← दशमोऽध्यायः क्रियाधिकारः
एकादशोऽध्यायः
[[लेखकः :|]]
द्वादशोऽध्यायः →


एकादशोऽध्याय:
दशावतारकल्प:
(वक्ष्ये दशावताराणां प्रतिष्ठां मुनिसत्तमा:।)
मत्स्य: कूर्मो वराहश्च नारसिंहोऽथ वामन:।
रामो रामश्च रामश्च कृष्ण: कल्कीति ते दश ।। 11.1 ।।
आविर्भावा: पञ्च पूर्वे प्रादुर्भावास्तथाऽपरे।
मत्स्यकूर्मौ द्विधा प्रोक्तौ वाराहस्त्रिविध: स्मृत: ।। 11.2 ।।
पञ्चधा नारसिंहस्तु द्विविधो वामन: स्मृत:।
एकधा भार्गवो रामो राघवो द्विविध: स्मृत: ।। 11.3 ।।
द्विविधो बलभद्रश्च कृष्णोऽसङ्ख्यातविग्रह:।
एकधा कल्किरूपश्च तेषां श्रृणुत लक्षणम् ।। 11.4 ।।
मत्स्य:
महाजलौघप्रलये चराचरजगत्क्षये।
तत्तोयमुपसंहर्तुमासीत्प्रथममत्त्स्यक: ।। 11.5 ।।
तद्रोमकूपविवरे प्रमित: प्रलयार्णव:।
कल्पावसानप्रलयलीनवेदोपदेशक: ।। 11.6 ।।
मत्स्य आसीद्द्वि तीयश्च देवदेवो जनार्दन:।
तप्तहाटकसङ्काश: प्रथमोऽन्योऽञ्जनप्रभ: ।। 11.7 ।।
(1)रक्तपद्मासनारुढौ वितस्तिविसृतौ ? तथा।
विस्तारद्विगुणायामौ कुर्यान्मत्स्यौ यथाविधि (1.) रक्तमण्डपमारूढै: द्विहस्तविसृतौ ? आ. ।। 11.8 ।।
पौण्डरीक: प्रधानाग्निरन्यत्सर्व खिलोक्तवत्।
कूर्म:
स्वस्थानचलितक्षोणीभरणायादिकच्छप: ।। 11.9 ।।
द्वितीयश्चामृतोद्धारमनन्थमन्दरधारक:।
अञ्जनाभं तयो रूपं चतुश्रासनस्थिति: ।। 11.10 ।।
गार्हपत्य: प्रधानाग्निरन्यत्सर्व खिलोक्तवत्।
वाराह: पातालमग्नां वसुधामुद्धर्तुप्रथमस्तथा ।। 11.11 ।।
आसीदादिवराहाख्यस्तस्?य वक्ष्यामि लक्षणम्।
नररूपो वराहश्च सस्यश्यामश्चतुर्भुज: ।। 11.12 ।।
दक्षिणस्सुस्थित: पाद: पीठे वामस्तु कुञ्चितः।
पञ्चतालप्रमाणेन तदूरौ श्यामलां महीम् ।। 11.13 ।।
प्राञ्जलीकृतहस्तां तां प्रसारितपदद्वयाम्।
पुष्पाम्बरां समुद्वीक्ष्य व्रीलाहर्षसमन्विताम् ।। 11.14 ।।
देवो दक्षिणहस्तेन देव्यो: पादौ प्रगृह्य च।
वाममाधारवत्कृत्वा देव्या बाह्वोरधोपरि ।। 11.15 ।।
पातालमग्नां वसुधां तामुद्भृत्य समुत्थित:।
पराभ्याञ्च कराभ्याञ्च शङ्खचक्रधरं. परम् ।। 11.16 ।।
जिघ्रन्मूर्ध्नि तथा देवीं सर्वाभरणभूषिताम्।
श्वेतपद्मसिताभौ तु पुण्यतीर्थौ तदर्चकौ ।। 11.17 ।।
(1)ब्रह्मराजश्रियौ श्वेतरक्ताभौ द्वारपालिके।
श्वेताभाश्च चतुर्वेदा: वाहनस्थानमाश्रिता: (1.) ब्रहृमा च श्वेतरक्ताभ: कनकाभश्च मौलिक:। इति आ पाठ: ।। 11.28 ।।
पुलिन्दं शैषिकं श्यामं शेषं पूर्ववदाचरेत्।
प्रलयेऽवान्तरोद्भूते तञ्च संहर्तुमुद्यत: ।। 11.19 ।।
वाराह: प्रलयाख्योऽभू(2)त्पूर्ववच्च किटेर्मुखम्।
तप्तहाटकसङ्काशं नीलाम्बरधरं परम् (2.) पूर्ववच्चाहवोन्मुखं आ. देवस्य दक्षिणे भागे मही देवीं प्रकल्पयेत् इत्यधिकं ई. ।। 11.20 ।।
अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम्।
