गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ६६-७०

← अध्यायाः ६१-६५ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायाः ६६-७०
[[लेखकः :|]]
अध्यायाः ७१-७५ →

अध्याय ६६ प्रारंभ :-
कौंडिन्य उवाच ।
धरामात्रासनो तौ तु नभःप्रावारसंयुतैः।
दिगम्बरो सर्वधातु संस्पर्शवर्जितावुभौ ॥१॥
अयाचितभुजौ नित्यं जलेनैवाखिलाः क्रिया: ।
द्विजरूपधरोऽपश्यत् कुर्वाणौ सत्वशुद्धये।।२॥
गृहं च माक्षिकापुंजैर्मशकैरभितो वृतम् ।
मूर्तिं च गणनाथस्य पूजितां पुष्पपल्लवैः ॥३॥
अनन्यभक्त्या ताभ्यां च तत्पराभ्यां ददर्श सः ।
तावूचे श्रूयतां वाक्यं यन्मया प्रोच्यतेऽनयोः ॥४॥
मिथिलधिपतेः कीर्ती श्रुत्वाहं क्षुधितो भृशम् ।
तृप्तिकामः समायातो न स तृप्तिं समाकरोत् ॥५॥
कर्मणा दांभिकेनैव सत्वं न परिरक्ष्यते ।
मम तृप्तिकरं किंचिद् गृहे चेदस्ति दीयताम् ॥६॥
दम्पती ऊचतुः ।
चक्रवर्ती नृपो योऽसौ तेन तृप्तिर्न ते कृता ।
आवाभ्यां तु दरिद्राभ्यां कि देयं तृप्तिकारकम् ॥७॥
नदी नद जलैरब्धिरसंख्यैर्यो न पूर्यते ।
बिन्दुमात्रेण पयसा स कथं पूर्यते वद ॥८॥
द्विज उवाच ।
भक्त्या दत्तं स्वल्पमपि बहुतृप्तिकरं मम ।
अभक्त्या वाऽथ दम्भेन बहु दत्तं वृथा भवेत् ॥९॥
तावूचतुः ।
आवयोर्न गृहे किचिच्छपथस्ते द्विजोत्तम ।
पूजायै गणनाथस्य प्रातर्दूर्वांकुरा हृतः ॥१.६६.१०॥
पूजितो गणनाथस्तैस्तत एकोऽवशिष्यते ।
द्विज उवाच ।
भक्त्या दत्तः स एकोऽपि तृप्तये स्यात् प्रदीयताम् ॥११॥
कौंडिन्य उवाच ।
विरोचना ददौ तस्मै श्रुत्वा वाक्यं तदीरितम् ।
एकं दूर्वांकुरं भक्त्या तेन तृप्तोऽभवद्द्विजः ॥१२॥
शाल्यन्नं पायसान्नं च नाना पक्वान्नमेव च ।
व्यंजनानि च सर्वाणि लेह्यचोष्यान्यनेकधा ॥१३॥
विरोचना ददौ कल्प्य तस्मिन् दूर्वांकुरे च तम् ।
गृहीत्वा ब्राह्मणस्तं तु बभक्ष परया मुदा ॥१४॥
तस्मिन् दूर्वांकुरे भक्त्या दत्ते ते नाथ भक्तितः ।
प्रशशाम द्विजस्यास्य तत्क्षणाज्जठरानलः ॥५॥
तृप्तिश्च परमा तेन प्राप्ता तत् क्षणमात्रतः ।
आलिलिंग त्रिशिरसं तृप्तो हर्षाद् द्विजस्तदा ॥१६॥
तत्याज कुत्सितं रूपं प्रकटोऽभूद् गजाननः ।
चतुर्भुजोऽरविन्दाक्षः शुंडादंड विराजितः ॥१७॥
कमलं परशुं मालां दन्तं करतलैर्दधत् ।
महार्ह मुकुटो राजत्यर्णकुंडल मंडितः ॥१८॥
दिव्यवस्त्र परीधानो दिव्यगन्धानुलेपनः ।
उवाच तौ प्रसन्नात्मा दम्पती स गजाननः ॥१९॥
वृणीतं तं वरं शीघ्रं मनसा यं यमिच्छथः ।
तावूचतुः ।
जन्मनी यत्र नौ स्यातां तत्र ते दृढभक्तिता ॥१.६६.२०॥
मुक्तिर्वा दीयतां देव दुस्तराद् भवसागरात् ।
न चावां चित्तयोरन्यरपेक्षितमिभानन ॥२१॥
कौंडिण्य उवाच ।
इति तद्वाक्यमाकर्ण्य तथेत्युक्त्वा गजाननः ।
पुनरालिंग्य पिदधे भक्तं त्रिशिरसं मुदा ॥२२॥
एतस्मात्कारणाद् दूर्वाभारोऽस्मै दीयते मया ।
असंख्य भक्षणाद्यो न तृप्तिं देवः समाययौ ॥२३॥
दूर्वांकुरेण चैकेन स तृप्तिं परमां ययौ।
इति ते कथितः सम्यगाश्रये महिमा शुभः।
दूर्वासमर्पणभवः श्रवणात् सर्वकामदः ॥२४॥
इतिहासमिमं भक्त्या शृणुते श्रावयेच्च यः।
स पुत्र धनकामाढ्यः परत्रेह च मोदते ॥२५॥
गजानने लभेद् भक्तिं निष्कामो मुक्तिमाप्नुयात् ।
गणा ऊचुः ।
श्रुत्वापीत्थमितीहासमाश्रया संशयं पुनः ॥२६॥
प्रपेदे हृदि तं ज्ञात्वा कौंडिन्यः पुनरब्रवीत् ।
आश्रये शृणु मे वाक्यं संशयस्यापनुत्तये ॥२७॥
