां तारतम्येन जपं कुर्वन्कुर्यात् । अत्र स्वल्पाक्षरैर्मन्त्रैर्बहुवारं अनल्पाक्षरैर्मन्त्रैः स्वल्पवारं जपेदित्यर्थः । कीदृशः ? साधकः रेचकपूरककुम्भकाख्यकर्मकुशल इत्यर्थः । रेचकस्य त्यागस्य पूर्वकर्मणी पूरककुम्भके तत्र निपुणा इति रुद्रधरः । तच्चिन्त्यं एवं अपि रेचके नैपुण्यालाभात्प्रपञ्चसारानुसारिणोऽस्य ग्रन्थस्य शारदाग्रन्थानुयायित्वाच्च ।। टीका १.३८ ।।

______________________________

अधुना प्राणायामप्रकारं दर्शयतिरेचयेन्मारुतं इति ।

रेचयेन्मारुतं दक्षया दक्षिणः
पूरयेद्वामया मध्यनाड्या पुनः ।
धारयेदीरितं रेचकादित्रयं स्यात्
कलादन्तविद्याख्यमात्राच्युकं ।। क्रमदीपिका१.३९ ।।

दक्षिणो विचक्षणः पुरुषः दक्षया दक्षिणनाड्या मारुतं वायुं रेचयेत्त्यजेत्तथा वामया वामनाड्या त्यक्तवायुं पूरयेद्मध्यया सुषुम्णया नाड्या मारुतं वायुं धारयेदित्युक्तप्रकारेण रेचकादित्रयं रेचकपूरककुम्भकाख्यत्रितयं ईरितं कथितं रेचकादिष्ववधि कालं आहकलादन्तेति । कलाः षोडश, दन्ता द्वात्रिंशद्, विद्याः चतुःषष्ठिरूपा एतत्सङ्ख्याकमात्रात्मकं इत्यर्थः । अत्र भैरवत्रिपाठिनो यत्र मन्त्रगणनया प्राणायामः । तत्र कुम्भककाल एवोक्तः श्वासाभ्यासक्रमेण
प्राणायामसङ्ख्यया मन्त्रजपः कार्यो निर्गमप्राणायामे तु रेचकादिगणना कार्येत्याहुः । मात्रशब्देन च वामाङ्गुष्ठे कनिष्ठाद्यङ्गुलीनां प्रत्येकं पर्वत्रयस्पर्शकालः कथ्यते वामहस्तेन वामजानुमण्डलस्य प्रादक्षिण्येन स्पर्शकालश्च । यदत्र रुद्रोपाध्यायैरुक्तं यद्यप्यत्र रेचकं प्रथमं उक्तं तदनन्तरं पूरकं तथापि प्रथमं पूरकं अनन्तरं कुम्भकं ज्ञेयं यतो गृहीतघृतस्य त्यागो भवति । यत्पुनर्व्यत्यासेन कथनं तद्गोपनाय एवं कलादन्तेत्याद्यपि व्यत्यासेन बोद्धव्यं । इड्योत्कर्षयेद्वायुं इत्यादि शारदादर्शनात् । एवं च गृहीतचतुर्गुणेन
धारणं तदर्धेन त्याग इत्यपि दर्शितं भवतीति, तन्न प्रपञ्चसारानुसारिणो ग्रन्थस्यास्य शारदानुयायित्वात्प्रपञ्चसारे रेचकादित्वस्यैवोक्तत्वात्पूरकादित्वस्याष्टाङ्गयोगान्तर्भूतप्राणायामविषयत्वात् । यदुक्तं गृहीतस्य त्यागो भवति तत्रोच्यते स्वाभाविकवायुधारणस्यात्रापि सत्त्वादन्यथा शरीरपातापत्तेः । यदुक्तं व्यत्यासेन गोपनार्थं कथनं इति तदयुक्तं । मन्त्रभिन्नस्यानुष्ठानभागस्य ऋजुमार्गेणैव वक्तुं युक्तत्वात् । यदुक्तं गृहीतचतुर्गुणेनैव धारणं तदर्धेन त्याग इति तदप्ययुक्तं प्रमाणाभावात् । दक्षिणामूर्तिसंहितायां अङ्गुलीनियमोऽपि प्राणायामे कथितो, यथा
       कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणं ।
       प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ।। इति ।। टीका १.३९ ।।

