प्रमुखा विकल्पसूचिः उद्घाट्यताम्
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः । परिसरसंरक्षणसम्बद्धायाः समस्यायाः निवारणाय कृतः क्श्चन प्रयासः अत्र विव्रियते ।
Gajah1.jpg

यः महासम्पत्तिरूप: आसीत्, यस्य सप्ततिप्रतिशतभाग: विनष्ट:, य: भाग: अवशिष्यते स: अपि अद्वितीय:, तस्य रक्षणं मानवसमुदायस्य रक्षणाय मानवसमुदायेन करणीयं प्राथमिकं कार्यम्’’ इति वदति डा मेयर्स: (Dr. Myers) ।

य: पूर्वं सहस्रशाख: आसीत्, इदानीम् अङ्गुलिगणनीया: एव शाखा: यस्य अवशिष्यन्ते तं वेदप्रपञ्चम् उद्दिश्य, ‘कति कवय: कति कृतय: कति लुप्ता: कति लब्धा:’ इति विलाप: यस्य विषये श्रूयते तं संस्कृत-साहित्यराशिम् अधिकृत्य वा एतत् कथनं न । डा मेयर्स: न संस्कृतज्ञ:, न वा साहित्यकार: । स तु विश्वप्रसिद्ध: परिसरसंरक्षणतज्ज्ञ:, येन 1998 तमे संवत्सरे प्रकाशितं लेखनं लोके सर्वत्र जनानां वातावरणसंरक्षणकार्ये मार्गदर्शकत्वेन आद्रियमाणम् अस्ति । डा मेयर्स: दश स्थानानि चितवान् अस्ति । एतेषु दशसु अपि स्थानेषु महत्या सङ्ख्यया सस्यानि, लता:, वृक्षा:, कीटा:, पक्षिण:, मृगा: च सन्ति । एतेषां संरक्षणात् प्रपञ्चस्य वातावरणस्य अधोगति: अवरुद्धा स्यात् इति अभिप्रैति स: । तेषु अन्यतम: अस्ति ‘पश्चिम-घट्ट’नामक: पर्वतप्रदेश:, यश्च आ कन्याकुमारीत: उदकमण्डलान्तं विराजते ।

पश्चिमपर्वतमण्डले कोयम्बत्तूरुसमीपे विद्यते ‘वाल्पारै’नामक: जनपद: । तत्रत्या: जना: वातावरणसंरक्षणदृष्ट्या तस्य जनपदस्य अद्वितीयत्वं किं जानन्ति, तस्य प्रभावम् अवगतवन्त: किम् इति ज्ञातुम् एकं सर्वेक्षणं कृतवान् अहम् । तदवसरे अवगतं यत् सर्वेषां प्रधानसमस्या एका एव - अनपेक्षितानाम् अतिथीनाम् आगमनम् इत्येषा इति । एते अतिथय: न सम्बन्धिजना: न वा दूरबान्धवा: । द्विशतवर्षेभ्य: पूर्वम् आङ्ग्ल-सर्वकारीया: अस्मिन् प्रदेशे विद्यमानान् वृक्षान् अपनीय तत्प्रदेशजनानां प्रयोजनाय एला-काफी-चायप्रभृतीनां कृषिं कर्तुम् अवसरं कल्पितवन्त: । अस्य प्रदेशस्य पार्श्वद्वये अपि अरण्यम् अस्ति । तत: एव आगच्छन्ति एते अनाहूता: अतिथय:, तन्नाम गजा:, सर्वदा सपरिवारम् ।