यद्ब्रवीमि हृदिस्थस्य मया ज्ञातस्य तेऽनघे।
एकं दूर्वांकुरं गृहय गच्छ शीघ्रं बिडौजसम् ॥२८॥
वदाशीर्वचनं पूर्वं पश्चाद्याचस्व कांचनम् ।
दूर्वांकुरेण तुलितं गृहीत्वा सदिहानय ॥२९॥
न न्यूनं नाघिकं ग्राहयं तस्य भाराच्छुभानने ॥१.६६.३०॥
गणा ऊचुः ।
इति वाणीं तस्य श्रुत्वा गृहीत्वैकं तदाश्रया ।
दूर्वांकुरं ययौ शक्रं भर्तुर्वाक्यपरायणा ॥३१॥ (२९०९)
इति श्रीगणेशपुराण उपासनाखंडे षट्षष्टितमोऽध्यायः ॥६६॥

अध्याय ६७ प्रारंभ :-
गणा ऊचुः ।
आज्ञप्ता तेन मुनिना स्वाभिप्रेतार्थसिद्धये ।
एक दूर्वांकुरं गृह्य शक्रसन्निधिमाययौ ॥१॥
तमुवाचाश्रया शक्र देहि मे कांचनं शुभम् ।
याचितुं त्वां समायाता भर्तृवाक्यात् सुरेश्वर ॥२॥
इन्द्र उवाच ।
किमर्थं त्वमिहायाता यद्याज्ञा प्रेषिता भवेत् ।
मया संप्रेषितं स्याचे जातरूपं स्वशक्तितः ॥३॥
आश्रयोवाच ।
दूर्वांकुरस्य तुलया यद् भवेत् कांचनं सुर।
तद् गृहीष्ये शचीर्भर्त न्यूनं न च वाधिकम् ॥४ ॥
शक्र उवाच ।
दूतैनां नय शीघ्रं त्वं कुबेरभवनं प्रति ।
स दास्यति सुवर्णं च दूर्वांकुरमितं शुभम् ॥५॥
गणा ऊचुः ।
आज्ञया देवराज्यस्य देवदूतस्तया सह ।
प्रायात् कुबेरभवनं शक्रस्य वचनात्तदा ॥६॥
अस्यै दूर्वांकुरमितं जातरूपं प्रदीयताम् ।
इन्द्रेण प्रेषिता साध्वी मुनिपत्नी मया सह ।
प्रापिता भवनं तेऽद्य यामि देव नमोऽस्तु ते ॥७॥
कुबेर उवाच ।
अत्याश्चर्यमहं मन्ये मुनिः शक्रस्तथाऽऽश्रया।
मोहाविष्टा न जानन्ति दूर्वांकुरमितं कियत् ॥८॥
कांचनं तेन किं वा स्याद् बहुलं किं न याचितम् ।
गणा ऊचुः ।
एवमेव ददौ तस्यै बहुलं कांचन सह ॥९॥
न जग्राह भयाद् भर्तुर्न्यूनाधिक विशंकया ।
स्वर्णकार तुलायां तं दूर्वांकुरमधारयत् ॥१.६७.१०॥
नाभवत्तुलया तस्य पर्याप्तं तत्तु हाटकम् ।
वणिक् तुला समानीता तत्रापि नाभवत् समम् ॥११॥
तैलकारतुलायां तु दूर्वांकुर समं न च ।
धटोबद्धस्ततस्तत्र हाटकं दत्तमेकतः ॥१२॥
दूर्वांकुरोऽपरत्रापि यातिपत्रमधस्तदा ।
अन्यदन्यद्दधौ तत्र कुबेरः कांचनं बहु ॥१३॥
तच्चापि नाभवत्तेन समं दूर्वांकुरेण च ।
सर्व कोशगतं द्रव्यं दत्तं तेन गिरीन्द्रवत् ॥१४॥
तथापि नाभवत्साम्यं तेन दुर्वांकुरेण तत् ।
पत्नीमाहूय तां प्राह कुबेरः कौतुकान्वितः ॥१५॥
कुरु मद्वाक्यतः सुभ्रु धटारोहणमग्रतः ।
न समं चेत् समारोक्ष्ये निजसत्त्वरिरक्षया ॥१६॥
पतिव्रताऽऽज्ञया तस्य धटमारुरुहे तदा।
न समा साऽपि तेनासीत्ततः सर्वां पुरी ददौ ॥१७।।
धटमध्ये कुबेरोऽसौ न चोर्ध्वं जायतेंऽकुरः ।
श्रुत्वा दूतमुखादिन्द्रो गजारूढः समाययौ ॥१८॥
स्वकीयद्रव्यसहितो धटमारुरुहे स्वयम् ।
दूर्वांकुरो न चोर्ध्वं स तथापि समजायत ॥१९॥
अधोमुखो गतश्चिंतां किमेतदिति चिन्तयन् ।
विष्णुं हरं च सस्मार तत्रारोहणकाम्यया ॥१.६७.२०॥
तत्रागतौ सनगरौ धटमारुहतां तदा ।
तथापि नोर्ध्वमगमत्तदा दूर्वांकुरं स्फुटम् ॥२१॥
ततस्ते तत उत्तेरुः शिवविष्णुधनेश्वराः ।
वरुणेन्द्राग्नि मरुतः कौंडिन्यमभितो ययुः ॥२२॥
देवा देवर्षयश्चैव सिद्धविद्याधरोरगाः ।
दिनान्ते समनुप्राप्ते स्वं नीडमिव पक्षिणः ॥२३॥
नमस्कृत्य मुनिं सर्वे प्रोचुरुद्विग्नचेतसः ।
सर्व ऊचुः ।
वृजिनं विलयं यातं दर्शनात्तव भो मुने ॥२४॥
पूर्वपुण्यभवादग्रे कल्याणं नो भविष्यति ।
तव पत्न्याहृतं सत्त्वं सर्वेषामद्य नः स्फुटम् ॥२५॥
महिमानं न जानीमो दूर्वांकुरसमुद्भवम् ।
एक दूर्वांकुर तुलां त्रैलोक्यमपि नालभत् ॥२६॥