शङ्खचक्रधरावूर्ध्वमन्यत्सर्व च पूर्ववत् ।। 11.21 ।।
देवस्य दक्षिणे पार्श्वे महीं देवीं प्रकल्पयेत्।
देवदेव्यौ सुखासीनौ तस्य सिंहासनादध: ।। 11.22 ।।
नारदं रक्तवर्णञ्च वीणाहस्तं प्रकल्पयेत्।
पूजकौ(1) भृगुपुण्यौ तावन्यत्सर्वञ्च पूर्ववत् (1.) पृथु आ. ।। 11.23 ।।
हिरण्याक्षासुरं हत्वा सर्वयज्ञविनाशकम्।
(2)यज्ञस्य स्थापनं कर्तुमासीद्यज्ञवराहक: (2.) यज्ञार्थस्थापनं आ. ।। 11.24 ।।
श्वेतो वर्णोऽखिलञ्चान्यत्प्रलयाख्यवराहवत्।
सिंहासने सुखासीन: श्रीभूमिसहित: पर: ।। 11.25 ।।
उक्तौ कनकयज्ञाख्यौ पूजकौ रुक्मसन्निभौ।
तेषां सभ्य: प्रधानाग्निरन्यत्सर्वखिलोक्तवत् ।। 11.26 ।।
'क्ष्मामेका' मिति मन्त्रेण शतमष्टोत्तरं यजेत्।
नारसिंहभेदा:
गिरिज: स्थूणजश्चैव सुदर्शननृसिंहक: ।। 11.27 ।।
तथा लक्ष्मीनृसिंहश्च पातालनरसिंहक:।
इति पञ्चविधः प्रोक्तो नारसिंहो मनीषिभि: ।। 11.28 ।।
गिरिजस्थूणजौ प्रोक्तौ खिले विस्तरतो मया।
सुदर्शननृसिंह:
सुदर्शननृसिंहस्य लक्षणं सम्प्रवक्ष्यते ।। 11.29 ।।
कोटिसूर्यप्रतीकाशं चक्रं विमलमुज्जवलम्।
बृहद्भानुपुरद्वन्दं(3) चक्रमध्ये प्रकल्पयेत् (3.) द्वारं आ. ।। 11.30 ।।
तस्य मध्ये (4)सुसासीनं नृसिंहमरुणप्रभम्।
अत्यन्तभीषणाकारं भक्तानामभयप्रदम् (4.) समासीनं आ. ।। 11.31 ।।
चक्रायुधं चतुर्बाहुं देवदेवं प्रकल्पयेत्।
तस्य सिंहसनाधस्ताद्दखिणेतरपार्श्वयो: ।। 11.32 ।।
(1)वदन्तौ कोपशान्त्यर्थं ब्रह्मरुद्रौ प्रकल्पयेत्।
'यो वा नृसिंह' इत्युक्त्वा चक्रमन्त्रद्वयेन च ।। 11.33 ।।
अष्टोत्तरशतं होममन्यत्सर्व नृसिंहवत्।
लक्ष्मीनृसिह: वक्ष्ये
लक्ष्मीनृ?सिंहस्य लक्षणं मुनिसत्तमा: ।। 11.34 ।।
सिंहासने सुखासीनं वामपादं प्रसार्थ च।
आसने निहितं पादं दक्षिणं कुञ्चितं तथा ।। 11.35 ।।
देवस्योरौ प्रकुर्वीत लक्ष्मीं सर्वाङ्गसुन्दरीम्।
सर्वाभरणसंयुक्तां व्रीलाहर्षसमन्विताम् ।। 11.36 ।।
प्राञ्जलीकृतहस्तान्तां(2) पद्मकिञ्जल्कसन्निभाम्।
प्रसारितपदां देवीं पञ्चतालप्रमाणत: (2.) हस्ताभ्यां आ. ।। 11.37 ।।
वरदाभयहस्तां वा उद्यत्पद्मधरान्तु वा।
दक्षिणेनैव हस्तेन कुर्वास्तदुपगूहनम् ।। 11.38 ।।
वाममूरौ निवेश्यैव पराभ्यां शङ्खचक्रभृत्।
भुक्तिमुष्मिकतफलापेक्षीं कुर्यादेवं यथाविधि ।। 11.39 ।।
केवलामुष्मिकापेक्षी लक्ष्मीं वामे प्रकल्पयेत्।
वामभागे तु कुर्याच्चेद्वामोरौ तां निवेश्य च ।। 11.40 ।।
(प्रसार्य दक्षिणं पादं वामपादन्तु कुञ्चितम् ।)
वामेन तां परिष्वज्य द?क्षिणेनाभयप्रदम्।
पराभ्याञ्च कराभ्याञ्च शङ्खचक्रधरं तथा ।। 11.41 ।।
एवं सम्परिकल्प्यैनं ब्रह्मेशावपि (3)पूजयेत्।
औपासनाग्निकुण्डञ्च कुर्याद्देव्या: पृथक् श्रिय: (3.) पूर्ववत् ई. ।। 11.42 ।।
एककुण्डेऽथ वा होमं कुर्यादस्याश्च केचन।