Milwaukee County Zoo elephants.jpg

गजा: यदा क्षेत्रद्वारा गच्छन्ति तदा सस्यानां हानि: जायते । संवत्सरं यावत् कृत: यत्न: परिश्रम: च फलप्राप्ते: पूर्वम् एकस्याम् एव रात्रौ सम्पूर्णतया नश्यति !! विद्यालयं प्रति बाला: आगच्छेयु: वा न वा, गजवत्सा: तु सर्वदा आगच्छन्ति अत्र । भोजनप्रकोष्ठंं प्रविश्य तत्रत्यं तण्डुलं, शाकान्, लवणं च खादन्ति ते !! मृगालयेषु उत्सवदिनेषु देवालयेषु वा अलङ्कृता: गजा: अस्माभि: दृष्टा: स्यु: । गृहपरिसरे वनात् आगतानाम् उपदशानां गजानाम् आरात्रि स्थितिं वयम् ऊहितुम् अपि न शक्नुयाम । वाल्पारैप्रदेशीया: एतां स्थितिं बहुधा सम्मुखीकुर्वन्ति । प्रतिसंवत्सरं गजगणात् एकस्य वा मरणं सहजा घटना अत्र । गजा: तु महाकाया: । ते गणरूपेण एव आगच्छन्ति । तेषां सम्मुखीकरणं न सुकरम् । इन्द्रियद्वारा तेषां मन: प्रविश्य तेषु भयम् उत्पाद्य तेषां निवारणाय प्रयास: क्रियते प्राय: लोके । तदर्थं सन्ति केचन उपाया: -

  • अग्निप्रज्वालनम् । अग्निं दृष्ट्वा गजा: भीता: भवन्ति ।
  • भयङ्करस्य शब्दस्य उत्पादनं - वाद्यानां द्वारा गृहस्य पात्राणि उपयुज्य वा ।
  • विस्फोटकानां द्वारा युगपत् दीपशब्दयो: उत्पादनम् ।
  • कुत्रचित् (Mozambique) क्षेत्रे कृष्णमरीचिकाया: वर्धनं, यत् च गजाय न रोचेत ।
  • आर्द्रकसस्यानां कृषि:, येषां गन्ध: गजेषु जुगुप्सां जनयेत् ।
  • जनपदस्य प्रवेशद्वारे सीमायां विद्युच्छक्तियुक्तानां वृतीनां निर्माणम् ।

एतान् सर्वान् उपायान् आफ्रिकाभूखण्डे एशियाभूखण्डस्य विभिन्नेषु देशेषु च अनुसृतवन्त: जना: । अन्ते स्पष्टम् अभवत् यत् एतेषु न कस्यचित् अपि प्रयोगस्य दीर्घकालिकं साफल्यं नास्ति इति । तत्र कारणं - गजानां बुद्धिमत्ता । आदौ तु ते भीतिम् अनुभवेयु: । किन्तु गच्छता कालेन ते तां भीतिं सम्मुखीकर्तुं समर्था: भवन्ति ।

‘वाल्पारै’पर्वतप्रदेशे कार्यं करोति ‘निसर्ग-परिरक्षणप्रतिष्ठानम्’ (NCF) । एतस्य स्थापका: सर्वे डेहराडून्नगरस्य वन्यजीविसंस्थाया: छात्रा: । गज-मनुष्ययो: परस्परं सङ्घर्षस्य निवारणकार्यम् एतया संस्थया 2002 तमे संवत्सरे स्वीकृतम् । तस्मै कार्याय आत्मानं समर्पितवान् अस्ति आनन्दकुमार: । एष: मनस्तत्त्वशास्त्रे स्नातकोत्तरपदवीं प्राप्य पशूनां मनस्तत्त्वस्य अवगमने विशेष-प्रयासं कुर्वन् अस्ति । प्रथमवर्षपञ्चकं यावत् स: तत्रत्यै: ज्येष्ठ-कार्यकर्तृभि: दिव्यामुडप्पा, मधुसूदन:, शङ्करराम: इत्यादिभि: साकं समयम् अयापयत् ।

समस्याया: भवति पक्षद्वयम् । एक: पक्ष: - गजानां गमनागमनेन महत् कष्टम् अनुभवन्त: जनपदस्य जना: । अन्यस्मिन् पक्षे अस्ति - गजगण: । तेषां पक्षम् अजानद्भि: समस्याया: निवारणं कथं चिन्तयितुं शक्येत ? तस्मात् प्रथमनिर्णय: कृत: यत् गजानां विचार: क: इति ज्ञातव्यम् इति । गजानां विचार:, तर्क:, वाद: वा कथं ज्ञातुं शक्येत ? ‘कैकेय्या: पिता यदि इदानीं स्यात् तर्हि स: तेषां सम्भाषणं श्रुत्वा तेषां चिन्तनं किम् इति अस्मान् अबोधयिष्यत्, यत: स: पशु-पक्षिणां भाषाया: अवगमने सामर्थ्यवान् आसीत् । किन्तु इदानीं तु स: नास्ति । अत: अस्माकं कौशलम् उपयुज्य एव तत् कार्यं साधनीयम्’ इति निर्णयं कृतवन्त: नि.प.प्र.कार्यकर्तार: ।

