क्रियाधिकारः/अष्टादशोऽध्यायः

← सप्तदशोऽध्यायः क्रियाधिकारः
अष्टादशोऽध्यायः
[[लेखकः :|]]
एकोनविंशोऽध्यायः →


अष्टादशोऽध्याय:
पुण्यनक्षत्रपूजनम्
(1)अथातस्संप्रवक्ष्यामि पुण्यनक्षत्रपूजनम्।
श्रवणं द्वादशी एर्वं विष्णुपञ्चदिनानि वै (1.) अस्मिन्नध्याये प्रारम्भात्प्रभृति सप्तदशश्चेकपर्यन्तो ग्रन्ध: मातृकान्तरेषु कुत्रापि नोप लभ्यते ।।
प्रशस्तं श्रवणं तेषु द्वादशी चोत्तमा मता।
विषुवायनामासर्क्षग्रहणेष्वन्यसङ्क्रमे ।।
कर्तृभूपर्क्षयोश्चैव ग्रामनक्षत्र एव वा।
कृत्वाऽङ्कुरार्पणं तद्वद्वद्ध्वा प्रतिसरं तथा ।।
शाययेंत्पूर्वरात्रौ तु प्रातस्स्नात्वा यथाविधि।
प्रातस्सन्ध्यार्चनान्ते तु मन्त्रांस्तीर्थदिनोदितान् ।।
नित्याग्निकुण्डे हुत्वा तु चक्रवीशामितैस्सह।
उत्सवोक्तक्रमेणैव ग्रामसन्धौ बलिं ददेत् ।।
उत्सवं विधिनां कृत्वा तीर्थं पूर्ववदाचरेत्।
स्नपनोक्तप्रकारेण स्नापयित्वा तत: परम् ।।
समभ्यर्च्यं निवेद्यैव जीवस्थाने निवेशयेत्।
शान्तिकोत्सवमुद्दिष्टमेतं पूर्वाड्णा आचरेत् ।।
विनैव बलिहोमाभ्यां मध्याह्रे पौष्टिकोत्सवम्।
तीर्थं विनाऽपराह्णे तु कुर्यात्काम्योत्सवं बुध: ।।
अर्चायां शान्तिकं कर्म काम्यमौत्सव एव वा।
औत्सवं स्नापयित्वाऽह्रि रात्रावास्थानमण्डपे ।।
सर्वोपचारैरभ्यर्च्य पायसादिहर्वीषि च।
सर्वप्रयत्नैर्नैवेद्यं कुर्यादेवमतन्द्रित: ।।
एवं कर्तुमशकृतश्चेद्दिनेष्वेषु यथाविधि।
संस्नाप्य गन्धतोयेन शुद्धस्नानोक्तमार्गत: ।।
द्वात्रिशद्विग्रहैर्देवमर्चयेत्वरया मुदा।
तत्रापि बलिवेलायां यानमारोप्य पूर्ववत् ।।
देवमेवं नयेत्समृयगालये तु प्रदक्षिणम्।
जीवस्थाने प्रतिष्ठाप्य शेषं तत्र समाचरेत् ।।
विष्णुपञ्चदिनस्नाने कालो मध्याह्र उच्यते।
विषूपरागायनेषु तत्कालात्पूर्वमाचरेत् ।।
हविष्पाकोक्तविधिना पाकेष्वाग्रयणं चरेत्।
आहृतानि च धान्यानि विविधानि फलानि च।
सर्वानथोपदंशांश्च नवानि वसननि च।
सर्वाण्याहृत्य यत्नेन सर्वमङ्गलसंयुतम् ।।
जपेच्छकुनसूक्तन्तु कुर्याद्ग्रामप्रदक्षिणम्।
अलङ्कत्याग्रतश्चकं नयेदिति च केचन ।।
हव: पाकविधि
अत: परं प्रवक्ष्यामि हविष्पाकविधिं परम्।
हविरुद्दिश्य धान्यानि चोपदशांस्तथाऽऽहरेत् ।। 18.1 ।।