लक्ष्म्या: श्रीसूक्तसंयुक्तं ?'श्रिये जात' इति ब्रुवन् ।। 11.43 ।।
'शं सा नियच्छती' त्युक्त्वा शतमष्टोत्तरं यजेत्।
'श्रियं धृतिं पवित्रीञ्च लक्ष्मी' मिति च मूर्तिभि: ।। 11.44 ।।
पृथक्कुण्डं यदि भवेत्पुरुषसूक्तसमन्वितम्।
पूर्ववन्नारसिंहस्य सर्वं कुर्याद्यथाविधि ।। 11.45 ।।
नृसिंहस्थापने विशेष:
(ध्रुवार्चास्थानं चेद्वै भोगं चेद्दैविके पदे ।)
सुदर्शननृसिंहञ्च स्थूणजञ्च विनेतरान्।
सर्वत्र कल्पयेत्पुष्ट्यै ग्रामादिषु च वास्तुषु ।। 11.46 ।।
ग्राममध्ये यदि भवेत् तद्दृष्ट्या सर्वनाशनम्।
तस्मात्सर्वप्रयत्नेन चतुर्द्वाराणि कारयेत् ।। 11.47 ।।
सुदर्सननृसिंहञ्च स्थूणजञ्ज यथाविधि।
स्थापयेद्वामबह्येषु (1)ग्रामाभिमुखमेव वा (1.) ग्रामाधिक्यं निरीक्षणम् आ. ।। 11.48।।
(पर्वताग्रे नदीतीरे वने वा वृक्षसङ्कुले।
आरामेषु सरित्तीरे जर्झरि स्थापयेद्वुध: ।।
सुदर्शननृसिंहस्य अत्रिणोक्तं समाचरेत्।)
पातालनरसिंहञ्च प्रवक्ष्यामि समासत:।
वामजानु समुद्धृत्य दक्षिणेनैव जानुना ।। 11.49 ।।
आसीनं गरूडं कुर्याच्चतुर्भुजसमन्वितम्।
उभाभ्यामपि पाणिभ्यां हृदयेऽञ्जलिसंयुतम् ।। 11.50 ।।
कराभ्यामितराभ्याञ्च दधानं शेषविग्रहम्।
भोगिभोगत्रिवलयं स्कन्?धे कुर्याद्गरुत्मत: ।। 11.51 ।।
उत्तमाङ्गं समुद्धृत्य फणामण्डलमण्डितम्।
(2)कल्पयेत्तत्फणाधस्तान्नारसिहं यथाविधि (2.) कल्पयेत् आ. ।। 11.52 ।।
कुञ्चितं वामपादन्तं शेषभोगे निधाय च।
आसीनं दक्षिणं पादं वीशक्सन्धे प्रसार्य च ।। 11.53 ।।
अष्टबाहुसमायुक्तमभयं दक्षिणं करम्।
शेषैश्चक्रं शरं खड्गं दधतं बाहुभिस्त्रिभि: ।। 11.54 ।।
वामे शङ्खञ्च शार्ङ्गञ्च खेटकञ्च गदामपि।
शेष पूर्ववदुद्दिष्टं प्रतिष्ठांकारये द्वुध: ।। 11.55 ।।
गारूडं शेषदैवत्यं जुहुयादेकविंशति:।
'यो वा नृसिंह' इत्युक्त्वा शतमष्टोत्तरं यजेत् ।। 11.56 ।।
(एवं लक्ष्मीनृसिंहञ्च कुर्यादित्येव केचन।)
नारसिंहप्रतिष्ठायामग्नावाहवनीयके।
हौत्रं प्रशंस्यतन्मूर्त्या निरूप्याज्याहुतीर्यजेत् ।। 11.57 ।।
अन्यत्सर्व खिले प्रोक्तं तत्र ज्ञात्वा समाचरेत्।
नारसिंहविकल्पाश्च बहुधा (1)परिकीर्तिता: (1.) परिकल्पिता: आ. ।। 11.58 ।।
तेषां तालविभागश्च मन्त्रा मूर्तय एव च।
कुण्डञ्च परिवाराणां गिरिजस्योक्तवद्भवेत् ।। 11.59 ।।
वामन:
वैरोचने बलवति बलिनोऽसुरपुङ्गवात्.।
काश्यपाद्वामनोऽदित्यामपहर्तु जगच्छलात् ।। 11.60 ।।
आसीत्तस्य प्रवक्ष्यामि प्रतिष्ठामर्चनादिकम्।
त्रिविक्रम: स एवासीत्त्रिलोकक्रमणोद्यत: ।। 11.61 ।।
त्रिविक्रमस्त्रिधा प्रोक्त: प्रथमश्च द्वितीयक:।
तृतीयश्चेति तद्रूपं यथेष्टं कारयेद्वुध: ।। 11.62 ।।
अष्टबाहुं चतुर्बाहुं दशतालक्रमेण वै।
गदाचक्रासिशक्तीश्च शरं शङ्खञ्च शार्ङ्गकम् ।। 11.63 ।।