Elephant family.jpg

प्रथमं कार्यं तु गजानाम् अभिज्ञानम् । अस्माकं दृष्ट्या गजा:, वानरा: इत्यादय: सर्वे परस्परं समाना: दृश्यन्ते । वानराणां गजानां वा दृष्ट्या वयम् अपि सर्वे प्राय: समाना: । परन्तु वयं सर्वे किं समाना: ? आकृत्या, स्वभावेन, स्वरूपेण च अस्मासु विभिन्नता अस्ति एव खलु । तथैव गजगणे विद्यमानस्य सर्वस्य अपि गजस्य अभिज्ञानार्हं विशिष्टं लक्षणं किमपि भवति एव ।

एतम् अंशं मनसि निधाय गजानाम् अङ्गलक्षणावगमने प्रयास: कृत: । यस्य गजस्य कर्णौ सोपानसदृशौ आस्तां तस्य नाम कृतम् ‘सोपानकर्ण:’ इति । यस्य पुच्छं नष्टं स: ‘नष्टपुच्छ:’ इति नाम प्राप्नोत् । अन्यै: सह युध्यमानस्य गजस्य व्रणकिण: एव अभिज्ञापकं चिह्नम् अभवत् । परन्तु दूरात् अवगमनार्हाणि चिह्नानि सर्वेषाम् एवं भवितुं न अर्हन्ति खलु । केचन गजा: गमनागमनशैल्या (Gait) अभिज्ञाता: अभवन् । व्यवहारविशेषात् अपि केषाञ्चन गजानां पृथक्त्वम् अभिज्ञातम् । मौनिकाया: वत्स: सर्वदा तस्या: पार्श्वे एव तिष्ठति, परन्तु सङ्गीताया: वत्स: तु तस्या: दृष्टिगोचरतां गच्छन् अपि अग्रे, पृष्ठे, पार्श्वे वा तिष्ठति । एवं गजानां परस्परव्यवहारवैचित्र्यात् अपि तेषां पृथक्त्वम् अभिज्ञातम् ।

गजसमाजे नायकत्वं ज्येष्ठा गजा एव निर्वहति । गजगणस्य नायिका का इत्यपि अवगन्तव्यम् । यान् नेतृत्वगुणान् सा प्रदर्शयेत्, तत: ज्ञायते तत् नायकत्वम् । एतम् अंशं निरूपयितुं काचित् घटना अत्र उदाहर्तुं शक्या । 2004 तमे संवत्सरे सप्टम्बर्मासे प्रात: पञ्चवादने एक: गजगण: ‘आनैमुठी’प्रदेशे दृष्ट: । झटिति बहव: जना: तत्र उपस्थितानां गजानाम् अग्रे गमनं स्थगयितुं महता प्रमाणेन अग्निं प्रवर्तितवन्त: । तत: भीता: गजा: अग्रे गमनं स्थगितवन्त: । जना: तु शताधिका: आसन् । ते गजानां निवारणाय वाद्यानि अपि वादितवन्त: । किन्तु तावता गजगणस्य मध्ये स्थिता सङ्गीता अग्रे आगतवती । शनै: अग्ने: समीपम् आगत्य सा पादेन प्रहृत्य अग्निं निवार्य जनसमूहदिशि महता गाम्भीर्येण गतवती । तस्या: आगमनं दृष्ट्वा भीता: जना: तत: पलायितवन्त: । एतया घटनया ज्ञातं यत् सङ्गीता एव गणस्य नायिका इति ।

गच्छता कालेन ‘गजा: आगता:’ इति सामान्यनिर्देश: अपगत: । ‘मण्डेल: अद्य पोस्टल् कालनी आगतवान् ।’ ‘मौनिका सर्वकारापणं प्रति गतवती’ इत्यादीनि वाक्यानि नि.प.प्र.गणे प्रयुज्यमानानि जातानि । षण्णां मासानां प्रयत्नात् स्पष्टम् अभवत् यत् वाल्पारैप्रदेशं प्रति प्राधान्येन त्रय: गणा: आगच्छन्ति, प्रथमे गणे 19 गजा:, द्वितीये गणे 9 गजा:, तृतीये गणे 12 गजा: च सन्ति इति ।

