← एकोनविंशोऽध्यायः क्रियाधिकारः
विंशोऽध्यायः
[[लेखकः :|]]
एकविंशोऽध्यायः →


विंशोऽध्याय:
भूपरीक्षादिप्रायश्रित्तम्
अत: परं प्रवक्ष्यामि भूपरीक्षादिनिष्कृतिम्।
प्रायो दोषसमुत्पत्ति: (1)चित्तिस्तस्य निरासनम् (1.) चित्तम् क. ।। 20.1 ।।
तस्य दोषस्य सन्धानं प्रायश्चित्तमितीरितम्।
तदेव दिनमारभ्य नवमे वाऽथ सप्तमे ।। 20.2 ।।
पञ्चमेऽहनि वा कुर्यात्पूर्वमेवाङ्कुरार्पणाम्।
अङ्कुरार्पणहीने
अङ्कुरार्पणहीने तु भूपरीक्षादिकर्मणाम् ।। 20.3 ।।
ब्रहृमादीनान्तु षण्णां वै मन्त्रेर्हुत्वा तु वैष्णावै:।
पालिकाधिपतीनाञ्च जयादीनाञ्च मूर्तिभि: ।। 20.4 ।।
कृत्वाऽङ्कुरार्पणं पश्चात्तत्तत्कर्म समाचरेत्।
पालिकानामभावे तु शरावान्वा समाहरेत् ।। 20.5 ।।
दर्भैर्दग्ध्वोपयुक्तान्वा गृह्णीयादिति केचन।
विशेषार्चनहीने तु द्विगुणञ्च समर्चयेत् ।। 20.6 ।।
अष्टोपचारैरभ्यर्च्य हविम्सम्यङ्निवेदयेत्।
विशेषार्चनमित्युक्ते सर्वत्र द्विजसत्तमा: ।। 20.7 ।।
विशेषेणार्चनं कुर्यात्कौतुके चाङ्कुरार्पणे।
अन्यालयाङ्गबिम्बानामुत्सवाद्यङ्कुरार्पणे ।। 20.8 ।।
विशेषतोऽर्चनं यत्तत्बेर एव समाचरेत्।
प्रमाणहीनायां पङ्क्तौ यजेत्पङ्कीशमूर्तिभि: ।। 20.9 ।।
सप्तहस्तप्रमाणञ्चेत् स्थण्डिलं कल्पयेत्पदम्।
पञ्चहस्तप्रमाणञ्चेदुपपीदुपपीठपदं नयेत् ।। 20.10 ।।
पङ्क्तिंस्त्रिहस्तमाना चेत्कुर्यान्नवपदं तथा।
सप्तसप्तपदे मध्ये चैकं ब्राह्ममुदाहृतम् ।। 20.11 ।।
परितोऽष्टौ जयादीनां तद्वहिष्षोडशे पदे।
कल्पयित्वा तु तद्वाह्ये चतुर्विंशतिके पदे ।। 20.12 ।।
दिक्षु द्वाराणि चत्वारि शेषादीनां पदाष्टकम्।
द्वाराणां पार्श्वयोश्शेषा: पालिकास्थापनाय वै ।। 20.13 ।।
शेषञ्च वक्रतुण्डञ्च प्राग्द्वारोभयपार्श्वयो:।
वामदक्षिणयो: पूज्यौ चक्रवीशौ तु दक्षिणे ।। 20.14 ।।
पङ्त्तीशशङ्खौ वारुण्यां सोमशान्तावुदग्दिशि।
एवमेव प्रकुर्वीत सप्तसप्तपदे तथा ।। 20.15 ।।
पञ्चपञ्चपदे मध्ये ब्रह्मणश्चैकमुच्यते।
परितोऽष्टौ जयादीनां तद्वहिष्षोउशांशके ।। 20.16 ।।
दिक्षु द्वाराणि चत्वारि शेषादिंस्तेषु पूजयेत्।
शेषविध्नेशपङ्क्तीशसोमांस्तद्छवरपार्श्वगान् ।। 20.17 ।।
ईशानसोमयोर्मध्ये विष्वक्सेनं समर्चयेत्।
शिष्टानि पालिकादीनां स्थापनाय प्रकल्पयेत् ।। 20.18 ।।
मध्ये नवपदे चैकं ब्रह्मण: परिकीर्तितम्।
शेषादीनां जयादीनां पालिकानां तथैव च ।। 20.19 ।।
तद्वहिश्च पदेष्व्ष्ठस्वष्टावेवात्र पालिका:।
अङ्कुरार्पणमारभ्य तृतीये पञ्चमेऽथवा ।। 20.20 ।।
सप्तमे नवमे वाऽह्रि तत्तत्कर्म समाचरेत्।
अतश्चोर्ध्वमयुग्मेषु दिनेष्वेव यथाविधि ।। 20.21 ।।
महाशान्तिञ्च हुत्वा तु कृत्वा सद्योऽङ्कुरार्पणम्।
ब्राह्मणान्भोजयित्वा तु तत्तत्कर्म समाचरेत् ।। 20.22 ।।
कर्मणां साधिवासानां सद्यश्चेङ्कुरार्पणम्।
कारयेत्पूर्वरात्रौ तु पूर्वमेवाधिवासनम् ।। 20.23 ।।
कृत्वाऽक्षिमोचनं पश्चात् जलादिष्वधिवास्य च।
वास्तुहोमादिकं कर्म पूर्ववत्सर्वमाचरेत् ।। 20.24 ।।
दिनद्वयेऽप्यलब्धे तु सद्य: कर्तृ त्वरान्वित:।
कृत्वाऽङ्कुरार्पणं सद्यो नयनोन्मीलनादिकम् ।। 20.25 ।।
कृत्वा सद्यस्तदह्र्येव स्थापयेदिति केचन।
भूपरीक्षायाम्
भूपरीक्षामकृत्वा तु कृतं तत्कर्षणं यदि ।। 20.26 ।।
भूसूक्तं भूमिदैवत्यं हुत्वा भूमिं परीक्ष्य च।