शालिव्रीहिप्रियङ्गूनि नीचवारं षाष्टिकं तथा।
यवञ्च वेष्णुकञ्चैव प्रशस्तानि विदुर्बुधा: ।। 18.2 ।।
व्री?हीणामपि सर्वेषां कृष्णधान्यं विसर्जयेत्।
सर्वेषां व्रीहिधान्यानां शालिर्दशगुणो भवेत् ।। 18.3 ।।
शतगुण: प्रियङ्गु: स्यान्नीवारन्तु सहस्रकम्।
अयुतं गर्भषष्टि: स्यात् अनन्तं यववेणुक ।। 18.4 ।।
चतुर्वर्णाहृतं धान्यं प्रशस्तमभिधीयते।
अन्त्यजै: प्रतिलोमैश्च नीलं धान्यं विवर्जयेत् ।। 18.5 ।।
अथवा पण्यलब्धञ्च धान्यं शुद्धं समाहेत्।
त्रिवर्षातीतधान्यानि न प्रशंसन्ति दैविके ।। 18.6 ।।
तण्डुलानाञ्च सर्वेषां मासातीतानि वर्जयेत्।
'आपो हि' ष्ठेति मन्त्रेण प्रोक्ष्य धान्यानि चाऽहरेत् ।। 18.7 ।।
आलये वा गृहे वाऽपि शुद्धे देशे समाहित:।
विताने वा कटे वाऽपि समास्तीर्य विधानत: ।। 18.8 ।।
आतपेन तथा शोष्य विश्वामित्रान् परावपेत्।
ततो धान्यं सुमङ्गृह्य पलालेषु च निक्षिपेत् ।। 18.9 ।।
पलालोन समाबध्द्य गजस्कन्दे निधाय च।
सर्ववाद्यसमायुक्तं सर्वालङ्गारसंयुतम् ।। 18.10 ।।
वेदघोषसमायुक्तं पूर्णकुम्भाङ्कुरैर्युतम्।
अलङ्कत्याऽलयं सर्वं पूर्णकुम्भाङ्कुरैरपि ।। 18.11 ।।
दीपैश्च बहुभिश्शस्तै: कदलीक्रमुकैरपि।
देवालयं शनैर्नीत्वा देवाग्रे तानि विन्यसेत् ।। 18.12 ।।
तेषु वायुं समभ्यर्च्य तथैकादशविग्रहै:।
श्रीसूक्तेन श्रियं देवीं संस्तूय प्रणिपत्य च ।। 18.13 ।।
'श्रिये जा' तेति मन्त्रेण गृड्णीयाद्धान्यमत्वर:।
अवघातं पुन: कुर्याद्धविष्पाकोक्तमार्गत: ।। 18.14 ।।
तण्डुलांश्चापि शुद्धांस्तु तत: पात्रे समाहरेत्।
हवींषि चोपदंशाश्च पाचयित्वा यथाविधि ।। 18.15 ।।
तण्डुलान्क्षालितानद्भि: शर्करागुडमिश्रितान्।
मरीचिजीरकैश्चैव नारिकेलफलैरपि ।। 18.16 ।।
सघृतं देवदेवाय मन्त्रवत्तान्निवेदयेत्।
तैरेव तण्डुलैर्हुत्वा परिवारबलिं ददेत् ।। 18.17 ।।
पुनराचमनं दत्वा मुखवासं निवेदयेत्।
पुनरभ्यर्च्य देवेशमुपदंशादिभिर्युतम् ।। 18.18 ।।
निवेदयेद्धवि: पश्चान्मूर्तिहोमं तथ्?ौव च।
परिवारबलिं दत्वा पानीयाचमनं ददेत् ।। 18.19 ।।
मुखवासं निवेद्यैव 'क्षम' स्वेति प्रणम्य च।
पश्चात्पुष्पाञ्चलिं दद्याद्देवदेवस्य पादयो: ।। 18.20 ।।
कृत्तिकादीप:
कार्तिक्यां पौर्णमास्यान्तु दीपदानं समाचरेत्।
आलयं समलङ्कत्य मृष्टसिक्तोपलेपनै: ।। 18.21 ।।
अलङ्कारैरलङ्कुर्यादन्यैरपि च शोभनै:।
देवदेवमलङ्कत्य वस्त्रमाल्यानुलेपनै: ।। 18.22 ।।
महाहवि: प्रभूतं वा यथाशक्ति निवदयेत्।
पूगं वा नारिकेलं वा तालं वा जातिमेव वा ।। 18.23 ।।
(तद्विमानसमायाम पादोनं वाऽर्धमेव वा:
दीपदण्डं गृहीत्वा तु देवाग्रे स्थापयेत्पुन:।
दीपदण्डस्य परितश्चोल्कादीपत्रयाणि च ।। 18.24 ।।
र?त्निमात्रायतान्वेवमयुग्मानि च कारयेत्।
कारयेद्दीपदानार्थ कूटाकारं चतुर्मुखम् ।। 18.25 ।।
मण्डपेषु च सर्वेषु सर्वेष्वावरणेषु च।
दीपाधारान् प्रकुर्वीत यथाविभवविस्तरम् ।। 18.26 ।।
प्रदोषे कारयेदेवमालयन्तु प्रदक्षिणम्।
'उद्दीप्य' स्वेति मन्त्रेण दीपमारोपयेत्पुन: ।। 18.27 ।।
धान्यपीठे प्रतिष्ठाप्य देवेशाभिमुखं पुन:।
श्रियं तत्र समभ्यर्च्य 'श्रिये जात' इति ब्रुवन् ।। 18.28 ।।
सन्न्यसेद्दीपदण्डाग्रे दीपं देवेशासन्निधौ।
प्राकारादिषु सर्वत्र दीपानारोपयेद्वहून् ।। 18.29 ।।
नित्यं तत्कार्तिके मासि दीपदानं विशिष्यते।
संस्थाप्य देवमास्थाने पूजयित्वाऽष्टविग्रहै: ।। 18.30 ।।
अपूपलाजपृथुकान् यथाशक्ति निवेदयेत्।
मरीचिजीरकगुलैर्नारिकेलैस्सुसंस्कृतान् ।। 18.31 ।।
खिले विस्तरत: प्रोक्ता कृत्तिकादीपसंस्कृति:।
केशिकद्वादशी
(एकादश्यां सिते पक्षे तत्रोपोष्य यथविधि।
द्वादश्यामुदयात्पूर्वं देवमास्थानमण्डपे ।।
(1)संस्थाप्?य केशिकं गानं गानविद्भिश्च कारयेत्।
द्वादश्यां स्नापयेत्पश्चात्समभ्यर्च्य यथाविधि (1.) नृत्तं गेयञ्च वाद्यञ्च गानविद्भश्च कारयेत् आ ।।
हविर्निवेदयेद्गौल्यं पानीयादि निवेदयेत्।
जीवस्थाने प्रतिष्ठाप्य प्रणमेद्दण्डवद्भुवि ।।
अनन्तं तत्फलं विद्धि सायुज्यं लोकमाप्नुयात्।)
अध्ययनोत्सव:
सार्गशीर्षाख्यमासे तु पूर्वपक्षे विशेषत: ।। 18.32 ।।
एकादश्यामथाऽरभ्य वेदपारायणं चरेत्।
प्रातस्सन्ध्यावसाने तु देवमास्थानमण्डपे ।। 18.33 ।।
संस्थापय चतुरो वेदान् क्रमेणाध्यापयेत्सदा।
पूजयेद्देवदेवं तं सप्तविंशतिविग्रहै: ।। 18.34 ।।
सर्वालङ्कारसंयुक्तं कारयित्वा प्रदक्षिणम्।
स्वस्तिसूक्तं समुच्चार्य जीवस्थाने निवेशयेत् ।। 18.35 ।।