दधतं श्यामदेहञ्च महारूपधरं हरिम्।
स्थितं दक्षिणपादेन वामपादं प्रसार्य च ।। 11.64 ।।
हर्षवेगसमायुक्तं सर्वाभरणभूषितम्।
अष्टबाहुं प्रकुर्वीत प्रवक्ष्यामि चतुर्भुजम् ।। 11.65 ।।
पराभ्याञ्च कराभ्याञ्च शङ्खचक्रधरं परम्।
दक्षिणं हस्तमादाय पादमन्यत्प्रसारितम् ।। 11.66 ।।
वाममूर्ध्वे प्रसार्याङ्घ्रिं दक्षिणेनैव सुस्थितम्।
तत्प्रसारितपादोर्ध्वे हस्तं सम्यक्प्रसारितम् ।। 11.67 ।।
इन्द्रं छत्रधरं कुर्यादाकाशस्थं यथाविधि।
पार्श्वयोश्च यमं सम्यग्वरुणं व्याजनौ तथा ।। 11.68 ।।
जानमुमात्रोद्धृते पादे प्रथमस्तु विधीयते।
नाभिमाने द्वितीय: स्यात्ततीयस्स्याल्ललाटके ।। 11.69 ।।
ब्रह्माणं कल्पयेदूर्ध्वे तत्पादक्षालनोद्यतम्।
ततो गङ्गो प्रकुर्वीत ब्रह्मलोकात्परिस्रुताम् ।। 11.70 ।।
प्राञ्जलीकृतहस्तान्तां नाभेरूर्ध्वे शरीरिणीम्।
तस्य पादोर्ध्वत: कुर्यान्नमुचिं भ्रममाणकम् ।। 11.71 ।।
शुकं विघ्नकरं कुर्यात्स्थितपादस्य वामत:।
मुष्टिना प्रहरन्तं तदूर्ध्वे वीशं प्रकल्पयेत् ।। 11.72 ।।
तद्दक्षिणे स्थितं कुर्यात् (1)वटुरूपञ्च वामनम्।
छत्रदण्डधरं पुण्यं शिखाकौपीनसंयुतम् (1.) वररूपं क. ।। 11.73 ।।
तत्पार्श्वे बलिनं कुर्याद्गृहीतकरकं(2) तथा।
सर्वाभरणसंयुक्तं हर्षयुक्तं प्रकल्पयेत् (2.) कलशं क. ।। 11.74 ।।
नीलाभं जाम्बवन्तञ्च कल्पये द्वानराकृतिम्।
इन्द्रं श्यामनिभं कुर्याद्यममञ्जनसन्निभम्। ।। 11.75 ।।
वरुणं श्यामवर्णञ्च भास्करञ्चाग्निसन्निभम्।
श्वेतं निशाकरं कुर्याद्व्रह्माणं हाटकपव्रभम् ।। 11.76 ।।
गङ्गां श्वेतप्रभाङ्कुर्यान्नमुचि श्याममेव च।
शुक्रं श्वेतनिभं कुर्याद्यममञ्जनसन्निभम् ।। 11.77 ।।
चक्रं श्वेतन्भिं कुर्याद्वरुडं पञ्चवर्णकम्।
वामनञ्च तथ श्यामं बलिनं कनकप्रभम् ।। 11.78 ।।
एवं त्रिभेदतो रूपं स्वेच्छया कारयेद्वुध:।
अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनमाचरेत् ।। 11.79 ।।
'यो वा त्रिमूर्ति' रित्येकं शतमष्टाधिकं यजेत्।
स्थापनादीनि सर्वाणि विष्णुसूक्तेन कारयेत् ।। 11.80 ।।
(1)वामनो न पृथक् स्थाप्यस्सर्वमन्यत्खिलोक्तवत्।
परशुराम:
महाबलक्षत्रवधाद्भूभारस्य निरासक: (1.) वामनाकृतिं क. ।। 11.81 ।।
जमदग्निसुतो रामो बभूवात्यन्तदारुण:।
कल्पयेद्विजं रामं दशतालप्रमाणत: ।। 11.82 ।।
दक्षिणे परशुं हस्ते वाममुद्देशकं तथा।
रक्तवर्णं प्रकुर्वीत जटामकुटमण्डितम् ।। 11.83 ।।
नीलाम्बरधरं देवमासीनं स्थितमेव वा।
तद्रूपं कौतुकं कुर्यादृषींस्तत्परितो लिखेत् ।। 11.84 ।।
अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनमाचरेत्।
'विष्णुर्वरिष्ठ' इत्युक्त्वा सप्तत्येकोत्तरं यजेत् ।। 11.85 ।।
(2.) श्वेतदृहा क.
(3.) स्नापनादीनि क.