पुनश्च कर्षणं कुर्यादिति पूर्वजशासनम् ।। 20.27 ।।
अकाले भूपरीक्षायां तथैव जुहुयाद्बुध:।
परीक्षेत शुभे काले भूमिं पूर्वेक्तमार्गत: ।। 20.28 ।।
भूपरीक्षणकाले तु दुर्निमित्तसमुद्भवे।
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ।। 20.29 ।।
हुत्वा तु विष्णुगयत्र्या सावित्र्याऽष्टशतं यजेत्।
शाकुनं स्वस्तिसूक्तञ्च दशकृत्वो जपेत्तथा ।। 20.30 ।।
कन्याया भोजने हीने दौर्ग हुत्वा तु भोजयेत्।
कन्याया दीपविच्छेदे पतने पङ्कजस्य च ।। 20.31 ।।
हुत्वा श्रीसूक्तदैवत्ये पश्चात्कर्म समाचरेत्।
गृह्णीयात्पङ्कजाभावे कुमुदं धवलं (1)नवम् (1.) शुभं क. ।। 20.32 ।।
आरभेत क्रियास्सर्वास्समभ्यर्च्य विनायकम्।
विनायकार्चने हीने तन्मन्त्रेण शतं यजेत् ।। 20.33 ।।
कर्षणे
कर्षणे च कृते काले क्रियाहीने तथैव च।
विपर्यासे च सर्वत्र भूसक्तं भूमिदैवतम् ।। 20.34 ।।
हुत्वा तत्तत्प्रकुर्वीत तत्तन्मन्त्रं समुच्चरन्।
उक्तवृक्षस्य चालाभे हलादीनां यथाक्रमम् ।। 20.35 ।।
तद्वृक्षाधिपमभ्यर्च्य शक्तितो दक्षिणां ददेत्।
वैष्णवं भूमिदैवत्यं यजेत्तत्र विधानत: ।। 20.36 ।।
उक्तप्रमाणहीनेषु हलादिषु तथैव च।
प्राजापत्यञ्च याम्यञ्च रौद्रं भौतिकसंयुतम् ।। 20.37 ।।
आदावन्ते च जुहुयाद्व्याहृत्यन्तं सवैष्णवम्।
भेदे छेदे तथा तेषां रज्जुच्छेदे तथैव च ।। 20.38 ।।
(1)वृषभाङ्गविहीने च पद्माग्नौ वैष्णवं यजेत्।
ब्राह्मञ्च वीशदैवत्यं प्राजापत्यञ्च भौतिकम् (1.) वृषभावङ्गहीनौ चेत् क.
।। 20.39 ।।
आर्षानपि च मन्त्राश्च तद्दैवत्यसमन्वितम्।
??कापिलेन घृतेनैव महाव्याहृतिभिर्यजेत् ।। 20.40 ।।
देवेशमर्चययित्वा तु रुप्यं दद्याद्यथोदयम्।
व्रणयुक्ते तु तत्काले सूक्ते वैष्णवपौरुषे ।। 20.41 ।।
मिन्दाहुती च विच्छिन्नं हुत्वाऽचार्याय दीयताम्।
निष्काधिकसुवर्णन्तु दक्षिणां देवसन्निधौ ।। 20.42 ।।
सुप्ते मूढे तथा भ्रान्ते दुर्गमे पतिते वृषे।
रुदिते विष्णुगायत्र्या पद्माग्नौ तु सहस्रकम् ।। 20.43 ।।
हुत्वा तु दक्षिणां दद्यात् केशदन्तनखादिषु।
कापालभस्मपाषाणतुषशल्येषु सत्सु च ।। 20.44 ।।
विसृज्य तानि सर्वाणि प्रोक्षणै: प्रोक्षयेत्तथा।
पञ्चगव्यैस्समभ्युक्ष्य वास्तुहोमं यजेत्पुन: ।। 20.45 ।।
कर्षणे तु विहीने तु हीने बीजनिवापने।
सद्य: कर्तुमशक्तो वा कालक्षेपभयात्तथा ।। 20.46 ।।
पद्माग्नौ रात्रिसूक्तञ्च विष्णुसूक्तञ्च वैष्णवम्।
गोदानसूक्तं विच्छिन्नं हुत्वा बीजं प्रदाय च ।। 20.47 ।।
कर्षयित्वा भुवं पश्चात् पलालानि तृणानि च।
विकीर्य भुवि सर्वत्र गोगणेभ्यो निवेदयेत् ।। 20.48 ।।
उप्तेषु तेषु नष्टेषु (1)वन्ध्यत्वादप्ररोहिषु।
पूर्वोक्तनिष्कृतिं हुत्वा तृणान्यास्तीर्य तत्र वै (1.) तं ध्यात्वाऽथ: क. ।। 20.49 ।।
गोगणेभ्यो निवेद्यैव पश्चात्कर्म समाचरेत्।
एकंदेशक्रियाहीने कर्षणे बीजवापने ।। 20.50 ।।
तत्कर्मणाञ्च सर्वेषां प्रायश्चित्तमिदं स्मृतम्।
गृहीतामन्यदेवार्थ न गृहणीयात्कदाचन ।। 20.51 ।।
अज्ञानाद्यदि गृहणाति विनश्यति न संशय:।
प्रतिलोमसमीपेषु न कुर्याद्विष्णुमन्दिरम् ।। 20.52 ।।
चण्डालपक्कणात्क्रोशादर्वाङ्रनैव प्रकल्पयेत्।
तथैव पुल्कसावासात्तथा तक्षककारुकात् (?) ।। 20.53 ।।
अनुलोमनिवासेऽपि न कुर्यादि केचन।