पक्षं त्रयोदशाहं वा द्वादशाहं समाचरेत्।
पुराणानीतिहासांश्च देवस्य विजयोत्कटा: ।। 18.36 ।।
कथां वा श्रावयेन्नित्यं देवदेवस्य सन्निधौ।
तत्रैव मासि द्वादश्यां प्रातस्स्नात्वा यथाविधि ।। 18.37 ।।
मृण्मयानि च भाण्डानि पुराणानि परित्यजेत्।
यथार्ह शोधयेदन्या 'नामा वा' जेति मन्त्रत: ।। 18.38 ।।
मृष्टसिक्तोपलेपाद्यैश्शोधयित्वा तथाऽऽलयम्।
औत्सवादीनि बेराणि सर्वाण्येव यथाविधि ।। 18.39 ।।
संस्नाप्य गन्धतोयेन शुद्धस्ननोक्तमार्गत:।
स्नापयेत्स्नापनं बेरं कलशैश्च यथाविधि ।। 18.40 ।।
चतुर्दिशं चतुर्हस्तं गोमयेनोपलिप्य च।
व्रीहिभि: कारयेत्पद्मं साष्टपत्रं सकर्णिकम् ।। 18.41 ।।
तत्पद्मसंस्थितान्देवान् पूर्ववत्सम्यगर्चयेत्।
तस्मिन् देवं प्रतिष्ठाप्य विष्टरे सोत्तरछदे ।। 18.42 ।।
आसनादिभिरभ्यर्च्य पायमान्नं निवेदयेत्।
पाद्यमाचमनं 'दत्वा मुखवासं निवेदयेत् ।। 18.43 ।।
पुष्पयागोक्तमन्त्रैस्तु दद्यात्पुष्पाञ्जलीन् बहून्।
धामप्रदक्षिणान्ते तु जीवस्थाने निवेशयेत् ।। 18.44 ।।
संवत्सरार्चने न्यूनं नित्ये नैमित्तिकेऽपि यत्।
तत्सर्व परिपूर्ण स्यात् द्वादश्यां पूजयाऽनया ।। 18.45 ।।
आप्नुयाद्यजमानोऽपि तद्विष्णो: परमं पदम्।
संवत्सरार्चनादोषप्रायश्चित्तार्थमेव तत् ।। 18.46 ।।
श्रवणद्वादशीविशेष:
श्रवणद्वादशीयोगे मासि भाद्रपदे तथा।
पवित्रारोपणं विष्णो: कारयेदिति केचन ।। 18.47 ।।
तस्मातृसर्वप्रयत्नेन पवित्रारोपणं चरेत्।
गव्येन पयसा तैष्ये नित्यं संस्नापये?द्धरिम् ।। 18.48 ।।
राघवस्यार्चनम्
द्वादशी पूर्वपक्षे तु माघमासे पुनर्वसू।
जया तस्यामुपोष्यैव रामं वा विष्णुमेव वा ।। 18.49 ।।
ग्रामं प्रदक्षिणं नीत्वा स्नापयित्वा निवेदयेत्।
तितपद्मविधि:
तजयास्मिन्मासे सिते पक्षे पञ्चमी वियाजह्वया ।। 18.50 ।।
तिलपद्मविधिं कृत्वा दानं कुर्यात्तु तत्र वै।
पूर्वरात्रौ तु देवेशमर्चयित्वा यथाक्रमम् ।। 18.51 ।।
हर्वीष्यपि निवेद्यैव बध्द्वा प्रतिसरं पुन:।
पूर्ववच्छाययेद्देवं रात्रिशेषं नयेद्बुध: ।। 18.52 ।।
प्रभाते देवमुत्थाप्य कलशै: स्नापयेत्पुन:।
संस्थाप्य मण्डपे देवं प्रणम्यैवानुमान्य च ।। 18.53 ।।
