पृष्ठ २/२३३

क्षि, क्षयैश्वर्य्ययोः । इति कविकल्पद्रुमः । (भ्वां--परं-

सकं, ऐश्वर्य्ये--अकं-अनिट् ।) क्षयति पापम् ।
इति दुर्गादासः ॥

क्षि, न ग ष हिंसायाम् । इति कविकल्पद्रुमः । (स्वां-

क्र्यां च-परं-सकं-अनिट् ।) न, क्षिणोति । ग,
क्षिणाति । ष, क्षिया । (यथा, शान्तिशतके ५ ।
“धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं
ध्यायतामानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्के
स्थिताः । अस्माकन्तु मनोरथोपरचितप्रासाद-
वापीतटक्रीडाकाननकेलिमण्डपयुषामायुः परं
क्षीयते” । इति कर्म्मकर्त्तरि साध्यम् । इति
दुर्गदासः ॥

क्षि, श वासगत्योः । इति कविकल्पद्रुमः ॥ (तुदां--

परं-अकं-सकंच-अनिट् ।) श, क्षियति । इति
दुर्गादासः ॥

क्षि, त्रि, (क्षि + बाहुलकात् डिः ।) निवासः ।

गतिः । क्षयः । इति मेदिनी ॥

क्षिण, दु ञ वधे । इति कविकल्पद्रुमः ॥ (तनां-उभं-

सकं-सेट्-उदित्त्वात् क्त्वा वेट् ।) द ञ, क्षिणोति
क्षिणुते । उ, क्षिणित्वा क्षित्वा । इति दुर्गा-
दासः ॥

क्षितः, त्रि, (क्षि + कर्म्मणि क्तः ।) हिंसितः ।

क्षितः कामो मया हिंसित इत्यर्थः । इति मुग्ध-
बोधटीकायां दुर्गादासः ॥

क्षितिः, स्त्री, (क्षियति वसत्यस्याम् । क्षि + अधि-

करणे क्तिन् ।) अस्या अपरा व्युत्पत्तिर्यथा, --
“महालये क्षयं याति क्षितिस्तेन प्रकीर्त्तिता ।
काश्यपी कश्यपस्येयमचला स्थिररूपतः” ॥
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ७ अध्यायः ॥
पृथिवी । (यथा, मनौ ४ । २४१ ।
“मृतं शरीरमुत्सृज्य काष्ठलोष्ट्रसमं क्षितौ ।
विमुखा बान्धवा यान्ति धर्म्मस्तमनुगच्छति” ॥)
वासः । क्षयः । इत्यमरः । ३ । ३ । ७० ॥ काल-
भेदः । स तु प्रलयः । इति मेदिनी ॥ रोचना-
नामगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥ * ॥

क्षितिकणः, पुं, (क्षितेः पृथिव्याः कणः ।) धूलिः ।

इति त्रिकाण्डशेषः ॥

क्षितिक्षमः, पुं, (क्षितिरिव क्षमते क्षिताविव क्षमा-

कारणीभूता शक्तिरस्मिन् वा ।) खदिरवृक्षः ।
इति राजनिर्घण्टः ॥

क्षितिजं, क्ली, (क्षिति + जन् + डः ।) खगोले

आकाशमध्यान्नवत्यंशान्तरे तिर्य्यग्वृत्तम् । यथा, --
“पर्ब्बापरं विरचयेत् सममण्डलाख्यं
याम्योत्तरञ्च विदिशोर्व्वलयद्वयञ्च ।
ऊर्द्ध्वाध एवमिह वृत्तचतुष्कमेत-
दावेष्ट्य तिर्य्यगपरं क्षितिजं तदर्द्धे” ॥
इति सिद्धान्तशिरोमणौ गोलबन्धाधिकारः ॥

क्षितिजः, पुं, (क्षितेर्जायते इति । जन् + डः ।)

भूनागः । इति राजनिर्घण्टः । मङ्गलग्रहः ।
यथा, --
“परमैश्वर्य्यमतुलं नानाविधसुखाश्रयम् ।
करोंति सोमपुत्त्रस्तु क्षितिजान्तर्द्दशाङ्गतः” ॥
इति ज्योतिस्तत्त्वम् ॥ भूजाते त्रि ॥

क्षितिजन्तुः, पुं, (क्षितौ क्षितेर्बा जन्तुरिव ।)

भूनागः । इति राजनिर्घण्टः ॥

क्षितिधरः, पुं, (क्षितिं पृथ्वीं धरति धारयति वा ।

धृ धारि + वा अच् णिच्पक्षेपूर्ब्बह्रस्वः ।) पर्व्वतः ।
इति हलायुधः ॥ (यथा, कुमारे । ७ । ९४ ।
“अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्य
क्षितिधरपतिकन्यामाददानः करेण” ॥)
कूर्म्मवासुकिदिग्गजाश्च ॥

क्षितिनागः, पुं, (क्षितिजातो नागः । मध्यपदलोपी

समासः ।) भूनागः । इति राजनिर्घण्टः ॥

क्षितिनाथः, पुं, (क्षितेः पृथिव्याः नाथः सहायः

शास्ता इत्यर्थः ।) राजा । (क्षितिपतिदर्शनात् ॥)

क्षितिपः, पुं, (क्षितिं पातीति । पा + डः ।) राजा ।

यथा, -- “अहंयुनाथ क्षितिपः शुभंयु-
रूचे वचस्तापसकुञ्जरेण” ॥
इति भट्टौ । १ । २० ॥ (यथा च पञ्चतन्त्रे । २ । २४ ।
“यः सम्मानं सदा धत्तेभृत्यानां क्षितिपोऽधिकम् ।
वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित्” ॥)

क्षितिपतिः, पुं, (क्षितेः पतिः पालकः ।) राजा । यथा, --

“मूर्खोऽशान्तस्तपस्वी क्षितिपतिरलसो मत्सरो
धर्म्मशीलो दुःस्थो मानी गृहस्थः प्रभुरतिकृपणः
शास्त्रविद्धर्म्महीनः” । इति नवरत्ने । ६ । (तथा
च रघुः । ६ । ८६ ।
“प्रभुदितवरपक्षमेकतस्तत्
क्षितिपतिमण्डलमन्यतोवितानम्” ॥)

क्षितिपालः, पुं, (क्षितिं पालयतीति । पालि +

“कर्म्मण्यण्” । ३ । २ । १ । इत्यण् ।) राजा ।
यथा, प्रबोधचन्द्रोदयनाटके १ अङ्के ।
“नीताः क्षयं क्षितिभुजो नृपतेर्विपक्षा
रक्षावती क्षितिरभूत् प्रथितैरमात्यैः ।
साम्राज्यमस्य विहितं क्षितिपालमौलि-
मालार्च्चितं भुवि पयोनिधिमेखलायाम्” ।
(तथा, रघुश्च । २ । ५१ ।
“एतावदुक्त्वा विरते मृगेन्द्रे
प्रतिस्वनेनास्यगुहागतेन ।
शिलोच्चयोऽपि क्षितिपालमुच्चैः
प्रीत्या तमेवार्थमभाषतेव” ॥)

क्षितिपालभाक्, [ज्] पुं, (क्षितिपालं भजते इति ।

भज् + क्विप् ।) राजा । यथा, भट्टौ ३ । २१ ।
“आसिष्ट नैकत्र शुचा व्यरंसीत्
कृताकृतेभ्यः क्षितिपालभाग्भ्यः ।
स चन्दनोशीरमृणालदिग्धः
शोकाग्निनागाद्द्युनिवासभूयम्” ॥

क्षितिपुत्त्रः, पुं, (क्षितेः पृथिव्याः पुत्त्रः।) नरकराजः ।

(पुरा किल सिद्धेश्वरकपिलदेवकोपेन रसातल-
गतां भगवतीं क्षितिमुद्धर्त्तुं भगवान् विष्णुः वराह-
रूपेणावतीर्णः सन् तत्र दुर्द्दान्तं दितिनन्दनं
हिरण्याक्षं निपात्य रसातलात्तामुद्धृत्य तस्यामेव
धरायां नरकनामानं पुत्त्रमुत्पादयामास ।) यथा, --
“स तीरे नदराजस्य लौहित्यस्य महात्मनः ।
ब्रह्मार्च्चनं समारभ्य तपस्तप्तुमुपस्थितः ॥
स मानुषेण मानेन क्षितिपुत्त्रः शतं समाः ।
जलाहारव्रतेनैव समानर्च्च पितामहम् ॥
स तुष्टः शतवर्षान्ते ब्रह्मा लोकपितामहः ।
प्रत्यक्षीभूय नरकस्याग्रतः समुपस्थितः” ॥
इति कालिकापुराणे ३८ अध्यायः ॥ अन्यत् नरक-
शब्दे द्रष्टव्यम् ॥ (मङ्गलग्रहः । इति ज्योतिस्तत्वम् ॥)

क्षितिबदरी, स्त्री, (क्षितौ स्थिता सक्ता वा बदरी ।)

भूबदरी । इति राजनिर्घण्टः ॥

क्षितिरुहः, पुं, (क्षितौ रोहतीति । रुह + कः ।)

वृक्षः । इति हेमचन्द्रः ॥ (यथा, विष्णुपुराणे ।
१ । १५ । ६ ।
“सन्धानं वः करिष्यामि सहक्षितिरुहैरहम्” ॥)

क्षितिवर्द्धनः, पुं, (क्षितिं वर्द्धयति । वृध् + णिच्

ल्युः ।) शवः । इति त्रिकाण्डशेषः ॥ भूमिवर्द्धके त्रि ॥

क्षितिव्युदासः, पुं, (क्षितिं व्युदस्यति । वि + उत् +

अस् + अण् ।) गर्त्तः । भाँडसी इति तहखाना
इति च भाषा । इति केचित् ॥

क्षित्यदितिः, स्त्री, (क्षितौ अदितिः । देवमातुरदित्याः

पृथिव्यां देवकीरूपेणाविर्भावात्तथात्वम् ।) देवकी ।
इति त्रिकाण्डशेषः ॥ (एतद्विवरणं यथा, --
हरिवंशे ५५ अध्याये ।
वैशम्पायन उवाच ।
“नारदस्य वचः श्रुत्वा सस्मितं मधुसूदनः ।
प्रत्युवाच शुभं वाक्यं देवानां प्रभुरीश्वरः ॥
त्रैलोकस्य हितार्थाय यन्मां वदसि नारद ! ।
तस्य सम्यक् प्रवृत्तस्य श्रूयतामुत्तरं वचः ॥
विदिता देहिनो जाता मयैते भुवि दानवाः ।
याञ्च यस्तनुमास्थाय दैत्यः पुष्यति विग्रहम् ॥
जानामि कंसं सम्भूतमुग्रसेनसुतं भुवि ।
केशिनञ्चैव जानामि दैत्यं तुरगरूपिणम् ॥
नागं कुवलयापीडं मल्लौ चानूरमुष्टिकौ ।
अरिष्टञ्चैव जानामि दैत्यं वृषभरूपिणम् ॥
विदितो मे खरश्चैव प्रलम्बश्च महासुरः ।
सा च मे विदिता विप्र ! पूतना दुहिता बलेः ॥
कालियञ्चैव जानामि यमुनाह्रदगोचरम् ।
वैनतेयभयाद् यस्तु यमुनाह्रदमाविशत् ॥
विदितो मे जरासन्धः स्थितो मूर्ध्नि महीक्षिताम् ।
प्राग्ज्योतिषपुरे चापि नरकं साधु तर्कये ॥
मानुषे पार्थिवे लोके मानुषत्वमुपागतम् ।
वाणञ्च शोणितपुरे गुहप्रतिमतेजसम् ॥
दृप्तं बाहुसहस्रेण देवैरपि सुदुर्ज्जयम् ।
मय्यासक्ताञ्च जानामि भारतीं महतीं धुरम् ॥
तच्च सर्व्वं विजानामि यथा यास्यन्ति ते नृपाः ।
क्षयो भुवि मया दृष्टः शक्रलोके च सत्क्रिया ॥
तेषां पुरुषदेहानामपरावृत्तिवर्त्तिनाम् ।
सम्प्रवेक्ष्याम्यहं योगमात्मनश्च पंरस्य च ॥
सम्प्राप्य मानुषं लोकं मानुषत्वमुपागतः ।
कंसादींस्तांश्च सर्व्वांश्च वधिष्यामि महासुरान् ॥
तेन तेन विधानेन येन यः शान्तिमेष्यति ।
अनुप्रविश्य योगेन तास्ता हि गतयो मया ॥
अमीषां हि सुरेन्द्राणां हन्तव्या रिपवो युधि ।
जगत्यर्थे कृतो योऽयमंशोत्सर्गो महात्मभिः ॥
सुरदेवर्षिगन्धर्व्वैरितश्चानुमते मम ।
विनिश्चयो हि प्रागेव नारदायं कृतो मया ॥
निवासं तत्र मे ब्रह्मा विदधातु पितामहः ॥
यत्र देशे यथा जातो येन वेशेन वा वसन् ॥
तानहं समरे हन्यां तन्मे ब्रूहि पितामह ! ॥
ब्रह्मोवाच ।
नारायणेमं सिद्धार्थमुपायं श्रृणु मे विभो ! ।
भुवि यस्ते जनयिता जननी च भविष्यति ॥
पृष्ठ २/२३४
यत्र त्वं च महावाहो जातः कुलकरो मुवि ।
यादवानां महद्वंशमखिलं धारयिष्यसि ॥
तांश्चासुरान् समुत्पाट्य वंशं कृत्वात्मनो महत् ।
स्थापयिष्यसि मर्य्यादां नृणां तन्मे निशामय ॥
पुरा हि कश्यपो विष्णो ! वरुणस्य महात्मनः ।
जहार यज्ञिया गा वै पयोदाश्च महामखे ॥
अदितिः सुरभिश्चैव द्वे भार्य्ये कश्यपस्य तु ।
प्रदीयमाना गास्तास्तु नेच्छेतां वरुणस्य च ॥
ततो मां वरुणोऽभ्येत्य प्रणम्य शिरसा नतः ॥
उवाच भगवन् ! गावो गुरुणा मे हृता इति ॥
कृतकार्य्यो हि गास्तात ! नानुजानाति मे गुरुः ।
अन्ववर्त्तत भार्य्ये द्वे अदितिं सुरभिन्तथा ॥
मम ता ह्यक्षया गावो दिव्याः कामदुघाः प्रभो ! ।
चरन्ति सागरान् सर्व्वान् रक्षिताः स्वेन तेजसा ॥
कस्ता धर्षयितुं शक्तो मम गाः कश्यपादृते ।
अक्षयं याः क्षरन्त्यग्र्यं पयो देवामृतोपमम् ॥
प्रभुर्व्वा व्युत्थितो ब्रह्मन् गुरुर्व्वा यदि वेतरः ।
त्वया नियम्याः सर्व्वे वै त्वं हि नः परमा गतिः ॥
यदि प्रभवतां दण्डो लोके कार्य्यमजानताम् ।
न विद्यते लोकगुरो ! नासते लोकसेतवः ॥
यथा वास्तु तथा वास्तु कर्त्तव्यो भगवान् प्रभुः ।
मम गावः प्रदीयन्तां ततो गन्तास्मि सागरम् ॥
आत्मा मम हि ता गावो या गावः सत्त्वमव्ययम् ।
लोकानां त्वत्प्रवृत्तानामेकं गोब्राह्मणं स्मृतम् ॥
त्रातव्याः प्रथमं गावस्त्रातास्त्रायन्ति या द्विजान् ।
गोब्राह्मणपरित्राणात् परित्रातं जगत् भवेत् ॥
इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत ! ।
गवां कारणतत्वज्ञः कश्यपे शापमुत्सृजम् ॥
येनांशेन हृता गावः कश्यपेन महात्मना ।
स तेनांशेन तु महीं गत्वा गोपत्वमेष्यति ॥
या च सा सुरभिर्नाम अदितिश्च सुरारणी ।
ते प्युभे तस्य भार्य्ये वै तेनैव सह यास्यतः ।
स ताभ्यां सह गोपत्वे कश्यपो भुवि रंस्यते ॥
तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः ।
वसुदेव इति ख्यातो गोषु तिष्ठति भूतले ॥
गिरिर्गोवर्द्धनो नाम मथुरायास्त्वदूरतः ।
तत्रासौ गोष्वभिरतः कंसस्य करदायकः ॥
तस्य भार्य्याद्वयञ्चैव अदितिः सुरभिस्तथा ।
देवकी रोहिणी चैव वसुदेवस्य धीमतः ॥
तत्रावतर लोकानां भवाय मधुसूदन ! ।
जयाशीर्व्वचनैस्त्वेते वर्द्धयन्ति दिवौकसः ॥
आत्मानमात्मना हि त्वमवतार्य्य महीतले ।
देवकीं रोहिणीञ्चैव गर्भाभ्यां परितोषय” ॥)

क्षित्वा, [न्] पुं, (क्षि निवासगत्योः + “शीङ् क्रुशि-

रुहिजिक्षिमृधृभ्यः क्वनिप्” । उणां ४ । ११३ ।
इति क्वनिप् तुक् च ।) वायुः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

क्षिद्रः, पुं, (क्षिद् + रक् ।) रोगः । सूर्य्यः ।

विषाणम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

क्षिप, य औ नुदि । इति कविकल्पद्रुमः ॥ (दिवां-

परं-सकं-अनिट् ।) य, क्षिप्यति । औ, क्षेप्ता ।
इति दुर्गादासः ॥

क्षिप, श ञ औ नुदि । इति कविकल्पद्रुमः ॥

(तुदां-उभं-सकं-अनिट् ।) नुदि प्रेरणे । श ञ,
क्षिपति क्षिपते शरं योधः । औ, क्षेप्ता । इति
दुर्गादासः ॥

क्षिपः, पुं, (क्षिप् + “इगुपधज्ञाप्रीकिरः कः” । ३ ।

१ । १३५ । इति कः ।) क्षेप्ता । क्षेपणम् । इति
व्याकरणम् ॥

क्षिपकः, पुं, (क्षिप् + कः ततः संज्ञायां कन् ।)

योद्धा । इत्युणादिकोषः ॥

क्षिपका, स्त्री, (क्षिप् + कन् + टाप् अतो नेत्वम् ।

“न यासयोः” । ७ । ३ । ४५ । इत्यस्य वार्त्तिके
“क्षिपकादीनाञ्च न” । इति कथनात् ।) क्षेपणम् ।
इति व्याकरणम् ॥

क्षिपणं, क्ली, (क्षिप् + क्युन् भावे किच्च ।) क्षेपणम् ।

तत्पर्य्यायः । क्षिपा २ । इति जटाधरः ॥

क्षिपणिः, पुं, (क्षिप्यते इति । क्षिप् + कर्म्मणि

अनिः ।) अस्त्रम् । इत्युणादिकोषः ॥

क्षिपणिः, स्त्री, (क्षिप्यते असौ अनया वा । क्षिप् +

कर्म्मणि करणे वा अनिः ।) क्षेपणी । नौका-
दण्डः । इत्यमरटीकायां भरतः ॥ जालविशेषः ।
मन्त्रः । अध्वर्य्युः । इति संक्षिप्तसारोणादिवृत्तिः ॥
(यथा, ऋग्वेदे । ४ । ४१ । ४ ।
“उतस्य वाजी क्षिपणिं तुरण्यति
ग्रीवायां बद्धो अपिकक्ष आसनि” ॥)

क्षिपणी, स्त्री, (क्षिप् + अनिः ङीष् ।) क्षिपणिः ।

इत्यमरटीकायां भरतः ॥

क्षिपणुः, पुं, (क्षिपति इति । क्षिप् + “अनुङ् नदे-

श्च” । उणां ३ । ५२ । इति अनुङ् ।) वायुः ।
इति त्रिकाण्डशेषः ॥ (यथा, ऋग्वेदे । ४ । ५८ । ६ ।
“सम्यक् स्रवन्ति सरितो न धेना
अन्तर्हृदा मनसा पूयमानाः ।
एते अर्षन्त्यूर्म्मयो घृतस्य
मृगा इव क्षिपणोरीषमाणाः” ॥)

क्षिपण्युः, पुं, (क्षिप् + “कन्युच् क्षिपेश्च” । उणां

३ । ५१ । इति कन्युच् प्रत्ययः ।) वसन्तकालः ।
इत्युणादिकोषः ॥ देहः । सुरभौ त्रि । इति
मेदिनी ॥

क्षिपा, स्त्री, (क्षिप् + “षिद्भिदादिभ्योऽङ्” । ३ । ३ ।

१०४ । इत्यड् । ततष्टाप् ।) क्षेपणम् । इत्यमरः ।
३ । २ । ११ ॥ रात्रिः । इति तट्टीकायां भरतः ॥

क्षिप्तः, त्रि, (क्षिप् + कर्म्मणि क्तः ।) निक्षेपकृतवस्तु ।

त्यक्तः । तत्पर्य्यायः । नुत्तः २ नुन्नः ३ अस्तः ४
निष्ठुतः ५ विद्धः ६ ईरितः ७ । इत्यमरः । ३ ।
१ । ८७ ॥
(उद्गीर्णः । यथा, माघे । ३ । ७३ ।
“क्षिप्ता इवेन्दोः स रुचोधिवेलं
मुक्तावलीराकलयाञ्चकार” ॥
कर्त्तरि क्तः । पतितः । यथा, माघे १० । ७७ ।
“क्षिप्तमायतमदर्शयदुर्व्यां
काञ्चिदामजघनस्य महत्वम्” ॥
“रतेषु उर्व्यां क्षिप्तं पतितम्” । इति मल्लिनाथः ॥
हतः । यथा, माधे २ । ५३ ।
“केशरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः” ॥
अवज्ञातः । यथा, भागवते । २ । १८ । ४८ ।
“तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि” ॥
विस्रस्तः । यथा, मार्कण्डेये । ८८ । १९ ।
“नारसिंही नृसिंहस्य विभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः” ॥)
वायुग्रस्तः । क्षेपा इति भाषा । इति लोक-
प्रसिद्धः ॥

क्षिप्ता, स्त्री, (क्षिप्त + टाप् ।) रात्रिः । इति हला-

युधः ॥

क्षिप्नुः, त्रि, (क्षिप् + “त्रसगृधिवृषिक्षिपेः क्नुः” ।

३ । २ । १४० । इति क्नुप्रत्ययः ।) निराकरिष्णुः ।
निराकरणशीलः । इत्यमरः । ३ । १ ३० ॥

क्षिप्रं, क्ली, (क्षिप् + “स्फायितञ्चिवञ्चीति” । उणां

२ । १३ । इति रक् ।) शीघ्रम् । तद्युक्ते त्रि ।
इत्यमरः । १ । २ । ६८ ॥ (यथा, मनुः । ३ ।
१७९ । “विनाशं व्रजति क्षिप्रमामपात्रमिवा-
म्भसि” ॥ मर्म्मविशेषः । यथा, -- “तत्र पादाङ्गु-
ष्ठाङ्गुल्योर्मध्ये क्षिप्रं नाम मर्म्म तत्र विद्धस्याक्षेप-
केण मरणम्” ॥ इति सुश्रुते शारीरस्थाने षष्ठे-
ऽध्याये ॥)

क्षिप्रपाकी, [न्] पुं, (क्षिप्रं पच्यतेऽनेन । क्षिप्रं

पचति पाचयति वा । पच् + बाहुलकात् घिनुण् ।)
गर्द्दभाण्डवृक्षः । इति रत्नमाला ॥ (ज्ञातव्या गर्द्द-
भाण्डशब्दे ऽस्य गुणपर्य्यायाः ॥) शीघ्रपाकविशिष्ठे
त्रि ॥

क्षिया, स्त्री, (क्षि क्षये + “षिद्भिदादिभ्यो ऽङ्” ।

३ । ३ । १०४ । इत्यङ् । टाप् च ।) अपचयः ।
इत्यमरः । ३ । २ । ७ ॥

क्षिव, उ निरासे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् उदित्वात् क्त्वावेट् ।) ह्रस्वी । निरास
इह कुत्कारः इति भट्टमल्लः । मुखेन श्लेष्मादेर्वमन-
मिति केचित् । पृथक् पाठात् पूर्ब्बो भ्वादिः ।
क्षेवति । उ, क्षेवित्वा क्ष्यूत्वा । इति दुर्गादासः ॥

क्षिव, य उ निरासे । इति कविकल्पद्रुमः ॥ (दिवां-

परं-सकं-सेट् । उदित्वात् क्त्वावेट्) ह्रस्वी । य,
क्षीव्यति । उ, क्षेवित्वा क्ष्यूत्वा । इति दुर्गादासः ॥

क्षी, ञ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-

सकं-अनिट् ।) ञ, क्षयति क्षयते । इति दुर्गा-
दासः ॥

क्षीज, हिक्कने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) दीर्घी । हिक्कनमव्यक्तशब्दः । सखेद-
स्यैवाव्यक्तशब्दे क्षीजेः प्रयोगः । इति रक्षितः ।
क्षीजति सखेदो जनः । इति दुर्गादासः ॥

क्षीजनं, क्ली, (क्षीज् + भावे ल्युट् ।) कीचकानां

नादः । इति हेमचन्द्रः ॥

क्षीणः, त्रि, (क्षि + क्तः । “निष्ठायामण्यदर्थे” ।

६ । ४ । ६० । इति दीर्घः । “क्षियोदीर्घात्” ।
८ । २ । ४६ । इति निष्ठातस्य नः ।) सूक्ष्मः ।
अबलः । तत्पर्य्यायः । दुर्ब्बलः २ कृशः ३ क्षामः ४
तनुः ५ छातः ६ तलिनः ७ अमांसः ८ पेलवः ९ ।
इति हेमचन्द्रः ॥ (यथा, गीतायाम् ९ । २१ ।
पृष्ठ २/२३५
“ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति” ॥
राजयक्ष्मान्तर्गतरोगविशेषे, पुं ।
“क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः” ॥
अस्य चिकित्सा यथा, --
“क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सबलेऽनले
शृतक्षीररसेनाद्यात् सक्षौद्रघृतशर्करम् ॥
शर्कराञ्च यवक्षौद्रजीवकर्षभकौ मधु ।
शृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षतः कृशः ॥
क्रव्यादमांसनिर्य्यूहं घृतभृष्टं पिबेच्च सः” ॥
“क्षामक्षीणकृशाङ्गानां एतान्येव घृतानि च ।
त्वक्क्षीरीशर्करालाजचूर्णैः पानानि योजयेत् ।
सर्पिर्गुडान् समध्वंशान् जग्ध्वा दद्यात्पयोऽनु च ॥
रेतो वीर्य्यं बलं पुष्टिं तैराशुतरमाप्नुयात्” ॥
“फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम् ।
स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम् ॥
जीवनीयोपसिद्धं वा घृतभृष्टन्तु जाङ्गलम् ।
रसं प्रयोजयेत् क्षीणो व्यञ्जनार्थे सशर्करम्” ॥
“यद्यत् सन्तर्पणं शीतमविदाहि हितं लघु ।
अन्नपानं निषेव्यन्तत् क्षतक्षीणैः सुखार्थिभिः” ॥
इति चिकित्सास्थाने षोडशेऽध्याये चरकेणोक्तम् ॥)

क्षीणवान्, [त्] त्रि, (क्षि + क्तवतु “क्षियोदीर्घात् ।

८ । २ । ४६ । इति निष्ठातस्य नः ।) क्षयविशिष्टः ।
इति व्याकरणम् ॥

क्षीणाष्टकर्म्मा, [न्) पुं, (क्षीणानि अष्टकर्म्माणि

अस्य ।) जिनः । इति हेमचन्द्रः ॥

क्षीब, (व) ऋ ङ मदे । इति कविकल्पद्रुमः । (भ्वां-

आत्मं-अकं-सेट् ।) मदे मत्तीभावे । ऋ, अचिक्षी-
बत् । ङ, क्षीबते मद्यपः । इति दुर्गादासः ॥

