गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ९१-९२
← अध्यायाः ८६-९० | गणेशपुराणम्/खण्डः १(उपासनाखण्डम्) अध्यायाः ९१-९२ [[लेखकः :|]] |
अध्याय ९१ प्रारंभ :-
व्यास उवाच ।
अन्यत् कथय मे देव गणेशस्य कथान्तरम ।
शृण्वतो मे मनोऽत्यन्तमुत्सुकुं भवति प्रभो ॥१॥
ब्रह्मोवाच ।
एकदा प्रलये वृत्तेऽज्ञापयन्मां गजाननः ।
सृष्टिं नानाविधां ब्रह्मन् कुरु त्वं हि ममाज्ञया ॥२॥
अहं प्रकल्पयामास पुत्रान् सप्त हृदा तदा ।
तेषां नामानि ते वच्मि कश्यपो गोतमोऽपि च ॥३॥
जमदग्निर्वसिष्ठश्च भरद्वाजोऽत्रिरेव च।
विश्वामित्रश्च सप्तैतै सर्वविद्याविशारदाः ॥४॥
सर्वे मामब्रुवन् ब्रह्मन्नाज्ञापय सुरेश्वर ।
मया तु कश्यपोऽज्ञायि बुद्धिमांस्तेषु चाधिकः ॥५॥
मत्कार्यं विविधां सृष्टिं कुर्वित्याज्ञापितस्तदा ।
असावोमिति मामुक्त्वा जगाम तपसे वनम् ॥६॥
जजापैकाक्षरं मन्त्रं दिव्यवर्षसहस्रकम् ।
ततः प्रसन्नो भगवान् द्विरदानन ईश्वरः ॥७॥
चतुर्भुजोऽरविन्दाक्षो महामुकुटमण्डितः ।
पाशांकुशधरो मालादन्त हस्तः शुभांगदः ।
सुवर्णमणिरत्नाढयः मुक्तामालालसद्गल: ॥८॥
सर्पोदरः कोटिसूर्य विलसद्दीप्तिमण्डलः ।
विकसन्नेत्र विभ्राजच्चारुशुण्डालसन्मुखः ॥९॥
आविरासीत् कश्यपस्य पुर एवं गजाननः ।
क्षुद्रघण्टा नूपुराणां रवान् मुखरिताङ्घ्रियुक् ॥१.९१.१०॥
दृष्ट्वा ननर्त तं देवं कश्यपो हर्षनिर्भरः।
नत्वा सम्पूजयामास नानामंगलवस्तुभिः ॥११॥
बद्धांजलिरुवाचेदं सुप्रसन्नो गजाननम् ।
धन्यो मे जनको माता तपो ज्ञानं वपुश्च दृक् ॥१२॥
धन्येयं धरणी तात वीरूद् वृक्ष फलानि च ।
धन्य एकाक्षरो मन्त्रो येन दृष्टोऽखिलेश्वरः ॥१३॥
गजाननः प्रसन्नात्मा परमात्मा परात्परः ।
यत्र कुण्ठाश्चतुर्वेदा वेदान्ता मूकतां गतः ॥१४॥
अगोचरो मनस्तर्कै सोऽयं देवो मयेक्षितः ।
यस्मादाविर्भवन्तीमे हरेशाग्निमुखाः सुराः ॥१५॥
पातालानि च सप्तैव भुवनानि चतुर्दश ।
यत्र तन्निलयं यान्ति सोयं देवो मयेक्षितः ॥१६॥
यो निर्गुणो निराधीशो गुरुगम्यो निराकृतिः ।
ब्रह्मेति यं विदुः केचित् सोयं देवो मयेक्षितः ॥१७॥
क उवाच ।
एवं वाक्यामृतरसैः परितुष्टो गजाननः ।
उवाच कश्यपं मम्रं स्तुवन्तं विविधैः स्तवैः ॥१८॥
गणेश उवाच ।
भक्तेःस्तवादनुष्ठानात् प्रीतस्तेऽहं मुनेऽधुना।
वरं वरय मत्तस्त्वं यं यं स्ववनसेच्छसि ॥१९॥
कश्यप उवाच ।
सृष्टिं नानाविधां कर्तुं सामर्थ्यं देहि मे प्रभो ।
त्वदड्घ्रिकमले भक्तिमविस्मरणमेव च ॥१.९१.२०॥
यायाः प्रत्यक्षता तत्र स्मरेत्त्वां यत्र चाप्यहम् ।
तादृशं देहि मे पुत्रं नाम्ना कश्यपनन्दनम् ॥२१॥
गणेश उवाच ।