अनुलोमनिवासेषु कुर्याच्चेत्तान्त्रिकेण तु ।। 20.54 ।।
हीने शान्तार्चने हुत्वा तद्दैवत्यं सहस्रकम्।
वीशचक्रार्चने हीने तद्दैवत्यं तथा यजेत् ।। 20.55 ।।
तिलसर्षपमिश्रेण चरुणा जुहुयात्तथा।
तरुणालयहीने
तरुणालयहीने तु निष्फलं सर्वमुच्यते ।। 20.56 ।।
पौण्डरीके घृताभ्यक्तै: जुहु याच्छ्वेतपङ्कजै:।
क्रमेण रात्रिसूक्तञ्च पारमात्मिकमेव च ।। 20.57 ।।
ईङ्कारादीन्त्स्मरन् देवं वृषभं भक्तितो ददेत्।
बालालयेऽर्चनं कुर्वन् पश्चात्कर्म समाचरेत् ।। 20.58 ।।
तरुणालयबेर?विचार:
अलाभे लोहबिम्बाना लब्धं बिम्बं समाहरेत्।
अलाभे नानुरूपं वा याचितं वा समाहरेत् ।। 20.59 ।।
याचेत श्रोत्रियागाराल्लोकिकं वाऽन्यमन्दिरात्।
आलयाङ्गं न याचेत कौतुकादित्रयं बुध: ।। 20.60 ।।
याचितं श्रोत्रियागारादनुरुप ध्रुवस्य चेत्।
तमेवं कौतुकं तत्र प्रतिष्ठाप्य समर्चयेत् ।। 20.61 ।।
अन्यालयाद्यर्चितं चेत्तत्क्रियान्ते पुन: क्रमात्।
पूर्वाऽलयं समानीय शान्तिं हुत्वा समर्चयेत् ।। 20.62 ।।
स्थापितं नानुरुपञ्चेद्वैष्णवं मन्त्रमुच्चरन्।
सहसक्रकृत्वो हुत्वा तु कौतुकं स्थापयेच्छुभम् ।। 20.63 ।।
वास्तुसवनपुण्याहीने
वास्तुहोमविहीने तु पाञ्चभैतिकवैष्णवै।
महाव्याहृतिसंयुक्तं हुत्वा तत्पुनराचरेत् ।। 20.64 ।।
पुण्याहवाचने हीने विप्रान् शक्त्यैव भोजयेत्।
ब्रह्मपद्मावटे
ब्रह्मपद्मावटे तस्मिन्कपालास्थ्यादिदर्शने ।। 20.65 ।।
वैष्णवं भूमिदैवत्यं ब्राह्ममष्टोत्तरं शतम्।
हुत्वाऽन्यत्रैव तत्कुर्याद्ब्रह्मपद्मावटं पुन: ।। 20.66 ।।
वैष्णवं भूमिदैवत्यं प्राजापत्यं यजेत्पुन:।
भिन्ने तत्र घटे स्रावे जनानां भयसम्भवे ।। 20.67 ।।
कलहे रुधिरस्रावे वैश्वक्सेनं यजेत्क्रमात्।
गारुडं वैष्णावं ब्राह्ममैन्द्रञ्चैव समाहित: ।। 20.68 ।।
रात्रिसूक्तञ्च हुत्वा तु प्राजापत्यसमन्वितम्।
वामावर्ते वारुणञ्च वायव्यं भूमिदैवतम् ।। 20.69 ।।
सङ्कुलञ्चेत्तदा वारि ब्राह्मं हुत्वा सवारुणम्।
स्पन्दने चलने चैव पांसुच्छन्ने तथैव च ।। 20.70 ।।
वारुणं वैष्वक्सेनञ्च जुहुयात्तस्य शान्तये।
पद्मेऽधरोत्तरे तस्मिन् पार्श्वस्?थे पतितेऽपि च ।। 20.71 ।।
स्पन्दने पत्रकौटिल्ये परिम्लाने च भेदने।
ब्राह्मं तद्देवहोमञ्च वारुणं भार्गवं यजेत् ।। 20.72 ।।
विदिग्गते तथा पद्मे ब्राह्ममारुषमेव च।
शङ्कुस्थापने
शङ्कुस्थापनहीने च परिषद्धोममाचरेत् ।। 20.73 ।।
शुद्धप्राच्याऽथवा कुर्याद्दिक्परिच्छेदमत्वर:।
आरभ्य मुख्यमार्गन्तु तद्गौणं कारयेद्यदि
दत्वा च दक्षिणां देवं सक्त्याभ्यर्च्य निवेद्य च ।। 20.75 ।।
आरब्धनतु यथापूर्वं तथैव पुनराचरेत्।
आद्येष्टकायाम् आद्येष्टकामकृत्वा तु विमानं क्रियते यदि ।। 20.76 ।।
ग्रामस्य यजमानस्य राष्ट्रस्य महती विपत्।
तस्मात्तदपहाराय महाशान्तिं तथा यजेत् ।। 20.77 ।।
आद्येष्टकाञ्च सन्न्यस्य विमानं कारयेत्पुन:।
आद्येष्टकाक्रियायान्तु न्यूनायां मन्त्रपर्यये ।। 20.78 ।।
इष्टकाग्रे शिलाग्रे च विपर्यासे तथैव च।
रत्नन्यासविहीने च सर्वदैवत्यपूर्वकम् ।। 20.79 ।।
वंष्णवं विष्णुसूक्तञ्च पैरुषं सूक्तमेव च।
मिन्दाहुती महीसूक्तं विच्छिन्नं जुहुयात्क्रमात् ।। 20.80 ।।
पूर्वोक्तेन विधानेन कारयेदिति शासनम्(1)।
विमाने प्रस्तरे तस्मिन्नलङ्कारे च सर्वश: (1.) अत्र 24. अध्याय समाप्ति: ख.