क्षीबः, त्रि, (क्षिब + “अनुपसर्गात् फुल्लक्षीबकृशो-

ल्लाघाः” । ८ । २ । ५५ । इति तलोपे साधुः ।)
मत्तः । इत्यमरः ॥ (यथा, रामायणे । ५ । १० ।
१३ ।
“अथारोहणमासाद्य वेदिकान्तरमाश्रितः ।
क्षीवं राक्षसशार्द्दूलं प्रेक्षते स्म महाकपिः” ॥)

क्षीर, क्ली, (घस्यते अद्यते इति । “घसे किच्च”

उणां ४ । ३४ । इति ईरन् उपधालोपे कत्वं
षत्वञ्च ।) जलम् । यथा, ऋग्वेदे । १ । १०४ । ३ ।
“अव त्मना भरते केतवेदा अव त्मना भरते फेन-
मुदन् । क्षीरेण स्रातः कुयवस्य योषे हते ते स्यातां
प्रवणे शिफायाः” । दुग्धम् । इत्यमरः । २ । ९ ।
५१ ॥ (यथा, मनुः । ५ । ९ ।
“स्त्रीक्षीरञ्चैव वर्ज्ज्यानि सर्व्वशुक्तानि चैव हि” ॥)
“आसप्तरात्रं प्रसवात् क्षीरं पेयूषमुच्यते ।
परतो मोरटं विद्यादप्रसन्नं कफात्मकम्” ॥
इति रत्नमाला ॥
(क्षीरस्य लक्षणं गुणाश्च यथा, --
“अथातः संप्रक्ष्यामि क्षीरवर्गन्तु वत्सक ! ।
दधिसर्पिर्वसातक्रं तेषां सर्व्वगुणागुणम् ॥
यद्यदाहारजातन्तु रसं क्षीरशिरानुगम् ।
सरं जलञ्च भुक्तञ्च तथा पित्तेन संयुतम् ॥
पाचितं जाठरे वह्नौ पित्तेन सह मूर्च्छितम् ।
पच्यमानं शिराप्राप्तं क्षीरं तद्विद्धि पुत्त्रक ! ॥
तेन क्षीरमिति ख्यातमग्निसोमात्मकं पयः ।
अमृतं सर्व्वभूतानां जीवनं बलकृन्मतम् ॥
हारीतः संशयापन्नः पप्रच्छ पितरं पुनः ।
कथं रसस्य सम्पत्तिः कथं सञ्चीयते विभो ! ॥
कथं रक्तस्य संस्थाने क्षीरं पाण्डुत्वमीयते ।
कथं तत्र कुमारीणां बन्ध्यानां न कथं भवेत् ॥
एवं पृष्टो महाचार्य्यः प्रोवाच मुनिपुङ्गवः ।
अतिहर्षप्रदं पुत्त्र ! परिपृष्टं भिषग्वर ! ॥
सितास्निग्धं तथारक्तं पित्तेन पाकतां गतम् ।
रक्तं श्वेतत्वमायाति तथा क्षीरं सितं भवेत् ॥
अपधातुबलं यस्सात् तस्मात् क्षीरं न जायते ।
बन्ध्यानां क्षीरनाड्यस्तु वांतेन परिपूरिताः ॥
क्षीरञ्च न भवेत्तस्माच्चार्त्तवं चाधिकं यतः ।
प्रसूतासु च नारीषु बलेन सह सूयते ॥
तेन स्रोतोविशुद्धिः स्यात् क्षीरमाशु प्रवर्त्तते ।
तस्मात् सद्यः प्रसूतायां जायते श्लैष्मिकं पयः ॥
तेन काठिन्यमायाति तस्मात्तत् परिवर्जयेत् ।
श्रेयश्चाविकृतं नार्य्या बलकृद्दोषनाशनम् ॥
पयस्त्रिदोषशमनं वृष्यञ्चाग्निप्रवर्द्धनम्” ॥
अथ प्राभातिकक्षीरगुणाः ।
“निशा शीतांशुसंशीतं निद्रालस्याश्रमावहम् ।
कफकृत्सघनं शीतं क्षीरं प्राभातिकं भवेत्” ॥
अथ दिनक्षीरगुणाः ।
“वामरे सूर्य्यसन्तापात् सदोष्णं कफवातजित् ।
हितं तत्पित्तशमनं सुशीतं भोजने निशि” ॥
अथ क्षीरपानविधिः ।
“क्षीणानां दुर्ब्बलानाञ्च तथाजीर्णज्वरार्द्दिते ।
दीप्ताग्नीनामतन्द्राणां श्रमशोषविकारिणाम् ॥
राजयक्ष्मयुतानाञ्च क्षीरपानं विधीयते ॥
न शस्तं लवणैर्युक्तं क्षीरञ्चाम्लेन वा पुनः ।
करोति कुष्ठं त्वग्दोषं तस्मान्नैव हितं मतम्” ॥
इति प्रथमे स्थाने ऽष्टमे ऽध्याये हारीतेनोक्तम् ॥
“अथ क्षीराणि वक्ष्यन्ते कर्म्म चैषां गुणाश्च ये ॥
अविक्षीरमजाक्षीरं गोक्षीरं माहिषञ्च यत् ।
उष्ट्रीणांमथ नागीनां वडवायाः स्त्रियास्तथा ॥
प्रायशो मधुरं स्निग्धं शीतं स्तन्यं पयो मतम् ।
प्रीणनं बृंहणं वृष्यं मेध्यं बल्यं मनस्करम् ॥
जीवनीयं श्रमहरं श्वासकासनिवर्हणम् ।
हन्ति शोणितपित्तञ्च सन्धानं विहतस्य च ॥
सर्व्वप्राणभृतां सात्म्यं शमनं शोधनन्तथा ।
तृष्णाघ्नं दीपनीयञ्च श्रेष्टं क्षीणक्षतेषु च ॥
पाण्डुरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे ।
अतीसारे ज्वरे दाहे श्वयथौ च विधीयते ॥
योनिशुक्रप्रदोषे च मूत्रेषु प्रदरेषु च ।
पुरीषे ग्रथिते पथ्यं वातपित्तविंकारिणाम् ॥
नस्यालेपावगाहेषु वमनास्थापनेषु च ।
विरेचने स्नेहने च पयः सर्व्वत्र युज्यते” ॥
इति चरके सूत्रस्थाने प्रथमेऽध्याये ॥
प्राणिभेदेनास्य गुणविशेषा यथा, --
“स्वादु शीतं मृदु स्निग्धं वहलं श्लक्ष्णपिच्छिलम् ।
गरु मन्दं प्रसन्नञ्च गव्यं दशगुणं पयः ॥
तदेव गुणमेवौजः सामान्यादभिवर्द्धयेत् ।
प्रवरं जीवनीयानां क्षीरमुक्तं रसायनम् ॥
महिषीणां गुरुतरं गव्याच्छीततरं पयः ।
स्नेहानूनमनिन्द्राय हितमत्यग्नये च तत् ॥
रूओष्णं क्षीरमुष्ट्रीणामीषत्सलवणं लघु ।
शस्तं वातकफानाह क्रिमिशोफोदरार्शसाम् ॥
बल्यं स्थैर्य्यकरं सर्व्वमुष्णञ्चैकशफं पयः ।
साम्लं सलवणं रूक्षं शाखावातहरं लघु ॥
छागं कषायमधुरं शीतं ग्राहि पयो लघु ।
रक्तपित्तातिसारघ्नं क्षयकाशज्वरापहम् ॥
हिक्काश्वासकरन्तूष्णं पित्तश्लेष्मलमाविकम् ।
हस्तिनीनां पयो बल्यं गुरु स्थैर्य्यकरं परम् ॥
जीवनं बृंहणं साङ्ख्यं स्नेहनं मानुषं पयः ।
लावणं रक्तपित्ते च तर्पणञ्चाक्षिशूलिनाम्” ॥
इति च तत्र सूत्रस्थाने २७ अध्याये ॥
“सर्व्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते” ॥
तत्र सर्व्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जाति-
सात्म्यात् । वातपित्तशोणितमानसविकारेष्व-
विरुद्धम् । जीर्णज्वर-कास-श्वास-शोष-क्षय-गुल्मो-
न्मादोदर-मूर्च्छा-भ्रम-मद-दाह-पिपासा-हृद्वस्ति
पाण्डरोग-ग्रहणीदोषार्शःशूलोदावर्त्तातिसारप्र-
वाहिकायोनिरोग-गर्भास्राव-रक्तपित्तश्रमक्लमहरं
पाप्मापहम् बल्यं वृष्यं वाजीकरणं रसायनं मेध्यं
सन्धानं स्थापनं वयःस्थापनमायुष्यं जीवनं बृंहणं
वमनं विरेचनञ्च तुल्यगुणत्वाच्चौजसो वर्द्धनमिति
बालवृद्धक्षतक्षीणानां क्षुद्व्यवायव्यायामकर्शिता-
नाञ्च पथ्यतमम् ।
“गोक्षीरमनभिष्यन्दि स्निग्धं गुरु रसायनम् ।
रक्तपित्तहरं शीतं मधुरं रसपाकयोः ॥
जीवनीयं यथावातपित्तघ्नं परमं स्मृतम् ।
गव्यतुल्यगुणन्त्वाजं विशेषाच्छोषिणां हितम् ॥
दीपनं लघु संग्राहि श्वासकासास्रपित्तनुत् ।
अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ॥
नात्यम्बुपानाद्व्यायामात् सर्व्वव्याधिहरं पयः ।
रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु ॥
शोफगुल्मोदरार्शोघ्नं क्रिमिकुष्ठविषापहम् ।
आविकं मधुरं स्निग्धं गुरु पित्तकफावहम् ॥
पथ्यं केवलवातेषु कासे चानिलसम्भवे ।
महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् ॥
निद्राकरं शीतकरं गव्यात्स्निग्धतरं गुरु ।
उष्णञ्चैकशफं बल्यं शाखावातहरं पयः ॥
मधुराम्लरसं रूक्षं लवणानुरसं लघु ।
नार्य्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम् ॥
नस्याश्चोतनयोः पथ्यं जीवनं लघु दीपनम् ।
हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ॥
स्निग्धं स्थैर्य्यकरं शीतं चक्षुष्यं बलवद्धनम् ।
प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ॥
रात्रौ सोमगुणत्वाच्च व्यायामाभावतस्तथा ।
दिवाकराभितप्तानां व्यायामानिलसेवनात् ॥
वातानुलोमिश्र्यन्तिघ्नं चक्षुष्यञ्चापराह्निकम् ।
पयोऽभिष्यन्दिगुर्व्वामं प्रायशः परिकीर्त्तितम् ॥
तदेवोक्तं लघुतरमनभिष्यन्दि वैशृतम् ।
पृष्ठ २/२३६
वर्ज्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ॥
धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा ।
तदेवातिशृतं सर्व्वं गुरु बृंहणमुच्यते ॥
अनिष्टगन्धमम्लञ्च विवर्णं विरसञ्च यत् ।
वर्ज्यं सलवणं क्षीरं यच्च विग्रथितं भवेत् ॥
इति क्षीरवर्गः ॥
इति सूत्रस्थाने पञ्चचत्वारिंशत्तमे ऽध्याये सुश्रुते-
नोक्तम् ॥ * ॥)
दुग्धधारास्नानफलम् । यथा, वराहपुराणे ।
“धेनुस्तनाद्विनिष्क्रान्तां धारां क्षीरस्य यो नरः ।
शिरसा प्रति गृह्णाति स पापेभ्यः प्रमुच्यते” ॥
क्षीरेण विष्णोः स्नाने फलम् । यथा, --
“येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः ।
तान् लोकान् पुरुषा यान्ति क्षीरस्नापनका हरेः ॥
आह्लादं निर्वृतिं स्वाग्यं आरोग्यं चानुरूपताम् ।
सप्तजन्मस्ववाप्नोति क्षीरस्नानपरो हरेः ॥
दध्यादीनां विकाराणां क्षीरतः सम्भवा यथा ।
तथैवाशेषकामानां क्षीरस्नपनमुत्तमम् ॥
यथा च विमलं क्षीरं यथा निर्वृतिकारकम् ।
तथास्य विमलं ज्ञानं भविष्यति फलप्रदम् ॥
ग्रहानुकूलतां पुष्टिं प्रियत्वञ्चाखिले जने ।
करोति भगवान् विष्णुः क्षीरस्नपनतोषितः ॥
सर्व्वोऽस्य स्निग्धतामेति दृष्टमात्रे प्रसीदति ।
शृतक्षीरेण देवेशे स्नापिते मधुसूदने” ॥
इत्याद्ये वह्निपुराणे क्रियायोगनामाध्यायः ॥ * ॥
क्षीरपाकविधिर्यथा, --
“क्षीरमष्टगुणं द्रव्यात् क्षीरान्नीरं चतुर्गुणम् ।
क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत्” ॥
इति भावप्रकाशः ॥ सरलद्रवः । इति शब्द-
रत्नावली ॥ (यथा, रामायणे । २ । ५२ । ६९ ।
“जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ।
तत्क्षीरं राजपुत्त्राय गुहः क्षिप्रमुपाहरत्” ॥)

क्षीरकः, पुं, (क्षीरमिव कायति प्रकाशते । कै +

कः ।) क्षीरमोरटलता । इति रत्नमाला ॥

क्षीरकञ्चुकी, स्त्री, (क्षीरं क्षीरप्रधानं कञ्चुकं

आवरणं तदिव त्वगस्याः ।) क्षीरीशवृक्षः । इति
रत्नमाला ॥

क्षीरकण्ठः, पुं, (क्षीरं कण्ठेऽस्य ।) बालकः । यथा,-

“बालः पाकः शिशुर्डिम्भःपोतः शावः स्तनन्धयः ।
पृथुकोऽर्भोत्तानशयः क्षीरकण्ठः कुमारकः” ॥
इति हेमचन्द्रः ॥

क्षीरकण्टकः, पुं, (क्षीरकण्ट + स्वार्थे कन् ।) शिशुः ।

इति त्रिकाण्डशेषः ॥

क्षीरकन्दः, पुं, (क्षीरं कन्दे यस्य । क्षीरः क्षीरप्रधानः

कन्दोऽम्य वा ।) क्षीरविदारी । इति राज-
निर्घण्टः ॥

क्षीरकन्दा, स्त्री, (क्षीरकन्द + टाप् ।) क्षीरवल्ली ।

काल भूमि कुष्माण्ड इति ख्यातः । यथा, --
“क्षीरवल्ली क्षीरकन्दा महाश्वेतर्क्षगन्धिका” ॥
इति जटाधरः ॥

क्षीरकाकोलिका, स्त्री, (क्षीरवत् शुभ्रा काकोली ।

ततः स्वार्थे संज्ञायां स्वल्पार्थे वा कन् टाप् पूर्ब्ब-
ह्रस्वश्च ।) क्षीरकाकोली । इति शब्दचन्द्रिका ॥

क्षीरकाकोली, स्त्री, (क्षीरमिव शुभ्रा काकोली ।)

अष्टवर्गे प्रसिद्धौषधिविशेषः । तत्पर्य्यायः । महा-
वीरा २ सुकोली ३ पयस्विनी ४ । इति रत्न-
माला ॥ क्षीरशुक्ता ५ पयस्या ६ क्षीरविषा-
णिका ७ जीववल्ली ८ जीवशुक्ता ९ । यथा, राज-
निर्घण्टे ।
“रसवीर्य्यविपाकेषु काकोल्याः सदृशी च सा” ॥
अथ काकोल्योरुत्पत्तिलक्षणनामगुणाः
“जायते क्षीरकाकोली महाभेदोद्भवस्थले ।
यत्र स्यात् क्षीरकाकोली काकोली तत्र जायते ॥
पीवरी सदृशः कन्दः सक्षीरः प्रियगन्धवान् ।
सा प्रोक्ता क्षीरकाकोली काकोली लिङ्गमुच्यते ॥
यथा स्यात्क्षीरकाकोली काकोल्यपि तथा भवेत् ।
एषा किञ्चित् भवेत् कृष्णा भेदोऽयमुभयोरपि ।
काकोली वायसोली च वीरा कायस्थिका तथा ।
सा शुक्ला क्षीरकाकोली वयस्या क्षीरवल्लिका ॥
कथिता क्षीरिणी धीरा शुक्लक्षीरा पयस्विनी ।
काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु ।
बृंहणं वातदाहाश्रपित्तशोषज्वरापहम्” ॥
काकोली क्षीरकाकोलीस्थाने अश्वगन्धामूलम् ।
इति भावप्रकाशः ॥ (शुक्रजननान्तर्गतौषध-
विशेषः । यथा । “जीवकर्षभककाकोली क्षीर-
काकोली मुद्गपर्णी माषपर्णी मेदा वृक्षरुहा
जटिला कुलिङ्गा इति दशेमानि शुक्रजननानि
भवन्ति ॥ इति चरके सूत्रस्थाने ४ अध्याये ॥)

क्षीरकाण्डकः, पुं, (क्षीरयुक्तं काण्डं यस्य । ततः

कप् ।) स्नुही । अर्कवृक्षः । इति राजनिर्घण्टः ॥

क्षीरकाष्ठा, स्त्री, (क्षीरमयं क्षीरप्रधानं वा काष्टं

यस्याः ।) वटीवृक्षः । इति राजनिर्घण्टः ॥

क्षीरकीटः, पुं, (क्षीरजातः कीटः क्षीरस्य कीटो

वा ।) दुग्धजातकीटः । तत्पर्य्यायः । कालिका २ ।
इति हारावली ॥

क्षीरजं, क्ली, (क्षीराज्जायते । जन् + डः ।) दधि ।

इति राजनिर्घण्टो हेमचन्द्रश्च ॥ क्षीरजातद्रव्ये
त्रि ॥ (दधिशब्देऽस्या विवरणं ज्ञातव्यम् ॥)

क्षीरदलः, पुं, (क्षीरयुक्तं दलं यस्य क्षीरं दले यस्य

वा ।) अर्कवृक्षः । इति राजनिर्घण्टः ॥

क्षीरद्रुमः, पुं, (क्षीरप्रधानो द्रुमः ।) च्यश्वत्थः ।

इति राजनिर्घण्टः ॥

क्षीरधेनुः, स्त्री, (क्षीरेण निर्म्मिता धेनुः ।) दानार्थ-

क्षीरनिर्म्मितधेनुः । यथा, --
होतोवाच ।
“क्षीरधेनं प्रवक्ष्यामि तां निबोध नराधिप ! ।
अनुलिप्ते महीपृष्टे गोमयेन मृपोत्तम ! ॥
गोचर्म्ममात्रमानेन कुशानास्तीर्य्य सर्व्वतः ।
तत्रोपरि महाराज ! न्यसेत् कृष्णाजिनं बुधः ॥
तत्रोपरि कुण्डलिकां गोमयेन कृतामपि ।
क्षीरकुम्भं ततः स्थाप्य चतुर्थांशेन वत्सकम् ॥
सुवर्णमुखशृङ्गाणि चन्दनागुरुकाणि च ।
प्रशस्तपत्रश्रवणां तिलपात्रोपरि न्यसेत् ॥
मुखं गुडमयं तस्या जिह्वा शर्करया तथा ।
फलप्रशस्तदशनां मुक्ताफलमयेक्षणाम् ॥
इक्षुपादां दर्भरोमां सितकम्बलकम्बलाम् ।
ताम्रपृष्ठीं कांस्यदोहां पट्टसूत्रमयीं तथा ॥
पुच्छञ्च नृपशार्दूल ! नवनीतमयस्तनीम् ।
स्वर्णशृङ्गां रौप्यखुरां पञ्चरत्नसमन्विताम् ॥
चत्वारि तिलपात्राणि चतुर्दिक्ष्वपि स्थापयेत् ।
आच्छाद्य वंस्त्रयुग्मेन गन्धपुष्पैः समर्च्चयेत् ॥
धूपदीप्रादिकं कृत्वा ब्राह्मणाय निवेदयेत् ।
आच्छाद्यालङ्कृतां कृत्वा मुद्रिकाकर्णकुण्डलैः ।
पट्टकोपानहौ छत्रं दत्त्वा दानं समर्पयेत् ॥
अनेनैव तु मन्त्रेण क्षीरधेनुं प्रसादयेत् ॥
या धेनुः सर्व्वभूतानामित्यादि नरपुङ्गव ! ।
आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रसादयेत् ॥
यो गृह्णाति पठेन्मन्त्रं ग्राहको राजसत्तम ! ॥
दीयमानां प्रयश्यन्ति ते यान्ति परमां गतिम् ॥
एतां हेमसहस्रेण शतेनाथ स्वशक्तितः ।
शतार्द्धमथवाप्यद्ध तथार्द्धञ्च यथेच्छया ॥
दत्त्वा धेनुं महाराज ! शृणु तस्यापि यत् फलम् ।
षष्टिवर्षसहस्रन्तु रुद्रलोके महीयते ॥
पितृपितामहैः सार्द्धं ब्रह्मणो भवनं व्रजेत् ।
दिव्यं विमानमारूढो दिव्यस्रगनुलेपनः ॥
क्रीडित्वा सुचिरं कालं विष्णुलोकं स गच्छति ।
द्वादशादित्यसङ्काशे विमाने वरमण्डिते ॥
गीतवादित्रनिर्घोषैरप्सरोगणसेविते ।
तत्रोष्य विष्णोः सौराज्यं विष्णसायुज्यतां व्रजेत् ॥
य इदं श्रावयेद्राजन् पठेद्वा भक्तिभावितः ।
सर्व्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति” ॥
इति वाराहे श्वेतोपाख्याने क्षीरधेनुमाहात्म्य-
नामाध्यायः ॥

क्षीरनाशः, पुं, (क्षीरं नाशयतीति । नश् + णिच्

“कर्म्मण्यण्” । ३ । २ । १ । इत्यण् ।) शाखोटवृक्षः ।
इति राजनिर्घण्टः ॥ (क्षीरस्य नाशः इति दुग्ध-
क्षयश्च ॥)

क्षीरनीरं, क्ली, (क्षीरमिश्रं नीरमिव एकीभूतप्रा-

यत्वात् तथत्वम् ।) आलिङ्गनम् । इति शब्द-
माला ॥ (क्षीरञ्च नीरञ्च द्वयोः समाहारः ।)
दुग्धजलञ्च ॥
(यथा, वेतालपञ्चविंशतौ । १२ । १८ ।
“क्षीरनीरसमं मित्रं प्रशंसन्ति विचक्षणाः ।
नीरं क्षीरयते तत्र वह्नौ तप्यति तत्पयः” ॥)

क्षीरपर्णी, [न्] पुं, (क्षीरयुक्तं पर्णं अस्यास्तीति ।

इनिः ।) अर्कवृक्षः । इति राजनिर्घण्टः ॥
(विवृतिरस्यार्कशब्दे बोद्धव्या ॥)

क्षीरपाणं, क्ली, (पोयते इति । पा + भावे ल्युट्

क्षीरस्य पानम् । “वा भावकरणयोः” ।
८ । ४ । १० । पाक्षिको णत्वम् ।) दुग्धपानम् ।
दुग्धपानयुक्तदेशे तत्कर्त्तरि च त्रि । यथा ।
देशे पानस्य । पूर्ब्बपदस्थितषकाररेफऋवर्णेभ्यः
परस्य पानस्य नस्य णः स्यात् देशे वाच्ये ।
पीयते यत्तत् पानं कर्म्मण्यनट् । क्षीरं पानं
येषां ते क्षीरपाणा उशीनराः । सौवीरपाणा
वाह्लीकाः । कषायपाणा गान्धाराः । उशीनरादि-

क्षीरपानं, क्ली, (पोयते इति । पा + भावे ल्युट्

क्षीरस्य पानम् । “वा भावकरणयोः” ।
८ । ४ । १० । पाक्षिको णत्वम् ।) दुग्धपानम् ।
दुग्धपानयुक्तदेशे तत्कर्त्तरि च त्रि । यथा ।
देशे पानस्य । पूर्ब्बपदस्थितषकाररेफऋवर्णेभ्यः
परस्य पानस्य नस्य णः स्यात् देशे वाच्ये ।
पीयते यत्तत् पानं कर्म्मण्यनट् । क्षीरं पानं
येषां ते क्षीरपाणा उशीनराः । सौवीरपाणा
वाह्लीकाः । कषायपाणा गान्धाराः । उशीनरादि-
पृष्ठ २/२३७
शब्दानां देशवादिचत्वेऽपि तन्निवाससम्बन्धेन
मनुष्येषु प्रवृत्तिः । अथवा क्षीरं पानं यत्र इति
व्यत्पत्त्या देशो वाच्यः । भावकरणयोरनटो वा ।
क्षीरपाणं क्षीरपानम् । क्षीरं पीयतेऽनयेति
क्षीरपाणी क्षीरपानी पात्री । इति मुग्धबोध-
टीकायां दुर्गादासः ॥
शब्दानां देशवादिचत्वेऽपि तन्निवाससम्बन्धेन
मनुष्येषु प्रवृत्तिः । अथवा क्षीरं पानं यत्र इति
व्यत्पत्त्या देशो वाच्यः । भावकरणयोरनटो वा ।
क्षीरपाणं क्षीरपानम् । क्षीरं पीयतेऽनयेति
क्षीरपाणी क्षीरपानी पात्री । इति मुग्धबोध-
टीकायां दुर्गादासः ॥

क्षीरपायी, [न्] त्रि, (क्षीरं पिबति इति । “बहुल-

माभीक्ष्णे” । ३ । २ । ८१ । सुप्युपदे णिनिः ।)
दुग्धपानकर्त्ता । यथा । “क्षीरपायीत्यादिकस्तु
प्रकृत्यर्थावच्छिन्नकृदन्तार्थस्यान्वयबोधे समर्थोऽपि
न प्रकृत्यर्थमात्रावच्छिन्नस्य ततः पानशीलसामान्य-
स्याप्रत्ययात्” । इति शब्दशक्तिप्रकाशिका ॥

क्षीरमोरटः, पुं, (क्षीरवत् स्वाद्यः स्वादुर्वा मोरटः ।)

लताभेदः । तत्पर्य्यायः । सितद्रुः २ सुदलः ३ क्षी-
रकः ४ । इति रत्नमाला । अन्यत् मोरटशब्दे
द्रष्टव्यम् ॥

क्षीरवल्ली, स्त्री, (क्षीरयुक्ता क्षीरप्रधाना वा वल्ली ।)

क्षीरविदारी । इति राजनिर्घण्टः ॥
(यथास्याः पर्य्यायाः ।
“विदारी स्वादुकन्दा च सातु क्रोष्ट्री सिता स्मृता ॥
इक्षुगन्धा क्षीरवल्ली क्षीरशुक्ला पयस्विनी ।
वाराहवदना गृष्टिर्वदरेत्यपि कथ्यते” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

क्षीरविकृतिः, स्त्री, (क्षीरं विकृतिर्विकारोऽस्याः

क्षीरवत् विकृतिर्निर्य्यासोऽस्याः वा ।) कूर्च्चिका ।
इत्यमरः । २ । ९ । ४४ ॥ क्षीरसा इति भाषा ॥

क्षीरविदारिका, स्त्री, (क्षीरयुक्ता क्षीरवत् शुभ्रां

वा विदारिका ।) क्षीरविदारी । इति शब्द-
रत्नावली ॥

क्षीरविदारी, स्त्री, (क्षीरवत् शुभ्रा क्षीरप्रचुरा

वा विदारी ।) कृष्णभूमिकुष्माण्डः । तत्पर्य्यायः ।
महाश्वेता २ ऋक्षगन्धिका ३ । इत्यमरः । इक्षु-
वल्लरी ५ इक्षुवल्ली ६ क्षीरकन्दः ७ क्षीरवल्ली ८
पयस्विनी ९ क्षीरशुक्ता १० क्षीरलता ११ पयः-
कन्दा १२ पयोलता १३ पयोविदारिका १४ ।
अस्या गुणाः । मधुरत्वम् । अम्लत्वम् । कषाय-
त्वम् । तिक्तत्वम् । पित्तशूल मूत्रमेहामयनाशि-
त्वञ्च । (विदारीशब्देऽस्या अपर गुणा ज्ञेयाः ॥)
“क्षीरकन्दो द्विधा प्रोक्तो विनालस्तु सनालकः ।
विनालो रोगहर्त्ता स्याद्वयःस्तम्भी सनालकः” ॥
इति राजनिर्घण्टः ॥