गजानन शिरस्थस्य त्वया भक्त्याऽर्पितस्य च ।
जनीयान् महिमानं कः सम्यग् दूर्वांकुरस्य ह।
यज्ञदान व्रत तपः स्वाध्यायोऽपि न तत्समः ॥२७॥
गजाननैकभक्तस्य जपतस्तपतोऽनिशम् ।
तवापि महिमानं को जानीयात्सर्वदेहिनः ॥२८॥
एवमुक्त्वा मुनिं सर्वे पूर्वं पूज्य गजाननम् ।
सर्वे सभार्य पुपूजुस्तुष्टुवुर्ननृतुर्जगुः ॥२९॥
न ब्रह्मा न हरिः शिवेन्द्र मरुतो, नाग्निर्विवस्वान् यमः ।
शेषो शेष कलानिधिश्च वरुणो, नो चन्द्रमा नाश्विनो ।
नो वाचामधिपो न चैव गरुडो, नो यक्षराण् नांगिरा ।
माहात्म्यं परिवेद देव निगमैः रज्ञातरूपस्य ते ॥१.६७.३०॥
एवं संतोष्य सर्वे ते देवदेवं गजाननम् ।
मुनिं च समनुज्ञाप्य ययुः स्वं स्वं निकेतनम् ॥३१॥
आश्रयाऽपि ततो ज्ञात्वा दूर्वामहात्म्यमुत्तमम् ।
विश्वस्त भर्तृवाक्ये सा दूर्वाभिः प्रत्यपूजयत् ॥३२॥
विघ्नेश्वरं सर्वदेवं सर्वैर्दुर्वाभिरर्चितम् ।
प्रणनाम च कौंडिन्यं भर्तारं सत्यवादिनम् ॥३३॥
उवाच सुप्रसन्ना सा स्वात्मानं निन्दती भृशम् ।
आश्रयोवाच ।
मादृशी नैव दृष्टाऽस्ति याते वाक्ये संशया ॥३४॥
विशेषविदुषां स्वामिनि विशेषविदुषा त्वया ।
सम्यक् कृतं मम विभो सर्वभूत दयावता ॥३५॥
तत्क्षमस्वापराधं मे त्वामहं शरणागता ।
ततः प्रातः समुत्थाय दूर्वा आदाय सत्वरौ।।३६॥
स्नात्वा देवं समभ्यर्च्य दूर्वार्पणमकुर्वताम् ।
अनन्यभक्त्या ज्ञात्वा तौ दूर्वामाहात्म्यमुत्तमम् ॥३७॥
सायंप्रातर्देवदेवं पूजयन्तौ निरन्तरम् ।
त्यक्त्वा यज्ञव्रतं दानं ज्ञात्वा देवो गजाननः ॥३८॥
कृपया परयाविष्टः स्वधाम प्रत्यपादयत् ।
गणा ऊचुः ।
अगाधं वर्णितं दूर्वामाहात्म्यमिदमुत्तमम् ॥३९॥
अशेष वर्णने शेषो नेशो नेशो हरीश्वरौ।
त्रैलोक्यं तुलया यस्याः पत्रेणैवाऽभवत्समम् ॥१.६७.४०॥
दूर्वेति स्मरणात् पापं त्रिविधं विलयं व्रजेत् ।
तत् स्मृतो स्मर्यते देवो यतः सोऽपि गजाननः ॥४१॥
इति चिंतामणि क्षेत्रमहिमा वर्णितः स्फुटम् ।
श्रवणात् कीर्तनात् ध्यानाद् भुक्तिमुक्तिफलप्रदः ॥४२॥
एतस्मात् कारणाद्यानं त्रयाणां प्रेषितं शुभम् ।
रासभस्य मुखाद् दूर्वा गता देवे वृषस्य च ॥४३॥
चांडाल्या शीतनाशाय त्वानीता तृणभारतः ।
वायुना प्रबलेनापि गता दूर्वां गजानने ॥४४॥
यतस्तस्य प्रिया दूर्वा संतुष्टोऽसौ विनायकः ।
निष्पापत्वात् त्रयाणां स सान्निध्यं दत्तवान्निजम् ॥४५॥
गन्धमात्रेण दूर्वायाः संतुष्टो जायते विभुः ।
प्रसंगेन तु भक्त्या वा किं पुनर्मस्तकार्पणात् ॥४६॥
ब्रह्मोवाच ।
इति दूतमुखाद्राज्ञा स श्रुतो महिमा तदा ।
दूर्वाया मुनिभिः सर्वैर्न दृष्टो न च संश्रुतः ॥४७॥
स्नात्वा दूर्वांकुरान् गृह्य पुपूजुस्ते विनायकम् ।
सेवकाश्चापि दूर्वाभिरानर्चुः श्रीगजाननम् ।।४८॥
आसन्सर्वे दिव्यदेहास्तेजसा सूर्यवर्चसः ।
शृण्वन्तो देववाद्यानां नानारावान् समन्ततः ॥४९॥
विमानवरमारूढा दिव्यवस्त्रानुलेपिनः ।
याता वैनायकं धाम केचित्तद्रूपधारिणः ॥१.६७.५०॥
नरा नागरिकाः केचिदागतास्तं महोत्सवम् ।
द्रष्टुं दूर्वाभिरानर्चुरेकविंशतिभिः पृथक ॥५१॥
भुक्त्वा भोगांश्च ते सर्वे गाणेशस्थानमागमन् ।
विमानं चापि चलितमूर्ध्वं तत् पुण्यपुंजतः ॥५२॥
तस्माद् गणेश भक्तेन कार्यं दूर्वाभिरर्चनम् ।
न करोति नरो यस्तु प्रमादात्ताभिरर्जनम् ॥५३॥
स चांडालस्तु विज्ञेयो नरकान् प्राप्नुयाद बहून् ।
न तन्मुखं निरीक्षेत कदाचिदपि मानव ॥५४॥