विकीर्य प्रमुखे धान्यं द्विहस्तायतविस्तृते।
नवबस्त्रे समाकीर्य कृष्णाजिनसमन्विते ।। 18.54 ।।
तिलभारं तदर्धं वा तदूध्वे्र मण्डलाकृति।
विकीर्यात्र लिखेत्पद्मं साष्टपत्रं सकर्णिकम् ।। 18.55 ।।
सुवर्णपद्मं कृत्वा तु तिलपद्मोपरि न्यसेत्।
आढकैश्शालिधान्यैश्च पूर्णपात्राणि षोडश ।। 18.56 ।।
ऐन्द्रादि च तथैशान्त सशालि परितो न्यसेत्।
आढकं तैलमाहत्य तदर्ध वा घृत तथा ।। 18.57 ।।
तत्समं दधि सङ्गृह्य पात्रेषु च पृथक्पृथक्।
दक्षिणे सन्न्यसेत्तैलमुत्तरे तु घृतं न्यसेत् ।। 18.58 ।।
पश्चिमे दधि सन्न्यस्य देवदेवं प्रणम्य च।
आत्मसूक्तं जपित्वा तु पूजयित्वाऽष्टविग्रहै: ।। 18.59 ।।
प्रणम्य देवमावाह्य पद्ममध्ये तु पूर्ववत्।
प्रागादि पुरुषार्दीश्च तथैकादशविग्रहै: ।। 18.60 ।।
ऐन्द्राद्यैशान्तमावाह्य दिग्देवानर्चयेत्तत:।
'अतो देवा' दिसंयुक्तं विष्णुसूक्तं जपेत्वुन: ।। 18.61 ।।
बिम्बे देवं समारोप्य चान्यानुद्वासयेत्क्रमात्।
यजमानोऽथ तत्काले दद्यादचार्यदक्षिणाम् ।। 18.62 ।।
विष्णुभक्तियुतं दान्तं दयाद्यात्मगुणैर्युतम्।
नित्यस्वाध्यायसंयुक्तं सर्वावयवसंयुतम् ।। 18.63 ।।
विप्रमाहूय तत्काले ध्यात्वा तं देवमाव्ययम्।
तिलपद्मं ददेत्तस्मै देवदेवस्य सन्निधौ ।। 18.64 ।।
महाहवि: प्रभूतं वा यथाशक्ति निवेदयेत्।
परीत्य मन्दिरं पश्यात् जीवस्थाने निवेशयेत् ।। 18.65 ।।
यज्ञाधिकारे सम्प्रोक्तं तद्विधानं सुविस्तृतम्।
धूपदानविशेष:
धूपदानं तु तन्मासि देवदेवस्य शस्यते ।। 18.66 ।।
फाल्गुनमासार्चनम्
फाल्गुनोत्तरुल्गुन्यो: श्रिया सार्ध जनार्दनम्।
स्नापयित्वोत्सवं कृत्वा समभ्यर्च्य निवेदयेत् ।। 18.67 ।।
अथवा शुद्धतोयैश्च स्नापयित्वा निवेदयेत्।
तद्दिने श्रियमभ्यर्च्य श्रीकाम: श्रियमाप्नुयात् ।। 18.68 ।।
देवस्य फाल्गुने मासे गन्धदानं विशिष्यते।
चैत्रे दमनोत्सव:
पौर्णमास्या तथा चैत्र्यां कुर्याद्दमनकोत्सवम् ।। 18.69 ।।
पूर्वास्मिन्नेव दिवसे अलङ्कृत्यालयं शुभम्।
माला दमनकस्यैव विविधा: कारयेच्छुभा: ।। 18.70 ।।
रात्रिपूजावसाने तु देवमास्थानमण्डपे।
समभ्यर्च्य निवेद्यैव बद्ध्वा प्रतिसरामपि ।। 18.71 ।।
त्रिलोकमण्डलं हृद्यं देवाग्रे परिकल्पयेत्।