सर्वं ते वांछितं मत्तो भविताऽऽशु महामुने ।
भक्तिर्मेऽविस्मृति स्यात्ते संकटे चान्तिकं व्रजे ॥२२॥
करिष्यसि विचित्रां त्वं सृष्टिं मम प्रसादतः ।
क उवाच ।
एवमुक्त्वा मुनिं देवस्तत्रैवान्तरधीयत ।
कश्यपोऽपि मुदा युक्तो निजस्थानं तदा ययौ ॥२३॥
कदाचित् कश्यपोऽकस्मादशरीर प्रपीडितः ।
न चालभत् क्वापि शर्म गृहमध्यं ततोऽगमत् ॥२४॥
नित्यं नैमित्तिकं काम्यं कर्म ध्यानं च नास्मरत् ।
तं तथा विह्वलं दृष्ट्वा योषितोऽस्य चतुर्दश ॥२५॥
दित्यदितिर्दनुः कद्रुर्विनताद्याः पुरः स्थिताः ।
बुभुजे क्रमशस्तास्तु नानागारेषु कश्यपः ॥२६॥
काले यथोक्ते सुषुवे दितार्दैत्याननेकशः।
अदितिर्देवगन्धर्वान् दनुश्च दानवानथ ॥२७॥
क्रमेण किन्नरा यक्षाः सिद्धचारणगुहयकः ।
पशवश्च तथारण्या ग्राम्याश्चासन्ननेकशः॥२८॥
पृथिवी पर्वता वृक्षाः समुद्राः सरितो लता।
धान्यानि धातवो रत्ना मुक्ताः कृमि पिपीलिकाः॥२९॥
सर्पाः पक्षिगणास्ताभ्यः सर्वमासीच्चराचरम् ।
एवं दृष्ट्वा स सन्तानं जातं नानाविधां तदा ॥१.९१.३०॥
जहर्ष कश्यपो धीमान्नानामन्त्रान् समादिशत् ।
शोधायित्वा ऋणधनं सिद्धारिचक्रमीक्ष्य च ॥३१॥
षोडशार्णं च कस्मैचित्तथाऽष्टादशवर्णकम् ।
एकाक्षरं च कस्मैचिदन्यस्मै च षडक्षरम् ॥३२॥
पंचार्णमष्टाक्षरं च द्वादशाक्षरमेव च ।
कस्मैचिच्च महामन्त्रं ददौ स मुनिपुंगवः ॥३३॥
कुर्वन् त्वनुष्ठितं तावद्यावद्देवो निरीक्ष्यते ।
गजाननोऽखिलाधारः सर्वसिद्धिप्रदायकः । ॥३४॥
एवमाज्ञापयत्तांश्च ते च जग्मुस्तदैव हि ।
तपसे बहुशो देशान् जेपुः स्वं स्वं मनुं तदा ॥३५।।
आसने भोजने देवं निद्रायां जागरेऽपि च ।
अनन्यभक्त्या देवेशं सस्मरुस्ते गजाननम् ॥३६॥
दिव्यवर्षसहस्रान्ते परितुष्टो गजाननः ।
आविरासिदनेकात्मा तत्पुरः करूणानिधिः ॥३७॥
यो यथा ध्यातवान्देवं तादृशस्तत्परोऽभवत् ।
कस्यचित् पुरतश्चासीन् मेघाभोऽष्टमहाभुजः ॥३८॥
कस्यचित्पुरतस्त्वासीच्छशिवर्णश्चतुर्भुजः ।
अग्रे कस्यचिदारक्तः षड्भुजोऽसौ गणेश्वरः ॥३९॥
सहस्रनयनस्तावद् भुजोऽसावपि कस्यचित् ।
भाति बालस्वरूपोऽपि युवा वृद्धोऽपि भासते ॥१.९१.४०॥
दशद्वादशदोर्दण्डो धूम्रवर्णो महन्महः ।
अष्टादशभुजोऽप्यासीत् कोटिसूर्यसमप्रभः ॥४१॥
तेजोरूपो महाकाय आखुवाहनपृष्टगः ।
सिंहगो बर्हिगो वापि गजास्यो नैकवक्त्रवान् ॥४२॥
दृष्ट्वा देवं तु ते सर्वे नैकधा तुष्टुवुर्मुदा ।।
बद्धांजलिपुटा नम्रा भक्त्या देवं गजाननम ॥४३॥
सर्वे ऊचुः ।
यतोऽनन्तशक्तेरनन्ताश्च जीवा।
यतो निर्गुणादप्रमेयाद् गुणास्ते।
यतो भाति सर्वं त्रिधा भेदभिन्नं।
सदा तं गणेशं नमामो भजामः।।४४।।
यतश्चाविरासीज्जगत् सर्वं वेत्तु