यस्तु दूर्वाभिरर्चेत्तं देवदेवं गजाननम् ।
तस्य दर्शनतोऽन्योऽपि पापी शुद्धिमवाप्नुयात् ॥५५॥
अलाभे बहु दूर्वाणामेकयैवाभि पूजयेत् ।
तेनापि कोटिगुणिता कृता पूजा न संशयः ॥५६॥
ब्रह्मोवाच ।
इति नानाविधो राजन् महिमा कथितस्तव।
सेतिहासस्तु दूर्वाणां श्रवणात्पापनाशनः ॥५७॥
नाख्येयो दुष्टबुद्धेस्तु प्रिये पुत्रे निवेदयेत् ।
इन्द्र उवाच ।
इति ब्रह्ममुखाच्छुत्वा परमाख्यानमुत्तमम ॥५८॥
ननन्द परमप्रीतो ननाम कमलासनम ।
तदाज्ञया ययौ स्थानं स्वकीयं विस्मयान्वितः ॥५९॥ (२९६८)
इति श्रीगणेशपुराण उपासनाखंडे दूर्वामाहात्म्ये सप्तषष्टितमोऽध्यायः ॥६७॥

अध्याय प्रारंभ ६८ :-
शूरसेन उवाच ।
अन्यां कथय शक्र त्वं गणनाथ कथां पुनः ।
कृतवीर्यस्य जनकः किं चकार ततः परम् ॥१॥
इन्द्र उवाच ।
श्रुत्वाऽख्यानं तु संकष्टचतुर्थ्यां राजसत्तमः ।
दूर्वाख्यानं तु संश्रुत्वा चिन्ताविष्टो नृपोऽभवत् ॥२॥
अपुत्रस्य गतिर्नास्ति पुत्रो मे भविता कथम् ।
स्वप्ने ददर्श पितरं कार्तवीर्यस्तथा विधिः ॥३॥
सगद्गदाभ्यां कंठाभ्यां नोचतुस्तौ परस्परम् ।
आलिलिंगतुरन्योन्यं प्रेमविह्वल चेतसा ॥४॥
ततः पुत्रं करे धृत्वा पर्यंकेऽस्थापयत् पिता ।
उवाच च त्वया पुत्र पुत्रार्थं बहुधा श्रमः ॥५॥
क्रियते चाहमप्येकमुपायं वच्मि तेऽनघ ।
मृत्युलोकादागतेन कथितं नारदेन मे ॥६॥
तदैवाहं गतः पुत्र ब्रह्मणः सदनं प्रति ॥७॥
पप्रच्छाहं नमस्कृत्य ब्रह्माणं सर्ववेदिनम्।
कथं मे भविता पुत्रः सन्ततिः कमलासन ॥८॥
कथितं तेन षंकष्टचतुर्थी व्रतमुत्तमम् ।
क उवाच ।
अस्मिन् व्रते कृते पाप क्षये जाते नृपोत्तम ॥९॥
संततिस्तव पुत्रस्य भविष्यति न संशयः ।
पितोवाच ।
तदा तथैव लिखितं ब्रह्मणा कथितं यथा ॥१.६८.१०॥
गृहाण पुस्तकं चैतद्यथावत् कुरु च व्रतम् ।
यावदब्दं समाप्येत तावत् सिद्धि विनायकः ॥११॥
प्रसन्नो भविता देवः सर्वसंकष्टहारकः ।
तस्मिन् प्रसन्ने पुत्रस्ते भविता नात्र संशयः ॥१२॥
इत्युक्त्वाऽन्तर्हितस्तस्य पुत्रस्य जनको नृप ।
जजागार ततो राजा कृतवीर्यस्तु वै बली ॥१३॥
ददर्श पुस्तकं हस्ते स्वप्नार्थान् परिसस्मरे ॥१४॥
मुमोचाश्रूणि नेत्राभ्यां शोकानन्दपरिप्लुतः ।
पितुर्वियोगाच्छोकार्तः पुस्तकाप्तेश्च हर्षितः ॥१५॥
तावत्तस्या गतामात्याः परिवार्याब्रुवन्नृपम् ।
अमात्या ऊचुः ।
जहि प्रमादं राजंस्त्वं सावधानमना भव ॥१६॥
त्यज शोकं वदास्मान्किं कारणं शोककारकम् ।
अस्मानपि समाविष्टस्त्वच्छोकाच्छोक उत्कटः ॥१७॥
इन्द्र उवाच ।
श्रुत्वा वाक्यममात्यानां कार्तवीर्यो जगाद तान् ।
मया स्वप्ने पिता दृष्टस्तेन मे विह्वलं मनः ॥१८॥
पुस्तकं चैव संकष्ट चतुर्थीव्रतबोधकम् ।
दत्तं मम करे तेन पिदधे तत्क्षणाच्च सः ॥१९॥
तद्वियोगेन शोचामि गतार्थं निर्धनो यथा ।
उक्तं च तेन मे वाक्यं पुत्रार्थं कुर्विदं व्रतम् ॥१.६८.२०॥
प्रबुद्धोहं यदामात्या हस्ते दृष्टं च पुस्तकम् ।
आश्चर्यं हर्षशोकैश्चाप्यश्रु मुंचामि नान्यथा ॥२१॥
अमात्या ऊचुः ।
यः पिता सर्वलोकानां मनुष्योरगरक्षसाम् ।
स एव पितृरूपेण परितुष्टो गजानन ॥२२॥
उपायमवदत्ते स सन्तत्यै राजसत्तम ।
अन्यथा पुस्तकं क्व त्यं स्वप्नार्थः क्व प्रमाभवेत ॥२३॥
विना प्रसादं स्वप्नोऽपि विपर्ययमुदाहृतः ।
इन्द्र उवाच ।
इत्यमात्यवचः श्रुत्वा सावधानमना नृपः ॥२४॥
आहूय परिपप्रच्छ पंडितान् सुहृदोऽपि च ।
वदन्तु पुस्तकस्यार्थं प्रसादात्तस्य भो द्विजाः ॥२५॥