क्षीरविषाणिका, स्त्री, (क्षीरमिव शुभ्रं क्षीरयुक्तं वा

विषाणं अग्रभागो यस्याः ततः कन् टाप् च ।)
वृश्चिकाली । क्षीरकाकोली । इति राजनिर्घण्टः ॥

क्षीरवृक्षः, पुं, (क्षीरमयः क्षीरप्रधानो वा वृक्षः ।)

उडम्बरवृक्षः । इति जटाधरः ॥ क्षीरिका । इति
भरतः ॥ राजादनी । इति राजनिर्घण्टः ॥ (यथा,
सुश्रुते २४ अध्याये चिकित्सास्थाने ।
“क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः” ॥
राजादन्यर्थे पर्य्याया यथा, --
“राजादनः क्षीरवृक्षः पालाशी वानरप्रियः” ॥
इति वैद्यकरत्नमालायाम् ॥)

क्षीरशरः, पुं, (क्षीरं दुग्धं शीर्य्यतेऽस्मात् अत्र

वा । शॄ + अपादानेऽधिकरणेवा अप् । क्षीरं शृ-
णाति विकृतीकरोतीति । शॄ + कर्त्तरि अच् ।)
दधियोगात् पक्वोष्णदुग्धजातः । छाना इति
भाषा । तत्पर्य्यायः । आमिक्षा २ पयस्या ३ ।
इति हेमचन्द्रः ॥

क्षीरशीर्षः, पुं, (क्षीरं शीर्षेऽस्य ।) श्रीवासः । इति

राजनिर्घण्टः ॥

क्षीरशुक्ता, स्त्री, (क्षीरवत् शुभ्रा शुक्ता ।) क्षीर-

विदारी । क्षीरकाकोली । इति राजनिर्घण्टः ॥
(क्षीरविदारीशब्दे विवरणमस्या ज्ञेयम् ॥)

क्षीरशुक्लः, पुं, (क्षीरवत् शुक्लः ।) जलकण्टकः ।

पानिफल इति भाषा । इति शब्दचन्द्रिका ॥
राजादनी । क्षीरणी इति भाषा । इति राज-
निर्घण्टः ॥

क्षीरशुक्ला, स्त्री, (क्षीरमिव शुक्ला ।) शुक्लभूमि-

कुष्माण्डः । इत्यमरः । २ । ४ । ११० ॥
(यथास्याः पर्य्यायाः ।
“क्षीरशुक्ला विदारीक्षुविदारी च पलाशिका ।
प्रसिद्धो भूमिकुष्माण्डो विदारीकन्द इत्यपि” ॥
इति वैद्यकरत्नमालायाम् ॥
“विदारी स्वादुकन्दा च सा तु क्रोष्ट्री सिता स्मृता ।
इक्षुगन्धा क्षीरवल्ली क्षीरशुक्ला पयस्विनी ।
वाराहवदना गृष्टिर्वदरेत्यपि कथ्यते” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“जीवकर्षभकौ मेदां श्रावणी कर्कटाह्वयम् ।
मुद्गमाषाख्यपर्ण्यौ च महतीं श्रावणीन्तथा” ॥
काकोलीं क्षीरकाकोलीं क्षुद्रां छिन्नरुहान्तथा ।
क्षीरशुक्लांपयस्याञ्च यष्ट्याह्वं विधिना पिबेत् ।
वातपित्तहितान्येतान्यादीनि तु कफानिले” ॥
इति चरके कल्पस्थाने ७ अध्यायः ॥)

क्षीरसः, पुं, (क्षीरं स्यतीति । सो + कः ।) क्षीर-

सारः । इति राजनिर्घण्टः ॥

क्षीरसन्तानिका, स्त्री, (क्षीरस्य दुग्धस्य सन्तानिका

इव ।) दुग्धविकारविशेषः । छाना इति नट्क्षीर
इति च भाषा । अस्या गुणाः । “क्षीरसन्तानिका
वृष्या स्निग्धा पित्तानिलापहा” । इति राज-
वल्लभः ॥

क्षीरसमुद्रः, पुं, (क्षीरतुल्यः स्वादुरसः क्षीरमयो

वा समुद्रः ।) दुग्धसागरः । स तु श्वेतद्वीपे वर्त्तते ।
यथा । क्षीरसमुद्राय नमः श्वेतद्वीपाय नमः
इत्यादि पीठन्यासप्रकरणे तन्त्रसारः ॥

क्षीरसागरसुता, स्त्री, (क्षीरसागरस्य क्षीरोदसमु-

द्रस्य सुता ।) लक्ष्मीः । इति कविकल्पलता ॥

क्षीरसारः, पुं, (क्षीरस्य दुग्धस्य सारः । यद्वा क्षीरं

सरति प्राप्नोति कारणत्वेन इति । क्षीर + सृ +
“कर्म्मण्यण्” । ३ । २ । १ । इति अण् ।) क्षीर-
विशेषः । पालजिनु इति हिन्दी भाषा । तत्प-
र्य्यायः । क्षीरसः २ । यथा, --
“ईषच्छ्लेष्मकरं गौल्यं पित्तघ्नं तर्पणं गुरु ।
पुष्टि चैवामिधा तस्य क्षीरसारस्त क्षीरसः” ।
इति राजनिर्घण्टः ॥

क्षीरस्फटिकः, पुं, (क्षीरवत् शुभ्रः स्फटिकः ।)

क्षीरवर्णस्फटिकविशेषः । यथा, --
“सूर्य्यकान्तः सूर्य्यमणिः सूर्य्याश्मा दहनोपलः ।
चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥
क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ” ॥
इति हेमचन्द्रः ॥

क्षीरक्षवः पुं, (क्षीरस्य क्षवः कासोत्यश्लेष्मा इव ।

घणीभूतत्वात्तथात्वम् ।) दुग्धपाषाणः । इति राज-
निर्घण्टः ॥

क्षीरा, स्त्री, (क्षीरवर्णोऽस्त्यायाः इति “अर्शआदिभ्यो-

ऽच्” । ५ । २ । १२७ । इत्यच् । ततष्टाप् ।) का-
कोली । इति राजनिर्घण्टः ॥ (काकोलीशब्देऽस्या
गुणादयो ज्ञातव्याः ॥)

क्षीराब्धिः, पुं, (क्षीरमयोऽव्धिः क्षीरस्याब्धिर्वा ।)

क्षीरसमुद्रः । इति शब्दरत्नावली ॥

क्षीराब्धिजं, क्ली, (क्षीराब्धेः क्षीरोदसागरात् जा-

यते इति । जन् + डः ।) सामुद्रलवणम् । मौक्ति-
कम् । इति मेदिनी ॥

क्षीराब्धिजः, पुं, (क्षीराब्धेर्जायते इति । जन् + डा ।)

चन्द्रः । इति मेदिनी ॥

क्षीराब्धिजा, स्त्री, (क्षीराब्धिज + टाप् ।) लक्ष्मीः ।

इति मेदिनी ॥ (यथा, भागवते ८ । ८ । ८ ।
“ततश्चाविरभूत्साक्षात् श्रीरमा भगवत्पंरा ।
रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा” ॥)

क्षीराब्धितनया, स्त्री, (क्षीराब्धेः तनया कन्या ।)

लक्ष्मीः । इत्यमरः । १ । १ । २९ ॥

क्षीराविका, स्त्री, (क्षीरं अवतीति । “कर्म्मण्यण्” ।

ततो ङीप् ततः स्वार्थे कन् टापि पूर्ब्बह्रस्वः ।)
क्षीरावी । इति शब्दरत्नावली ॥

क्षीरावी, स्त्री, (क्षीरं अवतीति “कार्म्मण्यण्” । ३ ।

२ । १ । इत्यण् । ङीप् च ।) दुग्धिका । इत्यमरः ।
२ । ४ । १०० ॥ तत्पर्य्यायः । ग्राहिणी २ कच्छरा ३
ताम्रमूला ४ मरूद्भवा ५ । इति रत्नमाला ॥ द्वे
क्षीरायि इति ख्यातायाम् । इयञ्च वकुलपत्रतुल्य-
पत्रा लताछेदे क्षीरं स्रवतीति सुभूतिः । तन्मते
दुदिया कोँगा इति ख्यातायामित्यनुमीयते । द्वे
क्षीरकाकोल्यामिति स्वामी । क्षीरमवति रक्षति
क्षीरावी अव रक्षे षण् ईप् । दुग्धमस्त्यस्याः
दुग्धिका विकारसंघेति ष्णिकः । इति भरतः ॥
अन्यद्दुग्धिकाशब्दे द्रष्टव्यम् ॥

क्षीराह्वः, पुं, (क्षीरं आह्वयते स्पर्द्धते इति । ह्व

+ कः ।) सरलवृक्षः । इति त्रिकाण्डशेषः ॥

क्षीरिका, स्त्री, (क्षीरवत् स्वादोऽस्त्यस्य इति ठन् ।)

क्षीरीवृक्षः । क्षीरखर्ज्जूर इति पिण्डखर्ज्जूर इति
च केचित् । तत्पर्य्यायः । राजादनः २ फलाध्यक्षः
३ । इत्यमरः । २ । ४ । ४५ ॥ राजातनः ४ राजादन-
फलम् ५ अध्यक्षम् ६ मधुका ७ क्षीरवृक्षः ८
पलाशो ९ पर्क्कटप्रियः १० गुरुस्कन्धः ११ श्लेष्मला
१२ आतपली १३ वृषा १४ मौलिकाजाली १५ ।
इति भरतधृतवाचस्पतिः ॥ क्षीरिवृक्षः १६ वानर-
प्रियः १७ । इति रत्नमाला ॥ राजन्यः १८ प्रिय-
दर्शनः १९ दृढस्कन्धः २० कपीठः २१ । इति जटा-
पृष्ठ २/२३८
धरः ॥ वरादनम् २२ क्षीरी २३ क्षीरी [न्] २४ ।
इति शब्दरत्नावली ॥ अस्याः फलगुणाः ।
“क्षीरिकायाः फलं पक्कं गुरु विष्टम्भि शीतलम् ।
कषायं मधुरं साम्लं नातिवातप्रकोपणम्” ॥
इति राजबल्लभः ॥ अपि च ।
“क्षीरिकायाः फलं वृष्यं बल्यं स्निग्धं हिमं गुरु ।
तृष्णामूर्च्छामदभ्रान्तिक्षयदोषत्रयास्रजित्” ॥
इति भावप्रकाशः ॥ अन्यत् राजादनीशब्दे द्रष्ट-
व्यम् ॥ * ॥ परमान्नम् । इति राजनिर्घण्टः ॥
(“क्षीरिका मधुरा चैते फलवर्गे प्रकीर्त्तिताः” ॥
इति हारीते प्रथमस्थाने १० अध्याये ॥
परमान्नार्थे पर्य्यायाः पाकप्रकारश्चास्या यथा, --
“पायसं परमान्नं स्यात् क्षीरिकापि तदुच्यते ।
शुद्धेऽर्द्धपक्वे दुग्धे तु घृताक्तांस्तण्डुलान् पचेत् ॥
ते सिद्धाः क्षीरिका ख्याता ससिताज्ययुतोत्तमा” ॥
गुणाश्च यथा, --
“क्षीरिका दुर्ज्जरा प्रोक्ता वृंहणी बलबर्द्धिनी” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

क्षीरिणी, स्त्री, (क्षीरं क्षीरसदृशो निर्यासो-

ऽस्त्यस्य इति इनिः । ततः ङीप् ।) वृक्षविशेषः ।
तत्पर्य्यायः । काञ्चनक्षीरी २ कर्षणी ३ पटुक-
र्णिका ४ तिक्तदुग्धा ५ हैमवती ६ हिमदुग्धा ७
हिमावती ८ हिमाद्रिजा ९ पीतदुग्धा १० यव-
चिच्ची ११ हिमोद्भवा १२ हैमी १३ हिमजा ।
१४ । अस्या गुणाः ।
“क्षीरिणी तिक्तशीता च रेचनी शोफतापनुत् ।
क्रमिदोषकफघ्नी च पित्तज्वरहरा परा” ॥
इति राजनिर्घण्टः ॥ * ॥ वराहक्रान्ता । इति
शब्दचन्द्रिका ॥ कुटुम्बिनी । काश्मरी । दुग्धिका ।
इति च राजनिर्घण्टः ॥
(व्यवहारोऽस्या यत्र तद्यथा ।
“तथादन्तीद्रवन्त्योः स्यादजशृङ्ग्यजगन्धयोः ।
क्षीरिण्या नीलिकायाश्च तथैव च करञ्जयोः ॥
ससूरविदलायाश्च प्रत्यक् श्रेण्यास्तथैव च ।
विडङ्गार्द्धा शकल्केन तद्वत् साध्यं घृतं पुनः ।
शङ्खिनी सप्तलाधात्री कषाये साधयेद्वृतम्” ॥
इति कल्पस्थाने ११ अध्याये चरकेणोक्तम् ॥)

क्षीरिवृक्षः, पुं, (क्षीरी क्षीरयुक्तः वृक्षः ।) क्षीरयुक्त-

पञ्चप्रकारवृक्षः । यथा, --
“न्यग्रोधोदुम्बराश्वत्थपारिशप्लक्षपादपाः ।
पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक्पञ्चलक्षणम्” ॥
केचित्तु पारिशस्थाने “शिरीषं वेतसं परे” ।
तदन्तीति शेषः । अस्य गुणाः ।
“क्षीरिवृक्षा हिमा वर्ण्या योनिरोगव्रणापहाः ।
रूक्षाः कषाया मेदोघ्ना विसर्पामयनाशनाः ।
शोथपित्तकफास्रघ्नाः स्तन्या भग्नास्थियोजकाः” ॥
एषां त्वगुणाः ।
“त्वक्पञ्चकं हिमं ग्राहि व्रणशोथविसर्पजित्” ॥
तेषां पत्रगुणाः ।
“तेषां पत्रं हिमं ग्राहि कफवातास्रनुल्लघ ।
विष्टम्भाध्मानजित्तिक्तं कषायं लघुं लेखनम्” ॥
इति राजनिर्घण्टः ॥

क्षीरी, [न्] पुं, (क्षीरं क्षीरवन्निर्यासोऽस्त्यस्य, इनिः ।)

क्षीरिकावृक्षः । इति शब्दरत्नावली ॥
(अस्य व्यवहारो यथा, कनकतैले ।
“कनकक्षीरी शैला भार्गी दन्तीफलानि मूलञ्च ।
जातिफलानि प्रवालसर्षपलशुनविडङ्गकरञ्जत्वक् ॥
सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोताः ।
गुञ्जैरण्डवृहतीमूलकसुरसार्ज्जकफलानि ॥
कुष्ठं पाठामुस्तं तुम्बुरुमूर्व्वा वचा सषडग्रन्थाः ।
एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः ॥
हरितालमवाक्पुष्प्री तुत्थं कम्पिल्लकोऽमृतासङ्गः ।
सौराष्ट्रिकाससीसं दार्व्वीत्वक्सर्ज्जिकालवणम् ॥
कल्कैरेतैस्तैलं करवीरकमूलकपल्लवकषाये ।
सार्षपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम् ॥
स्थाप्यं कटुकालावूनि तत्सिद्धं तेनास्य मण्डलान्यास्त ।
भिन्द्याद्भिषगभ्यङ्गात् क्रिमींश्च कण्डूं विनिहन्यात्” ॥
इति कनकतैलम् ॥ इति चरके चिकित्सास्थाने
सप्तमेऽध्याये ॥
यथा, मनुः । ८ । २४६ ।
“सीमावृक्षांश्च कुर्व्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पादपान्” ॥)
दुग्धिका । इति शब्दचन्द्रिका ॥ स्नुही । अर्क-
वृक्षः । राजादनी । दुग्धपाषाणः । वटः । प्लक्षः ।
(अस्य पर्य्याया यथा, --
“वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः ।
क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः” ॥
इति भावप्रकाशस्य पूब्बखण्डे प्रथमे भागे ॥)
सोमलता । स्यालीवृक्षः । इति राजनिर्घण्टः ॥

क्षीरी, स्त्रीं, (क्षीर + अस्त्यर्थे अच् गौरादित्वात्

ङीष् ।) क्षीरीवृक्षः । इति शब्दरत्नावली ॥
(पक्वान्नविशेषः । तस्य पाकप्रणाली यथा, --
“नारिकेलन्तनूकृत्य च्छिन्नं पयसि गोः क्षिपेत् ।
सिता गव्याज्यसंयुक्ते तत्पचेन्मृदुनाग्निना” ॥
अस्या गुणाश्च ।
“नारीकेलोद्भवा क्षीरी स्निग्धाशीतातिपुष्टिदा ।
गुर्व्वो सुमधुरा वृष्या रक्तपित्तानिलापहा” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

क्षीरीशः, पुं, (क्षीरिणां क्षीरप्रधानानां वृक्षाणां

ईशः श्रेष्ठः ।) क्षीरकञ्चुकी । तत्पर्य्यायः । वरपर्णः
२ स्नुक्छदः ३ कुष्ठनाशनः ४ बल्यः ५ मूलकमूला
६ खसकन्धः ७ कञ्चुकी ८ । इति रत्नमाला ॥

क्षीरेयी, स्त्री, (क्षीर + बाहुलकात् ढञ् ततो ङीप् ।

यद्वा, क्षीरेण ईं शोभां यातीति । या + कः
गौरादित्वात् ङीष् ।) पायसम् । यथा, --
“क्षीरेयी पायसं प्रोक्तं परमान्नञ्च सूरिभिः” ॥
इति हलायुधः ॥

क्षीरोदः, पुं, (क्षीर + “उदकस्योदः संज्ञायाम्” ।

६ । ३ । ५७ । “उत्तरपदस्य चेति व्यक्तव्यम्” ।
इति वार्त्तिकम् ।) दुग्धसमुद्रः । इत्यमरः । १ । १० । २ ॥
(यथा, महाभारते । १३ । १४ । ३५३ ।
“अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् ।
क्षीरोदसागरश्चैव यत्र यत्रेच्छसि प्रियम्” ॥)
तस्य मन्थनं यथा, --
“मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।
दानवैः सहिता भूत्वा मथध्वं क्षीरसागरम् ॥
अहञ्च तत्र साहाय्यं करिष्यामि दिवौकसः ।
भविष्यत्यमृतं तत्र तत्पानाद्बलवत्तराः ॥
भविष्यन्ति क्षणादेव अमृतस्य प्रभावतः ।
यूयं सर्व्वे महावीर्य्या भुञ्जिष्ठा रणविक्रमाः ॥
इन्द्राद्यास्तु महोत्साहाः स्थानलब्धा महानरीन् ।
ततो हि दानवान् जेतुं समर्था नात्र संशयः ॥
इत्युक्ता देवदेवेन देवाः सर्व्वे जगत्पतिम् ।
प्रणम्यागत्य निलयं सन्धिं कृत्वाथ दानवैः ॥
ओराब्धिमथने सर्व्वे चक्रुरुद्योगमुत्तमम् ।
बलिना चोद्धृतो राजन् मन्दराख्यो महागिरिः ॥
क्षीराब्धौ क्षेपितश्चैव तेनैकेन नृपोत्तम ! ।
सर्व्वौषधिश्च प्रक्षिप्ता देवैर्दैत्यैः पयोदधौ ॥
वासुकिश्च ततस्तत्र राजन् ! नारायणाज्ञया ।
सर्व्वदेवहितार्थाय विष्णुश्च स्वयमागतः ॥
ततो विष्णुसमादेशात्तत्र सर्व्वे सुरासुराः ।
समेत्य मित्रभावेन क्षीराब्धेस्तटमाश्रिताः ॥
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वाथ वासुकिम् ।
ततो मथितुमारब्धा नृपते ! तरसाऽमृतम् ॥
विष्णुना मुखभागे तु वासुकेर्दानवाः कृताः ।
देवास्य पुच्छभागे तु मन्थनार्थं नियोजिताः ॥
एवन्तु मन्थनात्तत्र मन्दरोऽथ प्रविश्य वै ।
आधारेण विना राजंस्तं दृष्ट्वा सहसा हरिः ॥
सर्व्वलोकहितार्थाय कूर्म्मरूपमधारयत् ।
आत्मानं संप्रवेश्याथ मन्दरस्य गिरेरधः ॥
प्रविश्य धृतवान् शैलं पृथग्रूपेण केशवः ।
उपर्य्याक्रान्तवान् शैलं पृथग्रूपेण केशवः ॥
चकर्ष नागराजानं देवैः साद्ध जनार्दृनः ।
असुरैरदृश्यरूपेण दैत्यमध्ये च केशवः ॥
ततस्ते तु त्वरायुक्ता ममन्थुः क्षीरसागरम् ॥
यावच्छक्त्या नृपश्रेष्ठ ! बलवन्तः सुरासुराः ॥
मथ्यमानात् ततस्तस्मात् क्षीराब्धेरभवन्नृप ।
कालकृटमिति ख्यातं विषमत्यन्तदुःसहम् ॥
तन्नागा जगृहुः सर्व्वे तच्छेषं शङ्करोऽग्रहीत् ।
नारायणाज्ञया तेन नीलकण्ठत्वमाप्नुयात् ॥
ऐरावतश्च नागेन्द्रो हयश्चोच्चैःश्रवाः पुनः ।
द्वितीयावर्त्तनाद्राजन्नुत्पन्नाविति नः श्रुतम् ॥
तृतीयावर्त्तनादप्सरोगणो जातः सुशोभनः ।
चतुर्थात् पारिजातश्च उत्पन्नः स महातरुः ॥
पञ्चमात् हिमगुस्तस्मात् उत्थितः क्षीरसागरात् ।
तं भवः शिरसा धत्ते नारी च स्वस्तिको नृप ॥
नानाविधानि रत्नानि दिव्यान्याभरणानि च ।
क्षीरोदधेस्तूत्थितानि गन्धर्व्वाश्च सहस्रशः ॥
एतान् दृष्ट्वा तदोत्पन्नान् नित्याश्चर्य्यसमन्विताः ।
अभवन् जातहर्षास्ते तत्र सर्व्वे सुरासुराः ॥
दैवपक्षे ततो मेघाः सत्यं वर्षन्ति संस्थिताः ।
कृष्णाज्ञया तु वायुस्तु सुखं वाति सुरान् प्रति ॥
विषनिश्वासवातेन वासुकेश्चार्कतापनात् ।
निस्तेजसोऽभवन् दैत्या निर्व्वीर्य्याश्च महामते ॥
ततः श्रीरुत्थिता तस्मात् क्षीरोदोद्धृतपङ्कजा ।
विभ्राजमाना राजेन्द्र ! दिशः सर्व्वाः स्वतेजसा ॥
पृष्ठ २/२३९
ततस्तीर्थोदकैः स्नाता दिब्यवस्त्रैरलङ्कृता ।
दिव्यगन्धानुलेपैस्तु सुमनोभिः सुपूजिता ॥
देवपक्षं समासाद्य स्थिता क्षणमरिन्दम ! ।
हरिवक्षःस्थलं प्राप्ता ततः सा कमलालया ॥
ततोऽमृतघटं पूर्णं गृहीत्वा पयसोनिधेः ।
धन्वन्तरिः समुत्तस्थौ ततः प्रीताः सुरा नृप ॥
दैत्याः श्रिया परित्यक्ता दुःखितास्तत्र ते पुनः ।
आदायामृतघटं शीघ्रं ते च जग्मुर्यथेच्छया ॥
ततः स्त्रीरूपमकरोद्विष्णुदवहिताय वै ।
आत्मानं नृपशार्दूल ! नार्य्या लक्षणसंयुतम् ॥
ततो जगाम भगवान् स्त्रीरूपेण सुरान् प्रति ।
दिव्यरूपान्तु तां दृष्ट्वा मोहितास्ते सुरद्विषः ॥
अमृतपूर्णं घटं भूमौ हैमं संस्थाप्य सत्तम ।
कामेन पीडिता ह्यासन्नसुरास्तत्र तत्क्षणात् ॥
मोहयित्वा तु तानेवमसुरानवनीषते ! ।
अमृतभाजनमादाय देवेभ्यः प्रददौ हरिः ॥
तत् पीत्वा तु ततो देवा देवदेवप्रसादतः ।
बलवन्तो महावीर्य्या रणे जग्मुर्महासुरान्” ॥
इति नृसिंपुराणे ३६ अध्यायः ॥

क्षीरोदतनया, स्त्री, (क्षीरोदस्य क्षीरसमुद्रस्य त-

नया ।) लक्ष्मीः । इति हेमचन्द्रः ॥ (अस्या उत्पत्ति-
कथा क्षीरोदशब्दे द्रष्टव्या ॥)

क्षीरोदतनयापतिः, पुं, (क्षीरोदतनयाया लक्ष्म्याः

पतिः ।) विष्णुः । इति कविकल्पलता ॥

क्षीरोदनन्दनः, पुं, (क्षीरोदस्य दुग्धसमुद्रस्य

नन्दनः ।) चन्द्रः । इति शब्दरत्नावली ॥

क्षीव, ऋ ङ दर्पे ॥ इति कविकल्पद्रुमः । (म्बां-

आत्मं-अकं-सेट् ।) ऋ, अचिक्षीवत् । ङ, क्षीवते ।
इति दुर्गादासः ॥

क्षीव, निरासे । इति कविकल्पद्रुमः ॥ (भ्वां--परं-

सकं-सेट् ।) निरास इह फुत्कारः । इति भट्ट-
मल्लः ॥ मुखेन श्लेष्मादेर्व्वमनमिति केचित् । क्षीव-
त्यन्नं लोकः । इति दुर्गादासः ॥

क्षीवः, त्रि, (क्षीवृ ङ् मदे + क्तः । “अनुपसर्गात्

फुल्लक्षीवेति” । ८ । २ । ५५ । तलोपो निपात
नात् ।) सुरामत्तः । यथा । “मत्ते शौण्डोत्कट-
क्षीवाः” । इत्यमरः । २ । २ । २३ ॥ दन्त्योष्ठ-
वकारान्तोऽयम् ॥
(यथा, रामायणे । ५ । ६० । १२ ।
“उन्मत्तभूताः प्लवगा मधुपानप्रहर्षिताः ।
क्षीवाः कुर्व्वन्ति हास्यं च कलहांश्च तथाऽपरे” ॥)

क्षु, दु ल क्षुते । इति कविकल्पद्रुमः ॥ (अदां-परं-

अकं-सेट् ।) क्षुतं हाँची इति ख्यातम् । टु,
क्षवथुः । ल, क्षौति कफी । कृतकं कामिनि
चुक्षुवे मृगाक्ष्या । इति माघे । इति दुर्गादासः ॥

क्षुः, पुं, (क्षणोति हिनस्ति जीवान् इति । क्षण्

हिंसायां + डुः ।) सिंहः । इत्येकाक्षरकोषः ॥

क्षुणः, पुं, (क्षु + नक् ।) अरिष्टवृक्षः । यथा, --

“अरिष्टो वस्तिकर्म्माढ्यो वेणीवः फेनिलः क्षुणः” ।
इति शब्दचन्द्रिका ॥ (अरिष्टशब्देऽस्य विवरणं
ज्ञातव्यम् ॥)

क्षुण्णं, त्रि, (क्षुद् संपेषणे + कर्म्मणि क्तः ।) प्रह-

तम् । (अभ्यस्तम् । यथा, रघौ । १ । १७ ।
“रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम्” ॥
माघे च । १ । ३२ ।
“उदीर्णरागप्रतिरोधकं जनै-
रभीक्ष्णमक्षुण्णतयातिदुर्गमम् ।
उपेयुषो मोक्षपथं मनस्विन-
स्त्वमग्रभूमिर्निरपायसंश्रया” ॥)
चूर्णीकृतम् । इति जटाधरः ॥
(यथा, मार्कण्डेयपुराणे । ८३ । २४-२५ ।
“सोऽपि कोपान्महावीर्य्यः क्षुरक्षुण्णमहीतलः ।
शृङ्गाभ्यां पर्व्वतानुच्चांश्चिक्षेप च ननाद च ॥
वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्य्यत” ॥)