शिष्टानि सर्वकार्याणि पूर्ववत्सम्यगाचरेत्।
दाशरथिराम:
देवहिंसाकरान् हन्तुं रावणाद्यांश्च राक्षसान् ।। 11.86 ।।
आसीद्दाशरथी राम: सायुधाङ्गो निरायुध:।
सार्धाष्टतालमानेन राघवं सम्प्रकल्पयेत् ।। 11.87 ।।
श्यामलं द्विभुजं कुर्यात्त्रिभङ्गेन च सुस्थितम्।
शरं दक्षिणहस्तेन चापं वामेन बिभ्रतम् ।। 11.88 ।।
सर्वाभरणसंयुक्तं किरीटमकुटोज्ज्वलम्।
सीताञ्च दक्षिणे पार्श्वे पीतवर्णां प्रकल्पयेत् ।। 11.89 ।।
सपद्मवामहस्ताञ्च सम्प्रसारितदक्षिणाम्।
दक्षिणं सुस्थितं पादं वामं किंचिच्च कुञ्चितम् ।। 11.90 ।।
पादं हस्तं प्रकुर्वीत विपरीतमथापि वा।
वामतो लक्ष्मणं कुर्यादष्टतालेन रुक्मभम् ।। 11.91 ।।
(1)बालकुन्तलसंयुक्तमन्यत्सर्वञ्च रामवत्।
?Bवार्ताविज्ञापनपरं हनूमन्तञ्च दक्षिणे (1.) वालकुन्दजसंयुक्तं आ. ।। 11.92 ।।
रुक्माभं दक्षिणेनैव पाणिना पिहिताननम्।
प्रह्वाङ्गमूर्ध्ववदनं वामेनापि धृताम्बरम् ।। 11.93 ।।
एवं सायुध उद्दिष्टो वक्ष्याम्यन्यं निरायुधम्।
सिंहासने समासीनं देवं देवीं यथाविधि ।। 11.94 ।।
वामतो लक्ष्मणं कुर्यात्प्राञ्जलीकृत्य सुस्थितम्।
कारयेत्कौतुकं तद्वदासीनं स्थितमेव वा ।। 11.95 ।।
सायुधे सायुधं तद्वत्कौतुकञ्च समाचरेत्।
एकस्मिन्नेव कुम्भे तु त्रयाणां ध्यानमाचरेत् ।। 11.96 ।।
तस्य देवसय देव्याश्च शयनक्रम उच्यते।
तद्वेद्यां लक्ष्मणस्यापि शयनं तु पृथग्भवेत् ।। 11.97 ।।
अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनमाचरेत्।
'रायामीश' इति जपन् सप्तत्येकोत्तरं यजेत् ।। 11.18 ।।
श्रीवत्सर्वञ्च सीताया युक्त्या बुद्ध्या समाचरेत्।
बलभद्रराम:
वक्ष्यामि बलभद्राख्यरामं यदुकुलोद्भवम् ।। 11.99 ।।
दानवेन्द्रवधात्सोऽपि भूमिभारापनोदक:।
हस्तिपृष्ठविमाने वा सोमच्छन्देऽथवा पुन: ।। 11.100 ।।
कृष्णस्यार्धासनासीनं स्थापयेत्पृथगेव वा।
शङ्खेन्दुकुन्दधवलं द्विभुजं नीलवाससम् ।। 11.101 ।।
मुसलं दक्षिणे हस्ते हलं वामे च कल्पयेत्।
इतृयेवं सायुध: प्रोक्त: प्रवक्ष्यामि निरायुधम् ।। 11.102 ।।
वामपादं समाकुञ्च्य दक्षिणं सम्प्रसार्य च।
सव्यञ्चाभयहस्तन्तु वाममूरुनिवेशितम् ।। 11.103 ।।
रेवतीं दक्षिणे पार्श्वे नीलोत्पलदलप्रभाम्।
पद्मं दक्षिणहस्तेन गृहीत्वाऽन्य तथैव च ।। 11.104 ।।
ऊरौ निवेश्य चासीनां रेवतीञ्च प्रकल्पयेत्।
सर्वाभरणसंयुक्तं देवं देवीसमन्वितम् ।। 11.105 ।।
एवञ्च कौतुकं कुर्यात्थापनारम्भमाचरेत्।
अग्नावाहवनीये तु हौत्रशंसनमाचरेत् ।। 11.106 ।।
'क्ष्मामेका' मिति मन्त्रेण शतमष्टोत्तरं यजेत्।
अन्यत्सर्व विशेषेण विष्णोरिव समाचरेत् ।। 11.107 ।।
कृष्ण:
कूटे वा गोपुराकारे कुम्भाकारेऽऽलये।
नवतालप्रमाणेन कृष्णं कृत्वा समर्चयेत् ।। 11.108 ।।
श्यामलं त्रिणतं रक्तवाससं द्विभुजं तथा।
पाणिना दक्षिणेनैव क्रीडायष्टिधरं परम् ।। 11.109 ।।
वामेनोत्क्रीडनकरं स्थिलयैव च (1)सुलीतम्।
सर्वाभरणसंयुक्तं सुन्दरं सौम्यलोचनम् (1.) सुखासीनं आ. ।। 11.110 ।।
रुक्मिणीं सत्यभामाञ्च देव्यौ दक्षिणवामयो:।
श्यामरक्तनिभे कृष्णपीतवस्त्रविभूषिते ।। 11.111 ।।
गरुत्मान्
बाहुसीमान्तमानेन (2)कारयेद्भूषणोज्ज्वलम्।
कल्पयेत्प्राञ्जलिं वीशं वामपार्श्वे तु तत्र वै (2.) कारयेत् आ. ।। 11.112 ।।
ध्रुवबेरानुरूपं वै कौतुकञ्च समाचरेत्।
सिंहासने समासीनं देवीभ्यां तु निरायुधम् ।। 11.113 ।।
पूर्वोक्तेन विधाने सर्वाभरणसंयुतम्।
नवनीतनटं वाऽथ तथा कालीयमर्दनम् ।। 11.114 ।।
गोपालविग्रहं वाऽथ पार्थसारथिमेव वा।
रूपाण्यन्यान्यसङ्ख्यानि कृष्णस्य मुनिसत्तमा: ।। 11.115 ।।
शिल्पशास्त्रोक्तविधिना तत्तद्रूपाणि कल्पयेत्।
दक्षिणं कुञ्चितं पादं (3)वामपादं तु सुस्थितम् (3.) वामपादनिवेशितं आ.