त ऊचुः पुस्तकं दृष्ट्वा तस्यार्थं सर्वसंसदि ।
द्विजा ऊचुः ।
ब्रह्मणः कृतवीर्यस्य संवादोऽत्र महान्नृप ॥२६॥
चतुर्थी सर्व संकष्ट नाशिन्यत्र निरूपिता।
चन्द्रोदये गणेशस्य पूजा प्रोक्ता सविस्तरा ॥२७॥
अंगारकचतुर्थ्यास्तु महिमा बहुशोऽपि च ।
तिथिदेव विधूनां च अर्घ्यदानं समंत्रकम् ॥२८॥
एकविंशति विप्राणां भोजनं चैव पूजनम् ।
नाना दानानि तेभ्यश्च देयानीति निरूपितम् ॥२९॥
दूर्वासमर्पणफलं श्वेतदूर्वा फलं पृथक् ।
एतद्व्रतं महाभाग भाग्यात् प्राप्तं त्वयाऽनघ ॥१.६८.३०॥
न दृष्टं न श्रुतं लोके भविष्यत्युपकारकम् ।
श्रवणात् स्मरणाच्चापि संकष्टहरणं नृणाम् ॥३१॥
इन्द्र उवाच ।
श्रुत्वा तत्पंडितमुखाद्राजा सर्वजनश्च ह ।
आश्चर्यानन्दसंयुक्तः पुपूजे स द्विजोत्तमान् ॥३२॥
वस्त्रालंकाररत्नानि धनं धान्यं ददौ बहु ।
अत्रिमाहूय राजाऽपि गुरुं निजकुलस्य च ॥३३॥
सुमुहूर्ते ततोऽगृह्णात् परिपूज्य यथाविधि ।
देवं विनायकं तं च विद्यातेकाक्षरां शुभाम् ॥३४॥
जजाप मन्त्रं तमनन्यभक्त्या, ध्यायन् गणेशं विजितेन्द्रियः स।
व्रतं च चक्रे गणनाथतुष्ट्यै, सुताप्तये संकटनाशनं तत् ॥३५॥ (३००३)
इति श्रीगणेशपुराण उपासनाखंडे व्रतनिरूपणं नामाष्टष्टितमोऽध्यायः ॥६८॥

अध्याय ६९ प्रारंभ :-
शूरसेन उवाच ।
ब्रह्मणा कथमादिष्टं कृतवीर्यांस सिद्धिदम् ।
तन्ममाचक्ष्व संकष्ट चतुर्थी व्रतमुत्तमम् ॥१॥
इन्द्र उवाच ।
सत्यलोके सुखासीनं सर्वज्ञं चतुराननम् ।
कृतवीर्यपिता गत्वा पप्रच्छ प्रणतो नृपः ॥२॥
कृतवीर्य उवाच ।
देवदेव जगद्धातः प्रणतार्तिनिवारण ।
वर्तते हदये यन्मे पृच्छामि त्वां वदस्व तत् ॥३॥
आपत्सु वर्तमानानां नृणां व्याकुलचेतसाम् ।
चिन्तया व्यग्रमनसां वियोगे सुहृदां तथा ॥४॥
दुर्लभं प्राप्तये नृणां कार्यसिद्धिः कथं भवेत् ।
अर्थसिद्धिः कथं नित्यं पुत्रसौभाग्यसम्पदा ॥५॥
सर्वसंकष्टनाशार्थं कार्यं कि मानवैः प्रभो।
ब्रह्मोवाच ।
शृणु राजन् प्रवक्ष्यामि सर्वसिद्धिप्रदं व्रतम् ॥६॥
यस्यानुष्ठानमात्रेण चिन्तितं प्राप्नुयान्नरः ।
ओषधीभिः शुक्लतिलैर्दिवा स्नायात् प्रसन्नधीः ॥७॥
संकल्पं कारयेत् सम्यग् ध्यात्वा देवं गजाननम् ।
गणेशं पूजयेद् भक्त्या मन्त्रैरागमसंभवैः ॥८॥
कृष्णपक्षे चतुर्थ्यां च निशि चन्द्रोदयेऽपि च ।
नृप उवाच ।
कथं संपूजयेद् ब्रह्मन् देवदेवं गजाननम् ॥९॥
विस्तरेण मम ब्रूहि प्रणयात् परिपृच्छते ।
ब्रह्मोवाच ।
नित्यकर्म समाप्याथ निशायामुदये विधाः ॥१.६९.१०॥
शुचौ देशे गोमयेन लिप्ते मंडपिकान्विते ।
तत्र पीठं गणेशस्य पूजयेत् कुंकुमाक्षतैः ॥११॥
स्थापयेत् कलशं तत्र पंचरत्नसमन्वितम् ।
तस्योपरि न्यसेत्पात्रं सौवर्णकलशान्वितम् ॥१२॥
तदभावे तु रौप्यं वा ताम्रं वैणवमेव च ।
तस्योपरि न्यसेद्वस्त्रं क्षौमं वा शक्तिसंयुतः ॥१३॥
तस्योपरि लिखेद्यन्त्रमागमोक्तविधानतः ।
तत्र मूर्तिं गणेशस्य सौवर्णी लक्षणान्विताम् ॥१४॥
एकदंतं महाकायं तप्तकांचनसन्निभम् ।
लंबोदर विशालाक्षं ज्वलत् पावकलोचनम् ॥१५॥
आखुपृष्ठसमारूढं चामरैर्वीजितं गणैः ।
शेषयज्ञोपवीतं च चिन्तयेत्तं गजाननम् ॥१६॥
ध्यानम् ।
आगच्छ देवदेवेश संकटान्मां निवारय ।
यावद्व्रतं समाप्येत तावत्त्वं सन्निधौ भव ॥१७॥
सहस्रशीर्षेत्यावाहनम् ।
गणाधीश नमस्तेऽस्तु सर्वसिद्धिप्रदायक ।
आसनं गृहयतां देव संकटान्मां निवारय ॥१८॥
पुरुष एवे ० आसनम् ।