क्षुत्, स्त्री, (क्षु शब्दे क्षुते च + सम्पदादित्वात् भावे

क्विप् तुगागमश्च ।) क्षुतम् । इत्यमरः । २ । ६ । ५२ ॥
(धान्यविशेषः । देधान इति लोके । अस्य प-
र्य्याया यथा, वैद्यकरत्नमालायाम् ।
“क्षुतुघुल्वञ्चो गोजिह्वा च गुन्द्रागुल्मा गवेधुका” ॥)

क्षुत्, [ध्] स्त्री, (क्षुध् + सम्पदादित्वात् भावे

क्विप् ।) क्षुधा । इत्यमरः । २ । ९ । ५४ ॥
(यथा, मार्कण्डेयपुराणे । ८ । ३५ ।
“तात ! तात ! ददस्वान्नमम्बाम्ब ! भोजनं दद ।
क्षुन्मे बलवती जाता जिह्वाग्रं शुष्यते तथा” ॥)

क्षुतं, क्ली, (क्षु शब्दे क्षुते च + भावे क्तः ।) ना-

सिकाभिघातजन्यसशब्दवायुनिःसरणम् । हाँची
इति भाषा । तत्पर्य्यायः । क्षुत् २ क्षवः ३ ।
इत्यमरः । २ । ६ । ५२ ॥ क्षुता ४ छिक्का ५
क्षवथुः ६ क्षुतः ७ । इति शब्दरत्नावली ॥ हञ्छिः
८ । इति जटाधरः ॥ * ॥ तस्य शकुनानि यथा, --
“अथ क्षुताख्यं शकुनं क्रमेण
महाप्रभावं प्रतिभावयामः ।
नश्यन्ति यस्माच्छकुनाः समस्ता
मृगाधिनाथादिव वन्यसत्त्वाः ॥
सर्व्वस्य सर्व्वत्र च सर्व्वकालं
क्षुतं न कार्य्यं क्वचिदेव शस्तम् ।
यातुः क्षुते तेन न किञ्चिदेव
कुर्य्यात् क्षुतं प्राणहरञ्च गन्तुः ॥
निषेधमग्रेऽक्षिणि दक्षिणे च
धनक्षयं दक्षिणकर्णदेशे ।
तत् पृष्ठभागे कुरुतेऽर्थवृद्धिं
क्षुतं कदाचित् शुभमादधाति ॥
भोगाय वामश्रवणस्य पृष्ठे
कर्णे च वामे कथितं जयाय ।
सर्व्वार्थलाभाय च वामनेत्रे
जातं क्षुतं स्यात् क्रमशोऽष्टधैव ॥
क्रमान्निषेधं गमनस्य विघ्नं
कलिं समृद्धिं क्षुतमुग्ररोगम् ।
करोति रोगक्षयमर्थलाभं
दीप्त्यादिनाशञ्च क्षुतं करोति ॥
प्रागास्य पुंसः परतोऽपरा स्यात्
पुनः पुनर्व्वा तत एव जातः ।
वृद्धाच्छिशोर्व्वा कफतो हठाद्वा
जातं क्षुतं केऽपि वदन्ति सत्यम् ॥
आद्यन्तयोर्न स्वजने प्रशस्त
क्षुतं प्रशंसन्ति न भोजनादौ
भवेत् कथञ्चिद्यदि भोजनान्ते
भवेत्तदाग्रे न हि भोज्यलाभः ॥
आदौ क्षुतञ्चेत् शकुनैस्ततः किं
जातानजातान् शकुनान्निहन्ति ।
क्षुतं क्षणेनात्र न संशयोऽस्मिन्
प्रयोजने यत्नकृतेऽपि जातम् ॥
क्षुतं क्षणात्तद्विनिहन्त्यवश्यं
कार्य्यात्मकेनापि मनागपीदम् ॥
तस्मादुपेक्ष्यं न विचक्षणेन
क्षुतं यतश्चाशु फलं विधत्ते” ॥
इति वसन्तराजशाकुने क्षुत्प्रकरणं तृतीयम् ॥
अपि च ।
“छिक्काया लक्षणं वक्ष्ये लभेत् पूर्ब्बे महाफलम् ।
आग्नेये शोकसन्तापौ दक्षिणे हानिमाप्नुयात् ॥
नैरृत्ये शोकसन्तापौ मिष्ठान्नञ्चैव पश्चिमे ।
अन्नं प्राप्नोति वायव्ये उत्तरे कलहो भवेत् ।
ईशाने मरणं प्रोक्तं प्रोक्तं छिक्काफलाफलम्” ॥
इति गारुडे ज्योतिश्चक्रे ६० अध्यायः ॥ * ॥
अन्यच्च । वर्षकृत्ये ।
“वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयं
याम्यामग्निभयं सुरद्विषि कलिर्लाभः समुद्रालये ।
वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चोत्तरे
ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने ॥
ज्येष्ठीरुते क्षुतेऽप्येवमूचुः केचिच्च कोविदाः” ॥
इति ॥ * ॥ क्षुते जीवेति प्रयोगः कर्त्तव्यः । यथा,
मदनपारिजातधृतम् ।
“जीवेति क्षुवतो ब्रूयात् जीवेत्युक्तस्त्वया सह” ॥
इति ॥ * ॥
“क्षुतोत्पतनजृम्भासु जोवोत्तिष्ठाङ्गुलिध्वनिः ।
शत्रोरपि च कर्त्तव्यमन्यथा ब्रह्महा भवेत्” ॥
इति च तिथ्यादितत्त्वम् ॥ * ॥ तस्य शुभजन-
कत्वम् । यथा, दाक्षिणात्यास्तु ।
“आसने शयने दाने भोजने वस्त्रसंग्रहे ।
विवादे च विवाहे च क्षुतं सप्तसु शोभनम्” ॥
अन्यत्र विष्णोरित्यधिकृत्य विष्णुधर्म्मोत्तरम् ।
“नामसंकीर्त्तनं नित्यं क्षुतप्रस्खलितादिषु ।
वियोगं शीघ्रमाप्नोति सर्व्वानर्थो न संशयः” ॥
इति ॥ * ॥ असंवृतमुखस्य क्षुन्निषेधो यथा, --
विष्णुधर्म्मोत्तरे ।
“नासंवृतमुखः कुर्य्याद्धास्यं जृम्भां तथा क्षुतम्” ।
इति ॥ * ॥ क्षुते आचमनं कर्त्तव्यं यथा । याज्ञ-
वल्क्यः ।
“स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेत् वासोविपरिधाय च” ॥
इति ॥ * ॥ अशक्तौ स्मृतिः ।
“क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने ।
कर्म्मस्थ एषु नाचामेद्दक्षिणं श्रवणं स्पृशेत्” ॥
इति च उद्वाहतत्त्वम् ॥ * ॥ बलिनां सकृत् क्षुतं
भवति यथा, --
“क्रूरे दक्षिणवक्रा स्याद्बलिनाञ्च क्षतं सकृत्” ।
पृष्ठ २/२४०
दक्षिणवक्रेति नासाविशेषणम् । इति च गारुडे
६६ अध्यायः ॥

क्षुतः, पुं, (क्षु + क्तः । आभिधानात् पुंस्त्वम् ।)

क्षुतम् । इति शब्दरत्नावली ॥

क्षुतकः, पुं, (क्षुताय साधुरिति कन् स्वार्थे वा ।)

राजिका । इति राजनिर्घण्टः ॥

क्षुता, स्त्री, (क्षुत + टाप् ।) क्षुतम् । इति शब्द-

रत्नावली ॥

क्षुताभिजननः, पुं, (क्षुतं अभिजनयति । अभि

+ जन् + णिच् + ल्युः ।) कृष्णसर्घपः । इत्यमर-
टीकायां स्वामी ॥

क्षुत्करी, स्त्री, (क्षुतं करोतीति । कृ + टः + ङीप्

च ।) कङ्कालिका । यथा, शब्दचन्द्रिकायाम् ।
“भुजङ्गघातिनी सूरिः सर्पाक्षी क्षुत्करी स्पृहा” ॥

क्षुद, ञ ध औ इर् क्षुदि । इति कविकल्पद्रुमः ॥

(रुधां--उभं--सकं--अनिट् ।) ञ ध, क्षुणत्ति क्षुन्ते ।
औ, क्षोत्ता । इर्, अक्षुदत् अक्षौत्सीत् । क्षुदि
चूर्णीकरणे । इति दुर्गादासः ॥ (यथा, भट्टिः ।
१४ । ३३ ।
“मित्रघ्नस्य प्रचुक्षोद गदयाङ्गं विभीषणः ।
सुग्रीवः प्रघसं नेभे बहून्रामस्ततर्द्द च” ॥)

क्षुद्, [ध्] स्त्री, (क्षुध् + सम्पदादित्वात् भावे क्विप् ।)

क्षुधा । इत्यमरः । २ । ९ । ५४ ॥ (विष्णुपुराणे । १ । ५ । ३९ ।
“रजोमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ।
ततः क्षुद् ब्रह्मणो जाता जज्ञे कोपस्तया ततः” ॥)

क्षुदः, पुं, (क्षुद् + “इगुपधज्ञाप्रीकिरः कः” । ३ ।

१ । १३५ । इति कः ।) तण्डुलादिचूर्णम् । क्षुद्
इति भाषा ॥

क्षुद्रः, पुं, (क्षुदि + “स्फायितञ्चिवञ्चिंशकिक्षिपि-

क्षुदीति” । उणां । २ । १३ । इति रक् ।) तण्डु-
लावयवः । इति मंक्षिप्तसारोणादिवृत्तिः ॥
डहुः । इति शब्दरत्नावली ॥ (मक्षिकाविशेषः ।
यदुक्तम् ।
“मक्षिकाः कपिलाः सूक्ष्माः क्षुद्राख्यास्तत्कृतं मधु ।
मुनिभिः क्षौद्रमित्युक्तं तद्वर्णात् कपिलं भवेत्” ॥)

क्षुद्रः, त्रि, (क्षुद् + “स्फायितञ्चीति” उणां । २ ।

१३ । इति रक् ।) कृपणः । अधमः । (यथा,
कुमारे । १ । १२ ।
“क्षुद्रेऽपि नूनं शरणं प्रपन्ने
ममत्वभुच्चैः शिरसां सतीव” ॥
तुच्छः । यथा, गीतायाम् । २ । ३ ।
“क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोतिष्ठ परन्तप !” ॥)
क्ररः । अल्पः । इत्यमरमेदिनीकरौ ॥ (यथा, महा-
भारते । ३ । आरण्ययात्रापर्व्वणि । १० । २४ ।
“तं भीमः समरश्लाघी बलेन बलिनाम्बरः ।
जघान पशुमारेण व्याध्रः क्षुद्रमृगं यथा” ॥)
दरिद्रः । इति हेमचन्द्रः ॥

क्षद्रकण्टकारी, स्त्री, (क्षुद्रः कण्टकारी ।) अग्नि-

दमनी । इति राजनिर्घण्टः ॥

क्षुद्रकण्टकी, स्त्री, (क्षुद्रं कण्टकं यस्याः । गौरा-

दित्वात् ङीष् ।) बृहती । इति भावप्रकाशः ।
क्षुद्रभण्टाकीति च पाठः ॥

क्षुद्रकम्बुः, पुं, (क्षुद्रश्चासौ कम्बुश्चेति ।) क्षुद्रशङ्खः ।

तत्पर्य्यायः । शङ्खनखः २ क्षुल्लकः ३ । इति
हेमचन्द्रः ॥

क्षुद्रकारवेल्ली, स्त्री, (क्षुद्रा कारवेल्ली ।) कारवेल्ल-

विशेषः । छोट करला इति भाषा । तत्पर्य्यायः ।
कुडहुञ्ची २ श्रीफलिका ३ प्रतिपत्रफला ४
सुषवी ५ कारवी ६ बहुफला ७ क्षुद्रकार-
लिका ८ कन्दफला ९ । कन्दफलास्थाने कन्दलता
इति च पाठः । अस्या गुणाः । कटुत्वम् । उष्ण-
त्वम् । तिक्तत्वम् । रुचिकारित्वम् । दीपनदत्वम् ।
रक्तानिलदोषकारित्वम् । पथ्यत्वञ्च । तत्फल-
स्याप्येते गुणाः ॥ तत्कन्दगुणाः । अर्शोनाशि-
त्वम् । मलरोधविशोधनत्वम् । योनिनिर्गतदोष-
गर्भस्रावविषापहत्वञ्च । इति राजनिर्घण्टः ॥