स्तथाऽब्जासनो विश्वगो विश्व गोप्ता ।
तथेन्द्रादयो दैत्यसंघा मनुष्याः ।
सदा तं गणेशं नमामो भजामः ॥४५॥
यतो वह्नि भानू भवो भूर्जलं च ।
यतः सागराश्चन्द्रमा व्योम वायुः ।
यतः स्थावरा जंगमा वृक्षसंघाः ।
सदा तं गणेशं नमामो भजामः ॥४६॥
यतो दानवाः किन्नरा यक्षसंघा ।
यतश्चारणा वारणाः श्वापदाश्च ।
यतः पक्षिकीटा यतो वीरुधश्च ।
सदा तं गणेशं नमामो भजामः ॥४७॥
यतो बुद्धिरज्ञाननाशो मुमुक्षो।
यतः सम्पदो भक्तसंतोषकः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः ।
सदा तं गणेशं नमामो भजामः ॥४८॥
यतः पुत्रसम्पद्यतो वांछितार्थो ।
यतो भक्तिविद्यास्तथाऽनेकरूपाः ।
यतः शोकमोहौ यतः काम एव ।
सदा तं गणेशं नमामो भजामः ॥४९॥
यतोऽनन्तशक्तिः स शेषो बभूव ।
धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना।
सदा तं गणेशं नमामो भजामः ॥१.९१.५०॥
यतो वेदवाचो विकुण्ठा मनोभिः।
सदा नेति नेतीति ता यं गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं ।
सदा तं गणेशं नमामो भजामः ॥५१॥ (४०३५ )
अध्याय ९२ प्रारंभ :-
क उवाच ।
एवं नत्वा च स्तुत्वा च सर्वे ते तु गजाननम् ।
पुनरूचुर्गणाध्यक्षमध धन्यतमा वयम् ॥१॥
धन्यं तपो नो दानं च ज्ञानं यज्ञश्च पूर्वजाः ।
अद्य नो दृष्टयो धन्या याभिर्दृष्टो गजाननः ॥२॥
एवं वाक्यामृतैस्तेषां स्तुतिभिः परितोषितः ।
उवाच शृण्वन्तां तेषां गाम्भीर्याद् द्विरदाननः ॥३॥
नैतादृशं मयाऽदर्शि ब्रह्मविष्णुशिवादिषु ।
यत् साक्षाद् दृश्यते सर्वं रूपं मे निर्गुणस्य यत् ॥४॥
अतितुष्टोऽनया स्तुत्या वरान् दातुमिहागतः ।
यद्यद्वो वांछितं तत्तद् वृणुध्वमखिलं तु यत् ॥५॥
एवमुक्तास्तदा तेन विकटेन मुनीश्वर ।
यस्य यद्वांछितं तत्तद्वव्रुस्तस्माद् गजाननात् ॥६॥
असंख्यत्वात्तद्वराणां नास्ति शक्तिश्चतुर्मुखैः ।
गदितुं सर्वथा तस्मादुक्तं संक्षेपतो मया ॥७॥
तांस्तान् ददौ वरान्यान्यान् सर्वे वव्रुर्गजाननम् ।
पुनरप्यवदत् सर्वानिदं स्तोत्रं मम प्रियम् ।
त्रिसन्ध्यं यः पठेदेतद् विद्यावान् पुत्रवान् भवेत् ।
आयुरारोग्यमैश्वर्यं यशोवृद्धि जयोदयम् ।
प्राप्नुयाद्वांछितानर्थानन्ते च परमं पदम् ।
पुनरूचे गणाधीशः स्तोत्र मेतज्जपेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस्य सर्व कार्यं भविष्यति ॥८॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिमवाप्नुयात् ॥९॥
यः पठेन्मासमात्रं तु दशवारं दिने दिने ।
स मोचयेद् बन्धनात्तं राजबद्धं न संशयः ॥१.९२.१०॥
विद्याकामो लभेत् विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वांछितं लभते सर्वमेकविंशति वारतः ॥११॥