।। 20.81 ।।
हीने चाङ्के विमाने च प्रतिखण्डविपर्यये।
शान्तिकादिविमाने तु तले त्वन्योन्यसङ्करे ।। 20.82 ।।
द्वारस्याभ्यन्तरस्यापि भित्ते: हीनेऽधिके तथा।
न्यक्षादीनां चतुर्णाञ्च शतकृत्वो यजेत्क्रमात् ।। 20.83 ।।
मध्ये तु पौण्डरीकाग्नौ पद्महोमं जुहोति च।
जुहुयाद्रात्रिसूक्तञ्च पौरुषं सूक्तमेव च ।। 20.84 ।।
सहस्राहुतिपर्यन्तं यथोक्तं कारयेद्बुध:।
अन्योन्यं गण्यसाङ्कर्यं नाचरेच्छान्तिकादिषु ।। 20.85 ।।
अदृभुते शानितकं गण्यं योजयेत्सार्वदेशिकम्।
प्राकाराद्येष्टकाहीने परिवाराधिदैवतम् ।। 20.86 ।।
वैष्णवेन समायुक्तं दशकृत्वो जुहोति च।
गोपुराद्यैष्टकाहीने द्वारपालाधिदैवतम् ।। 20.87 ।।
धात्रादीनान्तु षण्मन्त्रान् दशवारं सवैष्णवम्।
आद्येष्टकानां विन्यासे हीने चैन्मण्डपादिषु ।। 20.88 ।।
तन्मण्डपाधिदैवत्यं वैष्ण्?ावेन शतं यजेत्।
महानसस्य हीने चेद्धविरक्षकदैवतम् ।। 20.89 ।।
श्रीदैवत्यञ्च तत्सूक्तमाग्नेयं वैष्णवं यजेत्।
भूतपीठे अद्येष्टका
आद्येष्टकाक्रमं वक्ष्ये भूतपीठप्रकल्पने ।। 20.90 ।।
इष्टकां वा शिलां वाऽथ गृहीत्वा पूर्वसङ्ख्यया।
अधिवासादिकर्माणि कृत्वा पूर्वोक्तमार्गत: ।। 20.91 ।।
मन्त्रौ तदृभूतदैवत्यौ वैष्णवेन समन्वितौ।
अष्टोत्तरशतं हुत्वा भूतेभ्यश्च तत: परम् ।। 20.92 ।।
यक्षेभ्यश्च पिशाचेभ्ज्ञ्यो नागेभ्यश्च जुहोति च।
चतुर्वेदादिमन्त्रैस्तु स्थापयेच्चतुरिष्टका: ।। 20.93 ।।
तत्राप्याद्येष्टकाहीने कृते सति तपोधना:।
जुहुयाद्भूतमन्त्राभ्यां वैष्णवेन युतं शतम् ।। 20.94 ।।
अधिवासोचितैर्मन्त्रै: पीठं संस्नाप्य वारिणा।
संस्नाप्य सप्तकलशैर्होमं हुत्वा च पूर्ववत् ।। 20.95 ।।
चतुर्वेदादिमन्त्रास्तांश्चतुर्दिक्षु तथा जपेत्।
साधारणनिष्कृति:
कर्मणामपि सर्वेषां प्रच्युतावुक्तनिष्कृति: ।। 20.96 ।।
हुत्वा तदुक्तहोमान्ते तत्तन्मन्त्रान् जपेत्क्रमात्।
परिवारालयानाञ्च हरेरुक्तप्रमाणत: ।। 20.97 ।।
आद्येष्टकादिकं सर्वं कुर्यात्तन्मन्त्रपूर्वकम्।
गर्भन्यासहीनेगर्भन्यासक्रियाहीने
कालातीते विपर्यये ।। 20.98 ।।
वैष्णवं भूमिदैवत्यं श्रीदैवत्यं तथैव च।
विष्णुसूक्तञ्च जुहुयात्पौरुषं सूक्तमेव च ।। 20.99 ।।
मिन्दाहुती च विच्छिन्नं महीसूक्तं क्रमाद्यजेत्।
पूर्ववत्सन्न्यसेद्गर्भ तत्तत्परिषदां स्मृतम् ।। 20.100 ।।
मूर्धेष्टकान्यासे
मूर्धेष्टकायां हीनायां कालेऽतीते विपर्यये।
आद्येष्टकायां सम्प्रोक्तं प्रायश्चितं जुहोति च ।। 20.101 ।।
अङ्गहोमं ततो हुत्वा पूर्वोक्तविधिना चरेत्।
स्थूपिशूलादिहीने
स्थूपिशूलादिहीने तु ध्रुवसूक्तं समुच्चरन्‌ ।। 20.102 ।।
सन्न्यसेदिष्टकामेकां तत्र रत्नानि सन्न्यसेत्।
दिक्ष्विष्टकाश्चतस्रस्तु स्थापयित्वा तु पूर्ववत् ।। 20.103 ।।
मध्ये स्थूपिं प्रतिष्ठाप्य सुधया कारयेद्दृढम्।
परिवारालयानाञ्च गोपुराणां तथैव च ।। 20.104 ।।
र्वलेपादिहीने
मूर्धेष्टकायां हीनायां वर्णलेपविपर्यये।
सहस्राहुतिमबजग्नौ वैष्णवं जुहुयात्तथा ।। 20.105 ।।
सुधाकर्म पुन: कुर्याद्वर्णलेपं तथैव च।
अग्नयुल्काशनिधूमाद्यैर्दोषयुक्ते च मन्?िदरे ।। 20.106 ।।
शान्तये तस्य दुहुयादीङ्कारीदींस्तथैव च।
मिन्दाहुती च विच्छिन्नं पारमात्मिकमेव च ।। 20.107 ।।
ब्राह्मणान् भोजयित्वा तु दद्यादाचार्यदक्षिणाम्।
बेरस्याग्निस्पर्शे
बेरेऽग्निस्पर्शनेऽब्जाग्नौ महाशान्तिं दिनत्रयम् ।। 20.108 ।।
हुत्वा शताष्टकलशै: स्नापयित्वा तत: परम्।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचेत् ।। 20.109 ।।