क्षुद्रकारलिका, स्त्री, (क्षुद्रा कारलिका ।) क्षुद्र-

कारवेल्ली । इति राजनिर्घण्टः ॥

क्षुद्रकुलिशः, पुं, (क्षुद्रः कुलिशः वज्रमणिविशेषः ।

नित्यकर्म्मधारयः ।) वैक्रान्तमणिः । इति राज-
निघण्टः ॥

क्षुद्रकुष्ठं, क्ली, (क्षुद्रं अल्पं कुष्ठम् ।) स्वल्पकुष्ठरोगः ।

तत्तु एकादशविधम् । यथा । क्षुद्रकुष्ठान्याह ।
“एककुष्ठं १ स्मृतं पूर्ब्बं गजचर्म्म २ ततः परम् ।
ततश्चर्म्मदलं ३ प्रोक्तं ततश्चापि विचर्च्चिका ४ ॥
विपादिकाभिधा ५ स्यैव पामाकच्छू--६ स्ततः परा ।
ततो दद्रुश्च ७ विस्फोटः ८ किटिभञ्च ९ ततः परम् ॥
ततश्चालसकं १० प्रोक्तं शतारुश्च ११ ततः परम् ।
क्षुद्रकुष्टानि चैतानि कथितानि भिषग्वरैः” ॥
ननु दद्रोः कथं क्षुद्रकुष्ठेषु गणना सुश्रुतेन महा-
कुष्ठेषूक्तत्वात् । उच्यते । असिता च गाढमूला
दद्रुः मुश्रुते महाकुष्ठेपूक्ता असितेतरा नव-
गाढमूला दद्रुः क्षुद्रकुष्ठमेव । एवं विधाया दद्रो-
श्चरकेण क्षुद्रकुष्ठेषु दर्शितत्वात् ॥ * ॥
कुष्ठानां त्रिदोषजत्वेनैकत्वे त्रिदोषस्योल्वणतया
सप्तधात्वमाह ।
“सर्व्वेष्वपि त्रिदोषेषु व्यपदेशाधिकत्वतः ।
कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वं समागतैः” ॥
सर्व्वेष्वपि कुष्ठेषु त्रिदोषजेषु सत्सु व्यपदेशा
धिकत्वतः व्यपदेशः कापालादिसंज्ञास्तेषामष्टा-
दशत्वरूपं यदधिकत्वं ततः कुष्ठानि सप्तधा । कै-
र्दोषैः कथम्भूतैः पृथग्द्वन्द्वं समागतैः । समागतैः
सङ्गतैम्मिलितैरिति यावत् । अस्यायमर्थः ।
किमपि कुष्ठंवातोल्वणं किमपि पित्तोल्वणं कि-
मपि कफोल्वणं किमपि वातपित्तोल्वणं किमपि
वातश्लेष्मोल्वणं किमपि पित्तश्लेष्मोल्वणं किमपि
त्रिदोषोल्वणमिति ॥ * ॥ पूर्ब्बरूपमाह ।
“अतिश्लक्ष्णः खरस्पर्शः स्वेदास्वेदौ विवर्णता ।
दाहःकण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः क्लमः ॥
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः ।
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि केवलम् ।
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्” ॥
अतिश्लक्ष्णः अतिमृदुः । अथवा खरः रूक्षः
कर्क्वशो वा स्पर्शः । स्वेदास्वेदौ घर्म्मादि सप्तसङ्गा-
भावेऽपि स्वेदः । अथवा घर्म्मादिप्रसङ्गेऽपि स्वेदा-
भावः । त्वचि स्वापः स्पर्शाज्ञता । शीघ्रोत्पत्तिः
शीघ्रा उत्पत्तिर्ब्रणानामित्यन्वयः ॥ * ॥ सम्प्राप्ति-
पूर्ब्बकं सामान्यं लक्षणमाह ।
“शिराः प्रपद्य तिर्य्यक् च त्वग्लसीकासृगामिषम् ।
दूषयन्ति श्लथीकृत्य निश्चरन्तो वहिस्ततः ॥
त्वचः कुर्व्वन्ति वैवर्ण्यं दोषाः कुष्ठमुषन्ति तत्” ॥
तिर्य्यक् तिर्य्यग्गताः शिराः प्रपद्येत्यन्वयः ॥ * ॥
येनोल्वणेन दोषेण यत् कुष्ठं समुत्पद्यते तदाह ।
“वातेन कुष्ठं कापालं पित्तेनौडुम्बरं कफात् ।
मण्डलाख्यं विचर्च्ची च ऋक्षाख्यं वातपित्ततः ॥
चर्म्मैककुष्ठकिटिभसिध्मालसविपादिकाः ॥
वातश्लेष्मोद्भवाः पित्तकफात् दद्रुशतारुषी ॥
पुण्डरीकं सविस्फोटं पामा चर्म्मदलन्तथा ।
सर्व्वैरेवोल्वणैर्दोषैराहुः काकणकं बुधाः” ॥
विचर्च्ची च कफादित्यन्वयः ॥
“पुण्डरीकं सविस्फोटं पामा चर्म्मदलन्तथा” ॥
पित्तकफादित्यन्वयः ॥ * ॥ अथ क्षुद्रकुष्ठानां
मध्ये एककुष्ठस्य लक्षणमाह ।
“अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम् ।
तदेव कुष्ठंचर्म्माख्यं बहुलं हस्तिचर्म्मवत्” ॥
महावास्तु महास्थानम् । मत्स्यशकलोपमं अत्र
शकलशब्देन लक्षणया त्वचमुच्यते । तेन चक्रा-
कारमभ्रकपत्रसदृशं भवति । एककुष्ठमितिक्षुद्र-
कुष्ठेषु मुख्यत्वात् ॥ * ॥ गजचर्म्माह ।
“चर्म्माख्यं बहुलं हस्तिचर्म्मवत् रूक्षं कृष्णं च” ।
गजचर्म्माख्यं बहुलं स्थूलं हस्तिचर्म्मवत् रूक्षं
कृष्णञ्च ॥ २ ॥ चर्म्मदलमाह ।
“रक्तं सशूलं कण्डूमत् सस्फोटं दलयत्यपि ।
तच्चर्म्मदलमाख्यातं संस्पर्शासहमुच्यते” ॥
दलयत्यपि विदारयत्यपि चर्म्मेति शेषः ॥ * ॥
विचर्च्चिकामाह ।
“सकण्डूः पिडका श्यावा बहुस्रावा विचर्च्चिका”
पिडका क्षुद्रपिडका ॥ * ॥ ननु क्षुद्रकुष्ठानां कथ-
मेकादशत्वम् । विपादिकया द्वादशत्वसम्भवात्
उच्यते । विचर्च्चिकैव पादयोर्भवति विदारण-
योगात् विपादिका तेन न सङ्ख्यातिरेकः । अतएव
भोजः ।
“दाल्यते त्वक्खरा रूक्षा पाण्योर्ज्ञेया विचर्च्चिका ॥
पादे विपादिका ज्ञेयां स्थानभेदाद्विचर्च्चिका” ॥
दाल्यते विदार्य्यते । केचिद्विचर्च्चिकातो विपादिकां
भिन्नमाहुः ।
“वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्” ॥
पाणिपादस्फुटनं पाण्योः पादयोश्च स्फटनं विदा
रणं येन तत् ॥ ४ ॥ पामामाह ।
“सूक्ष्मा बह्व्यः स्राववत्यः प्रदाहाः
पामेत्युक्ता पिडकाः कण्डुमत्यः” ।
पिडकाः पीडयन्ति इति पिडका इति क्षिपका-
दित्वान्निपात्यते ॥ ५ ॥
कच्छूमाह ।
“सैव स्फोटैस्तीव्रदाहैरुपेता
ज्ञेया पाण्योः कच्छरुग्रा स्फिचोश्च” ॥
पृष्ठ २/२४१
सैव पामा । स्फोटैर्भ्महद्भिः । स्फिचौ प्रोथौ ॥ ६ ॥
दद्रूमाह ।
“सकण्डूरागपिडकं दद्रूमण्डलमुद्गतम्” ॥
दद्रूमण्डलं भण्डलरूपेणोत्पद्यते । उद्गतमुच्छूनम्
॥ ७ ॥ विस्फोटमाह । “स्फोटाः श्यावारुणा भासा
विस्फोटाः स्युस्तनुत्वचः ॥ ८ ॥ किटिभमाह । “श्यावं
किणखरस्पर्शं परुषं किटिभं स्मृतम्” । किणखर-
स्पर्शं किणः शुष्कव्रणस्थानं तद्वत् कर्क्कशस्पर्शम् ॥
परुषं रूक्षम् ॥ ९ ॥ अलसकमाह ।
“कण्डूमद्भिः सरागैश्च गण्डैरलसकञ्चितम्” ।
गण्डैर्म्महापिडकाभिः । चितं विचेष्टितम् ॥ १० ॥
शतारुषमाह ।
“रक्तं श्यावं सदाहार्त्तिशतारुः स्याद्वहुव्रणम्” ॥ ११ ॥
अथ सप्तधातुगतानां कुष्ठानां लक्षणमाह । तत्र
रसगतस्य लक्षणमाह ।
“त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यञ्च जायते ।
त्वक्स्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्त्तनम्” ॥
त्वक्शब्देनात्र रस उच्यते । धातुप्रस्तावात् त्वक्-
स्थाच्च । त्वक्स्वापः स्पर्शाज्ञत्वम् । त्वक्स्वाप इत्या-
दिकं केचिदत्र रक्तगतस्य लिङ्गं मन्यन्ते ॥ १ ॥
रुधिरगतमाह ।
“कण्डूर्व्विपूयकश्चैव कुष्ठे शोणितसम्भवे” ॥
विपूयः विशेषेण पूयः ॥ २ ॥ मांसगतमाह ।
“बाहुल्यं रक्तशोषश्च । कार्कश्यं पिडकोद्गमः ।
तोदः स्फोटाः स्थिरत्वञ्च कुष्ठे मांससमाश्रिते” ॥
बाहुल्यं कुष्ठस्य पुष्टिः । पिडकोद्गमः क्षुद्रपिडको-
द्गमः । स्फोटाः बृहत्पिडकाः । स्थिरत्वं अंश-
चारित्वम् ॥ ३ ॥ मेदोगतमाह ।
“कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम् ।
मेदःस्थानगते लिङ्गं प्रागुक्तानि तथैव च” ॥
कौण्यं हस्तनाशः । अङ्गानां सम्भेदः अङ्गभङ्गः ।
क्षतसर्पणं क्षतप्रसरणम् । प्रागुक्तानि रक्तमांस-
गतलिङ्गानि ॥ ४ ॥ अस्थिमज्जगतमाह ।
“नासाभङ्गोऽक्षिरोगश्च क्षतेषु कृमिसम्भवः ।
स्वरोपघातः पिडका भवेत् कुष्ठेऽस्थिमज्जगे” ॥ ५ ॥ ६ ॥
शुक्रगतमाह ।
“दम्पत्योः कुष्ठबाहुल्याद्दुष्टशोणितशुक्रयोः ।
यदपत्यं तयोर्ज्जातं ज्ञेयं तदपि कुष्ठितम्” ॥
दम्पत्थोः स्त्रीपुरुषयोर्द्दुष्टशोणितशुक्रयोर्यदपत्यं
तयोर्ज्जातमिति ॥ ८ ॥ * ॥ ननु शुद्धशोणित-
शुक्रयोरेव दम्पत्योर्गर्भसम्भवाद्दुष्टशोणितशुक्रयोः
कथमपत्योत्पत्तिः । यत आह सुश्रुतः ।
“कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः ।
गर्भः सञ्जायते नार्य्याः स जातो बाल उच्यते” ॥
इति । अन्यच्च । वातादिदुष्टरेतसः प्रजोत्पादने न
समर्थाः । इति । उच्यते । गर्भोऽत्र शुद्धो बोद्धव्यः ॥
अशुद्धस्तु गर्भो दुष्टशोणितशुक्रयोरपि भवति
पङ्गुजन्मान्धबधिरादीनां सम्भवात् । शोणितमत्रा-
र्त्तवम् । कुष्ठितं कुष्ठं संजातमस्येति तारकादि-
त्वादितच् । शुक्रार्त्तवगतं कुष्ठमपत्येन व्यज्यते
इति तात्पर्य्यम् ॥ * ॥ कुष्ठेषूल्वणवातादि दोष-
लिङ्गमाह ।
“खरं श्यावारुणं रूक्षं वातकुष्ठं सवेदनम् ।
पित्तात् प्रकुपितं दाहरागस्रावान्वितं मतम् ॥
कफात् क्लेदि घनं स्निग्धं सकण्डू शैत्यगौरवम् ।
द्विलिङ्गद्वन्द्वजं कुष्ठं त्रिलिङ्गं सान्निपातिकम्” ॥
खरं कर्क्कशम् । श्यावारुणं श्यावं चारुणञ्च । प्रकु-
पितं क्लेदपूतिबहुलम् । क्लेदि आर्द्रतायुक्तम् ।
घनं पुष्टम् ॥ * ॥ साध्यत्वादिकमाह ।
“साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकञ्च यत् ।
मेदोगं द्वन्द्वजं जाप्यं वर्ज्यं मज्जास्थिसंश्रितम् ॥
कृमिकृद्दाहमन्दाग्निसंयुक्तं यत्त्रिदोषजम्” ।
वातश्लेष्माधिकञ्च यत् एतेन सिद्धैककुष्ठगजचर्म्म-
विपादिकाकिटिभालसकानि साध्यानि । मज्ज-
प्रत्यासत्त्या शुक्रगतमप्यसाध्यम् । कृमिकृदाद्यपि
वर्ज्ज्यमित्यन्वयः ॥ * ॥ अरिष्टमाह ।
“प्रभिन्नं प्रश्रुताङ्गञ्च रक्तनेत्रं हतस्वरम् ।
पञ्चकर्म्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम्” ॥
प्रभिन्नं विदीर्णम् । हतस्वरं घर्घरस्वरम् । पञ्च-
कर्म्मगुणातीतं असंजाताचमनादिपञ्चकर्म्मगुणम् ॥
अथ त्वग्दृष्टिसाम्यात् कुष्ठभेदत्वाच्चात्रैव श्वित्रमाह ।
“कुष्ठैकसम्भवं श्वित्रं किलासञ्चारुणं भवेत् ।
निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्” ॥
कुष्ठैकसम्भवं कुष्ठेन सह एकस्तुल्यः सम्भवो
निदानं यस्य तत् ॥ * ॥ श्वित्रस्य भेदानाह । किलास-
ञ्चारुणं भवेत् । श्वित्रमेव रक्तमांसाश्रयात् कि-
लासमरुणञ्च भवेदित्यर्थः ॥ * ॥ ननु कुष्ठस्य
श्वित्रस्य च को भेद इत्यत आह । निर्द्दिष्टमपरि-
स्रावीति । श्वित्रमपरिस्रावि भवति कुष्ठन्तु स्रावि
अथ च त्रिधातूद्भवसंश्रयमिति त्रयो धातवो
वातपित्तकफास्तेभ्यः पृथग्भूतेभ्य उद्भवो यस्य
तत् । अथ च त्रयो धातवो रक्तमांसमेदांसि सं-
श्रयोऽधिष्ठानं यस्य तत् । कुष्ठं सान्निपातिकं
सर्व्वधातुगतञ्च भवतीति भेदः ॥ * ॥
दोषभेदेन लक्षणभेदाणाह ।
“वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत् ।
सदाहं रोमविध्वंसि कफाच्छेतं घनं गुरु ॥
सकण्डूकं क्रमाद्रक्तं मांसमेदःसु चादिशेत् ।
वर्णे नैवेदृगुभयं कुष्ठं तच्चोत्तरोत्तरम्” ॥
अरुणमीषल्लोहितम् । कमलपत्रवदित्यनेन मध्ये
श्वेतमन्ते लोहितं बोधयति । घनं पुष्टम् । क्रमा-
द्रक्तं मांसमेदःसु चादिशेत् । तथा च चरकः ।
“अरुणं रक्तगे वाते ताम्रं पित्ते पलं गते ।
श्वेतं श्लेष्मणि मेदःस्थे श्वित्रं कुष्ठं परं परम्” ॥
उभयं द्विविधमपि श्वित्रं वर्णेन ईदृगेव अरुणं
ताम्रं श्वेतञ्च । दोषभेदात् द्विविधं दोषजं व्रण-
जञ्च । तथा च भोजः ॥ श्वित्रन्तु द्विविधं विद्या-
द्दोषञं व्रणजं तथा” । इति ॥ * ॥
श्वित्रं साध्यमसाध्यञ्चाह ।
“अशुक्लरोमाबहलमसंसृष्टमथो नवम् ।
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा” ॥
अबहलं तनु । अन्यच्च ।
“गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम् ।
वर्ज्जनीयं विशेषेण किलासं सिद्धिमिच्छता” ॥
गुह्यं मेहनं भगञ्च । तलमत्र पादतलम् । सुश्रुते-
नान्ते जातमिति सामान्यतो निर्द्दिष्टत्वात् । अ-
चिरन्तनं नवमपि ॥ * ॥ कुष्ठस्य संसर्गजत्वे प्रस-
ङ्गेनान्यानपि संसर्गजान् रोगानाह ।
“प्रसङ्गात् गात्रसंस्पर्शात् निश्वासात् सहभोजनात् ।
एकशय्याशनाच्चापि वस्त्रमाल्यानुलेपनात् ॥
कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च ।
औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम्” ॥
प्रसङ्गात् प्रकर्षेण सङ्गः प्रसङ्गो मैथुनं तस्मात् ।
गात्रसंस्पर्शात् तर्हि मैथुनादिति विशेषार्थम् ।
वस्त्रमाल्यानुलेपनात् एकस्मादेव । शोषो यक्ष्मा ।
औपसर्गिकरोगाः शीतलादयः ॥ * ॥ सकुष्ठस्य
मृतस्य पुनर्जातस्यापि कुष्ठं भवतीत्याह ।
“म्रियते यदि कुष्ठेन पुनर्जातस्य तद्भवेत् ।
नातो निन्द्यतरो रोगो यथा कुष्ठं प्रकीर्त्तितम्” ॥
एतावता कुष्ठिनां कुष्ठं सर्व्वथा प्रतिकरणीयं न
तदुपेक्षणीयम् ॥
अथ कुष्ठस्य चिकित्सा ।
“वातोत्तरेषु सर्पिर्व्वमनं श्लेष्मोत्तरेषु कुष्ठेषु ।
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनञ्चेष्टम्” ॥
“पथ्याकरञ्जसिद्धार्थनिशावल्गुजसैन्धवैः ।
विडङ्गसहितैः पिष्टैर्लेपो मूत्रेण कुष्ठनुत्” ॥
अवल्गुजः वकुचीति लोके । पथ्यादिर्लेपः ॥ * ॥
“सोमराजीभवं चूर्णं शृङ्गवेरसमन्वितम् ।
उद्वर्त्तनमिदं हन्ति कुष्ठे रागकृतास्पदभ्” ॥
सोमराजी वकुचीति लोके । सोमराज्युद्वर्त्तनम् ॥
“रसायनं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ।
मार्कण्डेयप्रभृतिभिर्यत् प्रयुक्तं महर्षिभिः ॥ * ॥
पुष्पकाले तु पुष्पाणि फलकाले फलानि च ।
संगृह्य पिचुमर्द्दस्य त्वङ्मलानि दलानि च ॥
द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत् ।
त्रिफला त्र्युषणं ब्राह्मी स्वदंष्ट्रारुष्कराग्नयः ॥
विडङ्गसारवाराहीलोहचूर्णामृताः समाः ।
निशाद्वयावल्गुजकव्याधिघाताः सशर्क्कराः ॥
कुष्ठमिन्द्रयवाः पाठा चूर्णमेषान्तु संयुतम् ।
खदिरासननिम्बानां घनक्वाथेन भावयेत् ॥
सप्तधा पञ्चनिम्बन्तु मार्कवस्य रसेन च ।
स्निग्धः शुद्धतनुर्द्धीमान् योजयेत्तच्छुभे दिने ॥
मधुना तिक्तहविषा खदिरासनवारिणा ।
लेह्यमुष्णाम्भसा वापि कोलवृद्ध्या पलं भवेत् ॥
जीर्णे तस्मिन् सभश्नीयाद् स्निग्धं लधुहितञ्च यत् ॥
विचर्च्चिकोदुम्बरपुण्डरीक-
कपालदद्रूकिटिभालसादि ।
शतारुविस्फोटविसर्पमालाः
कफप्रकोपं त्रिविधं किलासम् ॥
भगन्दरश्लीपदवातरक्त-
जडान्ध्यनाडीव्रणशीर्षरोगान् ।
सर्व्वान् प्रमेहान् प्रदरांश्च सर्व्वान्
दंष्ट्राविषं मूलविषं निहन्ति ॥
स्थूलोदरः सिंहकृशोदरः स्यात्
सुश्लिष्टसन्धिर्म्मधुनोपयोगात् ।
सदोषरोगादपि ये दशन्ति
पृष्ठ २/२४२
सर्पादयो यान्ति विनाशमाशु ॥
जीवेच्चिरं व्याधिजराविमुक्तः
शुभे रतश्चन्द्रसमानकान्तिः” ॥
अयमर्थः । निम्बस्य फल-पुष्प-त्वक्-पत्र-मूलानि
सर्व्वाणि समुदितानि द्विगुणानि चूर्णितानि भृङ्ग-
राजस्य रसेन सप्तवारान् भावयेत् । त्रिफलादीनि
पाठान्तानि समुदितान्येकभागानि चूर्णितानि
खदिरासननिम्बानां निविडक्वाथेन भावयेत् । ततः
सर्व्वमेकीकृत्य मध्वादिनावलिह्यात् । पञ्चनिम्बा-
वलेहः ॥ * ॥
“शशिलेखापञ्चपलं तावद्गिरिजस्य गुग्गुलोर्द्दश च ।
ताप्यस्य पलत्रितयं द्वे लोहश्रावणीकायाः ॥
त्रिफलाकरञ्जपल्लवखदिरगुडूचीत्रिवृद्दन्त्यः ।
मुस्ताविडङ्गरजनीकुटजत्वक्निम्बवह्निसम्पाकाः ॥
एतै रचितां वटिकां मधुघृतमिश्रां गिलेत् प्रातः ।
गोमूत्रेण च कुष्ठं नुदन्त्यसृग्वातमचिरेण ॥
श्वित्राणि पाण्डुरोगं विषमानुदरप्रमेहगुल्मांश्च ।
नाशयति वलीपलितं योगः स्वायम्भुवो नाम्ना” ॥
शशिलेखा सोमराजी । गिरिजस्य शिलाजतुनः ।
ताप्यस्य सुवर्णमाक्षिकस्य । श्रावणिका मुण्डी
इति लोके । स्वायम्भुवो गुग्गुलुः ॥ * ॥
“चित्रकं त्रिफला व्योषमजाजी कारवी वचा ।
सैन्धवातिविषे कुष्ठं चव्यैलायवशूकजम् ॥
विडङ्गान्यजमोदा च मुस्ता चामरदारु च ।
यावन्त्येतानि सर्व्वाणि तावन्मात्रन्तु गुग्गुलुम् ॥
सङ्क्षुद्य सर्पिषा सार्द्धं गुटिकां कारयेद्भिषक् ।
प्रातर्भोजनकाले च खादेदग्निबलं यथा ॥
हन्त्यष्टादश कुष्ठानि कृमीन् दुष्टव्रणानि च ।
ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान् ॥
गृध्रसीमस्थिभग्नञ्च गुल्मञ्चापि नियच्छति ।
व्याधीन् कोष्ठगतांश्चापि जयेद्विष्णुरिवासुरान्” ॥
एकविंशतिको गुग्गुलुः ॥ * ॥
“वातरक्ताधिकारोक्तः पुरः कैशोरकाविधः ।
कुष्ठानां वातरक्तानां नाशाय परमौषधम्” ॥
कैशोरको गुग्गुलुः ॥ * ॥
“भल्लातकं प्रस्थयुगं छित्त्वा द्रोणजले क्षिपेत् ।
प्रस्थद्वयं गुडूच्याश्च क्षुण्णं तत्राम्भसि क्षिपेत् ॥
चतुर्थांशावशेषन्तु कषायमवतारयेत् ।
वस्त्रपूते कषाये च वक्ष्यमाणानि निःक्षिपेत् ॥
सरावमात्रं गोसर्पिर्गोदुग्धस्याढकं तथा ।
सितां प्रस्थमितां दद्यात् प्रस्थार्द्धं माक्षिकं क्षिपेत् ॥
सर्व्वाण्येकत्र भाण्डे तु पचेन्मृद्वग्निना शनैः ।
सर्व्वद्रव्ये घनीभूते पावकादवतारयेत् ॥
तत्र क्षेप्याणि चूर्णानि ब्रूमो विल्वमितामृता ।
वाकुची चाथ दद्रुघ्नः पिचुमर्द्दो हरीतकी ॥
धात्री रात्रिश्च मञ्जिष्ठा मरिचं नागरं कणा ।
यवानी सैन्धवं मुस्तं त्यगेला नागकेशरम् ॥
पर्पटः पत्रकं बालमुशीरं चन्दनं तथा ।
गोक्षुरम्य च वीजानि कर्च्चूरो रक्तचन्दनम् ॥
पृथक पलार्द्धमानानां चूर्णमेषामिह क्षिपेत् ।
पलमात्रमिदं प्रातः समश्नीयाज्जलेन हि ॥
नाशयेदवलेहोऽयं कुष्ठानि निखिलान्यपि ।
वातरक्तानि सर्व्वाणि सर्व्वाण्यर्शांसि मेवितः ॥
व्यायाममातपं वह्निमम्लं मांसं दधि स्त्रियम् ।
तैलाभ्यङ्गं तथाध्वानं नरो भल्लातके त्यजेत्” ॥
इति अमृतभल्लातकावलेहः ॥ * ॥
“निम्बं गोपारुणा कट्वी त्रायन्ती त्रिफला घनम् ।
पर्पठावल्गुजानन्ता वचा खदिरचन्दनम् ॥
पाठा शुण्ठी शटी भार्गी वासा भूनिम्बवत्सकम् ।
श्यामेन्द्रवारुणी मूर्व्वा विडङ्गेन्द्रयवानलम् ॥
हस्तिकर्णोऽमृता द्रेका पटोलं रजनीद्वयम् ।
कणारग्बधसप्ताह्वकृष्णवेत्रोच्चटाफलम् ॥
मञ्जिष्ठा लाङ्गली रास्ना नक्तमालः पुनर्नवा ।
दन्ती विजयसारश्च भृङ्गराजः कुरण्टकम् ॥
अङ्कोठकं च शाखोटं द्विपलांशं पृथक् पृथक् ।
गृह्णीयात्तानि सर्व्वाणि जलद्रोणे पचेच्छनैः ॥
अष्टमांशावशेषन्तु कषायमवतारयेत् ।
विधाय वाससा पूतं स्थापयेद्भाजने दृढे ॥
भल्लातकसहस्राणि क्षिप्त्वा त्रीण्यर्म्मणेऽम्भसि ।
पचेदष्टावशेषन्तु कषायमवतारयेत् ॥
तच्च वस्त्रेण संशोध्य द्वौ कषायौ विमिश्रयेत् ।
गुडस्य तु तुलां दत्त्वा लेहवत् साधु साधयेत् ॥
भल्लातकसहस्राणि तच्च बीजानि विक्षिपेत् ।
त्रिकटु त्रिफला मुस्तं विडद्गं चित्रकं तथा ॥
सैन्धवं चन्दनं कुष्ठं दीप्यकञ्च पलं पृथक् ।
सौगन्ध्यर्थं क्षिपेत्तत्र चातुर्जातं पलं पलम् ॥
महाभल्लातको ह्येष महादेवेन भाषितः ।
प्राणिनां हितकामाय जयेच्छीघ्रं प्रयोगतः ॥
श्वित्रमौडुम्बरं दद्रूमृक्षजिह्वं सकाकणम् ।
पुण्डरीकञ्च चर्म्माख्यं विस्फोटं रक्तमण्डलम् ॥
फण्डुं कापालकं कुष्ठं पामानञ्च विपादिकाम् ।
वातरक्तं षडर्शांसि पाण्डुरोगं व्रणं कृमीन् ॥
रक्तपित्तमुदावर्त्तं कासं श्वासं भगन्दरम् ।
सदाभ्यासेन पलितमामवातं सुदुस्तरम् ॥
निर्यन्त्रणस्तु कथितो विहाराहारमैथुनैः ।
कुरुते परमां कान्तिं प्रदीप्तं जठरानलम् ॥
अनुपानं प्रयोक्तव्यं छिन्नातोयं पयोऽथवा ।
भोजने तु सदा त्याज्यमुष्णमम्लं विशेषतः” ॥
गोपा गां पातीति गोपा गोपकन्या श्वेत साउ
इति लोके । यत आह निर्घण्टः । “शारिवाशार-
दास्फोटा गोपकन्या प्रतानिका” इति । तद्वाचको
गोपीशब्दश्च । यत आह । गोपी श्यामा शारीवा
स्यादनन्तोत्पलशारिवेत्यमरः ॥ गोपाङ्गना गोप-
वल्ली लताह्वा काष्ठशारिवेति मदनपालः ॥ अरुणा
अतीस । अवल्गुजः सोमराजी । अनन्ता दुरा-
लभा । चन्दनं श्वेतम् । भार्ग्या अलाभे कण्टकारी-
मूलं गृह्णीयात् । श्यामा कृष्ण साउ । हस्तिकर्णः
हथिकण । द्रेका वकाइनि । सप्ताह्वः छतिवन ।
कृष्णवेत्रः जलवेतस । उच्चटाफलं आरक्तगुञ्जा-
फलम् । कुरण्टकः पीतपुष्पकटसरैया । दीप्यकः
यवानी । महाभल्लातकः ॥ * ॥
“मञ्जिष्ठा त्रिफला तिक्ता वचा दारु निशामृता ।
निम्बश्चैषां कृतः क्वाथः सर्व्वकुष्ठानि नाशयेत्” ॥
इति लघमञ्जिष्ठादिक्वाथः ॥ * ॥
“मञ्जिष्ठा वाकुची चक्रमर्द्दश्च पिचुमर्द्दकः ।
हरीतकी हरिद्रा च धात्री वासा शतावरी ॥
बला नागबला षष्टीमधुकं क्षु रकोऽपि च ।
पटोलस्य लतोशीरं गुडूची रक्तचन्दनम् ॥
मञ्जिष्ठादिरयं क्वाथः कुष्ठानां नाशनः परः ।
वातरक्तस्य संहर्त्ता कण्डू मण्डलखण्डनः” ॥
इति मध्यममञ्जिष्ठादिक्वाथः ॥ * ॥
“मञ्जिष्ठा कुटजामृता घनवचाशुण्ठीहरिद्राद्वयं
क्षुद्रारिष्टपटोलकुष्ठकटुकाभार्गीविडङ्गाग्निकम् ।
मूर्व्वादारुकलिङ्गभृङ्गमगधात्रायन्तिपाठावरी ।
गायत्त्रीत्रिफलाकिरातकमहानिम्बासनारग्बधम् ॥
श्यामावल्गुजचन्दनं वरुणकं दन्तो च शाखोटकं
वासा पर्पटसारिवा प्रतिविषानन्ता विशाला जलम् ॥
मञ्जिष्ठादिरयं कषायमिति यः संसेवते तस्य तु
त्वग्दोषा ह्यचिरेण यान्ति विलयं कुष्ठानि चाष्टादश ॥
नाशं गच्छति वातरक्तमखिलं नश्यन्ति रक्तामवा
वीसर्पस्त्वचि शून्यता नयनजा रोगाः प्रशाम्यन्ति च” ॥
अरिष्टः निम्बः । कलिङ्गमिन्द्रयवम् । भृङ्गं भङ्गरा ।
वरी शतावरी । गायत्त्री खदिरः । असनः वि-
जयसारः । श्यामा प्रियङ्गुः । चन्दनमत्र रक्तं
ग्राह्यम् । सारिवा साउ । अनन्ता दुरालभा ।
विशाला इन्द्रवारुणी । जलं नेत्रवांला ।
इति बृहन्मञ्जिष्ठादिक्वाथः ॥ * ॥
“मरिचं त्रिवृता मुस्ता हरितालं मनःशिला ।
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥
विशालां करवीरञ्च क्षीरमर्कसमुद्भवम् ।
गोमयस्य रसं कुर्य्यात् प्रत्येकं कर्षसंमितम् ॥
विषस्यार्द्धपलं देयं तैलं प्रस्थमितं कटु ।
पचेच्चतुर्गुणे नीरे गोमूत्रे द्विगुणे तथा ॥
मरिचाद्यमिदं तैलमभ्यङ्गात् कुष्ठनाशनम् ।
एतस्याभ्यङ्गतः श्वित्रं विवर्णं तत्क्षणात् भवेत् ॥
तैलमेतत् जयेत् कण्डूं पामां सिघ्मं विचर्च्चिकाम् ।
पुण्डरीकं तथा दद्रुं शून्यतां नित्यसेविनाम् ॥
इति लघुमरिचाद्यं तैलम् ॥ * ॥
“मरिचं त्रिवृता दन्ती क्षीरमार्कशकृद्रसः ।
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥
विशाला करवीरश्च हरितालं मनःशिला ।
चित्रकं लाङ्गली मुस्ता विडङ्गं चक्रमर्द्दकः ॥
शिरीषः कुटजो निम्बः सप्तपर्णोऽमृता स्नुही ।
सम्पाको नक्तमालश्च खदिरो वाकुची वचा ॥
ज्योतिष्मती च पलिका विषं द्विपलिकं भवेत् ।
आढकं कटुतैलस्य गोमूत्रञ्च चतुर्गुणम् ॥
मृत्पात्रे लोहपात्रे वा शनैर्म्मृ द्वग्निना पचेत् ।
मरिचाद्यमिदं तैलं महन्मुनिभिरीरितम् ॥
भिषगेतेन तैलेन म्रक्षयेत् कोष्ठिकान् व्रणान् ।
पामाविचर्च्चि कादद्रुकण्डू विस्फोटकानि च ॥
वली च पलितं छाया नीलं व्यङ्गं तथैव च ।
अभ्यङ्गेन प्रणश्यन्ति सौकुमार्य्यञ्च जायते ॥
प्रथमे वयसि स्त्रीणां यासां नस्यं प्रदीयते ।
तासामपि जरां प्राप्य न स्यातां स्खलितौ स्तनौ ॥
वलीवर्द्दस्तुरङ्गो वा गजो वा वायुपीडितः ।
त्रिभिरभ्यञ्जनैरस्य भवेन्मारुतविक्रमः” ॥
पृष्ठ २/२४३
ज्योतिष्मती मालकङ्गुनी इति लोके ।
इति महामरिचादितैलम् ॥ * ॥
“तालकस्य तु पत्राणि यस्य सन्ति पृथक् पृथक् ।
अभ्रकस्यैव तद्ग्राह्यं हरितालं चिकित्सकैः ॥
पुनर्नवायाः सरसे तालकं तद्विमर्द्दयेत् ।
दिनमेंकं ततस्तस्मिन् घनत्वं गमिते सति ॥
कुर्व्वीत चक्रिकां तां तु शोषयेत् सम्यगातपे ।
पुनर्नवासमस्ताङ्गक्षारे स्थालीं गलावधि ॥
पूरयेच्च ततः क्षारं द्रढयेत् पीडनेन हि ।
क्षारस्योपरि तां दद्यात् तालकस्य तु चक्रिकाम् ॥
तत आच्छादनं दत्त्वा मुद्रां कृत्वा विशोषयेत् ।
स्थालीं चुल्ल्यां निधायाग्निममन्दं ज्वालयेत् भिषक् ॥
निरन्तरमहोरात्रपञ्चकं तेन सिध्यति ।
स्वाङ्गशीतं समुत्तार्य्य गृह्णीयाद्रसमुत्तमम् ॥
तालकेश्वरनामायं भुक्तो गुञ्जामितो रसः ।
गुडूच्यादिकषायेण गदानेतान् विनाशयेत् ॥
अष्टादशापि कुष्ठानि वातरक्तं तथोद्धतम् ।
फिरङ्गदेशजं रोगं दुस्तरञ्च व्यपोहति ॥
एतद्भेषजसेवी तु लवणाम्लौ विवर्जयेत् ।
तथा कटुरसं वह्निमातपं दूरतस्तजेत् ॥
लवणं यः परित्यक्तुं न शक्नोति कथञ्चन ।
स तु सैन्धवमश्नीयात् मधुरोपरसो हि सः” ॥
इति तालकेश्वरो रसः ॥ * ॥
“तालताप्यशिलासूतटङ्कणं सिन्धुसंयुतम् ।
गन्धार्कौ द्विगुणौ सूताज्जम्बीराद्भिः प्रमर्द्दयेत् ॥
षडहं पुटितं षोढा भूधरे सकलं त्विदम् ।
षट्पलं द्विपलं ताम्रं लोहभस्म चतुष्पलम् ।
जम्बीराद्भिर्दिनं घृष्टं त्रिंशदंशं विषं क्षिपेत् ।
अस्य माषद्वयं खादेन्महिषीघृतसंयुतम् ॥
मध्वाज्यैर्व्वाकुचीबीजैः कर्षं लिह्यात्ततः परम् ।
तालकेश्वरनामायं सर्व्वकुष्ठहरो रसः” ।
अर्को मारितं ताम्रम् । द्वितीयतालकेश्वरो रसः ॥ * ॥
“रसो वलिस्ताम्रमयः पुरोऽग्निः
शिलाजतु स्याद्विषतिन्दुकश्च ।
वरा च तुल्यं गगनं करञ्ज-
बीजं पृथग्भागचतुष्टयञ्च ॥
संमर्द्य सर्व्वं मधुना घृतेन
घृतस्य पात्रे निहितं प्रंयत्नात् ।
कर्षं भजेत् प्रत्यहमस्य पथ्यं
शाल्योदनं दुग्धमधुत्रयञ्च ॥
विशीर्णकर्णाङ्गुलिनासिकोऽपि
भवेदनेन स्मरतुल्यमूर्त्तिः ।
दारापरित्याग इह प्रदिष्टो
जलौदनं तत्र निबद्धमूले” ॥
ताम्रमयश्च मारितम् । पुरो गुग्गुलुः । अग्नि-
श्चित्रकम् । विषतिन्दुकः कुचिला । वरा त्रिफला ।
रसादि त्रिफलान्तं सर्व्वं तुल्यम् । गगनमभ्रकम् ।
करञ्जबीजञ्च पृथक् चतुर्गुणं रसात् । तत्र कुष्ठे
बद्धमूले सति जलौदनमेव पथ्यम् ।
इति गलत्कुष्ठारिरसः ॥ * ॥
“अथ नागवधाख्यस्य रसस्य विधिरुच्यत ॥
यः पुरा मुनिवरैरुदाहृतो
यश्चिकित्सकजनैः समाहृतः ।
यस्तु कुष्ठपरमोपकारको
नागमारणविधिः स लिख्यते ॥
सुपक्वां स्थालिकामेकामाढकाम्बुधृतिक्षमाम् ।
गुडचूर्णकृतैः पङ्कैरागलं लेपयेद्वहिः ॥
गन्धकं भिषगानीय शरावमितमुत्तमम् ।
चूर्णयित्वा तदर्द्धन्तु तस्यां स्थाल्यां प्रसारयेत् ॥
शरावार्द्धस्य ताम्रस्य पत्राण्यतितनूनि च ।
स्थाल्यां यद्गन्धकं तस्मिन्नुपर्य्युपरि धारयेत् ॥
शरावार्द्धस्य सीसस्य पत्राणि च तनूनि च ।
धारयेत्ताम्रपत्राणामुपर्य्येव तथैव च ॥
गन्धकस्य शरावार्द्धं यत्राणामन्तरान्तरा ।
दत्त्वा तस्यावशेषन्तु सर्व्वेषामुपरि क्षिपेत् ॥
ततः पिधानं दत्त्वा तु विदध्यात् सन्धिमुद्रणम् ।
गुडं चूर्णञ्च खदिरं मिश्रयेत्तेन मुद्रयेत् ॥
मुद्रां संशोष्य तां स्थालीं चुल्ल्यामुपरि धारयेत् ।
तदधो ज्वालयेदग्निं द्वादशप्रहरावधि ॥
स्वाङ्गशीतं समुत्तार्य्य ततो निष्काश्य चौषधम् ।
शिलायां चूर्णयित्वा तु वस्त्रपूतञ्च कारयेत् ॥
त्रिद्रोणजलयोग्यन्तु विशालास्यं महाघटम् ।
गुडचूर्णकृतैः पङ्कैरागलं लेपयेद्वहिः ॥
सर्पः षष्ट्यङ्गुलायामः सार्द्धषष्ट्यङ्गुलोऽथवा ।
फणिकः कृष्णवर्णः स्यात् किं वा गोधूमवर्णवान् ॥
वधस्तस्य विधातव्यो यथा देहो न भिद्यते ।
तालकं सदलं यत्तच्चूर्णयेत् कुडवद्वयम् ॥
विषं पलमितं क्षुण्णं दत्त्वा दत्त्वान्तरान्तरम् ।
हरितालस्य चूर्णेन पूरयेद्भुजगोदरम् ॥
विषं पलमितं क्षुण्णं वाकुचीं पलसंमिताम् ।
भल्लातकं सुपक्वं यत् प्रस्थमैन्द्रयवं तथा ॥
सर्व्वाणि सम्यगास्तीर्य्य धारयेत महाघटे ।
तेषामुपरि सर्पञ्च धारयेत् कुण्डलीकृतम् ॥
सर्पस्योपरि संछिद्य धार्य्याण्येतानि पीडनैः ।
सनालमर्कपत्रं तु शरावयुगलं क्षिपेत् ॥
स्नुहीदलं सनालञ्च क्षिपेत् प्रस्थमितं तथा ।
वटप्ररोहं प्रस्थं च कुमारीं प्रस्थसंमिताम् ॥
दत्त्वा पिधानं चूर्णेन गुडेन खदिरेण च ।
मुद्रयेत् सह वस्त्रेण मृदा कुटितयापि च ॥
मुद्रां संशोष्य चुल्ल्यान्तु धारयेत्तं महाघटे ।
तदधो ज्वालयेदग्निं याममेकं यथौदने ॥
ततो हठाग्निर्दातव्यो यावत् स्युः प्रहरा दश ।
पुनः प्रहरमेकञ्च वह्निं दद्याद्यथौदने ॥
ततो लौहे कटाहे तु शरावत्रितयोन्मिते ।
गोघृतं प्रक्षिपेत् सर्व्वमौषधं यद्घटे स्थितम् ॥
दत्त्वाग्निं चालयेत्तावद्यावदुत्तिष्ठतेऽनलः ।
भेषजं च भवेच्छ्वेतं ततस्तस्मिन् परिक्षिपेत् ॥
भृष्टायाः स्फटिकाख्याया द्वे पले तत्र निःक्षिपेत् ।
भृष्टस्य टङ्कणस्यापि पलयुग्मञ्च निःक्षिपेत् ॥
ततः प्रहरमेकं तच्चालयेच्चुल्लिकोपरि ।
ततस्ताम्रञ्च सासञ्च मिश्रयित्वावतारयेत् ॥
रसो नागवधाख्योऽयं विधिनानेन सिध्यति
आदौ गुञ्जामितं खादेत्तावन्मरिचसंयुतम् ॥
क्रमेण वर्द्धयेत्तावद्यावद्गुञ्जाचतुष्टयम् ।
वर्द्धयेन्मरिचञ्चापि तथैव हि यथारसम् ॥
यवस्य पर्पटीं भोक्तुं दद्याद्धा षष्टिकौदनम् ।
लवणं वर्जयेत् सप्त दिनानि गुणलोलुपः ॥
लवणं यः परित्यक्तुं न शक्नोति कथञ्चन ।
सैन्धवं खादयेत्तेन तच्च सप्तदिनोपरि ॥
रसेनानेन नश्यन्ति कुष्ठानि सकलान्यपि ।
सन्निपाताश्च नश्यन्ति राजयक्ष्मादयस्तथा ॥
इति नागवधाख्यो रसः ॥ * ॥ अथ विशिष्टानां
कुष्ठानां चिकित्सा । तत्र सिध्मस्य चिकित्सा ।
“कुष्ठं मूलकबीजं प्रियङ्गवः सर्षपा रजनी ।
एतत् केशरषष्ठं निहन्ति च बहुवार्षिकं सिध्मम् ॥
शिरीषरसेन पिष्टं मूलकबीजं प्रलेपतः सिध्मम् ।
क्षारेण वा कदल्या रजनीमिश्रेण नाशयति ॥
दार्वी मूलकबीजानि तालकः सुरदारु च ।
ताम्बूलपत्रं सर्व्वाणि कार्षिकाणि पृथक् पृथक् ॥
शङ्खचूर्णन्तु शाणः स्यात् सर्व्वाण्येकत्र वारिणा ।
पेषयेत प्रलेपोऽयं सिध्मानां नाशनः परः” ॥ * ॥
अथ चर्म्मदलस्य चिकित्सा ।
“सलिले चाम्रपेशी तु किञ्चित्सैन्धवसंयुता ।
ताम्रपात्रे विनिर्घृष्ठा लेपाच्चर्म्मदलापहा” ॥
आम्रपेशी आमचूर ।
“सलिलेन तु शुष्काणि घृष्ट्वा धात्रीफलानि च ।
कराभ्यां सुखमाप्नोति नरश्चर्म्मदलान्वितः” ॥ * ॥
अथ पामाचिकित्सा ।
“जीरकस्य पलं पिष्टं सिन्दूरार्द्धपलं तथा ।
कटुतैलं पचेदाभ्यां सद्यः पामाहरं परम्” ॥
कटुतैलं षट्पलमितम् । जीरकादितैलम् ॥ * ॥
“मञ्जिष्ठात्रिफलालाक्षालाङ्गलीरात्रिगन्धकैः ।
चूर्णितैस्तैलमादित्यपाकं पामाहरं परम्” ॥
इति आदित्यपाकतैलम् ॥
“सैन्धवं चक्रमर्द्दश्च सर्षपाः पिप्पली तथा ।
आरनालेन संपिष्टाः पामकण्डूहराः स्मृताः” ॥ * ॥
अथ कच्छूचिकित्सा ।
“अर्क्कपत्ररसे पक्वं हरिद्राकल्कसंयुतम् ।
नाशयेत् सार्षपं तैलं पामां कच्छूं विचर्च्चिकाम्” ॥
अर्कतैलम् ।
“मनःशिलालं कासीसं गन्धाश्मा सिन्धुजन्म च ।
स्वर्णक्षीरी शिलाभेदी शुण्ठी कुष्ठञ्च मागधी ॥
लाङ्गलीकरवीरश्च दद्रुघ्नः कृमिहानलः ।
दन्तीनिम्बदलञ्चैभिः पृथक्कर्षमितैर्भिषक् ॥
कल्कीकृतैः पचेत्तैलं कटुप्रस्थद्वयोन्मितम् ।
अर्कसीहुण्डदुग्धेन पृथक्पलमितेन च ॥
गोमूत्रस्याढकेनापि शनैर्मृद्वग्निना पचेत् ।
अभ्यङ्गेन हरेदेतत् कच्छूदुःसाध्यतामपि ॥
पामानञ्च तथा कण्डू त्वग्व्याधिरुधिरामयान् ।
कच्छूराक्षसनामेदं तैलं हारीतभाषितम् ॥
इति कच्छूराक्षसनामतैलम् ॥ * ॥
अथ दद्रुचिकित्सा ।
“कुष्ठं कृमिघ्नो दद्रुघ्नो निशासैन्धवसर्षपाः ।
अम्लपिष्टाः प्रलेपोऽयं दद्रुकुष्ठनिसूदनः ॥
दूर्व्वाऽभयासैन्धवचक्रमर्द-
कुठैरकाः काञ्चिकतक्रपिष्टाः ।
पृष्ठ २/२४४
त्रिभिः प्रलेपैरपि बद्धमूलं
दद्रुञ्च कुष्ठञ्च विनाशयन्ति ॥
कुठेरकः ममरी इति लोके ।
लोके गण्डिलकाख्या सिद्धार्थश्च स्नुहीक्षीरम् ।
त्रयमिति समभागं स्यादेषां द्विगुणस्तु दद्रुघ्नः ॥
अष्टगुणे गोतक्रे तानि प्रकृतानि सन्दध्यात् ।
दिवसत्रितयादूर्द्धं सम्यङ्निष्पेषयेत्तानि ॥
वन्योपलेन घृष्ट्वा दद्रुमालेपयेत्तेन ॥
सप्ताहाल्लेपोऽयं दद्रुमवश्यं विनाशयति” ॥ * ॥
अथ श्वित्रस्य चिकित्सा ।
“विभीतकत्वङ्मलपूजटानां
क्वाथेन कृत्वा गुडसंयुतेन ।
अवल्गुजं बीजमपाकरोति
श्वित्राणि कृच्छ्राण्यपि पुण्डरीकम्” ॥
मलपूः काकोडुम्बरिका । अवल्गुजः सोमराजी ।
“कुडवावल्गुजबीजं हरितालं तच्चतुर्थांशम् ।
मनःशिला तालकार्द्धा गुञ्जाफलमग्निमूलञ्च ॥
मूत्रेण गवां पिष्टं सुवर्णताकारकं श्वित्रस्य ।
श्वित्रकुष्ठं व्रजत्यस्तं पक्षार्द्धेनाधिकेन वा ॥
गिरिकर्ण्या सितायाश्च मूलेन परिलेपितम्” ॥
गिरिकर्णी नीलापराजिता ॥
“क्वाथः सवाकुचीचूर्णो धात्रीखदिरसारयोः ।
शङ्खेन्दुकुन्दधवलं श्वित्रं संसेवितो हन्ति ॥
मथितेन पिबेत् चूर्णं काकोडुम्बर्य्यवल्गुजम् ।
तैलाक्तो घर्म्मसेवी स्यात्तक्राशी श्वित्रहृत् भवेत्” ॥
मथितं निर्ज्जलं विलोडितं दधि ।
तक्रं चतुर्थांशजलयुक्तं वस्त्रपूतं दधि ।
“खदिरस्य पलान्यष्टौ सोमराज्याः पलद्वयम् ।
त्रिफला पिचुमर्द्दश्च दारु दार्व्वथ पर्पटी ॥
पृथक् पलांशमुद्धृत्य सिंहिकायाः पलद्वयम् ।
जलाढकद्रये साध्यं यावत् पादावशेषितम् ॥
क्वाथ्यमानञ्च मृद्वग्नौ घृतप्रस्थं विपाचयेत् ।
चतुष्पलं सोमराज्याः खदिरस्य पलं तथा ॥
पटोलमूलं त्रिफलां त्रायमाणां दुरालभाम् ।
कर्षार्द्धं कटुकं चापि कार्षिकं सूक्ष्मपेषितम् ॥
पलद्वयं कौषिकस्य शुद्धस्यात्र प्रदापयेत् ।
सिद्धं सर्पिरिदं श्वित्रं हन्यादम्भ इवानलम् ॥
अष्टादशानां कुष्ठानां परमञ्चैतदौषधम् ।
सोमराजीघृतं नाम निर्म्मितं ब्रह्मणा पुरा ॥
लोकानामुपकाराव श्वित्रकुष्ठादिरोगिणाम्” ॥
इति सोमराजीघृतम् ॥
“महौषर्ध महामेदा निम्बपत्राणि सर्षपाः ।
मनःशिला च सिन्दूरं पद्मचारिण्यवल्गुजम् ॥
हरिद्रे हरितालञ्च त्रिफला पीतगन्धकः ।
एतानि सभभागानि विषार्द्धांशानि योजयेत् ॥
सर्पिषश्च पलान्यष्टौ देवदारुरसं शुभम् ।
द्विगुणं त्रिगुणं क्षीरं गोमृत्रञ्च चतुर्गुणम् ॥
ताम्रपात्त्रे तु संस्याप्य शनैर्म्मृद्वग्निना पचेत् ।
चतुर्मागावशेषन्तु सकल्कमवतारयेत् ॥
अग्नौ क्षिप्तन्तु निःशब्दं जलमुक्तं विचक्षणः ।
अभ्यङ्गपानयोर्गोगादाशु सर्व्वान् गदान् जयेत् ॥
अष्टादशाना कुष्ठानां दद्रूणां श्वित्रिणां तथा ।
दुष्टनाडीषु मर्त्यानां स्राविणां कीटिनां तथा ॥
असृक्स्रावपरीता ये ये च त्यक्तभिषक्क्रियाः ।
सर्व्वग्रहवियुक्तानां शीर्णाङ्गानां विशेषतः ॥
सर्व्वधातुगते कुष्ठे पतितं भूशिरोरुहम् ।
घर्घराव्यक्तघोषाणां तथा सर्व्वाङ्गवातिनाम् ॥
पानेऽभ्यङ्गे तथा नस्ये वस्तिकर्म्मणि नित्यशः ।
सप्तरात्रप्रयोगेण सर्व्वकुष्ठानि नाशयेत् ॥
द्विसप्ताहप्रयोगेण पूर्णचन्द्रनिभाननः ।
जातकेशनखश्मश्रुर्भाति षोडषवर्षवत् ॥
अनङ्गसदृशः साक्षात् सर्व्वामयविनाशनः ।
एतत् घृतं महाश्रेष्ठं भार्गवेणावतारितम् ॥
मनुष्याणां हितार्थाय सर्व्वव्याधिहरं परम् ।
महामार्त्तण्डकमिदं घृतं सर्व्वामरार्च्चितम्” ॥
इति महामार्त्तण्डघृतम् ॥ * ॥ इति कुष्ठाधि-
कारः ॥ इति भावप्रकाशः ॥