माता दमनकस्यैव मेरुमूर्धनि विन्यसेत् ।। 18.72 ।।
अष्टौ कुलाचलाग्रेषु गन्धोदकघटान् न्यसेत्।
तद्वहिष्षोडशपदे दिक्षु द्वारं विसृज्य च ।। 18.73 ।।
पञ्चगव्यादिद्रव्याणि न्यसेच्छेषपदेषु च।
तस्याग्रे पौण्डरीकाग्निकुण्डं कृत्वा यथाविधि ।। 18.74 ।।
आघारं विधिवत्कृत्वा देवेशं शाययेत्पुन:।
द्रव्याधिदेवानभ्यर्च्य वसन्तं काममर्चयेत् ।। 18.75 ।।
वैष्णव विष्णुसूक्तञ्च पौरुषं सूक्तमेव च।
श्रीभूमिसूक्तमन्त्रांश्च यद्देवादीस्तथैव च ।। 18.76 ।।
जयादीन् परिषद्देवमूर्तिमन्त्रानथापि वा
एवं हुत्वा निशां नीत्वा प्रातस्स्नात्वा यथाविधि ।। 18.77 ।।
संस्नाप्य कलशैर्देवं गन्धोदकघटैरपि।
वस्त्राद्यैरप्यलङ्कत्य मुहूर्ते तु शुभोदये ।। 18.78 ।।
अधिवासितमालास्तास्समादाय समाहित:।
देवस्य विष्णुसूक्तेन दद्यांद्भक्तिसमन्वित: ।। 18.79 ।।
सर्वेषामपि बेराणां तथा परिषदामपि।
माला दमनकस्यैव दद्यात्तन्मन्त्रमूर्तिभि: ।। 18.80 ।।
ग्रामं प्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुतमं।
नीत्वाऽऽलयं ततो देवं संस्थाप्यास्?थानमण्डपे ।। 18.81 ।।
संस्नाप्य गन्धतोयेन समभ्यर्च्य निवेदयेत्।
अन्तहोमावसानेऽग्निर्नित्यकुण्डे प्रणीयताम् ।। 18.82 ।।
वसन्तोत्सव:
पुष्पदानं प्रशस्तं स्यादस्मिन्मासे तु शार्ङ्गिण:।
तद्दिनञ्च समारभ्य ज्येष्ठे मूलावसानकम् ।। 18.83 ।।
तत्तत्कालोद्भवैर्द्रव्यैर्वसन्तोत्सवमाचरेत्।
देवं मध्याह्रपूजान्ते संस्थाप्याऽस्थानमण्डपे ।। 18.84 ।।
संस्नाप्य गन्धतोयेन वस्त्रं परिमितं लघु।
समाच्छाद्य समभ्यर्च्य पुष्पैस्तत्कालसम्भवै: ।। 18.85 ।।
निवेद्य पायसादीनि कृत्वा धामप्रदक्षिणम्।
पक्वापि कदलीचूतपनसानां फलानि च ।। 18.86 ।।
अपूपादीनि भक्ष्याणि नारिकेलफलाम्बु च।
निवेद्याऽच्मनं दत्वा मुखवासां निवेदयेत् ।। 18.87 ।।
अर्चापीठे तु देवेशं मन्त्रवत्थापयेद्बुध:।
ज्येष्ठे मूलादि वर्पान्तं नित्यमेवं समाचरेत् ।। 18.88 ।।
वैशाखोत्सव:
वैशाखे पौर्णमास्यान्तु स्नपनादीनि पूर्ववत्।
कृत्वा तु पूर्ववद्देवं संस्थाप्याऽस्थानमण्डपे ।। 18.89 ।।
आसनादिभिरभ्यर्च्य सप्तविंशतिविग्रहै:।
पायसादिनिवेद्यञ्च प्रभूतञ्च निवेदयेत् ।। 18.90 ।।
मरीचिजीरकगुङैर्नारिकेलरसेन च।