सनातनःः तदेव क्रमदीपिकोक्त्या संवादयन्तत्रैव किंचिद्विशेषं च दर्शयतिरेचयेदिति । दक्षया दक्षिणनाड्या, दक्षिणः विद्वान्जनः । मध्यनाड्या सुषुम्णया धारयेत् । एवं रेचकपूरककुम्भकाख्यं त्रयं स्यात् । रेचकादिषु त्रिषु क्रमेणावधिकालं आहकलाः षोडश । दन्ता द्वात्रिंशत् । विद्याश्चतुःषष्ठिस्तत्तत्सङ्ख्यकमात्रात्मकं इत्यर्थः । मात्रा चवामाङ्गुष्ठेन वामकनिष्ठाद्यङ्गुलीनां प्रत्येकं पर्वत्रयसम्पर्ककालः । वामहस्तेन वामजानुमण्डलस्य प्रादक्षिण्येन
स्पर्शकालो वा । तत्राप्यङ्गुलिनियमोऽप्युक्तः
कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणं ।
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ।। इति ।

तत्र तेषु प्राणायामेषु पुर्वं रेचकादिषु सङ्ख्योक्ता । अत्र च प्राणायामेष्विति भेदः ।। [हरिभक्तिविलासे ५.१३१]

______________________________

प्रकृतं उपसंहरन्नात्मयागार्थं देहे पीठकल्पनां दर्शयतिप्राणायामं इत्यादिना ।

प्राणायामं विधायेत्यथ निजवपुषा कल्पयेद्योगपीठं ।
न्यस्येदाधारशक्तिप्रकृतिकमठक्षमाक्षीरसिन्धून् ।
श्वेतद्वीपं च रत्नोज्ज्वलमहितमहामण्डपं कल्पवृक्षं ।
हृद्देशेऽंशद्वयोरूद्वयवदनकटीपार्श्वयुग्मेषु भूयः ।। क्रमदीपिका१.४० ।।

धर्माद्यधर्मादि च पादगात्र
चतुष्टयं हृद्यथ शेषमन्त्रं ।
सूर्येन्दुवह्नीन्प्रणवऽंशयुक्तान्
स्वाद्यक्षरैः सत्त्वरजस्तमांसि ।। क्रमदीपिका१.४१ ।।

इति पूर्वोक्तप्रकारेण प्राणायामं विधाय कृत्वा अथानन्तरं निजवपुषा निजशरीरेण यागपीथं पूजापीठं कल्पयेत्कल्पनाप्रकारं आहन्यस्येदिति । हृद्देशे हृदि आधारशक्त्यादिकल्पवृक्षान्तं न्यसेत् । कमठः कूर्मः शेषोऽनन्तः क्षीरसिन्धुः क्षीरसमुद्रः रत्नेन उज्ज्वलः महितो यः महामण्डपः रत्नमण्डपः इति यावत्तथा चाधारशक्तये नमः प्रकृत्यै नम इति नवकं न्यसेद्हृदीत्यर्थह् । भूयोऽअनन्तरं अंसद्वयोरुद्वयवदनकटीपार्श्वयुग्मेषु धर्माद्यधर्मादिपादगात्रचतुष्टयं
विन्यस्येत् । पादगात्रयोश्चतुष्टयं पादगात्रचतुष्टयं इत्युभयत्र सम्बध्यते । पादचतुष्टयं गात्रचतुष्टयं धर्मादिधर्मज्ञानवैराग्यैश्वर्यरूपपादचतुष्टयं । अंसद्वयोरुद्वये च धर्माय नमः दक्षिणोरौ, इत्येवं प्रादक्षिण्यक्रमेण विन्यसेत् । शारदायां मुखपार्श्वनाभिपार्श्वेष्विति क्रमदर्शनात् । एतच्च भैरवत्रिपाठिनोऽपि संमतं । एतेषु यथाश्रुतक्रमेणैवेति विद्याधराचार्याः । अथानन्तरं शेषं अनन्तं अब्जं पद्मं सूर्येन्दुवह्नीन्सूर्यसोमाग्निमण्डलानि । कीदृशान्? तान्प्रणवांशयुक्तान्प्रणवस्योङ्कारस्यांशाः
 । अवयवा अकारोकारमकारास्तैर्युक्तान्सहितान्तत्रादौ सबिन्दुप्रणवांशादिसाहित्यं सम्प्रदायतो बोद्धव्यं । स्वाद्यक्षरैः सबिन्दुस्वीयस्वीयप्रथमाक्षरैः सहितानि सत्त्वरजस्तमांसि तथा च हृत्पद्मे अनन्ताय नमः, पद्माय नमः, अं द्वादशकलाव्याप्तसूर्यमण्डलात्मने नमः, उं षोडशकलाव्याप्तचन्द्रमण्डलात्मने नमः, मं दशकलाव्याप्तवह्निमण्डलात्मने नमः, सं सत्त्वाय नमः, रं रजसे नमः, तं तमसे नमः ।। टीका १.४०४१ ।।