क्षुद्रगोक्षुरकः, पुं, (क्षुद्रः गोक्षुरः । ततः स्वल्पार्थे

कन् क्षुद्रगोक्षुर इव कायति इत्येके ।) गोक्षुर-
वृक्षभेदः । छोटा गोक्षुरु इति हरचिकार
इति च हिन्दी भावा । तत्पर्य्यायः । त्रिक-
ण्टकः २ कण्टी ३ षडङ्गः ४ बहुकण्टकः ५
क्षुरः ६ गोकण्टकः ७ कण्टफलः ८ पलङ्कषा
९ क्षुद्रक्षुरः १० भक्षटकः ११ स्थलशृङ्गाटकः
१२ वनशृङ्गाटकः १३ इक्षुगन्धः १४ स्वादुकण्टः
१५ । अस्य गुणाः । सुशीतलत्वम् । बलप्रदत्वम् ।
मधुरत्वम् । बृंहणत्वम् । कृच्छ्राश्मरीभेहविदाह-
नाशित्वम् । रसायनत्वम् । तत्र बृहतो गुणो-
त्तरत्वञ्च । इति राजनिर्घण्टः ॥

क्षुद्रघण्टिका, स्त्री, (घण्टा अल्पार्थे कन् टाप्

इत्वञ्च ततः क्षुद्रा घण्टिका इति कर्म्मधारयः ।)
कट्यलङ्कारविशेषः । घाघर इति घुङ्गुर इति च
भाषा ॥ तत्पर्य्यायः । किङ्किणी २ । इत्यमरः
। २ । ६ । ११० ॥ क्षुद्रघण्टी ३ प्रतिसरा ४
किङ्किणीका ५ कङ्कणी ६ कङ्कणिका ७ क्षुद्रिका
८ । इति शब्दरत्नावली ॥ घर्घरी ९ । इति
जटाधरः ॥

क्षुद्रघोली, स्त्री, (क्षुद्रा घोली ।) चिविल्लिकाक्षुपः । इति राजनिर्घण्टः ॥

क्षुद्रचञ्चुः, स्त्री, (क्षुद्रा चञ्चुः सा इवाकृतिरस्याः ।)

क्षुपविशेषः । तत्पर्य्यायः । चञ्चुः २ चञ्चूः ३ शुनक-
चञ्चुका ४ त्वक्सारभेदिनी ५ क्षुद्रा ६ कटुका ७
कटुपत्रिका ८ । अस्या गुणाः । मधुरत्वम् । कटु-
त्वम् । उष्णत्वम् । कषायत्वम् । दीपनत्वम् । शूल-
गुल्मार्शोविबन्धनाशित्वञ्च । इति राजनिर्घण्टः ॥
स्वल्पोष्ठश्च ॥

क्षुद्रचन्दनं, क्ली, (क्षुद्रं चन्दनमिति नित्यकर्म्मधारयः ।)

रक्तचन्दनम् । इति राजनिर्घण्टः ॥
(यथास्य पर्य्यायाः ।
“रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् ।
तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतम्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

क्षुद्रचिर्भिटा, स्त्री, (क्षुद्रा चिर्भिटा ।) गोपाल-

कर्कटी । इति राजनिर्घण्टः ॥ (क्षुद्रचिर्भिटीति
च क्कचित् दृश्यत ॥)

क्षुद्रचूडः, पुं, (क्षुद्रा चूडा यस्य ।) पक्षिविशेषः । गो-

सालिक इति भाषा । यथा, --
“शवमल्लः क्षुद्रचूडो गूथलक्तश्च साल्लिकः” ॥
इति शब्दचन्द्रिका ॥

क्षुद्रजन्तुः, पुं, (क्षुद्रः जन्तुर्जीवभेदः ।) शतपदी । इति

शब्दमाला ॥ खल्पप्राणिमात्रञ्च ॥ (आमलकशब्दे-
ऽस्य विवृतिर्ज्ञातव्या ॥)

क्षुद्रजातीफलं, क्ली, (क्षुद्रं जातीफलग् ।) आम-

लकम् । इति राजनिर्घण्टः ॥

क्षुद्रजीरः, पुं, (क्षुद्रः जीरः ।) स्वल्पजीरकः । इति

शब्दचन्द्रिका । क्षुदिया जीरा इति भाषा ॥

क्षुद्रजीवा, स्त्री, (क्षुद्रा जीवा कर्म्मधारयः ।) जीवन्ती ।

इति राजनिर्घण्टः ॥

क्षुद्रता, स्त्री, (क्षुद्रस्य भावः । क्षुद्र + तल् टाप् च ।)

क्षुद्रत्वम् । इति व्याकरणम् ॥

क्षुद्रत्वं, क्ली, (क्षुद्रस्य भावः । क्षुद्र + त्वप्रत्ययः ।) अल्पता

क्रूरता । अधमत्वम् । दरिद्रत्वम् ॥

क्षुद्रतुलसी, स्त्री, (क्षुद्रा तुलसीति नित्यकर्म्मधारयः ।)

अर्जकः । स तु वर्व्वरीभेदः । इति राजनिर्घण्टः ॥

क्षुद्रदंशिका, स्त्री, (क्षुद्रा दंशिका ।) स्वल्पदंशकः ।

छोट डाँश इति भाषा । यथा, --
“पतङ्गिका पुत्तिका स्यात् दंशस्तु वनमक्षिका ।
प्राचिका चाल्पतज्जातिर्दंशी स्यात् क्षुद्रदंशिका” ॥
इति जटाधरः ॥

क्षुद्रदंशी, स्त्री, (दंश + ङीष् । क्षुद्रा दंशी ।) क्षुद्र-

दंशिका । इति जटाधरदर्शनात् ॥

क्षुद्रदुरालभा, स्त्री, (क्षुद्रा दुरालभा लतविशेषः ।)

स्वल्पदुरालभावृक्षः । तत्पर्य्यायः । मरुस्था २
मरुसम्भवा ३ विशारदा ४ अजभक्ष्या ५ अजा-
दनी ६ उष्ट्रभक्षिका ७ कषाया ८ फणिहृत् ९
ग्राहिणी १० करभप्रिया ११ करभादनिका १२ ।
अस्या गुणाः । गौल्यत्वम् । अप्लत्वम् । ज्वरकुष्ठ-
श्वासकासभ्रमनाशित्वम् । पारदशुद्धिकारित्वञ्च ।
इति राजनिर्घण्टः ॥

क्षुद्रदुस्पर्शा, स्त्री, (दुःसहः स्पर्शो यस्याः दुस्पर्शा ।

क्षुद्रा दुस्पर्शा इति कर्म्मधारयः ।) अग्निदमनी ।
इति राजनिर्घण्टः ॥ (ज्ञेयास्या अग्निदमनीशब्दे
विवृतिः ॥)

क्षुद्रधात्री, स्त्री, (क्षुद्रा धात्री ।) कर्क्कटबृक्षः । इति

राजनिर्घण्टः ॥

क्षुद्रनासिकः, त्री, (क्षुद्रा नासिका नासा ऽस्य ।)

स्वल्पनासायुक्तः । तत्पर्य्यायः । नः क्षुद्रः २ । इति
हेमचन्द्रः ॥

क्षुद्रपत्रा, स्त्री, (क्षुद्रं पत्रं पर्ण्णं यस्याः । ततष्टाप् ।)

चाङ्गेरी । इति हारावली ॥

क्षुद्रपत्री, स्त्री, (क्षुद्रं पत्रं अस्याः । ततो गौरादि-

त्वात् ङीष् ।) वचा । इति राजनिर्घण्टः ॥ (यथास्याः
पर्य्याया ।
“वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्व्विका ।
क्षुद्रपत्री च मङ्गल्या जटिलोग्रा च लोमशा” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

क्षुद्रपनसः पुं, (क्षुद्रश्चासौ पनसश्चेति कर्म्मधारयः ।)

पृष्ठ २/२४५
लकुचः । इति राजनिर्घण्टः ॥ स्वल्पकण्टाफलञ्च ॥
(पर्य्यायोऽस्य यथा, --
“लकुचः क्षुद्रपनशो लकुचो डहु इत्यपि” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

क्षुद्रपर्णः पुं, (क्षुद्रं पर्णं पत्रं यस्य ।) अर्जकः । इति

राजनिर्घण्टः ॥ सूक्ष्मपत्रे त्रि ॥ (विवरणमस्यार्ज्जक-
शब्दे ज्ञातव्यम् ॥)

क्षुद्रपाषाणभेदा, स्त्री, (क्षुद्रा पाषाणभेदा इति नित्य-

कर्म्मधारयः ।) क्षुपविशेषः । क्षुद्रपाषाणभेदी इति
ख्याता । तत्पर्य्यायः । चतुःपत्री २ पार्व्वती ३
नगभूः ४ अश्मकेतुः ५ गिरिभूः ६ कन्दरोद्भवा ७
शैलोद्भवा ८ गिरिजा ९ नगजा १० । अस्या
गुणाः । व्रणकृच्छ्राश्मरीहरत्वम् । इति राज-
निर्घण्टः ॥

क्षुद्रपिप्पली, स्त्री, (क्षुद्रा पिप्पली ।) वनपिप्पली ।

इति राजनिर्घण्टः ॥

क्षुद्रपोतिका, स्त्री, (क्षुद्रा पोतिका । नित्यकर्म्मधारयः ।)

मूलपोती । इति राजनिर्घण्टः ॥

क्षुद्रफलकः, पुं, (क्षुद्रं फलमस्य इति कप् ।) जीवन-

वृक्षः । इति शब्दचन्द्रिका ॥

क्षुद्रफला, स्त्री, (क्षुद्रं फलं अस्या इति टाप् ।) भूमि-

जम्बुः । इति शब्दमाला । इन्द्रवारुणी । गोपाल-
कर्कटी । कण्टकारी । अग्निदमनी । इति राज-
निर्घण्टः ॥

क्षुद्रबुद्धिः, त्रि (क्षुद्रा अला अधमा क्रूरा वा बुद्धि-

र्मतिर्यस्य ।) अल्पमतिः । क्रूरधीः । अधमचेतनः ॥

क्षुद्रमुस्ता, स्त्री, (क्षुद्रा मुस्ता इति कर्म्मधारयः ।)

कसेरुः । इति राजनिर्घण्टः ॥ (कसेरुशब्देऽस्या
गुणपर्य्याया ज्ञेपाः ॥)