उमापुत्र नमस्तेस्तु नमस्ते मोदकप्रिय ।
पाद्यं गृहाण देवेश संकटं मे निवारय ॥१९॥
एतावानस्य ० पाद्यम् ।
लंबोदर नमस्तेऽस्तु रत्नयुक्तं फलान्वितम् ।
अयं गृहाण देवेश संकटं मे निवारय ।
त्रिपादूर्ध्वेत्यर्घ्यम् ॥१.६९.२०॥
गंगादि सर्वतीर्थेभ्यः आहृतं तोयमुत्तमम् ।
गृहाणाचमनीयार्थं संकटं मे निवारय ।
तस्माद्विराळ० आचमनीयम् ॥२१॥
पयो दधि घृतं चैव शर्करामधुसंयुतम् ।
पंचामृतं गृहाणेदं संकटं मे निवारय ॥२२॥
मन्त्रैः पंचामृतम् ।
नर्मदा चंद्रभागा च गंगासंगमजैर्जलैः ।
स्नापितोऽसि मया भक्त्या संकटं मे निवारय ।
यत्पुरुषेणेति स्नानम् ॥२३॥
इभवक्त्र नमस्तुभ्यं गृहाण परमेश्वर ।
वस्त्रयुग्यं गणाध्यक्ष संकटं मे निवारय ।
[]तं यज्ञमिति वस्त्रम् ॥२४॥
विनायक नमस्तुभ्यं नमः परशुधारिणे ।
उपवीत गृहाणेदं संकटान्मे निवारय ।
तस्मा ० यज्ञोपवीतम् ॥२५॥
ईशपुत्र नमस्तुभ्यं नमो मूषकवाहन ।
चन्दनं गृहयतां देव संकटं मे निवारय ।
तस्माद्यज्ञादिति चंदनम् ॥२६॥
घृतकुंकुम संयुक्तास्तन्दुलाः सुमनोहराः ।
अक्षतास्ते नमस्तुभ्यं संकटं मे निवारय ।
अक्षतः ॥२७॥
चंपकं मल्लिकादूर्वां पुष्पजातिरनेकशः ।
गृहाण त्वं गणाध्यक्ष संकटं मे निवारय ।
तस्मादश्वेति पुष्पम् ॥२८॥
लम्बोदर महाकाय धूम्रकेतो सुवासितम् ।
धूपं गृहाण देवेश संकटं मे निवारय ।
यत्पुरुषमिति धूपः ॥२९॥
विघ्नांधकारसंहारकारक त्रिदशाधिपः ।
दीपं गृहाण देवेश संकटं मे निवारय ।
ब्राह्मणोऽस्येति दीप: ॥१.६९.३०॥
मोदकापूपलड्डूक पायसं शर्करान्वितम् ।
पक्वान्नं सघृतं देव नैवेद्यं प्रतिगृहयताम् ।
चन्द्रमा मनस इति नैवेद्यम् ॥३१॥
नारिकेल फलं द्राक्षां रसालं दाडिमं शुभम् ।
फलं गृहाण देवेश संकटान्मे निवारय ।
नाभ्या आसीदिति फलम् ॥३२॥
क्रमुकैला लवंगादि नागवल्लीदलानि च ।
तांबूलं गृह्यतां देव संकटं मे विनाशय ।
इति तांबूलम् ॥३३॥
सर्वप्रीतिकरं देव हिरण्यं सर्वसिद्धये ।
दक्षिणार्थं गृहाणेदं संकटं मे विनाशय ।
सप्तास्यासन्निति दक्षिणाम् ॥३४॥
ततो दुर्वांकुरान् गृह्य विशत्येकं च भक्तितः ।
एभिर्नामपदेर्देवमर्चयेत्सुसमाहितः ॥३५॥
( गणाधिपत्य नमः ।१। उमापुत्राय नमः ।२। अघनाशनाय नमः ।३। एकदन्ताय नमः ।४। इभवक्त्राय नमः ।५। मूषकवाहनाय नम ।६। विनायकाय नमः ।७। ईशपुत्राय नमः ।८। सर्वसिद्धिप्रदाय नमः ।९। लंबोदराय नमः ।१०। वक्रतुंडाय नमः ।११। मोदकप्रियाय नमः ।१२। विघ्नविध्वंसकर्त्रे नमः ।१३। विश्ववंद्याय नमः ।१४। अमरेशाय नमः ।१५। गजकर्णाय नमः ।१६। नागयज्ञोपवीतिने नमः ।१७। भालचन्द्राय नमः ।१८। परशुधारिणे नमः ।१९। विघ्नाधिपाय नमः ।२०। विद्याप्रदाय नमः ।२१। कर्पूरानलसंयुक्तं शेषाघौघविनाशनम् ।
नीराजनं गृहाणेश संकटान्मां विमोचय ।
नीराजनम् ॥३६॥
चम्पकाशोक बकुलः पारिजातभवैः शुभैः ।
पुष्पांजलिं गृहाणेमां संकटान्मां विमोचय ।
यज्ञेनेति पुष्पांजलिः ॥३७॥
त्वमेव विश्वं सृजसीभवक्त्र त्वमेव विश्वं परिपासि देव ।
त्वमेव विश्वं हरसेऽखिलेश त्वमेव विश्वात्मक आविभासि ॥३८॥
इति स्तुतिः ।
नमामि देवं गणनाथमीशं विघ्नेश्वरं विघ्नविनाशदक्षम्।
भक्तार्तिहं भक्तिविमोक्षदक्षं, विद्याप्रदं वेदनिधानमाद्यम् ॥३९॥
नमस्काराः ।
एवं स्तुवीत विधिवत प्रणमेत पुनः पुनः ।
प्रदक्षिणां प्रकुर्वीत यथा शक्त्यैकविंशतिम् ॥१.६९.४०॥
ये त्वामसंपूज्य गणेश नूनं वांछंति मूढा विहितार्थसिद्धिम् ।