।। 11.116 ।।
तस्य कुञ्चितपादन्तु वामपार्ष्णिनिवेशितम्।
गृहीतवेष्णुं हस्ताभ्यां वेणुरन्ध्राहिताननम् ।। 11.117 ।।
वर्हिवर्हावतंसञ्च कुर्याद्गोपालविग्रहम्।
युत्त्वत्यावुद्ध्या समूह्यैव कुत्यात्तद्रूपकल्पनम् ।। 11.118 ।।
क्रीडायष्टिधरं कृष्णं तथा गोपालविग्रहम्।
विनान्यान्यस्य रूपाणि देवीविरहितानि वै ।। 11.119 ।।
?क्रीडायष्टिधरं कृष्णं चौत्सवं विष्णुमेव वा।
(ज्ञात्वा च हरिवत्सर्वान्परिवारान्प्रकल्पयेत् ।। 11.120 ।।
सुन्दरं नामगोपालं विधिवत्स्थानमाश्रितम्।
द्विभुजं पुष्पवहं चैव कुर्यान्निर्माल्यहारिणम्) ।। 11.121 ।।
पौण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेत्।
'सत्यस्सत्यस्थ' इत्युक्त्वा शतमष्टोत्तरं यजेत् ।। 11.122 ।।
हरेरिव समस्तानि स्थापनादीनि कारयेत्।
चतुर्भुजकृष्ण:
कृष्णं चतुर्भुजं ?केचिदिच्छन्ति मुनिसत्तमा: ।। 11.123 ।।
पूर्ववत्पूर्वहस्तौ तु शङ्खचक्रधरौ परौ।
कृष्णादिमूर्तय: प्रोक्ता: वासुदेवपुरस्सरा: ।। 11.124 ।।
सर्वमन्यत्समं प्रोक्तमिति पूर्वजशासनम्।
कल्की
युगान्तसमये विष्णु: कल्किनामा भविष्यति ।। 11.125 ।।
खड्गखेटकहस्तस्तु म्लेच्छादीन् संहनिष्यति।
भिन्नाञ्जननिभं रक्तवाससं सम्प्रकल्पयेत् ।। 11.126 ।।
पौण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेत्।
'ऋतं स' त्येति मन्त्रेण शतष्टोत्तरं यजेत् ।। 11.127 ।।
अवतारार्चने
अन्तरालेऽथवा विष्णोर्दक्षिणोत्तरपार्श्वयो:।
अवतारार्चने विकल्पा:
कल्पयेद्रामकृष्णौ तु मुखमण्डम एव वा ।। 11.128 ।।
अथान्तर्मण्डले वाऽपि तथाऽऽवरणमाण्डपे।
संस्थाप्य कौतुकं बेरमर्चयेदिति केचन ।। 11.29 ।।
नारसिंहं वराहञ्च वामनञ्च त्रिविक्रमम्।
ध्रुवबेरं विना कृत्वा कौतुकं लक्षणान्वितम् ।। 11.130 ।।
स्थापयित्वा तथा विष्णुं पूजयेदग्रमण्डपे।
पाद्यमाचमनं स्नानमलङ्कारं तथैव च ।। 11.131 ।।
पाद्यमाचमनं पुष्पं गन्धं धूपमत: परम्।
दीपार्ध्याचमनान्येव हवि: पानीयमेव च ।। 11.132 ।।
तयैवाचमनं पश्चान्मुखवासमत: परम्।
परप्रधानबिम्बानामेते षोडश विग्रहा: ।। 11.133 ।।
स्वप्रधानावताराणां हरेरिव समाचरेत्।
स्थानं दशावताराणां ध्रुवकौतुकसंयुतम् ।। 11.134 ।।
अन्तरालयके केचिदिच्छन्ति मुनसत्तमा:।
स्थानाश्रयावताराणां मुखवासन्तमर्चनम् ।। 11.135 ।।
तत्तत्प्रधानमन्त्रान्ते तत्तन्मूर्ति समुच्चरन्।
अर्चनं स्नापनञ्चैव कुर्याद्भक्तिसमन्वित: ।। 11.136 ।।
आविर्भावावतारा:
(1)अत: परं प्रवक्ष्यामि ह्याविर्भावाश्च शार्ङ्गिण:।
त्रैलोक्यमोहनञ्चैव हरिशङ्करमेव च (1.) अत्र अध्यायसमाप्ति:, ख. ।। 11.137 ।।
पूर्वमेव मया प्रोक्ता: खिले विस्तरतस्तथा।
(मत्स्यकूम्रवराहाणां नारसिंहस्य कल्किन: ।। 11.138 ।।