क्षुद्ररोगः, पुं, (क्षुद्रः रोगः ।) स्वल्पव्याधिः । तस्य

गणना यथा । पलितः १ इन्द्रलुप्तः २ दारुणकः
३ अरुषिका ४ इरिवेल्लिका ५ पनसिका ६ पा-
षाणगर्द्दभः ७ मुखदूषिका ८ व्यङ्गः ९ नीलिका
१० वल्मीकः ११ कक्षा १२ गन्धिनाम १३
अग्निरोहिणी १४ विदारिका १५ चिप्पः १६
परिवर्त्तिका १७ अवपाटिका १८ निरुद्ध-
प्रकाशः १९ सन्निरुद्धगुदः २० वृषणकच्छः २१
अहिपूतनः २२ गुदभ्रंशः २३ शूकरदंष्ट्रः २४
अनुशयी २५ अलसः २६ दारी २७ कदरः २८
तिलकालकः २९ मसकः ३० जतुमणिः ३१ न्यच्छः
३२ पद्मिनीकण्टकम् ३३ अजगल्लिका ३४ यव-
प्रख्या ३५ अन्त्रालजी ३६ विवृता ३७ इन्द्रवृद्धा
३८ गर्द्दभिका ३९ जालगर्द्दभः ४० कच्छपी ४१
शर्करार्ब्बुदः ४२ । एषां मध्ये येषां लक्षणचिकित्सा
पूर्ब्बं न लिखिता ते चात्र लिख्यन्ते ॥ * ॥
अथ अरुंषिकालक्षणमाह ।
“अरूषि बहुवक्त्राणि बहुक्लेदीनि मूर्द्धनि ।
कफासृक्कृमिकोपेन तानि विद्यादरुंषिकाम्” ॥
अरूंषि व्रणानि । अथारुंषिकायाश्चिकित्सा ।
“नीलोत्पलस्य किञ्जल्को धात्रीफलसमन्वितः ॥
यष्ठीमधुकयुक्तश्च लेपाद्धन्यादरुंषिकाम् ।
जिफलाया रजो यष्ठी मार्क्कवोत्पलसारिवा ।
सैन्धवं पक्वमेतैस्तु तैलं हन्यादरुंषिकाम्” ॥
इति त्रिकलाद्यं तैलम् ॥ * ॥
अथाग्निरोहिणीलक्षणमाह ।
“कक्षाभागेषु ये स्फोटा जायन्ते मांसदारुणाः ।
अन्तर्द्दाहज्वरकरा दीप्तपावकसन्निभाः ॥
सप्ताहात् द्वादशाहाद्वा पक्षाद्वा घ्नन्ति मानवम् ।
तामग्निरोहिणीं विद्यादसाध्यां सान्निपातिकाम्” ॥
सप्ताहादित्यादि वातपित्तकंफाधिकापेक्षया बो-
द्धव्यम् । घ्नन्तीत्यनुपक्रान्ताः । उपक्रान्तास्तु
साध्या एव । चरकेणाग्निरोहिण्याश्चिकित्साया
उक्तत्वात् ।
तस्याश्चिकित्सा ।
“पित्तं वीसर्पविधिना साधयेदग्निरोहिणीम् ।
रोहिण्यां लङ्घनं कुर्य्याद्रक्तमो क्षणरूपताम् ॥
शरीरस्य च संशुद्धिं तान्तु वृद्धां परित्यजेत्” ॥ * ॥
अथ विदारिकालक्षणमाह ।
“विदारिकन्दवद्वृत्तो कक्षावङ्क्षणसन्धिषु ।
रक्तो विदारिकां विद्यात् सर्व्वजां सर्व्वलक्षणाम्” ॥
अत्र पिडकामिति विशेष्यपदमध्याहरणीयम् ॥
अथ तच्चिकित्सा ।
“विदारिकायां प्रथमं जलौकायोजनं हितम् ।
पाटनञ्च विपक्रायां ततो व्रणविधिः स्मृतः” ॥ * ॥
अथावपाटिकालक्षणमाह ।
“अल्पीयसीं यदा हर्षात् बलाद्गच्छेत् स्त्रियं नरः ।
हस्ताभिघातादथवा चर्म्मण्युद्वर्त्तते बलात् ॥
मर्द्दनात् पीडनाद्वापि शुक्रवेगविघाततः ।
यत्रावपाट्यते चर्म्म तां विद्यादवपाटिकाम् ॥
वातेन कर्कशा रूक्षा सूक्ष्मा कृष्णा रुगन्विता ।
पित्तेन पीता रक्ता वा दाहतृष्णासमन्विता ॥
श्लेष्मणा कठिना स्निग्धा कण्डुमत्यल्पवेदना” ॥
अल्पीयः अल्पतरं योनिच्छिद्रं यस्यास्ताम् ।
अवपाट्यते विदार्य्यते ।
अथ तस्याश्चिकित्सा ।
“स्नेहस्वेदैरिमां वैद्यश्चिकित्सेदवपाठिकाम्” ॥
अथ सन्निरुद्धगुदस्य लक्षणमाह ।
“वेगसन्धारणाद्वायुर्विहतो गुदसंश्रितः ।
निरुणद्धि महास्रोतः सूक्ष्मं द्वारं करोति हि ॥
मार्गस्य सौक्ष्म्यात कृच्छ्रेण पुरीषं तस्य गच्छति ।
सन्निरुद्धगुदं व्याधिमेतं विद्यात् सुदुस्तरम्” ॥
अथ तस्य चिकित्सा ।
“सन्निरुद्धगुदे तैलैः सेको वातहरैर्हितः ।
तथा निरुद्धप्रकाशक्रियापि कथिता हिता” ॥
अथाजगल्लिकालक्षणमाह ।
“स्निग्धा सवर्णा ग्रथिता निरुजा मुद्गसन्निभा ।
कफवातोत्थिता ज्ञेया बालानामजगल्लिका” ॥
ग्रथिता गुम्फितेव मुद्गसन्निभा मुद्गाकृतिः ॥
अथ तस्याश्चिकित्सा ।
“तत्राजगल्लिकामामां जलौकोभिरुपाचरेत् ।
शुक्तिशौराष्ट्रिकाक्षारकल्कैश्चालेपयेन्मुहुः ॥
कठिना क्षारयोगैश्च द्रावयेदजगल्लिकाम् ।
श्यामालाङ्गलिकामूर्व्वाकल्कैरपि विलेपयेत् ॥
पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत्” ॥
अथान्त्रालजीलक्षणमाह ।
“घनामवक्त्रां पिडकामुन्नतां परिमण्डलाम् ।
अन्त्रालजीमल्पपूयां तां विद्यात् कफवातजाम्” ॥
घनां कठिनाम् । परिमण्डलां वर्त्तुलाम् । अल्प-
पूयां स्वल्पस्रावाम् ॥
अथ तस्याश्चिकित्सा ।
“अन्त्रालजीं यवप्रख्यां पूर्ब्बं स्वेदैरुपाचरेत् ।
मनःशिलादेवदारुकुष्ठकल्कैः प्रलेपयेत् ॥
पक्वां ब्रणविधानेन यथोक्तेन प्रसाधयेत्” ॥
इति भावप्रकाशे क्षुद्ररोगाधिकारः ॥
(अस्य सकारणलक्षणसम्प्राप्तिचिकित्सितानि यथा,
“स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसम्मिता ।
पिटिका कफवाताभ्यां बालानामजगल्लिका ॥
यवप्रख्या यवप्रख्या ताभ्यां मांसाश्रिता घना ।
अवक्त्राश्चालजीवृत्तास्तोकपूया घनोन्नताः ॥
ग्रन्थयः पञ्च वा षड् वा कच्छपी कच्छपोन्नता ।
कर्णस्योर्द्ध्वं समन्ताद्वा पिटिका कठिनोग्ररुक् ॥
शालूकाभा पनसिका शोफस्त्वल्परुजः स्थिरः ।
हनुसन्धिसमुद्भूतस्ताभ्यां पाषाणगर्द्दभः ॥
शाल्मलीकण्टकाकाराः पिटिकाः सरुजो घनाः ।
मेदोगर्भा मुखे यूनां ताभ्याञ्च मुखदूषिकाः ॥
ते पद्मकण्टका ज्ञेया यैः पद्ममिव कण्ठकैः ।
चीयते नीरुजैश्चैतैः शरीरं कफवातजैः ॥
पित्तेन पिटिकावृत्ता पक्वोदुम्बरसन्निभा ।
महादाहज्वरकरी विवृता विवृतानना ॥
गात्रेष्वन्तश्च वक्त्रस्य दाहज्वररुजान्विताः ।
मसूरमात्रास्तद्वर्णास्तत्संज्ञाः पिटिका घनाः ॥
ततः कष्टतराः स्फोटा विस्फोटाख्या महारुजाः ।
या पद्मकर्णिकाकारा पिटिका पिटिकान्विता ॥
सा विद्धा वातपित्ताभ्यां ताभ्यामेव च गर्दभी ।
मण्डला विपुलोत्सन्ना सरागपिटिकाचिता ॥
कक्षेति कक्षासन्नेषु प्रायोदेशेषु सानिलात् ।
पिजाद्भवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः ।
तादृशी महर्ता त्वेका गन्धनामेति कीर्त्तिता ।
घर्म्मस्वेदपरीतेऽङ्गे पिटिकाः सरुजो घनाः ॥
राजिकावर्णसंस्थानप्रमाणा राजिकाह्वयाः ।
दोषैः पित्तोल्वणैर्मन्दैर्विसर्पति र्विसर्पवत् ॥
शोफोऽपाकस्तनुस्ताम्रो ज्वरकृज्जालगर्द्दभः ।
मलैः पित्तोल्वणैः स्फोटा ज्वरिणो मांसदारुणाः ॥
कक्षाभागेषु जायन्ते येऽग्न्याभाः साग्निरोहिणी ।
पञ्चाहात्सप्तरात्राद्वा पक्षाद्वा हन्ति जीरितम् ॥
त्रिलिङ्गा पिटिका वृत्ता जत्रूद्ध्वमिरिवेल्लिका ।
विदारी कन्दकठिना विदारी कक्षवङ्क्षणे ॥
मेदोऽनिलकफैर्ग्रन्थिः स्नायुमांसशिराश्रयैः ।
भिन्नो वसाज्यमध्वाभं स्रवेत्तत्रोल्वणोऽनिलः ॥
मांसं विशोष्य ग्रथितां शर्करामुपपादयेत् ॥
दुर्गन्धं रुधिरं क्लिन्नं नानावर्णं ततो मलाः ॥
तां स्रावयन्ति निचितां विन्द्यात्तच्छर्करार्ब्बुदम् ।
पाणिपादतले सन्धौ जत्रूर्द्ध्वं वोपचीयते ॥
वल्मीकवच्छनेर्ग्रन्थिस्तद्वद्बह्वणुभिर्मुखैः ।
रुग्दाहकण्डूक्लेदाढ्यो वल्मीकोऽसौ समस्तजः ॥
शर्करोन्मथिते पादे क्षते वा कण्टकादिमिः ।
पृष्ठ २/२४६
ग्रन्थिः कोलवदुत्सन्नो जायते कदरन्तु तत् ॥
वेगसन्धारणाद्वायुरपानोऽपानसंश्रयम् ।
अणूकरोति वाह्यान्तर्मार्गमस्य ततः शकृत् ॥
कृच्छ्रान्निर्गच्छति व्याधिरयं रुद्धगुदस्ततः ।
कुर्य्यात् पित्तानिलं पाकं नखमांसे सरुग्ज्वरम् ॥
चिप्यमक्षतरोगञ्च विद्यादुपनखञ्च तम् ।
कृष्णोऽभिघाताद्रूक्षश्च खरश्च कुनखो नखः ॥
दुष्टकर्दमसंस्पर्शात् कण्डूक्लेदान्वितान्तराः ।
अङ्गुल्योऽलसमित्याहुस्तिलाभांस्तिलकालकान् ॥
कृष्णानवेदनांस्त्वक्स्थान् मांसांस्तानेव चोन्नतान् ।
माषेभ्यस्तून्नततरांश्चर्म्मकीलान् सितासितान् ॥
तथाविधो जतुमणिः सहजो लोहितस्तु सः ।
कृष्णं सितं वा सहजं मण्डलं लाञ्छनं समम् ॥
शोकक्रोधादिकुपिताद्वातपित्तान्मुखे तनु ।
ण्यामलं मण्डल व्यङ्गं वक्त्रादन्यत्र नीलिका ॥
परुषं परुषस्पर्शं व्यङ्गं श्यानञ्च मारुतात् ।
पित्तात्ताम्रान्तमानीलं श्वेतान्तं कण्डुमत्कफात् ॥
रक्ताद्रक्तान्तमाताम्रं शोषं चिमचिमायते ।
वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति ॥
ततस्त्वग् जायते पाण्डुः क्रमेण च विचेतना ।
अल्पकण्डूरविक्लेदा सा प्रसुप्ति प्रसुप्तितः ॥
असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः ।
मण्डलान्यतिकण्डूनि रागवन्ति बहूनि च ॥
उत्कोठः सोऽनुबन्धस्तु कोठ इत्यभिधीयते ।
प्रोक्ताः षट् त्रिंशदित्येते क्षुद्ररोगा विभागशः” ॥
इति वाभटे उत्तरस्याने एकत्रिंशोऽध्यायः ॥
अतोऽस्य प्रतिषेधो यथा, --
“विस्राववेज्जलौकोभिरपक्वामजगल्लिकाम् ।
स्वेदयित्वा यवप्रख्यां विलयाय विलेपयेत् ॥
दारुकुष्ठमनोह्वालैरित्यापाषाणगर्द्दभात् ।
विधिसांश्चाचरेत् पक्वान् प्रणवत्साजगल्लिकान् ॥
रोध्रकुस्तम्बरुवचाप्रलेपो मुखदूषिके ।
वटपल्लवयुक्ता वा नारिकेलोत्थशुक्तयः ॥
अशान्तौ वभनं नस्यं ललाटे च शिराव्यधः ।
निम्बाम्बु वान्तो निम्बान्बु साधितं पद्मकण्टके ॥
प्रिबेत् क्षौद्रान्वितं सर्पिनिम्बारग्बधलेपनम् ।
विवृतादींस्त जातान्तांश्चिकित्सेन्निरिवेल्लिकान् ॥
पित्तवीसर्पवत्तद्वत् प्रत्याख्यायाग्निरोहिणीम् ॥
विलङ्घनं रक्तविमोक्षणञ्च
विरूक्षणं कायविशोधनञ्च ।
धात्रीप्रयोगान् शिशिरप्रदेहान्
कुर्य्यात् सदा जालकगर्द्दभस्य ॥
विदारिकां हृते रक्ते श्लेष्मग्रन्थितदाचरेत् ।
मेदोऽर्ब्बुदक्रियां कुर्य्यात् सुतरां शर्करार्ब्बुदे ॥
प्रवृद्ध सुबहुच्छिद्रं सशोफं मर्म्मणि स्थितम् ।
वल्मीकं हस्तपादे च वर्ज्जयेदितरत् पुनः ॥
शुद्धस्यास्रे हृते लिम्बेत् सपट्वारैवतामृतैः ।
श्यामाकुलत्थिकामूलदन्तीपललसक्तुभिः ॥
पक्वे तु दुष्टमांसानि गतीः सर्व्वाश्च शोधयेत् ।
शस्त्रेण सम्यगनु च क्षारेण ज्वलनेन वा ॥
शस्त्रेणोत्कृत्य निःशेषं स्नेहेन कदरं दहेत् ।
निरुद्धमणिवत्कार्य्यं रुद्धपायोश्चिकित्सितम् ॥
चिप्यं शुद्ध्या जितोष्माणं साधयेच्छस्त्रकर्म्मणा ।
दुष्टं कुनखमप्येवं चरणावलसे पुनः ॥
धान्याम्लसिक्तौकासीसपटोलीरोचनातिलैः ।
सनिम्बपत्रैरालिम्पेद्दहेत्तु तिलकालकान् ॥
माषांश्च सूर्य्यकान्तेन क्षारेण यदि वाग्निना ।
तद्वदुत्कृत्य शस्त्रेण चर्म्मकीलजतुमणी ॥
लाञ्छनादित्रये कुर्य्याद् यथासन्न सिराव्यधम् ।
लेपयेत् क्षीरपिष्टैश्च क्षीरिवृक्षत्वगङ्कुरैः ॥
व्यङ्गेषु चार्ज्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका ।
लेपः सनवनीतावा श्वेताश्वखुरजामषी ॥
रक्तचन्दनमञ्जिष्ठा कुष्ठरोध्रप्रियङ्गवः ।
वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः ॥
द्वे जीरके कृष्णतिलाः सर्षपाः पयसा सह ।
पिष्टाः कुर्व्वन्ति वक्त्रेन्दुमपास्तव्यङ्गलाञ्छनम् ॥
क्षीरपिष्टा घृतक्षौद्रयुक्ता वा भृष्टनिस्तुषाः ।
मसूराः क्षीरपिष्टा वातीक्ष्णाः शाल्मलिकण्टकाः ॥
स गुडः कोलमज्जा वा शशासृक् क्षौद्रकल्कितः ।
सप्ताहं मातुलुङ्गस्थं कुष्ठं वा मधुनान्वितम् ॥
पिष्टा वाच्छालपयसा सक्षौद्रा मौशलीजटा ।
गौरस्थिमुशलीमूल-युक्तं वा साज्यमाक्षिकम् ॥
जम्ब्बाम्रपल्लवामस्तु हरिद्रे द्वे नवो गुडः ।
लेपः सवर्णकृत् पिष्टं स्वरसेन च तिन्दुकम् ॥
उत्पलपत्रं तगरं प्रियङ्गुकालीयकदम्बदरमज्जा ।
इदमुद्वर्त्तनमास्यं करोति शतपत्रसङ्काशम् ॥
एभिरेवौषधैः पिष्टैर्मुखाभ्यङ्गाय साधयेत् ।
यथादोषर्तुकान् स्नेहान् मधुकक्वाथसंयुतैः ॥
यवान् सर्ज्जरसं रोध्रमुशीरं चन्दनं मधु ।
घृतं गुडञ्च गोमूत्रे पचेदादर्व्विलेपनात् ॥
तदभ्यङ्गान्निहन्त्याशु नीलिकाव्यङ्गदूषिकान् ।
मुखं करोति पद्माभं पादौ पद्मदलोपमौ ॥
कुङ्कुमोशीरकालीयलाक्षायष्ट्याह्वचन्दनम् ।
न्यग्रोधपादांस्तरुणान् पद्मकं पद्मकेशरम् ॥
सनीलोत्पलमञ्जिष्ठं पालिकं सतिलाढके ।
पक्त्वा पादावशेषेण तेन पिष्टैश्च कार्षिकैः ॥
लाक्षापत्तङ्गमञ्जिष्ठा यष्टीमधुककुङ्कुमैः ।
अजाक्षीरद्विगुणितं तैलस्य कुडवं पचेत् ॥
नीलिकापलितव्यङ्गवलीतिलकदूषिकान् ।
हन्ति तन्नस्यमभ्यस्तं मुखोपचयवर्णकृत् ॥
मञ्जिष्ठा शवरोद्भवस्तु वरिकालाक्षा हरिद्राद्वयं
नेपालीहरितालकुङ्कुमगदागोरोचनागैरिकम् ।
पत्रं पाण्डुरटस्य चन्दनयुगं कालीयकं पारदं
पत्तङ्गं कनकत्वचं कमलजं बीजं तथा केसरम् ॥
सिक्थं तुत्थं पद्मकाद्योतसाज्यं
मज्जाक्षीरं क्षीरिवृक्षाम्बुचाग्नौ ।
सिद्धं सिद्धं व्यङ्गनील्यादिनाशे
वक्त्रेच्छायामैन्दवीञ्चाशु धत्ते ॥
मार्कवस्वरसक्षीरतोयपिष्टानि नावने ।
प्रसुप्तौ वातकुष्ठोक्तं कुर्य्याद्दाहञ्च वह्निना ।
उत्कोठे कफपित्तोक्तं कोठे सर्व्वञ्च कौष्ठिकम्” ॥
इति वाभट उत्तरतन्त्रे द्वात्रिंशोऽध्यायः ॥
“समासेन चतुश्चत्वारिंशत् क्षुद्ररोगा भवन्ति ।
तद्यथा, -- अजगल्लिका यवप्रख्याऽन्धालजी विवृता
कच्छपिका वल्माकमिन्द्रवृद्धा पनसिका पाषाण-
गर्द्दभो जालगर्द्दभः कक्षा विस्फोटकोऽग्निरो-
हिणी चिप्पं कुनखोऽनुशयी विदारिका शर्करा-
र्ब्बुदं पामा विचर्च्चिका रकसा पाददारिकाकदर-
मलसेन्द्रलुप्तौ दारुणकोऽरुंषिका पलितं मसू-
रिका यौवनपिडका पद्मिनीकण्टको जतुमणि-
र्म्यशकश्चर्म्मकीलस्तिलकालको न्यच्छं व्यङ्गः परि-
वर्त्तिकाऽवपाटिका निरुद्धप्रकाशः निरुद्धगुदो-
ऽहिपूतनं वृषणकच्छूर्गुदभ्रंशश्चेति” ॥ इति सुश्रुते
निदानस्थाने त्रयोदशेऽध्याये ॥ अत्रोक्तचिकित्सा-
दिकं यथारोगं ज्ञेयम् ॥ * ॥
अस्य पथ्यापथ्यानि यथा, --
“क्षुद्ररोगेषु सर्व्वेषु नानारोगानुकारिषु ।
दोषान् दूष्यानवस्थाञ्च निरीक्ष्य मतिमान् भिषक् ॥
तस्य तस्य च रोगस्य पथ्यापथ्यानि सर्व्वशः ।
यथादोषं यथादुष्टं यथावस्थञ्च कल्पयेत्” ॥
इति वैद्यकपथ्यापथ्यविधौ क्षुद्ररोगाधिकारः ॥)

क्षुद्रवंशा, स्त्री, (क्षुद्रा वंशा ।) वराहक्रान्ता । इति

केचित् ॥

क्षुद्रवर्व्वणा, स्त्री, (क्षुद्रा वर्व्वणा ।) वरटा । इति

राजनिर्घण्टः ॥

क्षुद्रवल्ली, स्त्री, (क्षुद्रा वल्ली ।) मूलपोती । इति

राजनिर्घण्टः

क्षुद्रवार्त्ताकी, स्त्री, (क्षुद्रा वार्त्ताकी ।) बृहती ।

इत्यमरः ॥

क्षुद्रवार्त्ताकिनी, स्त्री, (क्षुद्रा वार्त्ताकिनीति ।)

श्वेतकण्टकारी । इति राजनिर्घण्टः ॥

क्षुद्रशङ्खः, पुं, (क्षुद्रः शङ्खः स्वल्पशङ्खजातिः ।

जोङ्डा इति भाषा । तत्पर्य्यायः । शङ्खनखः २ ।
इत्यमरः । १ । १० । २३ ॥ शङ्खनकः ३ इति
तट्टीका ॥ क्षुल्लकः ४ शम्बूकः ५ भषशङ्खकः ६ ।
अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । शूलहरत्वम् ।
दीपनत्वञ्च । इति राजनिर्घण्टः ॥

क्षुद्रशर्करा, स्त्री, (क्षद्रा शर्क्करा नित्यकर्म्मधारयः ।)

यावनालशर्करा । इति राजनिर्घण्टः ॥

क्षुद्रशार्द्दूलः, पुं, (क्षुद्रः शार्द्दूलः । नित्यकर्म्मधारयः ।)

चित्रव्याघ्रः । इति राजनिर्घण्टः ॥

क्षुद्रशीर्षः, पुं, (क्षुद्रं शीर्षं यस्य ।) मयूरशिखाष्टक्षः ।

इति शब्दचन्द्रिका ॥

क्षुद्रशुक्तिः, स्त्री, (क्षुद्रा शुक्तिः । नित्यकर्म्मधारयः ।)

जलशुक्तिः । इति राजनिर्घण्टः ॥

क्षुद्रश्यामा, स्त्री, (क्षुद्रा श्यामा ।) कटभी । इति

राजनिर्घण्टः ॥ (कटभीशब्देऽस्या विवृतिर्ज्ञातव्या ॥)

क्षुद्रश्लेष्मान्तकः, पुं, (श्लेष्मणां अन्तकः श्लेष्मान्तकः ।

क्षुद्रः श्लेष्मान्तकः ।) भूकर्व्वुदारकः । इति राज-
निर्घण्टः ॥

क्षुद्रश्वासः, पुं, (क्षुद्रः अल्पः श्वासः ।) अल्पश्वास-

रोगः । यथा, --
“रसनिमित्तमेव स्थौल्यं कार्श्यञ्च तत्र श्लेष्मलाहार-
सेविनोऽध्यशनशीलस्याव्यायामिनो दिवास्वप्न-
रतस्य चाम एवान्नरसो मधुरतरश्च शरीरमनु-
क्रामन्नतिस्नेहान्मेदो जनयति तदतिस्थौल्यमापा-
पृष्ठ २/२४७
दयति तं अतिस्थूलं क्षुद्रश्वासपिपासाक्षुत्स्वप्न-
स्वेदगात्रदौर्गन्ध्यक्रथनगात्रसादगद्गदत्वानि क्षिप्र-
मेवाविशन्ति” । इत्यादि सुश्रुते १६ अध्यायः ॥
तस्य निदानादि यथा, --
“यैरेव कारणैर्हिक्का बहुभिः संप्रवर्त्तते ।
तैरेव कारणैः श्वासो घोरो भवति देहिनाम् ॥
विहाय प्रकृतिं वायुः प्राणोऽथ कफसंयुतः ।
श्वासयत्यूर्द्ध्वगो भूत्वा तं श्वासं परिचक्षते ॥
क्षुद्रकस्तमकश्छिन्नो महानूर्द्ध्वश्च पञ्चधा ।
भिद्यते स महाव्याधिः श्वास एको विशेषतः ॥
प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा ।
आनाहः पार्श्वयोः स्थूलं वैरस्यं वदनस्य च ॥
किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्त्तते ।
निषण्णस्यैति शान्तिञ्च स क्षुद्र इति संज्ञितः” ॥
इति च सुश्रुते उत्तरतन्त्रे ५१ अध्यायः ॥
(“रूक्षायाः सोद्भवः कोष्ठे क्षुद्रवात् उदीरयन् ।
क्षुद्रश्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः ॥
हिनस्ति न स गात्राणि न च दुःखा यथेतरे ।
न च भोजनपानानां निरुणद्ध्युचितां गतिम् ॥
नेन्द्रियाणां व्यथां नापि काञ्चिदुत्पादयेद्रुजम् ।
स साध्य उक्तो बलिनः सर्व्वे चाव्यक्तलक्षणाः” ॥
इति चरके चिकित्सास्थाने २१ अध्याये ॥)

क्षुद्रश्वेता, स्त्री, (क्षुद्रा श्वेतां ।) अर्क्कादिगणान्तर्गत-

वृक्षविशेषः । यथा, -- “अर्कालर्ककरञ्जद्वयना-
गदन्तीमयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतामहाश्वे-
तावृश्चिकाल्यलवणास्तापसवृक्षश्चेति ॥
अर्कादिको गणो ह्येष कफमेदोविषापहः ।
कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः” ॥
इति सुश्रुते ३९ अध्यायः ॥

क्षुद्रसहा, स्त्री, (सह + अच् टप् च । क्षुद्रा सहा

कर्म्मधारयः क्षुद्रस्य सहेत्येके ।) मुद्गपर्णी । (अस्याः
पर्य्याया यथा, --
“मुद्गपर्णी क्षुद्रसहा कामुद्गा सिहपर्णिका ।
वन्या मार्ज्जारगन्धेति सूर्पपर्ण्यावुभे च ते” ॥
इति वैद्यकरत्नमालायाम् ॥ अस्या व्यवहारो
यथा, वमनमेषजान्तर्गतकषायविशेषे । “सुमनाः
सौमनसायिनी हरिद्रा दारुहरिद्रा वृश्चीरपुनर्नवा
महासहा क्षुद्रसहा कषायैश्च” । इति चरके
विमानस्थाने ८ अध्याये ॥) इन्द्रवारुणी । इति
राजनिर्घण्टः ॥

क्षुद्रसुवर्णं, क्ली, (क्षुद्रं सुवर्णम् । नित्यकर्म्मधारयः ।)

रीतिः । इति राजनिर्घण्टः । (पित्तलम् ॥)

क्षुद्रहा, [न्] पुं, (क्षुद्रान् नीचान् क्रूरस्वभावान्

हन्तीति । हन् + क्विप् ।) महादेवः । इति शिव-
सहस्रनामस्तोत्रम् । इति कश्चित् । महाभार-
तीयानुशासनपर्व्वणि शिवसहस्रनामसु एतन्नाम
नास्ति । लिङ्गपुराणोक्तविष्णुकृतशिवसहस्रनाम-
स्तोत्रे क्षत्त्रहा इति नाम वर्त्तते । यथा, --
“प्रशान्तबुद्धिरक्षुद्रः क्षत्त्रहा नित्यसुन्दरः ।
धैर्य्याग्रधूर्य्यो धात्रीशः साकल्यः शर्करीपतिः” ॥
इति वृहत्तन्त्रसारः ॥

क्षुद्रहिङ्गलिका, स्त्री, (क्षुद्रा हिङ्गुलिला नित्यकर्म्म-

धारयः ।) कण्टकारी । इति शब्दचन्द्रिका ॥
(गुणादयोऽस्य कण्टकारीशब्दे बोद्धव्याः ॥)

क्षुद्रहिङ्गुली, स्त्री, (क्षुद्रा हिङ्गुली । नित्यकर्म्मधारयः ।)

कण्टकारी । इति शब्दचन्द्रिकायां क्षुद्रहिङ्गु-
लिकाशब्ददर्शनात् ॥

क्षुद्रा, स्त्री, (क्षुद् + “स्फायितञ्चिवञ्चिशकिक्षिपि

क्षुदीति” । उणां । २ । १३ । इति रक् ततष्टाप् ।)
व्यङ्गा । नटी । वेश्या । सरघा । कण्टकारिका ।
इत्यमरः । २ । ४ । ९४ ॥ (अस्याः पर्य्याया यथा, --
“अनाक्रान्ता स्पृही व्याघ्री भण्डाकीव निदिग्धिका ।
सिंही धामनिका क्षुद्रा बृहती कण्टकारिका” ॥
इति वैद्यकरत्नमालायाम् ॥
“कण्टकारी तु दुष्पर्शा क्षुद्रा व्याघ्री निदिग्धिका ।
कण्ठालिका कण्टिकिनी धावनी बृहती तथा” ॥
उभे च बृहत्यौ । यत आह सुश्रुतः ।
“क्षुद्रा या क्षुद्रभद्राख्या बृहतीति निगद्यते” ।
गुणाश्चास्याः कण्टकारीशब्दे ज्ञातव्याः ॥ इति
भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ अस्या
व्यवहारो यथा, पञ्चतिक्तकषाये ।
“क्षुद्रामृताभ्यां सहनागरेण
सपौष्करञ्चैव किराततिक्तम् ।
पिबेत्कषायन्त्विह पञ्च तिक्तं
ज्वरं निहन्त्यष्टविधं समग्रम्” ॥
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)
चाङ्गेरिका । हिंस्रा । मक्षिकामात्रम् । इति
हेमचन्द्रः ॥ वादरता । इति शब्दरत्नावली ॥
गवेधुका । इति रत्नमाला ॥

क्षुद्राग्निमन्थः, पुं, (क्षुद्रः अग्निमन्थः ।) दशमूले

प्रसिद्धवृक्षतिशेषः । छोटा गणियारि इति हिन्दी-
भाषा । तत्पर्य्यायः । तपनः २ विजया ३ गणिका-
रिका ४ अरणिः ५ लघुमन्थः ६ तेजोवृक्षः ७
तनुत्वचा ८ । अस्य गुणाः ।
“अग्निमन्थद्वयञ्चैव तुल्यं वीर्य्यरसादिषु ।
तत्प्रयोगानुसारेण योजयेत् स्वमनीषया” ॥
इति राजनिर्घण्टः ॥

क्षुद्राञ्जनं, क्ली, (क्षुद्रं अञ्जनम् ।) चक्षूरोगस्यौषध-

विशेषः । यथा, --
“गोमूत्रपित्तमदिराशकृद्धात्रीरसे पचेत् ।
क्षुद्राञ्जनं रसे चान्यत् यकृतस्त्रैफलेऽपि वा ॥
मैन्घवोपहितं युञ्ज्यान्निहितं वेणुगह्वरे ॥
मेदो यकृद्घृतञ्चाजं पिप्पलं सैन्धवं मधु ।
रसमामलकञ्चापि पक्वं सम्यङ्निधापयेत् ॥
कोशे खदिरनिर्म्माणे तद्वत् क्षुद्राञ्जनं हितम्” ॥
इति सुश्रुते १८ अध्यायः ॥

क्षुद्राण्डमत्स्यसंघातः, पुं, (क्षुद्राणां अण्डमत्स्यानां

अण्डात् अभिनवजातानां मत्स्यानामित्यर्थः सङ्घातः
समूहः ।) पोताधानम् । इत्यमरः । १ । १० । १९ ॥
पोना इति भाषा ॥

क्षुद्रादिकषायः, पुं, (क्षुद्रः आदिर्यस्य स कषायः ।)

कण्टकार्य्यादिकषायः । यथा, --
“क्षद्रामृतानागरपुष्कराह्वयैः
कृतः कषायः कफमारुतोत्तरे ।
सश्वासकासारुचिपार्श्वरुग्ज्वरे
ज्वरे त्रिदोषप्रभवेऽपि शस्यते” ॥
इति भैषज्यरत्नावली ॥

क्षुद्रान्त्रं, क्ली, (क्षुद्रं अन्त्रं उदरस्थनाडीभेदः ।)

हृदयस्थितसूक्ष्मान्त्रम् । यथा, -- समाननाम्नः पव-
नस्य सकलाङ्गचारित्वेऽपि नाभ्यादिस्थानविशेषा
वाचो युक्तिप्राचुर्य्याभिप्रायेण प्राणायतनानि प्रप-
ञ्चयितुमाह ।
“वपा वसावहननं नाभिः क्लोम यकृत् प्लिहा ।
क्षुद्रान्त्रं वृक्ककौ वस्तिः पुरीषाधानमेव च ॥
प्राणाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च ।
उदरञ्च गुदौ कौद्व्यौ विस्तारोऽयमुदाहृतः” ॥
वपा प्रसिद्धा । वसा मांसस्नेहः । नाभिः प्रसिद्धा ।
अवहननं पुष्फुसः । प्लीहा आयुर्व्वेदप्रसिद्धः ।
ते च मांसपिण्डाकारे सव्यकुक्षिगते । यकृत्
कालिका । क्लोम मांसपिण्डः । ते च दक्षिण-
कुक्षिगते । क्षुद्रान्त्रं हृत्स्थान्त्रम् । वृक्ककौ
हृदयसमीपस्थौ मांसपिण्डौ । वस्तिर्मूत्राशयः ।
पुरीषाधानं पुरीषाशयः । आमाशयोऽपक्वान्न-
स्थानम् । हृदयं हृत्पुण्डरीकम् । स्थूलान्त्रगुदो-
दराणि प्रसिद्धानि । वाह्याद्गुदवलयादन्तर्गुद-
वलये द्वे । तौ च गुदौ कौष्ठ्यौ कोष्ठे नाभेरधः
प्रदेशे भवौ । अयञ्च प्राणायतनस्य विस्तार-
उक्तः । पूर्ब्बश्लोके तु सङ्क्षेपः । अतएव पूर्ब्बश्लोको-
क्तानां केषाञ्चिदिह पाठः । इति मिताक्षरायां
प्रायश्चित्ताध्यायः ॥ (“पञ्चदशकोष्ठाङ्गानि तद्यथा, --
“नाभिश्च हृदयञ्च क्लोम च यकृच्च प्लीहा च वुक्कौ
च वस्तिश्च पुरीषाधाराश्चामाशयश्चेति पक्वा-
शयश्चोत्तरगुदञ्चाधरगुदञ्च क्षुद्रान्त्रञ्च स्थूलान्त्रञ्च
वपावहञ्चेति” । इति चरके शारीरस्थाने ७
अध्याये ॥)