तेषां सर्वेषां गणानां नाम निश्चितम् । प्रतिगणं गजस्य गज्या: गजवत्सस्य च अपि नाम कृतम् । एवं महत: समयस्य व्ययेन स्पष्टतया अवगन्तुं शक्तं यत् प्रतिपक्षीया: के इति । द्वितीयं सोपानं तु - ते कुत्र कदा आगच्छन्ति इति ज्ञातुं प्रयास: । ते कुत्र कदा आगच्छन्ति इति ज्ञातं चेत् किमर्थम् आगच्छन्ति इति तर्कयितुं शक्यम् इति चिन्तितम् । नि.प.प्र.कार्यकर्तृभि: जना: सूचिता: यत् यदा गज: गजगण: वा दृश्येत तदा वयं सूचनीया: इति । आनन्दकुमार: दिवारात्रिभेदम् अविगणय्य झटिति तत्स्थलं गत्वा क:/के कुत्र कदा आगता: इति समग्रं विवरणम् उल्लिखति स्म - ‘सङ्गीतागण: एप्रिल्मासे, 6 दिनाङ्के प्रात: 4 वादने अमुकाक्षांशयुते अमुकरेखांशयुते स्थले दृष्ट:’ इत्येवम् । वाल्पारैप्रदेशम् आगत: गजगण: पञ्चदशदिनानन्तरं, त्रिंशद्दिनानन्तरं वा तत: निर्गच्छति इति ज्ञातम् । प्रतिपञ्चशत्किलोमीटर्दूरे गजगणस्य गते: अवलोकनव्यवस्था कृता । वर्षचतुष्टयं यावत् एतत् कार्यं प्रवृत्तम् ।

वर्षचतुष्टयस्य अन्ते पर्याप्तमात्रेण विषयसङ्ग्रहणं जातम् । एतस्य विश्लेषणं कार्यम् इति निर्णय: कृत: । सङ्गृहीतं विवरणं सर्वम् एकस्मिन् ‘ग्राफ्’कागदे लिखितम् । वाल्पारैजनपदे कुत्र कतिवारं क: गजगण: आगत: इति विषय: समग्रतया एकत्र एव द्रष्टुं शक्यम् अभवत् । किन्तु तत् ‘ग्राफ्’कागदं तु अमावास्यारात्रे: आकाश: इव आसीत् । सर्वत्र नक्षत्राणि एव !! परन्तु नक्षत्रमण्डलं किमपि न दृश्यते स्म ! एतस्य प्रक्रमस्य लक्ष्यं तु गजानां विचरणस्य प्रकाशनम् । किन्तु तदेव स्पष्टं न आसीत् अत्र । अत: यत् गमनागमनं गजानाम् इच्छां न प्रतिपादयेत् तत्सम्बद्धं चिह्नम् अपसारणीयम् इति निश्चितम् ।

Gajah2.jpg


  • यद्यपि त्रयाणां गणानां विवरणं सङ्गृहीतम् आसीत् तथापि निर्णयानुकूल्यदृष्ट्या प्रधानगणद्वयमात्रस्य व्यापार: परिशीलनीय: इति निर्णय: कृत: । अत: कतिचन बिन्दव: बहिष्कृता: ।
  • जनै: कृतानाम् अग्निप्रज्वालनादीनां कारणत: गजा: कदाचित् स्वमार्गात् च्युता: भूत्वा पुन: अपेक्षितं मार्गम् एव प्रत्यागच्छन्ति । तादृशगमनागमनसम्बद्धं चिह्नम् अपि तत: निष्कासितम् ।
  • यत् स्थलं प्रति गजा: वर्षचतुष्टये न्यूनातिन्यूनं त्रिवारम् आगतवन्त: तानि स्थलानि एव अवेक्षणीयानि इति निश्चितम् । अन्यत्र प्रात: अकस्मात् एव गतम् इति विचिन्त्य तादृशा: बिन्दव: अपि निष्कासिता: ।