______________________________

आत्मादित्रयं आत्मबीजसहितं व्योमाग्निमायालवैर्
ज्ञानात्मानं अथाष्टदिक्षु परितो मध्ये च शक्तीर्नव ।
न्यस्त्वा पीठं अनुं च तत्र विधिवत्तत्कर्णिकामध्यगं
नित्यानन्दचितिप्रकाशं अमृतं संचिन्तयेन्नाम तथ् ।। क्रमदीपिका१.४२ ।।

आत्मादित्रयं आत्मान्तरात्मा परमात्मेति लक्ष्यं । कीदृशं ? आदिबीजसहितं सबिन्दुं स्वीयस्वीयप्रथमाक्षररूपबीजसहितं इति विद्याधराचार्याः । आदिः प्रणवस्तत्सहितं इति त्रिपाठिनः । व्योम हकारः । अग्निः रेफः । माया दीर्घः ईः । लवो बिन्दुः । एतैः सह ज्ञानात्मानं भुवनेश्वरीबीजसहितं हृत्पद्मे न्यसेदिति पूर्वेणान्वयः । तथा च आं आत्मने नमः । अं अन्तरात्मने नमः । पं परमात्मने नमः । ह्रीं ज्ञानात्मने नमः । इति हृदि विन्यसेत् । अथानन्तरं अष्टदिक्षु परितः
प्रादक्षिण्येन मध्ये च कर्णिकायां नवशक्तीर्विमलोत्कर्षिण्याद्या न्यस्येत् । पद्मस्य पूर्वादिकेसरेषु प्रादक्षिण्येन विमलायै नमः । उत्कर्षिण्यै नमः । ज्ञानायै नमः । क्रियायै नमः । योगायै नमः । प्रह्वयै नमः । सत्यायै नमः । ईशानायै नमः । कर्णिकायां अनुग्रहायै नमः । इति न्यसेत् । पीठमन्त्रं च तत्र न्यस्यः । एतस्योपरि वक्ष्यमाणं पीठमन्त्रंओं नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयौगपद्यपीठात्मने नमः इति मन्त्रं न्यसेत् । तदुक्तरूपे पीठे विधिवद्गुरूपदिष्टमार्गेण
तत्सर्वोपनिषत्प्रसिद्धं धाम ब्रह्मचैतन्यं चिन्तयेत् । कीदृशं ? तत्कर्णिकामध्यगं हृत्पद्मकर्णिकामध्यस्थं इत्यर्थः । एतद्ध्यानोपयोगिरूपं उक्तं स्वाभाविकरूपं आह । कीदृशं ? नित्येति अविनाशिचैतन्यं स्वतःप्रकाशस्वरूपं । पुनः कीदृशं ? अमृतं शुद्धस्वरूपं इत्यर्थः । तत्राधारशत्त्यादयः सर्वे मन्त्राः प्रणवादिचतुर्थी नमोऽन्ताः सम्प्रदायतो बोद्धव्याः ।। टीका १.४२ ।।

______________________________

पीठशक्तीर्दर्शयति

विमलोत्कर्षणी ज्ञाना क्रिया योगेति शक्तयः ।
प्रह्वी सत्या तथेशानाऽनुग्रा नवमी तथा ।। क्रमदीपिका१.४३ ।।

विमलेति ।। टीका १.४३ ।।

______________________________

पीठमन्त्रं उद्धरतितारं इत्यादिना ।

एवं हृदयं भगवान्विष्णुः सर्वान्वितश्च भूतात्मा ।
ङेऽन्ताः सवासुदेवाः सर्वात्मयुतं च संयोगं ।। क्रमदीपिका१.४४ ।।
योगावधश्च पद्मं पीठात्ङेयुतो नतिश्चान्ते ।
पीठमहामनुर्व्यक्तः पर्याप्तोऽयं सपर्यासु ।। क्रमदीपिका१.४५ ।।