ऋक्षं श्रवणमेवोक्तं वामनस्य तथैव च।
अन्येषामवताराणां पूयगृक्षमुदीरितम्)।
लक्ष्मीनरायण:
लक्ष्मीनारायणं वक्ष्ये सर्वसम्पत्करं वरम्।
वीशस्कन्धे समासीन नारायणमनामयम् ।। 11.139 ।।
सर्वमासीनवत्कृत्वा तस्योरौ दक्षिणे तथा।
देवीं श्रियं प्रकल्प्यैव (2)सर्वाभरणभूषिताम् (2.) स्वाविर्भावांश्च आ. ।। 11.140 ।।
प्राञ्जलीकृतहस्तां तां (3)व्रीतलाहर्षसमन्विताम्।
देवेशेनोपगूढां तां दक्षिणापरपाणिना (3.) क्रीडा ई. ।। 11.141 ।।
वामापरभुजो विष्णो: सम्यगूरौ निवेशित:।
एष एव विशेषस्स्यादन्यत्सर्व हरेरिव ।। 11.142 ।।
वामोरौ कारयेल्लक्ष्मीमिति केचिद्वदन्ति च।
(वीशस्कन्धं विना केचिदेवमासीनमासने) ।। 11.143 ।।
सभ्यहोमे प्रधानाग्नौ प्रतिष्ठेक्ताहुती: क्रमात्।
नारायणानुवाकञ्च श्रिय: सूक्तं तयैव च ।। 11.144 ।।
यजेदष्टोत्तरशतमन्येष्वग्निषु पूर्ववत्।
'श्रिये जात' इति जपन् पद्माग्नौ (1)पद्महोमकम् (1.) तत: परं 'शंसानियच्छ' त्वित्युक्त्वा शतमष्टोत्तरं यजेत्। श्रियं धृतिं पवित्रीञ्च लक्ष्मीमित्येव मूर्तिभि:। विशेषात् स्थापने तत्र विष्णुमूर्ति प्रकल्पयेत्। लक्ष्मरशं लक्ष्मीपतिञ्च: लक्ष्मीपल्लभमेव च। लक्ष्मनीनारायणमिति चतुमूर्तिभिरर्चये' दिति अधिकम् आ. ।। 11.145 ।।
(ध्रुवार्चनं यदि भवेत् भोगत्वाद्दैविके पदे ?।)
लक्ष्मीनायणारव्यन्तु यजेद्विष्णवादिमूर्तिभि:।
विशेषात्स्थापने तत्र विष्णुमूर्तिं प्रकल्पयेत् ।। 11.146 ।।
औत्सवं बलिबेरञ्च विष्णुं वा तद्वदेव वा।
पूर्वमष्टोपचारैस्तु ध्रुवमभ्यर्च्य मन्त्रत: ।। 11.147 ।।
द्वात्रिंशद्विग्रहै: पूजां 'कौतुके तु समाचरेत्।
निष्कलार्चाविचार:
'नारायणपरं ब्रह्म' परमात्मेति कीर्त्यते ।। 11.148 ।।
तद्रपं परमं सूक्ष्म(2) मक्षरं निष्कलञ्च यत्।
तत्स्थानीयं ध्रुवं प्रोक्तमशक्यं निष्कलार्चनम् (2.) अत्यन्तं ई. ।। 11.149 ।।
तत्पुष्पन्यासमात्रं स्याद्ध्बवबेरार्चनं मतम्।
विष्णोर्यत्सकलं रूपं स्थूलं सर्वस्य कारणम् ।। 11.150 ।।
तत्स्थानीयं कौतुकं स्यात्तत्र पूजां समाचरेत्।
ययोपयोगशक्यत्वात्कर्तु पुष्पादिपूजनम् ।। 11.151 ।।
सालम्बनत्वाद्विहितं (1)सकलत्वाञ्च पूजनम्।
ध्रुवस्य निष्कलत्वाञ्च निरातम्बनहेतुना (1.) सकलार्चनपूजनम आ. ।। 11.152 ।।
अशक्यत्वात्तत्र कर्तुं स्नानगन्धादिविग्रहम्।
आदिकालव्यवच्छेदान्नेष्यते तद् ध्रुवार्चनम् ।। 11.153 ।।
तथापि पूजनं कर्तु ध्रुवबेरे यदीच्छति।
स्नानप्लोतौ विना सर्वैरुचारैर्यथाविधि ।। 11.154 ।।
'ऋतं सत्ये' ति मन्त्रेण पूजयेदिति केचन।
नारायणानुवाकेन पुन: पुष्पाञ्जलिं ददेत् ।। 11.155 ।।
रविमण्ज्ञडलमध्यस्थं तप्तहाटकसन्निभम्।
शङ्खचक्रधरं सौम्यं प्रसन्नेन्दुनिभाननम् ।। 11.156 ।।