यो जपेत् परया भक्त्या गजाननपरो नरः ।
एवमुक्त्वा ततो देवः सर्वेषामेव पश्यताम् ॥१२॥
अन्तर्दधेऽखिलाधारः सुमुखोऽसौ गजाननः ।
ते च चक्रुस्तदा मूर्तिं गणेशस्य शुभाननाम् ॥१३॥
प्रतिष्ठाप्य च तां स्थूले प्रासादे रत्ननिर्मिते ।
सुमुखेति च तस्यास्ते नाम चक्रुः सुविश्रुतम् ॥१४॥
संपूज्य च नमस्कृत्वा स्वं स्वं स्थानं ययुः सुराः ।
सर्वै ते मुनयो लोका सर्वकार्यरतास्तदा ॥१५
केचित्तस्या नाम चक्रुरेकदन्त इति स्फुटम् ।
गन्धर्वै किन्नरै रम्या स्थापिता मूर्तिरुत्तमा ॥१६॥
प्रासादे कांचने श्रेष्ठेऽनेकधा परिपूज्य च ।
कपिलेति च नामास्याः स्थापयामासुरुत्तमम् ॥१७॥
गुहयकाश्चारणाः सिद्धा मूर्तिमन्या प्रचक्रिरे ।
महालये प्रतिष्ठाप्य नेमुश्च पुपुजुश्च ताम् ॥१८॥
गजकर्णेति नामास्याश्चक्रुस्ते तु स्फुटार्थकम् ।
तत् प्रभावाद्विमानस्थाः सर्वे ते दिवमाक्रमत् ॥१९॥
लम्बोदरेति नाम्ना च स्थापिता सर्व मानवैः ।
श्वापदैरखिलैरन्या स्थापिता मूर्तिरुत्तमा ॥१.९२.२०॥
विकटेति च नाम्ना तां पुपूजुस्त्ते ययुर्वनम्।
गिरयश्च द्रुमाश्चांन्यां मूर्तिं स्थाप्य प्रपूज्य च॥२१॥
विघ्नाशन इत्येवं नाम कृत्वा स्थितास्तु कौं।
तत्प्रसादश्च ते ख्याताः पर्वताश्च द्रुमास्तथा॥२२॥
सर्वैः पक्षिगणैर्मूर्तिः स्थापिता रत्नकांचनी।
गणाधिपेति नाम्ना तैः पूजिता च नमस्कृता ॥२३॥
सर्वैर्विषधरैरेका स्थापिता गणनायकी ।
यस्या हूतिः कृता तैस्तु धूमकेतुरिति स्फुटा ॥२४॥
सर्वैर्जलाशयैरेका प्रतिमा स्थापिता शुभा।
गणाध्यक्षेति नाम्ना सा पूजिता परमोत्सवैः ॥२५॥
कृमिकीटादिनिचयैर्वनस्पत्योषधीगणैः ।
स्थापिता परमा मूर्तिर्भालचन्द्रेति विश्रुता ॥२६॥
अन्यैः सचेतनैरन्या रत्नप्रासादमध्यगा।
वैनायकी महामूर्तिः पूजिता भक्तिभावतः ॥२७॥
गजाननाख्यया ख्याता सर्वेषां सर्वकामदा ।
ते ते जगत्त्रये ख्यातास्तत्तज्जात्या बभूविरे ॥२८॥
सुखिनः स्वस्वकार्येषु दक्षा देव प्रसादतः ।
प्रत्येकनामकथने न शक्तिर्मम वर्तते ॥२९॥
सारं सारं प्रगृह्यैव कृतं नाम्ना सहस्रकम् ।
ततोऽपि सारभूतानि प्रोक्तानि द्वादशैव तु॥१.९२.३०॥
समुद्रमथनाद्यद्वद् रत्नानीव चतुर्दश ।
एवं संक्षेपतो ब्रह्मन् महिमा तेऽभिवर्णितः ॥३१॥
विस्तराद् गदितुं शेषा नेशो नेशोप्यहं हरिः।
इन्द्रादिमशकानां च जीवानां यक्षरक्षसाम् ॥३२॥
तत्र का गणना कार्या मया सत्यवतीसुत ।
तस्मात् सर्वेषु कार्येषु पूजनीयो गजाननः ॥३३॥
यो न पूजयते देवं देवविघ्नविनाशनम् ।
स दुरात्मा परित्याज्यश्चांडाल इव दूरतः ॥३४॥
मुनिरुवाच ।
अनुक्रमेण कथय नामानि द्वादशैव मे ।