यदा अनपेक्षिता: बिन्दव: निष्कासिता: तदा अवशिष्टा: बिन्दव: गजानां कथां वक्तुं समर्था: अभवन् । शोलैयारु-नडुयारु-नद्या: तीरे बहव: बिन्दव: आसन् । तेषाम् अवलोकनात् ज्ञातं यत् गजा: वनस्य एकस्मात् भागात् नद्या: अपरपार्श्वे स्थितम्, इदानीं मनुष्यै: व्याप्तं वाल्पारैप्रदेशम् अतिक्रम्य वनस्य अन्यं भागं गच्छन्ति यत्, तदवसरे एव जनानां पीडा जायमाना अस्ति इति ।

कूर्मा: सुदूरं गत्वा समुद्रात् बहि: आगत्य सिकतानां अध: स्वस्य अण्डानि प्रसूय स्वगृहं प्रति गच्छन्ति । केषाञ्चन दिनानाम् अनन्तरं कूर्मशिशव: अण्डेभ्य: स्वयं बहि: आगत्य सिकतपूर्णं समुद्रतीरम् अस्माकं वासस्थलं नास्ति इति जानन्त: इव तत: समुद्रं प्रविश्य गृहं प्रति तरन्ति । तज्ज्ञा: वदन्ति यत् कूर्माणां जन्मना किञ्चित् विशिष्टं ज्ञानं भवति इति । एतत् ज्ञानम् ‘आनुवंशिकस्मृति:’ इति निर्दिश्यते । गजा: ग्रीष्मकाले वनस्य एकस्मात् भागात् अन्यं भागं गच्छन्ति । स: मार्ग: तेषां स्मृतिपथे अङ्कित: भवति । मात्रा येेन मार्गेण गतं तेन एव गणनायिका स्वगणं नयति । स्वजीवनस्य अनुभवात् तस्मिन् मार्गानुसरणे सा कानिचन परिवर्तनानि कर्तुम् अर्हति । परन्तु प्रकृत्या स्मृतं तं मार्गं सा विस्मर्तुं न अर्हति । तस्मात् एव यद्यपि स: मार्ग: इदानीं मनुष्यै: ग्रस्त: अस्ति, यद्यपि स: मार्ग: अपायकर: अस्ति, तेन मार्गेण गमनात् अवर्णनीयं कष्टम् अनुभूयेत, तथापि गजा: तेन एव मार्गेण गच्छन्ति । तेषां संशोधनेन नि.प.प्र. कार्यकर्तार: एतं मात्रार्जितं गमनागमनमार्गं स्पष्टतया अवगतवन्त: । यदि एष: मार्ग: सम्पूर्णतया गजेभ्य: दीयेत तर्हि गजमनुष्ययो: सङ्घर्ष: न जायेत इति निर्णीतम् । तादृशं मार्गं ‘गजपरिक्रमपथ:’ (Elephant Corridor) इति तज्ज्ञा: वदन्ति ।

Paignton , Paignton Zoo, Elephant House - geograph.org.uk - 1484843.jpg

गजा: कुत्र, कदा, कथं तुष्टा: भीता: वा इत्ययं विषय: परिशीलित: । तस्य मापनदण्ड: एक: चिन्तित: । वनप्रदेशे तेषां वासस्थले (स्वगृहे) तेषां व्यवहार: सुस्थितिं प्रदर्शयति । वनप्रदेशे द्वयो: गजगणयो: मध्ये पर्याप्तमात्रेण अन्तरं भवति । यदा ते भीता: भवेयु: तदा सर्वे एकत्र अन्तरं विना तिष्ठन्ति । कस्मिन् स्थले कियान् समय: तै: यापित: इति विषय: अपि सङ्गृहीत: । एतस्मै कार्याय स च वाल्पारैप्रदेश: तत्स्थलं चतुर्धा विभक्त: ।