त एव नष्टा नियतं हि लोके ज्ञातो मया ते सकल प्रभावः ॥४१॥
प्रार्थना ।
आचार्यस्त्वं द्विजाध्यक्ष सर्वसिद्धिप्रदायक ।
वायन् गृह्यतां ब्रह्मन् संकटान्मां निवारय ॥४२॥
फलपुष्पाक्षतैर्युक्तं जलं ते दक्षिणान्वितम् ।
विशेषार्घ्यं मया दत्तं संकटान्मां निवारय ॥४३॥
इति षोडशोपचारैर्मन्त्रेणानेन पूजयेत् ।
ॐ नमो हेरंब मदमोदित मम संकटं निवारय स्वाहा ।
इन्द्रादिलोकपालांश्च समन्तात् पूजयेत् सुधीः ॥४४॥
पक्वमुद्गतिलैर्युक्तान् मोदकान् घृतपाचितान् ।
भक्ष्यान्यन्यानि ताम्बूलं यथाशक्ति प्रकल्पयेत् ॥४५॥
ततो दूर्वांकुरान्गृह्य विंशत्येकं च भक्तितः ।
एभिर्नामपदैर्देवमर्चयेत् सुसमाहितः ॥४६॥
गणाधिप नमस्तुभ्यमुमापुत्राभयप्रद ।
एकदन्तेभवक्त्रेति तथा मूषकवाहन ॥४७॥
विनायकेश पुत्रेति सर्वसिद्धिप्रदायक ।
लम्बोदर नमस्तुभ्यं वक्रतुंडाघनाशन ॥४८॥
विघ्नविध्वंसकर्त्रेति विश्ववन्द्यामरेश्वर ।
गजवक्त्र नमस्तुभ्यं नागयज्ञोपवीतिने ॥४९॥
भालचन्द्र नमस्तुभ्यं नमः परशुधारिणे ।
विघ्नाधिप नमस्तुभ्यं सर्वविद्याप्रदायक ॥१.६९.५०॥
एवं संपूजयेद्देवं दूर्वाभिश्च पृथक् पृथक् ।
यदुद्दिश्य कृतं सम्यग् यथाशक्तिप्रपूजनम् ॥५१॥
तेन तुष्टो भवाशु त्वं हृत्स्थान्कामान्प्रपूरय ।
विघ्नान्नाशय मे सर्वान् दुष्टांश्च समुपस्थितान् ॥५२॥
त्वत्प्रसादेन सर्वाणि कार्याणीह करोम्यहम् ।
शत्रूणां बुद्धिनाशं च मित्राणामुदयं कुरु ॥५३॥
इति विज्ञाप्य देवेशं प्रणिपत्य पुनः पुनः ।
ततो होमं प्रक्रुर्वीत शतभ्रष्टोत्तरं व्रती ॥५४॥
मोदकैर्वाणकं कार्यं व्रतसंपूर्णहेतवे ।
लड्डूकैर्वटकाद्यैर्वा त्रिसप्तफलसंयुतम् ॥५५॥
रक्तवस्त्रेण संछाद्य स्वाचार्याय निवेदयेत ।
गणाधिप नमस्तुभ्यं सर्वसंकल्पसिद्धिद ॥५६॥
वायनस्य प्रदानेन संकटान्मां निवारय ।
इति वायनमंत्रः ।
कथां श्रुत्वा ततः पुण्यां दद्यादर्घ्यं समाहितः ॥५७॥
तिथीनामुत्तमे देवि गणेशप्रिय वल्लभे ।
संकटं हर मे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥५८॥
इति तिथ्यर्घः ।
लंबोदर नमस्तुभ्यं सततं मोदकप्रिय ।
संकटं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥५९॥
इति देवार्घः चन्द्राय सप्तवारं तु मंत्रेणानेन पार्थिव ।
क्षारोदार्णव संभूत अत्रिगोत्र समुद्भव ।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ।
चंद्रार्घमंत्र ॥१.६९.६०॥
ततः क्षमापयेद्देवं ततो विप्रांश्च भोजयेत् ।
स्वयं भुंजीत तच्छेषं ब्राह्मणभ्यो यदर्पितम् ॥६१॥
सप्तग्रासान् मौनयुक्तो यथाशक्त्या यथासुखम् ।
इत्थं कुर्यात्तु मासेषु चतुर्ष्वपि विधानतः ॥६२॥ ( ३०६५ )
इति श्रीगणेशपुराण उपासनाखंडे एकोनसप्ततितमोऽध्यायः ॥६९॥

टिप्पणी

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ्व्यक्रामत्साशनानशने अभि ॥४॥
तस्माद्विराळजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥६॥
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥७॥
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशून् ताँश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये ॥८॥
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥९॥
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१०॥
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥११॥
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥१२॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥१३॥
नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥१४॥
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥ - ऋ. १०.९०

अध्याय ७० प्रारंभ :-
राजोवाच ।
व्रतं पुरा कृतं केन भुवि केन प्रकाशितम् ।
किं पुण्यं कि फलं चास्य करुणाद्वद मे प्रभो ॥१॥
ब्रह्मोवाच ।
पुरा स्कन्दे गते चैव पार्वत्यैव कृतं व्रतम् ।
चतुर्ष्वपि च मासेषु शिववाक्येन पार्थिव ॥२॥
पंचमे मासि दृष्टस्तु कार्तिकेयो ह्यपर्णया ।
अगस्त्येन कृतं पूर्वं समुद्रं पातुमिच्छता ॥३॥
त्रिषु मासेषु विघ्नेश प्रसादात् पीतवानमुम् ।
षण्मासावधि राजेन्द्र दमयन्त्या पुरा कृतम् ॥४॥
नलमन्वेषयन्त्या तु ततो दृष्टो नलस्तया ।
प्रद्युम्नस्य सुतं राजंश्चित्रलेखाऽनयत्पुरा ॥५॥
क्व गतः केन नीतो वा इति शोचन्तमाकुलम ।
प्रद्युम्नं पुत्रशोकार्तं रुक्मिणी प्रत्यभाषत ॥६॥
शृणु पुत्र प्रवक्ष्यामि यद्व्रतं स्वस्य मन्दिरे ।
शम्बरेण पुराऽऽनीते बालके त्वयि षड्दिने ॥७॥
त्वद्वियोगजदुःखेन हृदयं में व्यदूयत ।
कदा द्रक्ष्याम्यहं पुत्रमपूर्वमतिसुंदरम् ॥८॥
अन्यस्त्रीणां सुतं दृष्ट्वा मम चेतसि जायते ।
ममापि पुत्रो भविता सावनेन प्रमाणतः ॥९॥
इति चिन्ताकुलाया मे गतान्यब्दानि भूरिशः ।
ततो मे दैवयोगात्तु लोमशो मुनिरागतः ॥१.७०.१०॥
तेनोपदिष्टं संकष्टचतुर्थीव्रतमुत्तमम् ।
सर्वचिन्ताहरं पुत्र चतुर्वारं कृतं मया ॥११॥
तत्प्रसादात् त्वमायातो हत्वा शम्बरमाहवे ।
त्वमप्येतत् कुरु व्रतं ततो ज्ञास्यसि तं सुतम ॥१२॥
ब्रह्मोवाच ।
प्रद्युम्नेन कृतं पूर्वं गणनाथ सुतोषकम् ।
श्रुतो बाणासुरपुरे निरुद्धो नारदात् पुरा ॥१३॥
उद्धवस्याज्ञया कृष्णः कृतवान् व्रतमुत्तमम् ।
भीतः ईश्वरसंग्रामादेकवारं यथाविधि ॥१४॥
गत्वा स शोणितपुरं जित्वा बाणासुरं मृधे ।
आनीतः उषया सार्द्धमनिरुद्धः क्षणान्नृपः ॥१५॥
मयाऽपि सृष्टिकामेन कृतमेतत् नृपोत्तम ।
कृता नानाविधा सृष्टिर्र्ततस्यास्य प्रभावतः ॥१६॥
अन्यैर्देवासुरनरैः कृतं विघ्नोपशांतये ।
ऋषिभिर्दानवैर्यक्षैः किन्नरोरगराक्षसैः ॥१७॥
आपद्यपि च कष्टायां कुर्यात्तच्छांतये व्रतम् ।
नानेन सदृशं लोके सर्वसिद्धिकरं व्रतम् ॥१८॥
तपोदानं जपस्तीर्थं मन्त्रो विद्या न च क्वचित् ।
इमां श्रुत्वा कथां राजन् स्वयं भुंजीत वाग्यतः ॥१९॥
जानुमध्ये करं कृत्वा गणेशं हृदि चिन्तयेत् ।
द्विजातीनां च यच्छेषं भोक्तव्यं सह बांधवैः ॥१.७०.२०॥
कार्यं बह्वल्पमासैस्तु सिद्ध्यते नात्र संशयः ।
बहुनात्र किमुक्तेन नान्यतस्याच्छीघ्रसिद्धिदम् ॥२१॥
नोपदेश्यमभक्ताय नास्तिकाय शठाय च।
देयं पुत्राय शिष्याय भक्तियुक्ताय साधवे ॥२२॥
मम प्रियोऽसि राजेन्द्र धर्मिष्टः क्षत्रियर्षभः ।
कार्य कर्ताऽसि लोकानामुपदिष्टमथो व्रतम् ॥२३॥
तस्मात् सर्वव्रतेष्वेतत् कर्तव्यं प्रथमं त्वया ।
सिद्धिं यास्यंति कार्याणि नान्यथा भाषितं मया ॥२४॥
यदा यदा पश्यति कार्यमुद्यतं, नारी नरो वा विदधातु सद्र्॥तम् ।
सिद्ध्यन्ति कार्याणि मनीषितानि, किं दुर्लभं विघ्नहरे प्रसन्ने ॥२५॥
सूत उवाच ।
इत्थं स श्रुत्वा विधिवन्नृपोत्तमो, व्रतं चकाराखिल दुःखशान्तये।
व्रतप्रभावाज्जितवान्स वैरिणो बुभोज राज्यं स सुतैरकंटकम ॥२६॥ (३०९१)
इति श्रीगणेशपुराण उपासनाखंडे चतुर्थीव्रतोपाख्यानं कृतवीर्यं नाम सप्ततितमोऽध्यायः ॥७०॥


  1. ऋ. १०.९०.७