क्षुद्रापामार्गः, पुं, (क्षुद्रः अपामार्गः । कर्म्मधारयः ।)

रक्तापामार्गः । इति राजनिर्घण्टः ॥ (रक्तापा-
मार्गशब्देऽस्य विवरणं ज्ञेयम् ॥)

क्षुद्रामलकं, क्ली, (क्षुद्रं आमलकम् । नित्यकर्म्मधारयः ।)

आमलकम् । इति राजनिर्घण्टः ॥ काठ आमला
इति भाषा ॥

क्षुद्रामलकसंज्ञः, पुं, (क्षुद्रामलकस्य संज्ञा यस्य ।)

कर्क्कटवृक्षः । इति राजनिर्घण्टः ॥

क्षुद्राम्रः, पुं, (क्षुद्रः आम्रः । नित्यकर्म्मधारयः ।)

कोषाम्रः । इति राजनिर्घण्टः ॥ (यथास्य
पर्य्यायाः ।
“कोशाम्र उक्तः क्षुद्राम्रः कृमिवृक्षः सुकोशकः” ॥
इति भावप्रकाशस्य पूर्ब्बखंण्डे प्रथमे भागे ॥
गुणाश्चास्य कोशाम्रशब्दे ज्ञेयाः ॥)

क्षुद्राम्लपनसः, पुं, (क्षुद्रः अम्लपनसः ।) लकुचः ।

इति त्रिकाण्डशेषः ॥ (लकुचशब्दे विवृतिरस्य
व्याख्येया ॥)

क्षुद्राम्ला, स्त्री, (क्षुद्रा अम्ला ।) अम्ललोणिका ।

यथा, --
“क्षुद्रपत्रा च चाङ्गेरी क्षुद्राम्ला चाम्ललो णिका” ॥
इति हारावली । शशाण्डली । इति राजनिघण्टः ॥
पृष्ठ २/२४८

क्षुद्राम्लिका, स्त्री, (क्षुद्रा अम्लिका ।) वृक्षविशेषः ।

आववति इति आवता इति च हिन्दी भाषा ॥
तत्पर्य्यायः । चाङ्गेरी २ चुक्राम्ला ३ चुक्रिका ४
लोणाम्ला ५ चतुःपत्री ६ लोणा ७ वोढा ८
अम्लपत्रिका ९ अम्बष्ठा १० अम्लवती ११ अम्ला
१२ दन्तशठा १३ शाखाम्ला १४ अम्लपत्री १५ ।
अस्या गुणाः । अम्लरसत्वम् । उष्णत्वम् । वह्नि-
वर्द्धनत्वम् । रुचिकारित्वम् । ग्राहित्वम् । दोष-
दुर्नामकफनाशित्वञ्च । इति राजनिर्घण्टः ॥

क्षुद्रिका, स्त्री, (क्षुद्र + संज्ञाया कन् ततः टाप् पूर्ब्बातः

इत्वञ्च ।) दंशः । इति राजनिर्घण्टः ॥ (हिक्का-
रोगप्रकारभेदः । यथा, --
“विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्त्तते ।
क्षुद्रिका नान सा हिक्का जत्रुमूलात् प्रधाविता” ॥
इत्युत्तरतन्त्रे पञ्चाशत्तमेऽध्याये भुश्रुतेनोक्तम् ॥)

क्षुद्रेङ्गुदी, स्त्री, (क्षुद्रा इङ्गुदी कर्म्मधारयः ।) यवासः ।

इति राजनिर्घण्टः ॥ (यवासशब्दे ज्ञातव्यमस्या
विवरणम् ॥)

क्षुद्रेर्व्वारुः, पुं, (क्षुद्रा इर्व्वारुः कर्म्मधारयः ।) गोपाल

कर्कटी । इति राजनिर्घण्टः ॥

क्षुद्रोदुम्बरिका, स्त्री, (क्षुद्रा उदुम्बरिका ।) काको-

दुम्बरिका । इति राजनिर्घण्टः ॥

क्षुद्रोपोदकनाम्नी, स्त्री, (क्षुद्रा उपोदकनाम्नी ।)

मूलपोती । इति राजनिर्घण्टः ॥

क्षुद्रोपोदकी, स्त्री, (क्षुद्रा उपोदकी ।) स्वल्पपूतिका-

शाकः । तत्पर्य्यायः । सूक्ष्मपत्रा २ मण्टपी ३ ।
अस्या गुणाः । “रसवीर्य्यविपाकेषु सदृशी पूर्ब्बया
स्वयम्” । पूर्ब्बया उपोदक्या । इति राजनिर्घण्टः ॥

क्षुद्रोलूकः, पुं, (क्षुद्र उलूकः नित्यकर्म्मधारयः ।)

डुडुलः । इति राजनिर्घण्टः ॥

क्षुध, ऌ य औ क्षुदि । इति कविकल्पद्रुमः ॥ (दिवां

--परं-सकं-अनिट् ।) क्षुद्भक्षणेच्छा । ऌ, अक्षु-
धत् । य, क्षुध्यत्यन्नं बुभुक्षितः । औ, क्षोद्धा ।
इति दुर्गादासः ॥

क्षुधा, स्त्री, (क्षुध् बुभुक्षायां सम्पदादित्वाद्

क्विप् हलन्तत्वाद् वा टाप् ।) भोजनेच्छा । इति
दुर्गादासः ॥ अभ्यवहारजिहीर्षा इति ॥ “या देवी
सर्व्वभूतेषु क्षुधारूपेण संस्थिता” । इति देवी-
माहात्म्यटीकायां नागोजीभट्टः ॥ तत्पर्य्यायः ।
अशनाया २ बुभुक्षा ३ क्षुत् ४ । इत्यमरः शब्द-
रत्नावली च ॥ जिघत्सा ५ । इति जटाधरः ॥ * ॥
तत्कार्य्याणि यथा, --
“व्याधयो निर्जिताः सर्व्वे क्षुधया नृपसत्तम ! ॥
कुण्डली मुकुटी स्रग्वी तथैवालङ्कृतो नरः ।
क्षुधार्त्तो न विराजेत प्रेतवत्तृषितो नृणाम् ॥
स्त्रीरत्नविविधान् भोगान् वस्त्राण्याभरणानि च ।
न चेच्छति नरः किञ्चित् क्षुधया कलुषीकृतः ॥
यथा भूमिगतं तोयं रविरश्मिभिः शुष्यति ।
शरीरस्थस्तथा धातुः शुष्यते जाठराग्निना ॥
न शृणोति न चाघ्राति चक्षुषा न च पश्यति ।
दह्यते वेपते भूढः शुष्यते च क्षुधार्द्दितः ॥
मूकत्वं बधिरत्वञ्च जरान्धत्वन्तु पङ्गुताम् ।
रौद्रं मर्य्यादहीनत्वं क्षुधा सर्व्वं प्रवर्त्तते ॥
भगिनीं जननीं पुत्त्रं भार्य्यां दुहितरं तथा ।
भ्रातरं स्वजनं वापि क्षुधाविष्टो न विन्दति” ॥
इति वह्निपुराणे प्रेतोपाख्याननामाध्यायः ॥

क्षुधाकुशलः, पुं, (क्षुधायां क्षुधोद्रेकविषये कुशलः

निपुणः विशेषेण क्षुधोत्पादकः ।) विल्वान्तरवृक्षः ।
इति राजनिर्घण्टः ॥

क्षुधातुरः, त्रि, (क्षुधा क्षुधया आतुरः ।) क्षुधा-

पीडितः । यथा, --
“अर्थातुराणां न सुहृन्न बन्धुः
कामातुराणां न भयं न लज्जा ।
चिन्तातुराणां न सुखं न निद्रा
क्षुधातुराणां न बलं न तेजः” ॥
इति गारुडे ११६ अध्यायः ॥

क्षुधार्त्तः, त्रि, (क्षुधया आर्त्तः ऋतो वा तृतीयातत्पु-

रुषे ऋतस्य वृद्धिः ।) क्षुत्पीडितः । यथा, --
“शीतार्त्तश्च क्षुधार्त्तश्च कम्पान्वितकलेवरः ।
जजागार तदा रात्रौ प्लुतो नीहारवारिणा” ॥
इति शिवरहस्ये शिवरात्रिव्रतकथा ॥ (यथा, च
मनुः । १० । १०७ ।
“भरद्वाजः क्षुधार्त्तस्तु सपुत्त्रो विजने वने ।
बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः” ॥)

क्षुधाभिजननः, पुं, (क्षुधां अभिजवयतीति । अभि +

जन् + ल्युः ।) राजिका । इत्यमरः । २ । ९ । १९ ॥
क्षुधाजनकद्रव्यमात्रे त्रि ॥

क्षुधावती, स्त्री, (क्षुधाऽस्यामस्तीति । मतुप् मस्य

वत्वम् ।) क्षुधाजनकौषधवटी । अजीर्णादि-
रोगनाशकगुडिका । यथा, --
“रसायो गन्धकाभ्राणि त्र्युषणं त्रिफला वचा ।
यमानी शतपुष्पा च चविका जीरकद्वयम् ॥
प्रत्येकं पलमेषान्तु घण्टकणपुनर्नवा ।
माणकं ग्रन्थिकञ्चेन्द्रकेशराजसुदर्शनाः ॥
दण्डोत्पला त्रिवृद्दन्ती जामातृरक्तचन्दनम् ।
भृङ्गापामार्गकुलका मण्डूकञ्च पलार्द्धकम् ॥
आर्द्रकस्वरसेनाथ गुडिकां संप्रकल्पयेत् ।
वदरास्थिसमाञ्चैषां भक्षयित्वा पिबेदनु ॥
वारिभक्तं जलञ्चैव प्रातरुत्थाय मानवः ।
वटी क्षुधावती नाम सर्व्वाजीर्णविनाशिनी ॥
अग्निञ्च कुरुते दीप्तं भस्मकञ्च नियच्छति ।
अम्लपित्तञ्च शूलञ्च परिणामकृतञ्च यत् ॥
तत्सर्व्वं शमयत्याशु भास्करस्तिमिरं यथा ।
मधुरं वर्ज्जयेदत्र विशेषात् क्षीरशर्करे” ॥
इति भैषज्यरत्नावल्यामम्लपितचिकित्सा ॥ तस्याः
स्वल्पनृहद्भेदौ तत्रैव द्रष्टव्यौ ॥ * ॥ क्षुधायुक्ते त्रि ॥
(क्षुधाजनकापरौषधम् । यथा, --
“सप्त पञ्चचतुर्भागाष्टङ्गणक्षारकद्वये ।
त्रयस्त्रयः पदूनाञ्च द्वौ द्वौ मरिचचित्रयोः ॥
शुण्ठीलवङ्गयोर्द्वौद्वावस्नयोगेन भावयेत् ।
वटीङ्कोलप्रमाणेन कारयेद्भिषजां वरः ॥
आमशूलमम्लपित्तं पित्तशूलं विशेषतः ।
दुर्नामग्रहणीमुग्रा मजीर्णानि विनाशयेत् ॥
नाम्न क्षुधावती ह्येषा वह्निदेवेन निर्म्मिता ।
अस्याः प्रसादान्मन्दाग्निर्भवेद्दावानलो नरः” ॥
इति चिकित्सारत्ननिधौ मन्दाग्न्यधिकारे ॥)

क्षुधासागररसः, पुं, (क्षुधायां क्षुधाया वा सागररस

इव क्षुधोद्रेकात् तथात्वम् ।) औषधविशेषः ।
यथा, --
“त्रिकटु त्रिफला चैव तथा लवणपञ्चकम् ।
क्षारत्रयं रसं गन्धं भागैकं पूर्ब्बवद्विषम् ॥
गुञ्जामात्रां वटीं कुर्य्याल्लवङ्गैः पञ्चभिः सह ।
क्षुधासागरनाभायं रसः सूर्य्येण निर्म्मितः” ॥
पूर्ब्बवद्विषमित्यमृतवट्युक्तभागवत् । तेनात्र विषस्य
भागद्वयम् । इति भैषज्यरत्नावली ॥

क्षुधितः, त्रि, (क्षुध + कर्त्तरि क्तः । यद्वा क्षुधा जाता-

ऽस्य इति तारकादित्वादितच् प्रत्ययः ।) क्षुधा-
न्वितः । तत्पर्य्यायः । बुभुक्षितः २ जिघत्सुः ३
अशनायितः ४ । इत्यमरः । ३ । १ । २० ॥

क्षुधुनः, पुं, (क्षुध बुभुक्षायां + “क्षुधिपिसिमिथः

कित्” । उणां । ३ । ४४ । इति उनन् स च
कित् ।) म्लेच्छभेदः । इत्युणादिकोषः ॥

क्षुप, सादे । इति कविकल्पद्रुमः ॥ (सौं-परं-अकं-

सेट् ।) सौत्रधातुरयम् । क्षुपः । इति दुर्गा-
दासः ॥

क्षुपः, पुं, (क्षुप् + “इगुपधेति कः” । ३ । १ । १३५ ।)

ह्रस्वशाखाशिफः । क्षुद्रवृक्षः । इत्यमरः । २ । ४ । ८ ॥
(यथा, महाभारते । १ । १७२ । २८ ।
“तस्या रूपेण स गिरिर्वेशेन च विशेषतः ।
स सवृक्षक्षुपलतो हिरण्मय इवाभवत्” ॥)
श्रीकृष्णात् सत्यभामायां जातपुत्त्रविशेषः । यथा,
“जज्ञिरे सत्यभामायां भानुर्भोमरथः क्षुपः ।
रौहितो दीप्तिमांश्चैव ताम्रजाक्षो जलान्तकः ॥
भानुर्भीमरिका चैव ताम्रपक्षा जलन्धमा ।
चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात्” ॥
इति महाभारते हरिवंशे १६३ अध्यायः ॥ * ॥
इक्ष्वाकुराजपिता । यथा, --
“आसीत् कृतयुगे तात ! मनुर्द्दण्डधरः प्रभुः ।
तस्य पुत्त्रो महाबाहुः प्रसन्धिरिति विश्रुतः ॥
प्रसन्धेरभवद् पुत्त्रः क्षुप इत्यभिसंज्ञितः ।
क्षुपस्य पुत्त्रस्त्विक्ष्वाकुर्महीपालोऽभवत् प्रभुः” ॥
इति महाभारते । १४ । ४ । २-४ ॥ द्वारकापश्चिम-
दिक्स्थपर्व्वतः । यथा, --
“दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते ।
इन्द्रकेतुप्रतीकाशः पश्चिमस्यां तथा क्षुपः” ॥
इति महाभारते हरिवंशे द्वारवतीविशेष-
निर्म्माणे १५७ अध्यायः ॥

क्षुपकः, पुं, (क्षप + स्वार्थे कन् ।) क्षुपः । क्षुद्रवृक्षः ।

यथा, --
“अतो यो विपरीतः स्यात् सुखसाध्यः स उष्पते ।
अबद्धमूलः क्षुपको यद्वदुत्पाटने सुखः” ॥
इति सुश्रुते प्रथममागे २४ अध्यायः ॥

क्षुपालुः, पुं, (क्षुप + आलुप्रत्ययः ।) पानीयालुः ।

इति राजनिर्घण्टः ॥

क्षुपडोडमुष्टिः, पुं, (दुल् उत्क्षेपे + अच् ततो

गुणः लकारस्य डत्वम् । दस्यापि डत्वं पृषोदरात्
पृष्ठ २/२४९
साधुः । तादृक मुष्टिर्यस्य ।) विषमुष्टिक्षुपः ।
इति राजनिर्घण्टः ॥ (विषमुष्टिशब्देऽस्या गुणा-
दयो ज्ञेयाः ॥)

क्षुब्धः, पुं, (क्षुभ् + “क्षुब्धस्यान्तध्वान्तलग्नेति” । ७ ।

२ । १८ । इति निपातनात् साधुः ।) मन्थान-
दण्डः । इति हेमचन्द्रः ॥ षोडशरतिबन्धान्त-
र्गतैकादशबन्धः । यथा, --
“पार्श्वोपरि पदौ कृत्वा योनौ लिङ्गेन ताडयेत् ।
बाहुभ्यां धारणं गाढं बन्धो वै क्षुब्धसंज्ञकः” ॥
इति रतिमञ्जरी ॥ क्षोभविशिष्टे त्रि ॥

क्षुभ, ऌ ङ सञ्चलने । इति कविकल्पद्रुमः ॥ (भ्वां--

आत्मं--अकं--सेट् । ऌदित् ।) ऌ, अक्षुभत् । ङ,
क्षोभते नानुजीविषु । इति हलायुधः । इति
दुर्गादासः ॥

क्षुभ, य ग सञ्चलने । इति कविकल्पद्रुमः ॥ (दिवां--

क्र्यां च--परं--अकं--सेट् ।) य, क्षुभ्यति रिपुष्वेवेति
हलायुधः । ग, क्षुभ्नाति चुक्षोभ । इति दुर्गा-
दासः ॥

क्षुभः, पुं, (क्षुभ् + “इगुपधज्ञाप्रीकिरः” । ३ । १ ।

१३५ । इति कः ।) प्रवर्त्तकः । यथा, --
“ये च तेऽनुचराः सर्व्वे पादोपान्तं समाश्रिताः ।
माठरारुणदण्डाद्यास्तांस्तान् वन्देऽशनिक्षुभान्” ॥
इति महाभारते । ३ । ३ । ६८ ॥ “अशनिक्षुभान्
विद्युदशन्यादिप्रवर्त्तकान्” । इति तट्टीकायां नी-
लकण्ठः ॥

क्षुभा, स्त्री, (क्षुभ + स्त्रियां टाप् ।) निग्रहानुग्रह-

कर्त्री देवता । यथा, महाभारते ३ । ३ । ६९ ।
“क्षुमंया सहिता मैत्री याश्चान्या भूतमातरः ।
ताश्च सर्व्वा नमस्यामि पान्तु मां शरणागतम्” ॥
“क्षुभा मैत्र्यौ निग्रहानुग्रहकर्त्र्यौ देवते । भूत-
मातरः गौरीपद्मादयः । ब्राह्मीमाहेश्वर्य्यादयश्च” ।
इति तट्टीकायां नीलकण्ठः ॥

क्षुभितः, त्रि, (क्षुभ + कर्त्तरि क्तः ।) भीतः । इति

हलायुधः ॥ सञ्चलितः । इति क्षुभधात्वर्थदर्श-
नात् ॥

क्षुमा, स्त्री, (क्षु + मक् टाप् ।) अतसी । इत्यमरः ।

२ । ९ । २० ॥ शणः । इति तट्टीकासारसुन्दरी ॥
नीलिका । इति मेदिनी ॥ लताभेदः । इति शब्द-
रत्नावली ॥

क्षुर, श विलेखने । खनने । इति कविकल्पद्रुमः ॥

(तुदां--परं--सकं--सेट् ।) श, क्षुरति भूमिं लोकः ।
क्षोरिता । क्षुरो लोमच्छेदनः । इति दुर्गादासः ॥

क्षुरः, पुं, (क्षुर + “इगुपधेति” । ३ । १ । १३५ । कः ।

यद्वा, “ऋज्रेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरेति” ।
उणां । २ । २८ । इति निपातनात् सिद्धम् ।)
कोकिलाक्षः । इत्यमरः । २ । ८ । ४९ ॥ (अस्य
पर्य्याया यथा, --
“कोकिलाक्षस्तु काकेक्षुरिक्षुरः क्षुरकः क्षुरः
भिक्षुः काण्डेक्षुरप्युक्त इक्षुगन्धेक्षुबालिका” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डेप्रथमे भागे ॥)
शफम् । इति तट्टीका । छेदनद्रव्यम् । तत्तु नापि-
तस्य लोमच्छेदकास्त्रम् । (यथा, मनुः । ९ । २९२ ।
“सर्व्वकण्टकपापिष्ठं हेमकारन्तु पार्थिवः ।
प्रवर्त्तमानमन्याये छेदयेल्लवशः क्षुरैः” ॥)
गोक्षुरः । इति मेदिनी ॥ (अस्य पर्य्याया यथा, --
वैद्यकरत्नमालायाम् ।
“त्रिकण्टः स्थलशृङ्गाटो गोकण्टोऽथ त्रिकण्टकः ।
त्रिपुटः कण्टकफलः स्वदंष्ट्रा गोक्षुरः क्षुरः” ॥
महापिण्डीतकः । शरः । इति राजनिर्घण्टः ॥
(यथा, महाभारते । १ । १३४ । ९० ।
“ततस्तस्य नगस्थस्य क्षुरेण निशितेन च ।
शिर उत्कृत्य तरसा पातयामास पाण्डवः” ॥
खट्वादिपादुका । इति धरणिः । क्षुरा इति भाषा ॥

क्षुरकः, पुं, (क्षुर + स्वार्थेकन् ।) तिलकवृक्षः । इत्य-

मरः । २ । ४ । ४० ॥ कोकिलाक्षः । (अस्य प-
र्य्याया यथा, --
“कोकिलाक्षस्तु काकेक्षुरिक्षुरः क्षुरकः क्षुरः ।
भिक्षुः काण्डेक्षुरप्युक्त इक्षुगन्धेक्षुबालिका” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
अस्य व्यवहारो यथा, --
“यवानी जीरके द्वे च वानरीगजपिप्पली ।
जातीफलं सपत्रञ्च लवङ्गागुरुचन्दनम् ॥
तालीशं तिलमाषञ्च क्षुरकं गोक्षुरन्तथा ।
शतावरी शताह्वा च वचा दार्व्वी पुनर्नवा ॥
निकुम्भकुम्भौ मार्ज्जारी कन्दो नागवला तथा ।
वासामांसी मुरामुस्तं पिप्पलीमूलमेव च ॥
मूषली वानरी ब्रह्मी शाल्मली मूलमेव च ।
मेथिकागजकर्णी च शर्करा चाब्धिशोषणम् ।
माजुफलञ्चाश्वगन्धा द्राक्षा च चोचकं समम्” ॥
इत्यादिषु द्रष्टव्यम् । इति वैद्यककषायणसंग्रहे
बृहत्कामेश्वरमोदकान्तर्गते ॥) गोक्षुरः । इति
मेदिनी ॥ भूताङ्कुशः । इति राजनिर्घण्टः ॥

क्षुरकर्म्म, [न्] क्ली, (क्षुरेणोचितं क्षुरसाध्यं वा

कर्म्म ।) क्षौरम् । क्षुरद्वारा केशादिकर्त्तनम् ॥
यथा, --
“यो जन्ममासे क्षुरकर्म्म यात्रां
कर्णस्य वेधं कुरुते च मोहात् ।
नूनं स रोगं धनपुत्त्रनाशं
प्राप्नोति मूढो वधबन्धनानि ॥
जातं दिनं दूषयते वशिष्ठ-
श्चाष्टौ च गर्गो यवनो दशाहम् ।
जन्माख्यमासं किल भागुरिश्च
चूडे विवाहे क्षुरकर्णवेधे ॥
देवकार्य्ये पितृश्राद्धे रवेरंशपरिक्षये ।
क्षुरिकर्म्म न कुर्व्वीत जन्ममासेऽथ जन्मभे” ॥
इति तिथ्यादितत्त्वम् ॥ क्षौरानन्तरं स्नानं कर्त्त-
व्यम् । यथा, --
“दुःस्वप्ने मैथुने वान्ते विरिक्ते क्षुरकर्म्मणि ।
चिति पूयश्मशानास्थ्नां स्पर्शने स्नानमाचरेत्” ॥
इति मिताक्षरायां प्रायश्चित्ताध्याये पराशर-
वचनम् ॥ अन्यत् क्षौरशब्दे द्रष्टव्यम् ॥

क्षुरधारः, पुं, (क्षुरस्य धारा इव धारा अस्य ।) अस्त्र-

विशेषः । यथा, महाभारते । ४ । ६ । २८ ।
“खड्गांश्च दीप्तान् दीर्घांश्च कलापांश्च महाधनान् ।
विपाठान् क्षुरधारांश्च धनुर्भिर्निदधुः सह” ॥
“विपाटान् वाणविशेषान्तादृशान् क्षुरधारांश्च” ।
इति तट्टीकायां नीलकण्ठः ॥ * ॥ क्षुरस्य शाणित-
मुखम् । तद्युक्ते त्रि । (यथा, महाभारते ।
४ । ६२ । २७ ।
“अथ जिष्णुरुपावृत्य क्षुरधारेण कार्मुकम् ।
चकर्त्त भीष्मस्य तदा जातरूपपरिष्कृतम्” ॥)

क्षुरधारा, स्त्री, (क्षुरस्य धारा ।) क्षुरधारः । यथा,

“अन्तकः पवनो मृत्युः पातालं वडवामुखम् ।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः” ॥
इति महाभारते । १२ । पञ्चचूडानारदसंवादे ३८ ।
२९ ॥ “अन्तकादिवत् सद्यो नाशका इत्यर्थः” ।
इति तट्टीकायां नीलकण्ठः ॥

क्षुरपत्रः, पुं, (क्षुरस्य पत्रमिव पत्रमस्य क्षुरवत्

पत्रमस्य वा ।) शरः । इति राजनिर्घण्टः ॥ (दर्भ-
विशेषः । यथा, --
“ततोऽन्यो दीर्घपत्रः स्यात् क्षुरपत्रस्तथैव च” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) क्षर-
तुल्यपर्णयुक्ते त्रि ॥

क्षुरपत्रिका, स्त्री, (क्षुर इव पत्रमस्या स्वार्थे कन्

स्त्रियां टापि अत इत्वम् ।) पालङ्क्यशाकम् । इति
राजनिर्घण्टः ॥

क्षुरप्रः, पुं, (क्षुर इव पृणाति हिनस्ति । छेदनक्रियां

पूरयति वा पृ + कः । कित्वान्न गणः ।) वाणवि-
शेषः । इति हेमचन्द्रः ॥ (यथा, महाभारते । ४ ।
५३ । ४६ ।
“स तु द्रोणं त्रिसप्तत्या क्षुरप्राणां समार्पयत्” ॥)
क्षुरपानामकघासच्छेदनास्त्रञ्च ॥

क्षुरप्रगं, क्ली, (क्षुरप्रं क्षुरप्रतां गच्छतीति । गम +

डः ।) क्षुरप्रास्त्रम् । इति केचित् ॥ (क्षुरप्र इव
गच्छतीति । क्षुरप्रसदृशास्त्रविशेषः ॥)

क्षुरभाण्डं, क्ली, (क्षुरस्य भाण्डं आधारः ।) क्षुराधारः ।

भाँडि इति भाषा । यथा, -- “भद्रे ! शीघ्रमानीयतां
क्षुरभाण्डं येन क्षौरकर्म्मकरणाय गच्छामि ।
सापि छिन्ननासिका गृहमध्यस्थितैव कार्य्यकरणो-
पेक्षया क्षुरभाण्डात् क्षुरमेकं समाकृष्य तस्याभि-
मुखं प्रेषयामास” । इति विष्णुशर्म्मविरचितपञ्च-
तन्त्रे १ तन्त्रम् ॥

क्षुरमर्दी, [न्] पुं, (क्षुरं मृद्गातीति । क्षुर + मृद् +

णिनिः ।) नापितः । यथा, --
“पुस्तं लेप्यादिकर्म्म स्यात् नापितश्चण्डिलः क्षुरी ।
क्षुरमर्दी दिवाकीर्त्तिर्मुण्डकोऽन्तावसाय्यपि” ॥
इति हेमचन्द्रः ॥

क्षुराङ्गः, पुं, (क्षुर इवाङ्गमस्य ।) गोक्षुरकः । इति

राजनिर्घण्टः ॥
"https://sa.wikisource.org/w/index.php?title=क्षि&oldid=43935" इत्यस्माद् प्रतिप्राप्तम्