श्रवणात् पठनादेषां सर्वं निर्विघ्नतामियात् ॥३५॥
ब्रह्मोवाच ।
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥३६॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥३७॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥३८॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥३९॥
कोटिकन्याप्रदानानि कोटियज्ञं व्रतानि च ।
तपांसि यानि सर्वाणि तीर्थान्यायतनानि च ॥१.९२.४०॥
स्वर्णभारसहस्राणि कोटिदानानि यान्यपि ।
कृच्रासरणि तप्तकृच्रा ।णि पराकेन्दुव्रतानि च ॥४१॥
शतांशमेषां पुण्यस्य तानि नाम्नां न यान्ति च ।
इमानि प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥४२॥
यः पठेन्मानवो भक्त्या विघ्ना नो यांति तं नरम् ।
सिद्ध्यन्ति सर्वकार्याणि मोक्षमन्ते व्रजत्यसौ ॥४३॥
तस्य दर्शनतो लोका देवाः पूता भवन्ति च ।
अतएव मुने सर्वाः शाक्ताः शैवाश्च वैष्णवाः ॥४४॥
उक्त्वा द्वादश नामानि सर्वकार्याणि कुर्वते ।
गाणेशा अपि कुर्वन्ति किमत्रापि च कौतुकम् ॥४५॥
न सिद्ध्यन्ति हि कार्याणि द्वादशान्यतमस्य ह ।
उच्चारणं विना ब्रह्मंस्तस्मादेकं समुच्चरेत् ॥४६॥
दुष्टानां नास्तिकानां च कार्यं यद्यद्धि सिद्ध्यति ।
तेऽपि बीजं समुच्चार्य मद्ध्यानादपि कुर्वते ॥४७॥
एवं ते महिमा सर्वः कथितो लेशतो मुने ।
उपासनाफलं नाना यथामति निरूपितम् ॥४८॥
विष्णूनां कथितं यावत् तावत्तव निरूपितम् ।
सोऽपि नान्तं जगामास्य गणेशोपासनस्य ह ॥४९॥
गणेशनाममहिमा पूर्णो ज्ञातो न तेन च ।
भृगुरुवाच ।
एवं ते कथिता राजन्नद्भुतो महिमा मया ॥१.९२.५०॥
ब्रह्मणा सुप्रसन्नेन यो व्यासाय निरूपितः ।
उपासनाखंडमिदं वर्णितं नृपते मया ॥५१॥
यदि ते श्रवणे श्रद्धा तदान्यदपि वर्णने ।
चरितं गणनाथस्य सोमकांताघनाशनम् ॥५२॥
सूत उवाच ।
इति वः कथितं नानाकथान्तरसमन्वितम् ।
उपासनं गणेशस्य शौनकाद्या महर्षयः ॥५३॥
वेदव्यासाय मुनये ब्रह्मणा यत्समीरितम् ।
भृगुणा सोमकान्ताय वर्णितं पापनाशनम् ॥५४॥
शृणुयाद्यो गणेशस्य पुराणमिदमुत्तमम् ।
स सर्वामापदं हित्वा भुक्त्वा भोगाननेकशः ॥५५॥
पुत्रपौत्रसमायुक्तो ज्ञानविज्ञानसंयुतः ।
लभते परमां मुक्तिं गणेशस्य प्रसादतः ॥५६॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।
यः श्रावयेद् महाभक्त्या यथोक्तफलभाग् भवेत् ॥५७॥
यथाप्तं सोमकान्तेन शृण्वता परमादरात्।
इति श्रीगणेशपुराण उपासनाखंडे ब्रह्मव्यास भृगुसोमकान्त संवादे गजानननामनिरूपणं नाम द्विनवतितमोऽध्यायः ॥९२॥ (४०९३ )
॥श्रीमद्गजाननार्पणमस्तु ।
॥ इति श्रीगणेशमहापुराणे उपासना खण्डं समाप्तम् ॥