तारः प्रणवः । हृदयं नमः । भगवानिति च विष्णुरिति च सर्वान्वितः सर्वपदसहितः भूतात्मा सर्वभूतात्मेति । एते त्रयः सवासुदेवाः वासुदेवेन सह चत्वारः प्रत्येकं ङेऽन्ताश्चतुर्थ्यन्ताः कार्याः । सर्वात्मयुतश्च संयोगः सर्वात्मसंयोग इति स्वरूपं योगावधौ योगशब्दान्ते पद्मपद्मेति स्वरूपं ङेयुतः पीठात्मा चतुर्थ्यन्तः पीठात्मा एतस्यान्ते नतिर्नमःशब्दः । उपसंहरति पीठेति अयं पीठमहामनुरुक्तः कथितः । कीदृशः ? सपर्यासु पूजासु पर्याप्तः समर्थः
 ।। टीका १.४४४५ ।।

सनातनःः तारः प्रणवः । ततो हृदयं नम इति पदं । ततश्च भगवानिति विष्णुरिति च । सर्वान्वितः सर्वशब्दयुक्तो भूतात्मा सर्वभूतात्मेति । एते त्रयः सवासुदेवा वासुदेवसहिताः प्रत्येकं ङेऽन्ताश्चतुर्थ्यन्ताः । ततश्च सर्वात्मना युतं संयोगं सर्वात्मसंयोगं इति नपुंसकत्वं आर्षं । ततश्च योगस्यावधौ अन्ते पद्मं योगपद्मं इति । तदन्ते ङेयुक्तश्चतुर्थ्यन्तः पीठात्मा । तदन्ते च नतिः नमःशब्दः । एवं ओं नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयोगपद्मपीठात्मने नम
इति सिद्धं । तथा च शारदातिलके

नमो भगवते ब्रूयाद्विष्णवे च पदं वदेत् ।
सर्वभूतात्मने वासुदेवायेति वदेत्ततः ।।
सर्वात्मसंयोगपदाद्योगपद्मपदं पुनः ।
पीठात्मने हृदन्तोऽयं मन्त्रस्तारादिरीरितः ।। इति ।

सनत्कुमारकल्पे च
       ओं नमः पदं आभाष्य तथा भगवतेपदं ।
       वासुदेवाय इत्युक्त्वा सर्वात्मेति पदं तथा ।।
       संयोगयोगेत्युक्त्वा च तथा पीठात्मने पदं ।
       वह्निपत्नीसमायुक्तः पीठमन्त्र इतीरितः ।। इति ।। [ह.भ.वि. ५.१४४५]

______________________________

करशोधनं दर्शयतिकरयोरित्यादिना ।

करयोर्युगलं विधाय
मन्त्रात्मकमभ्यानभिराम्यमानमार्गात् ।
सकलं विदधीत मन्त्र
वर्णैः परमं ज्योतिरनुत्तमं हरेस्तथ् ।। क्रमदीपिका१.४६ ।।

करयोर्युगलं अभिधास्यमानमार्गात् । व्यापय्येत्यारभ्य विधिः समीरितः करे इत्यन्तं वक्ष्यमाणप्रकारेण मन्त्रवर्णैर्मन्त्रात्मकं मन्त्रस्वरूपं विधाय कृत्वा आभ्यां कराभ्यां सकलं पूर्वोक्तं वक्ष्यमाणं च न्यासपूजादिकं विदधीत कुर्यात् । मन्त्रवर्णकरणककारशोधने हेतुं आहपरमं इत्यादिना । यस्मात्तन्मन्त्रवर्णं हरेः कृष्णस्य परमं तेजःस्वरूपं इत्यर्थः । कीदृशं ? पुनः अनुत्तमं नास्त्युत्तमं यस्मात्तथेत्यर्थः । सकलं विदधीतेति परत्रापि काकाक्षिगोलकन्यायेन योजनीयम्
 । तथा च तद्हृदयपङ्कजस्थं हरेरनुत्तमं ज्योतिस्तेजः सकलं विदधीत षडङ्गन्यासेन सावयवं कुर्यादिति लघुदीपिकाकारः ।। टीका १.४६ ।।

इति श्रीकेशवाचार्यविरचितायां क्रमदीपिकायां प्रथमः पटलः ।।१ ।।