अभयं दक्षिणं पाणिं वामं कट्यवलम्बितम्।
चन्र्मण्डलमध्यस्थं शुद्धस्फटिकसन्निभ्?ाम् ।। 11.157 ।।
अग्निमण्डलमध्यस्थं पूर्ववत्परिकल्पयेत्।
चक्रम्
अत: परं प्रवक्ष्यामि महाचक्रस्य लक्षणम् ।। 11.158 ।।
स्वतन्त्रं स्थापयेन्नैव महाचक्रं विशेषत:।
देवस्य दक्षिणे पार्श्वे नैऋते वा प्रकल्पयेत् ।। 11.159 ।।
यमनैऋतयोर्मध्ये स्थापयेदालयाश्रयम्।
उपानात्थूपिपर्यन्तं वृत्तमेवास्य मन्दिरम् ।। 11.160 ।।
एकबेरविधानेन स्थापयेत्तद्ध्रुवार्चनम्।
अष्टोत्तरशतज्वालं चक्रं कृत्वाऽस्य मध्यमे ।। 11.161 ।।
अग्निनमण्डलयुग्मान्तर्गतं चक्रं प्रकल्पयेत्।
उत्तमे षोडशभुजं मध्यमेऽष्टभुजं तथा ।। 11.162 ।।
अधमे च चतुर्बाहुं कल्पयेद्वा सुदर्शनम्।
चक्रञ्च पट्टसं कुन्तं दण्डाङ्कुशहविर्भुज: ।। 11.163 ।।
क्षुरिकाञ्चैव शक्तिञ्च सव्यैर्दधतमष्टभि:।
शङ्खं शरञ्च चापञ्च पाशं हलमत: परम् ।। 11.164 ।।
वज्रं गदां तोमरञ्च दधद्वामैश्च बाहुभि:।
इत्युक्तष्षोडशभुजस्त्वष्टबाहु: प्रवक्ष्यते ।। 11.165 ।।
शङ्खचक्रगदापद्मुसनलाङ्कुश (1)पाशिनम्।
चापिनं कल्पयेच्चक्रमष्टवाहुधरं परम् (1.) पाशकं आ. ।। 11.166 ।।
शङ्खक्रधरञ्चैव गदापद्मधरं परम्।
चतुर्बाहुं द्विबाहुं वा यथाशक्ति प्रकल्पयेत् ।। 11.167 ।।
दंष्ट्राकरालवदनं अर्केन्द्वग्निविलोचनम्।
आजङ्घान्तावलम्बञ्च स्कन्धात्किङ्किणिमालया ।। 11.168 ।।
राजमानमुदाराङ्गं सर्वशत्रुविदारणम्।
श्रीवत्सकौस्तुभोद्भासिवक्षसं भक्तवत्सलम् ।। 11.169 ।।
वह्निज्वालावृतञ्चापि किरीटमकुटोज्जवलम्।
शरोङ्गाराग्निसङ्काशं शुकपत्रनिभाम्बरम् ।। 11.170 ।।
एवं कृत्वा महाचक्रं स्थापनारम्भमाचरेत्।
अक्ष्युन्मेषादिकं कृत्वा चक्रमन्त्रद्वयेन च ।। 11.171 ।।
अधिवास्य यथाशास्त्रं पञ्चगव्यादिषु क्रमात्।
कुमृभे ध्यात्वा समावाह्य संस्न्नाप्य कलशैस्तथा ।। 11.172 ।।
औपासनाग्नौ विधिना हौत्रं सम्यक्प्रशंस्य च।
वष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ।। 11.173 ।।
चतुरावर्त्य हुत्वा तु चक्रमन्त्रद्वयेन च।
अष्टोत्तरशतं हुत्वा जुहुयाच्चक्रमूत्रिभि: ।। 11.174 ।।
प्रातर्मुहूर्ते संस्थाप्य समावाह्य समर्चयेत्।
एतद्वैदिकमुद्दिष्टं भुक्तिमुक्तिफलप्रदम् ।। 11.175 ।।
(केवलं भुक्तिमाश्चेत् स्मरेन्मंत्रं षडक्षरम्।
सर्वान्कृत्वा विधानेन होमकाले विशेषत: ।। 11.176 ।।
अष्टोत्तरसहस्रं तन्मन्त्रमावर्त्य हूयताम्।
एष एव विशेष: स्यादन्यत्सर्वञ्च चक्रवत्) ।। 11.177 ।।
इत्यार्षे श्रीवैरवानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे
दशावतारलक्ष्मीनारायणमहाचक्रस्थापनविधानं नाम
एकादशोऽध्याय:(1) (1.) अत्र 92 अध्यायसमाप्ति: ई. 94 अध्यायसमाप्ति: ख.।
-----------