प्रकारैष्वग्निदग्धेषु
प्राकरेष्वग्निदग्धेषु तत्रस्थपरिषद्गणान्।
संस्नाप्यैव समभ्यर्च्य तेषां मन्त्रं सवैरूष्णवम् ।। 20.110 ।।
चतुर्वेदादिमन्त्रांश्च हुत्वा विप्रांश्च भोजयेत्।
देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेत् ।। 20.111 ।।
दारमसङ्गहकाले तु विपरीतं भवेद्यति।
याजमानो गुरू: स्नात्वा तत्राब्जाग्निं प्रकल्प्य च ।। 20.112 ।।
जुहुयाद्रात्रिसूक्तन्तु श्रीसूक्तं (1)वैष्णवं तथा।
वैष्णवं विष्णुसूक्तञ्च गृह्णीयात्पूर्ववत्पवुन: (1.) दैवतं आ. ।। 20.113 ।।
शूलस्थापनहीने
शूलसंस्थापने हीने समाप्ते सति मन्दिरे।
भवेत्पिशाचावास: स वास्तुहोमं यजेत्पुन: ।। 20.114 ।।
पौण्डरीके तु तन्मध्ये महाशान्तिं जुहोति च।
हिरण्यपशुभूम्यादीन् दत्वा कर्मं समारभेत् ।। 20.115 ।।
एकमासे भवेदेवं द्विमासे द्विगुणं भवेत्।
एवं संवर्धयेत्प्राज्ञो यावत्संवत्सरावधि ।। 20.116 ।।
संवत्सरेऽप्यतीते तु महाशान्तिं जुहोति च।
हिरण्यपशुभूम्यादीन् दत्वा विप्रांश्च भोजयेत् ।। 20.117 ।।
एवमाद्येष्टकादीनां हुत्वा तत्तन्मनुं स्मरन्।
तत्तन्मन्त्रजपं कृत्वा शूलं संस्थापयेत्पुन: ।। 20.118 ।।
मासमेकं महाशान्तिं द्वादशाब्दात्पंर यजेत्।
कर्षणादीनि कर्माणि कुर्यात्सर्वाणि पूर्ववत् ।। 20.119 ।।
ध्रुवबेरक्रियाहीने शूले संस्थापिते यदि।
जुहुयात्पौण्डरीकाग्नौ विष्णुसूक्तमनुस्मरन् ।। 20.120 ।।
विच्?िछन्नञ्चैव हुत्वा तु मिन्दाहुत्या च हूयताम्।
हुत्वा तु सप्तसमिधो देवेशमनुमान्य च ।। 20.121 ।।
भूमिञ्च गुरवे दत्वा तत्तत्कर्म समाचरेत्।
एवं मासे तु सम्प्रोक्तं द्वितीये द्विगुणं भवेत् ।। 20.122 ।।
वर्धयेदेवमेवैतत् यावत्संवत्सराधि।
संवत्सरेऽप्यतीते तु पौण्डरीकञ्च कारयेत् ।। 20.123 ।।
कुर्यादाहवनीयादीन् चतुर्दिक्षु यथाक्रमम्।
आघारान्ते तु होतव्ये सहस्राहुतिवैष्णवे ।। 20.124 ।।
विष्णुसूक्तञ्च जुहुयात्तत्तद्धोमे शताष्टकम्।
दिग्दैवत्यञ्च हुत्वा तु दक्षिणाञ्च ददेत्तथा ।। 20.125 ।।
विप्राणां भोजनं कृत्वा दक्षिणाञ्च स्वशक्तित:।
द्वितीये द्विगुणञ्चैव वर्धयेद्वादशावधि ।। 20.126 ।।
द्वादशाद्वे व्यतीते तु कर्षणादीनि कारयेत्।
पौण्डरीके तु कूष्माण्डं पञ्चवारुणसंयुतम् ।। 20.127 ।।
पारमात्मिकमीङ्कारानङ्गहोमं तत: परम्।
पौरुषं विष्णुसूक्तञ्च हुत्वा विप्रांश्च भोजयेत् ।। 20.128 ।।
पञ्चनिष्कसुवर्णञ्च दद्यादाचार्यदक्षिणाम्।
वास्तुहोमं ततो हुत्वा पुण्याहमपि वाचयेत् ।। 20.129 ।।
कवाटबोधिकास्थूणासूत्तरे देषसंयुते।
वृद्धौ प्रमाणहीने च जीर्णे दग्धे च तं त्यजेत् ।। 20.130 ।।
अन्यत्प्रमाणसंयुक्तं गृहीत्वा योजयेत्पुन:।
'आपो हि ष्ठा' दिभि: प्रोक्ष्य जुहुयाद्वैष्णवं शतम् ।। 20.131 ।।
भुवङ्गे च पतङ्गे च कवाटे स्तमृभयोर्द्वयो:।
धात्रादीन् षट् समावाह्य विधिनैव समर्चयेत् ।। 20.132 ।।
अन्यालयोपयुक्ताश्च अन्यार्थ स्वीकृताश्य या:।
हुताशनपरीताश्च त्याज्या दारुशिलेष्टका: ।। 20.133 ।।
विमानं नवधा मार्गे यन्मार्गेण प्रकल्पितम्।
कारयेध्द्रुवबेरन्तु तन्मार्गेणाधिकेन वा ।। 20.134 ।।
ततो हीनं न कर्तव्यं कौतुकादित्रयं तथा।
आलयस्य विपर्यासे तथा बेरविपर्यये ।। 20.235 ।।
शूलदारुविपर्यासे कल्पनादिविपर्यये।
ब्राह्मञ्च विष्णुसूक्तञ्च गारुडं सौम्यमेव च ।। 20.136 ।।
प्राजापत्यञ्च रौद्रञ्च सहस्रं जुहुयात्क्रमात्।
पूर्वोक्तेनैव मार्गेण कारयेत्तद्विधानत: ।। 20.137 ।।
विमानादीनां श्रैष्ट्यम्
आलयं गोपुरञ्चैव प्रतिमा पीठमेव च।