संस्कृतं भूरि सर्पिश्च दद्याच्चूतुलं बहु ।। 18.91 ।।
पानीयाचमनान्ते तु मुखवास निवेदयेत्।
आलयं परित: कृत्वा देवदेवस्य चोत्सवम् ।। 18.92 ।।
जीवस्थाने प्रतिष्ठाप्य नित्यपूजां समाचरेत्।
अस्मिन् पानीयदानन्तु प्रशस्तमभिधीयते ।। 18.93 ।।
ज्येष्ठोत्सव:
ज्योष्ठमासे तु मूलायां वस्त्रदानं हरे: स्मृतम्।
तन्मासे पौर्णमास्यान्तु गन्धोदैरभिषिच्य च ।। 18.94 ।।
नववस्त्रैरलङ्कृत्य समभ्यच्चर्य निवेदयेत्।
आषाढोत्सव:
आषाढे पौर्णमास्यान्तु कुर्यादेकाहिकोत्सवम् ।। 18.95 ।।
स्नापयित्वा समभ्यर्च्य हृर्वीष्यपि निवेदयेत्।
अर्ध्यदानं प्रशस्तं स्याद्देवस्याषाढमासि वै ।। 18.96 ।।
श्रावणोतसव:
श्रावणे श्रवणर्क्षे तु देवदेवस्य यत्नत:।
उत्सवस्नपनादीनि पूर्ववत्कारयेद्बुध: ।। 18.97 ।।
श्रावणे मासि तस्मिंश्च कृष्णपक्षे विशेषत:।
अष्टमी रोहिणीयुक्ता जयन्ती रहिताऽथवा ।। 18.98 ।।
तत्र चन्द्रोदये विष्णुं कृष्णविग्रहमर्चयेत्।
विष्णुं चतुर्भुजं वाऽथ तथा स्नाप्य वारिभि: ।। 18.99 ।।
निवेद्य प्रचुरं क्षीरं हविस्सम्यङ्निवेद्य च।
बध्द्वा प्रतिसरं तद्वच्डाययेत्पुरुषोत्तमम् ।। 18.100 ।।
अहोरात्रमुपोष्यैव प्रातस्स्नात्वा यथाविधि।
उत्सवोक्तप्रकारेण देवस्योत्सवमाचरेत् ।। 18.101 ।।
संस्नाप्य कलशैर्विष्णुमास्थाने स्थापयेद्बुध:।
समभ्यर्च्य हविर्दद्यात्पायसं गौल्यमेव वा ।। 18.102 ।।
अर्पयेन्मुखवासान्ते जीवस्थाने निवेशयेत्।
(पारणन्तु तत: कुर्यात् स वै सायुज्यमाप्नुयात्) ।। 18.103 ।।
सर्वान्कामानवाप्नोति सर्वदानफलं लभेत्।
एवं य: कुरुते भक्त्या विष्णुपूजाञ्च तद्दिने ।। 18.104 ।।
सप्?तजन्मकृतं पापं तत्क्षणादेव नश्यति।
अतस्सर्वप्रयत्नेन जयन्त्यामुत्सवं चरेत् ।। 18.105 ।।
धूपदानं प्रशस्तं स्याछ्रावणे मासि शार्ङ्गिण:।
यो नित्यं परया भक्त्या धूपदानं समाचरेत् ।। 18.106 ।।
सोऽपि संवत्सरं धूफलमेति न संशय:।
भाद्रपदोत्सव:
श्रवणद्वादशीयोगे मासि भाद्रपदे तथा ।। 18.107 ।।
संवत्सरार्चनादोषशान्त्यर्थं केशवस्य च।
राजराष्ट्राभिवृद्ध्यर्थं सर्वमङ्गलकारणम् ।। 18.108 ।।
सर्वदोषोपशमनं प्रोक्तं यद्ब्रुह्मणा पुरा।
पवित्रारोपणं कुर्यात्सर्वदोषोपशान्तये ।। 18.109 ।।