  • नैसर्गिक: वनप्रदेश:, यत्र प्राधान्येन क्षेत्रीया: वृक्षा: सस्यानि लता: च भवन्ति ।
  • कृत्रिम: वनप्रदेश:, यत्र विदेशात् आनीतानां युकलिप्टस्वृक्षाणां समूह: स्यात् ।
  • काफीवाटिका, यत्र काफीसस्यवर्धनाय छायार्थं वृक्षा: आरोप्यन्ते ।
  • चायवाटिका, यत्र वृक्षा: एव न भवन्ति । (चायस्य वर्धनाय सूर्यस्य प्रकाश: विशेषत: अपेक्ष्यते ।)

गजेभ्य: यं मार्गं कल्पयेम स: मार्ग: यावच्छक्यं नैसर्गिक : यदि भवेत् तर्हि गजा: शान्ततया जनपदम् अतिक्रम्य गच्छेयु: । तदा गजमनुष्यसङ्घर्ष: अपगत: स्यात् इति चिन्तितम् । जनानाम् अभिप्राय: आसीत् यत् सर्वत्र गजा: सर्वकारीयान् आपणान् प्रविश्य तत्रत्यं तण्डुललवणशाकादिकं खादन्ति इति । परन्तु परिशीलनात् ज्ञातं यत् तस्मिन् जनपदे स्थितेषु 48 सर्वकारीयापणेषु ते गजा: सर्वत्र न गता:, 37 आपणान् एकवारं प्रविष्टवन्त:, षट् आपणान् तु ते त्रिवारं त्र्यधिकवारं वा गता: इति । एते एव आपणा: कथं गजानां प्रियतमा: जाता: इति परिशीलनात् ज्ञातं यत् ये आपणा: गजगमनमार्गे, मार्गसमीपे वा भवन्ति, तत: आगच्छत: तण्डुलादिगन्धात् आकृष्टा: सन्त: गजा: तत्र प्रविशन्ति, तण्डुलान् लवणं शाकान् च भक्षयन्ति इति ।

गजानाम् आगमनस्य कारणस्य अवगमनस्य अनन्तरं तत: विमोचनाय मार्गा: बहव: स्फुरिता: । गजानां गमनागमनमार्गात् दूरे एतेषाम् आपणानां स्थापनम् इति तु प्रथम: मार्ग: । यत्र अनिवार्यं तत्र विद्युदावरणादिव्यवस्थाया: परिकल्पनम् अपर: मार्ग: । एतादृशा: अन्ये अपि बहव: उपाया: चिन्तिता: । पात्रे स्थापितस्य तण्डुलस्य खादनं मृगाणां स्वभाव: न । कलियुगे अहितवातवरणे प्रवृद्धानां दुरभ्यास: एष: । इतस्तत: सञ्चाराय निरपाय: ‘गजपरिक्रमपथ:’ यदि रचित: भवेत् तर्हि एतं सङ्घर्ष-रूपं दुरभ्यासं ते परित्यजेयु: । प्राय: द्वित्राणां सन्ततिपरम्पराणाम् (generation) अनन्तरं एषा समस्या न भवेत् एव । इदानीम् उपस्थित: अस्ति एतेषाम् उपायानां कार्यान्वयसमय: । गतवर्षद्वये एतदर्थं यत्न: प्रचलति । गजानां गमनागमनाय वृक्षबहुलस्य मार्गस्य परिकल्पनाय संस्था:, सर्वकार:, अन्ये भूमिमन्त: च स्वभूमे: अर्पणं कुर्यु: । तस्मात् प्रकृति: रक्षिता भवेत्, गजजनयो: दैनन्दिनजीवने समस्या च न स्यात् । वैयक्तिक-लाभालाभम् अविगणय्य समाजहिताय यत्न: त्याग: च कार्य: । गजेभ्य: यत् ज्ञातव्यं तत् नि.प.प्र.गणीया: स्वशक्त्या, कार्यकौशलेन च साधितवन्त: । मनुष्याणां द्वारा कार्यसाधनाय विभिन्नानि कौशलानि अपेक्ष्यन्ते । तत्रापि एष: गण: साफल्यं प्राप्नुयात् इति भावयाम: वयम् ।

आधारःसम्पाद्यताम्

'सम्भाषणसन्देशः' - जुलै २००९
लेखकः – न. रा. कुमारः
"https://sa.wikisource.org/w/index.php?title=गजः_उवाच&oldid=41165" इत्यस्माद् पुनः प्राप्तिः