शरीरमेव देवस्य स्मृतमेतच्च्तुष्टयम् ।। 20.138 ।।
जीर्णोद्वारविचार:
आलये मण्डपे वाऽपि परिवारालये तथा।
प्राकारे गोपुरे पीठे पचनालय एव वा ।। 20.139 ।।
इष्टकानां तु प्रक्षेपे तथा वर्णानुलेपने।
एकद्विमासे कुयाच्चेत् नवकर्मादिकं तथा ।। 20.140 ।।
तद्दोषन्तु व्यपोह्यैव सर्वेषान्तु सलक्षणम्।
यथासौन्दर्यमार्गेण नवकर्म समाचरेत् ।। 20.141 ।।
समाप्तेऽह्रि च पूवहिणेऽप्यालयस्योत्तरे तथा।
वास्तुहोमं ततो हुत्वा पर्यग्निकरणं तथा ।। 20.142 ।।
पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेत्।
स्नपनोक्तक्रमेणैव विधिना स्नापयेद्बुध: ।। 20.143 ।।
आलयाद्दक्षिणे चैव औपासनविधानत:।
कुण्डं सलक्षणं कृत्वा प्रज्वाल्याग्निं समन्त्रकम् ।। 20.144 ।।
तद्दैवत्यञ्च हुत्वा तु परिषन्मन्त्रसंयुतम्।
अङ्गहोमं ततो हुत्वा पारमात्मिकसंयुतम् ।। 20.145 ।।
ईङ्कारादींस्ततो हुत्वा अष्टाशीत्याहुतिं यजेत्।
वैष्णवं तत्रजुहुयान्महाव्याहृतिसंयुतम् ।। 20.146 ।।
सहस्राहुतिञ्च जुहुयात्सर्वेषामेव कारयेत्।
तांस्तान् देवान् प्रतिष्ठाप्य प्रतिष्ठोक्तक्रमेण वै ।। 20.147 ।।
अन्तहोमं ततो हुत्वा देवेशं सम्प्रणम्य च।
महावि: प्रभूतं वा देवेशाय निवेदयेत् ।। 20.148 ।।
शिलादार्वोमुंखं पार्श्वें पृष्ठमूर्ध्वमधस्तथा।
ज्ञात्वा कुर्याद्विपर्यासाद्देवरूपं कृतं यदि ।। 20.149 ।।
स्थापितं चेत्तदाभिचारिकमुच्यते।
राजाष्ट्रविनाश: स्यात् प्रजापीडा भयं मृति: ।। 20.140 ।।
तद्दोषशमनार्थाय क्षिप्रं शान्तिञ्च कारयेत्।
आलयस्योत्तरे कुर्यात्पौण्डरीकं सलक्षणम् ।। 20.151 ।।
जुहुयात्पौरुषं सूक्त 'मतो देवा' ?दि वैष्णवम्।
ईङ्काराद्यङ्गहोमञ्च पञ्चवारुणसंयुतम् ।। 20.152 ।।
जयाभ्यातानसंयुक्तं परिषन्मन्त्रसंयुतम्।
पूर्ववद्विधिना कृत्वा स्थापयेत्तद्विचक्षण: ।। 20.153 ।।
अङ्गवैकल्ये
बाहुप्रकोष्ठहस्तोरुजङ्घापादतलेषु च।
पार्श्वाध:कटिदण्डेषु न हीनं नाधिकं तथा ।। 20.154 ।।
अङ्गोपाङ्गेषु सर्वत्र हीने चैवाङ्गुले तु तत्।
हेम्ना वा रजितेनाथ ताम्रेणैवाथ पूर्ववत् ।। 20.155 ।।
स्थापयेद्व्यत्ययेनैव शूलं यदि विनश्यति।
आलयस्योतरे पार्श्वे पूर्वोक्तं होममाचरेत् ।। 20.156 ।।
हुत्वा पुरुषसूक्तञ्च दद्यादाचार्यदक्षिणाम्।
गृहीत्वा विधिवच्छूलं पूर्ववत्स्थापयेत्क्रमात् ।। 20.157 ।।
दूषिता मूत्तिका चेत्तु श्वकाकपशुवानरै:।
मू?षिकाभि: कुक्कुटैर्वा त्यक्त्वान्यां विधिना हरेत् ।। 20.158 ।।
जुहुयाद्भूमिदैवत्यं पारमात्मिकसंयुतम्।
ईङ्कारादींश्चकूष्माण्डान् संस्कुर्याच्च पुनर्मृदम् ।। 20.159 ।।
मृद:स्नेहस्य चूर्णस्य कषायस्यौषधस्य च।
न्यूने संस्कारहीने च प्रयोगस्य विपर्यये ।। 20.160 ।।
रज्जुबन्धेऽष्टबन्धे च शर्करालेपने तथा।
न्यूने संस्कारहीने च प्रयोगस्य विपर्यये ।। 20.161 ।।
वैष्णवं चारुषञ्चैव पाञ्चभौतिकमेव च।
ब्राह्ममैन्द्रं त्रयस्त्रिंशद्देवताभ्यश्च हूयते ।। 20.1़62 ।।
पूर्वोक्तेन विधानेन तत्तत्कर्म समाचरेत्।
वर्णव्यतिक्रमे हुत्वा प्राजापत्यं सपौरुषम् ।। 20.163 ।।
मृण्मयं नार्धचित्रम्
अर्धचित्रं न कुर्वीत मृण्मयं लोहजं तथा।
स्थापितञ्च विसृज्यान्यत् बेरं सङ्गृह्य यत्नत: ।। 20.164 ।।
पद्माग्नौ ब्रह्मसूक्तञ्च वैष्ण 'वा श्रावि' तादिकम्।
हुत्वा मिन्दाहुती विप्रान् भोजयित्वा तत: परम् ।। 20.165 ।।
पूर्वोक्तेन विधानेन स्थापयेदिति शासनम्(1)।
शिलामणिबिम्बे
शिलाजं मणिजं बिम्बमर्धचित्रं न दोषकृत् (1.) अत्र 25 अध्याय समाप्ति: ख.