उत्सवोक्तप्रकारेण कुर्यात्तच्छ्रवणे बुध:।
अस्मिन्मासे हविर्दानं प्रशस्तं केशवस्य तु ।। 18.110 ।।
मासेऽस्मिन्नारभेतैव श्रावणं व्रतमुत्तमम्।
मार्गशीर्षं समारभ्य कुर्यादेकादशीव्रतम् ।। 18.111 ।।
एकभुक्तस्तु पूर्वेऽह्रि प्रातस्स्नात्वा यथाविधि।
युग्मप्रदक्षिणं कुर्याद्देवदेवं प्रणम्य च ।। 18.112 ।।
केशवादीनि नामानि जपेदेकाग्रमानस:।
मार्गशीर्षं समारभ्य क्रमान्मासेषु वै पुन: ।। 18.113 ।।
अथवा पौरुषं सूक्तमुपोष्य व्रतमाचरेत्।
प्रातस्संस्नाप्य देवेशं समभ्यर्च्य निवेद्य च ।। 18.114 ।।
दानं कृत्वा द्विजेन्द्रेभ्य: पारणं पुनराचरेत्।
ततस्सर्वेषु मासेषु क्षुतप्रस्खलनादिषु ।। 18.115 ।।
जपेत्तन्मासनाम्नैव देवेशं मनसा स्मरन्।
विष्णवादिपञ्चमूर्त्यन्तै: स्नपनञ्चार्चनादिकम् ।। 18.116 ।।
कुर्यात्तन्मासनाम्नैव ब्राह्मणेभ्यस्तथैव च।
एवं वर्षे तु सम्पूर्णे मासि भाद्रपदे तथा ।। 18.117 ।।
श्रवणे स्नापयेद्देवच शताष्टकलशैरपि।
महाहवि: प्रभुतं वा संयुक्तं पायसादिभि: ।। 18.118 ।।
निवेद्य मुखवासान्ते दद्यात्पुष्पाञ्जलीन् बहून्।
कृत्वाऽन्नदानं विप्रेभ्य: पारणं पूर्ववच्चरेत् ।। 18.119 ।।
एकादशीव्रतं कुर्वन् सम्पूर्णे वत्सरे तथा।
द्वादश्यां मार्गशीर्षे तु स्नपनादीनि कारयेत् ।। 18.120 ।।
एवं य: कुरुते भक्त्या महापापैर्विमुच्यते
अन्ते विमानमारुह्य विष्णो: पदमवाप्नुयात् ।। 18.121 ।।
मार्गशीर्षश्च मासोऽयं मासानां श्रेष्ठ ईरित:।
द्वादशी श्रवणं तस्मिन्नमावास्या तथैव च ।। 18.122 ।।
उपवासव्रतं कुर्यात्तस्मिन्नान्यत्समाचरेत्।
अश्वयुजार्चनम्
श्रवणञ्चाश्वयुङ्मासि सर्वपापहरं वरम् ।। 18.123 ।।
मत्स्यकूर्मवराहाणामाविर्भावदिनं स्मृतम्।
उत्सवस्नपनादीनि कुर्यात्तत्रापि शार्ङ्गिण: ।। 18.124 ।।
मुखवासं हरेर्दद्यात् मासेऽस्मिन्नित्यमेव च।
सर्वेष्वपि च मासेषु मासर्क्षेष्वधिकार्चनम् ।। 18.125 ।।
(उत्सव स्नपनैर्युकृतं विधियुक्तं समाचरेत्)
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां क्रियाधिकारे पुण्यर्क्षपूजन आग्रयण विष्पाकविधान सर्वमासार्चनविधिर्नाम अष्टादशोऽध्याय: (1) (1.) एकोनविंशोऽध्याय: ख. ।
----------