।। 20.166 ।।
शैलजं ध्रुवबेरन्तु वर्णयुक्तन्तु कारयेत्।
(ध्रुवबेरार्चनं चेत्तु वर्णयुक्तं न कारयेत् ।। 20.167 ।।
ब्रह्मस्थानार्चनार्हं यत् स्थापनं तद्ध्रुवार्चनम्।
दैविंके मानुषे चैव स्थापयेच्च विशेषत: ।। 20.168 ।।
एकबेरार्चनञ्चैतत् वर्णयुक्तं न (2)दोषकृत्।
न्यूनाधिक्यविषय:
किमिदं परिमाणेन कारणं यच्च वै विदु: (2.) दोषभाक् आ. ।। 20.169 ।।
यवं यवत्रयं चापि अर्धाङ्गुलमथापि वा।
एकेन वाऽथ पादाभ्यां न्यूनाधिक्ये न दोषकृत् ।। 20.170 ।।
बिम्बस्य वस्त्रमाभरणं पद्मं किरीटं शङ्खचक्रकौ।
उपवीतं प्रलम्बञ्च श्रीवत्सं कुण्डनलद्वयम् ।। 20.171 ।।
एवमाद्यैस्समायुक्तं बिम्बं कर्याद्विशेषत:।
एतैर्हींनं यदि भवेत्पुनरेतैस्समायुतम् ।। 20.172 ।।
कारयित्वैव जुहुयाद्वैष्णवं ब्राह्मसंयुतम्।
ऐन्द्रञ्च विष्णुसूक्तञ्च सौरं सौम्यञ्च पौरुषम् ।। 20.173 ।।
ब्राह्मणान् भोजयित्वा तु विधिना स्थापयेद्बुध:।
बेरं कृत्रिमवर्णेन योजयेच्चेत्प्रमादत: ।। 20.174 ।।
क्षालयित्वां प्रमार्ज्यैव विशोष्य च यथाविधि।
पौण्डरीकाग्निकुण्डे तु सूक्तं वैश्वानरं यजेत् ।। 20.175 ।।
ब्राह्मञ्च विष्णुसूक्तञ्च वैष्णवञ्च जयादिभि:।
तस्यानुरूपं वर्णञ्च योजयेत्तद्विधानत: ।। 20.176 ।।
अक्षिमोचनहीने च कालातीते प्रमादत:।
षण्मण्डलाधिदैवत्यं 'यद्देवादि' तत: परम् ।। 20.177 ।।
'ईङ्कारादी' स्ततो हुत्वा पारमात्मिकमेव च।
अष्टाशीतिं ततो हुत्वा कारयेदक्षिमोचनम् ।। 20.178 ।।
क्रूरग्रहाणामुदये त्वज्ञानात्क्रियते यदि।
क्षालयित्वा ततो हुत्वा प्रायश्चित्तञ्च पूर्ववत् ।। 20.179 ।।
पूर्ववद्विधिना सम्यगक्षिमोचनमाचरेत्।
कर्षणादीनां सामान्य प्रायश्चित्तम्
कर्षणादि प्रतिष्ठान्तं न्यूने हीने विपर्यये ।। 20.180 ।।
जुहुयात्पौण्डरीकाग्नौ सूक्ते वैष्णवपौरुषे।
'यद्देवादीं' स्ततो हुत्वा पारमात्मिकमेव च ।। 20.181 ।।
'ईङ्कारादी' श्च जुहुयादष्टाशीतिमत: परम्।
प्राजापत्यञ्च सौम्यञ्च ऐन्द्रमाग्नेयमेव च ।। 20.182 ।।
सौरं सौम्यञ्च जुहुयादङ्गहोमञ्च वैष्णवम्।
महाव्याहृतिभिर्हुत्वा ब्राह्मणान्भोजयेत्पुन: ।। 20.183 ।।
वाचयित्वा तु पुण्याहं स्वस्तिघोषञ्च कारयेत्।
देवकार्येषु प्रण्याहविशेष:
दैविकेषु तु सर्वेषु भूपरीक्षादिकर्मसु ।। 20.184 ।।
पुण्याहे विहिते सम्यक्, यत्पुण्य' मिति च ब्रुवन्।
'पुण्याहं स्वस्तिमृद्धि' ञ्च वाचयित्वा त्रिधात्रिधा ।। 20.185 ।।
'स्वस्ति न-ऋद्ध्यास्स्मे' ति वाचयित्वान्तरान्तरा।
'आपो हिरण्य पवमानै:' प्रोक्षयित्वा तत: परम् ।। 20.186 ।।
दक्षिणादानादाने च सूत्रोक्तविधिना चरेत्।
गवादिदक्षिणां दत्वा पश्चात्कर्म समाचरेत् ।। 20.187 ।।
हीनक्रियासु सर्वासु प्रायश्चित्तमिदं स्मृतम्।
अनुक्तदव्यकल्पिते बेरे
इष्टकाभिस्सुधाभिर्वाकण्टकाद्यैर्नपुंसकै: ।। 20.188 ।।
अन्यैश्च काष्ठैवृर्क्षैर्वाऽप्यन्यैर्दूषितदारुभि:।
कालायसैश्च पाषाणै: चूर्णैर्वाऽपि समायुतै: ।। 20.189 ।।
संयुक्ते तु कृते बेरे कृते पक्वे तु मृण्मये।
पैशाचैश्चासुरैर्द्रव्यैरतिरिक्तमृदाऽथवा ।। 20.190 ।।
द्रव्यैरसंस्कृतैर्वापि ध्रुवबेरे प्रकल्पिते।
अशूले रज्जुमृद्वस्त्रशर्करादावमानके ।। 20.191 ।।
कुशे स्थूलेऽतिजीर्णे च वृद्धौ वाऽनुक्तवर्णके।
सुधयैव कृते बेरे तथैवेष्टकया कृते ।। 20.192 ।।
क?िल्पतेऽनुक्तद्रव्येण कृत्रिमाभरणान्विते।
इत्यादिदोषसंयुक्ते बेरे सर्व विनश्यति ।। 20.193 ।।
स्थापयेच्चेतदज्ञानात् यजमानो विनश्यति।
तच्छान्ति:
तच्छान्ति: पौण्डरीकाग्नावालयस्योत्तरे कृते ।। 20.194 ।।
पारमात्मिकमीङ्काराद्यष्टाशीत्यङ्गहोमकम्।
ब्रह्मसूक्तसमायुक्तं श्रीसूक्तेन समन्वितम् ।। 20.195 ।।
दुर्गासूक्तञ्च जुहुयाद्विष्णुसूक्तमत: परम्।
जुहुयात्पौरुषं सूक्तं विश्वजित्सूक्तमेव च ।। 20.196 ।।
प्राजापत्यञ्च रौद्रञ्च ब्राह्ममाग्नेयमेव च।
सौरं सौम्यसमायुक्तं वैष्णवं जुहुयायात्पुन: ।। 20.197 ।।
ब्राहृमणान् भोजयित्वा तु दद्यादाचार्यदक्षिणाम्।
बालालये प्रतिष्ठाप्य सदोषमपहाय च ।। 20.198 ।।
सलक्षणं तत: कृत्वा स्थापयेत्वूर्वत्क्रमात्।
पुनर्जौर्णविमानादिकथनम्
तद्विमानगलस्थाने पादवर्गस्य मध्यमे ।। 20.199 ।।
कारयेद्विहितां मूर्तिं सुधयेष्टकयाऽथवा।
मृच्छूलशर्करारज्जवुस्त्रे हीनेऽप्रमाणके ।। 20.200 ।।
कृते कृत्रिमवर्णेन दोषै: कार्श्यादिभिर्युते।
न दोषदा इति प्रोक्ता यदि ते शिलया कृता: ।। 20.201 ।।
सर्वलक्षणसंपन्नान् वर्णहीनान् प्रकल्पयेत्।
शिलासङ्गहवर्ज बिम्बे कृते
अकृत्वा कल्पिते बेरे शिलासङ्गहणक्रियाम् ।। 20.201 ।।
पौण्डरीके महाशान्तिं एकाहं जुहुयात्पुन:।
शिलाग्रहणहोमञ्च हुत्वा मन्त्रं स्पृशन् जपेत् ।। 20.203 ।।
अज्ञानात्स्थापितञ्चैतत् एवं कृत्वा यथाविधि।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्(1) (1.) अत्र 26 अध्याय समाप्ति: ख.
।। 20.204 ।।
शीघ्रं संस्थापयेद्वेरं निर्दोषं लक्षणान्वितम्।
न स्थापयति चेन्मोहादाधिव्याध्याद्युपद्रवै: ।। 20.205 ।।
क्षुत्पिपासादिभिश्चैव स देश: पीड्यते भृशम्।
तस्माद्धुत्वा महाशान्तिं भोजयित्वा द्विजोत्तमान् ।। 20.206 ।।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्(1)।
अनुक्तकाले बिम्बे स्थापिते
आर्द्राद्यनुक्तनक्षत्रे वारे राशौ च निन्दिते (1.) अत्र 26 अध्याय समापित: चख.
।। 20.207 ।।
उल्काग्न्यशनिपाते च दिग्दाहे पांसुलोहिते।
वर्षधारातिपाते च चन्द्रसूर्योपरागयो: ।। 20.208 ।।
चैत्यवृक्षनिपाते च भूमिकम्पदिने तथा।
दोषुयक्ते च नक्षत्रे शर्वर्यां वा तथैव च ।। 20.209 ।।
स्थापितं चेत्तदज्ञानात् पूर्ववद्होममाचरेत्।
सहस्राहुतिमिष्ट्वैव सहस्रञ्चैव वैष्णव् ।। 20.210 ।।
परिषद्देवतानाञ्च तत्तन्मन्त्रैश्च हूयते।
यथोक्तं स्थापयित्वैव शक्तितो दक्षिणां ददेत् ।। 20.211 ।।
अकृत्वा भूपरीक्षादिक्रियास्सर्वा: प्रमादत:।
अनुक्तमासनक्षत्रथिवासरराशिषु ।। 20.212 ।।
रात्रावविधिकं मोहादज्ञानात्स्थापिते यदि।
मासं पक्षन्तु सप्ताहं पञ्चाहं त्रियहन्तु वा ।। 20.213 ।।
त्रिकालं पौण्डरीकाग्नौ महाशान्तिं जुहोति वै।
तत्तन्मन्त्रजपं कृत्वा भूपरीक्षादिकर्मणाम् ।। 20.214 ।।
पूर्वोक्तेन प्रकारेण प्रतिष्ठां पनराचरेत्।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृंगुप्रोक्तायां संहितायां क्रियाधिकारे
भूपरीक्षादिप्रायश्चित्तविधिर्नाम विंशोऽध्याय:।
-------