गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः ०१

गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः १
[[लेखकः :|]]
अध्यायः ०२ →

।। श्रीगुरुभ्यो नमः ।।
।। श्रीगणेशाय नमः ।।
।। श्रीसरस्वत्यै नमः ।।
।। श्री रेणुकायै नमः ।।
।। ॐ नमो भगवते कृष्णचन्द्राय ।।
।। अथ महर्षिश्रीवेदव्यासप्रणीतं श्रीगणेश पुराणम् ।।
।। अथ प्रथमोऽध्यायः ।।
ॐ नमस्तस्मैगणेशाय ब्रह्मविद्याप्रदायिने ।
यस्यागस्त्यायतेनाम विघ्नसागरशोषणे ।।
ऋषय ऊचुः ।।
सूतसूतमहाप्राज्ञ वेदशास्त्रविशारद ।
सर्वविद्यानिधेत्वत्तोवक्तान्यौनौपलभ्यते ।।१।।
जन्मजन्मातरीयंनः स्थितंपुण्यं महत्तरम् ।
तेन संदर्शनं जातं सर्वज्ञस्यसतस्तव ।।२।।
वयं धन्यतमालोके जीवितं नः सुजीवितम् ।
पितरो वेदशास्त्राणि तपांस्याश्रम एव च ।।३।।
अष्टादश पुराणानि विस्तराच्छ्रावितानिनः ।
अन्यान्यपिहिनः श्रोतुमिच्छास्तिद्विजसत्तम ।।४।।
शौनकेये महासत्रे सक्ता द्वादशवार्षिके ।
त्वत्कथामृतपानान्तो नान्यद्विश्रामकारणम् ।।५।।
सूत उवाच ।।
साधु पृष्टंं महाभागा भवद्भिः पुण्यकर्मभिः ।
साधूनां समचित्तानां मतिर्लोकोपकारिणी ।।६।।
ममापि परितोषोस्ति कथानां कथने द्विजाः ।
अतोहं साधुवृत्तेभ्यः कथयिष्ये विशेषतः ।।७।।
अन्यान्युपपुराणानि वर्तन्तेऽष्टादशैव च ।
गाणेशं नारदीयं च नृसिंहादीन्यथापि च ।।८।।
गणेशस्य पुराणं यत्तत्रादौ कथयाम्यहम् ।
दुर्लभं श्रवणं यस्य मत्र्यलोके विशेषतः ।।९।।
यस्य स्मरणमात्रेण कृतकृत्यो भवेन्नरः ।
प्रभावमस्य गदितुं नेशःशेषश्चतुर्मुखः ।।१०।।
संंक्षेपतोन्नब्रवीम्येतत्तथापि भवदाज्ञया ।
बहुजन्मार्जितैः पुण्यैरस्यतु श्रवणं भवेत् ।।११।।
पाखण्डिनां नास्तिकानां नभवेत्पापकर्मिणाम् ।
नित्यत्वान्निर्गुणत्वाच्च अनादित्वाच्च तत्त्वतः ।।१२।।
गणेशस्य स्वरूपं तु वक्तुं केनापिनेष्यते ।
तथाप्युपासनासक्तैः सगुणं तन्निरूप्यते ।।१३।।
ॐकाररूपी भगवान् यो वेदादौ प्रतिष्ठितः ।
यं सदा मुनयोदेवाः स्मरन्तीन्द्रादयोहृदि ।।१४।।
यं पूजयन्ति सततं ब्रह्मेशानेन्द्रविष्णवः ।
यो हेतुः सर्वजगतां सर्वकारणकारणम् ।।१५।।
यदाज्ञया कः सृजतेथ विश्वं यदाज्ञया पालयते च विष्णुः ।
यदाज्ञया संहरते हरोपि यदाज्ञया संभ्रमते दिनेशः ।।१६।।
यदाज्ञया वातिसमीरणोपि यदाज्ञयापः प्रवहन्ति दिक्षु ।
यदाज्ञया भानि पतन्ति भूमौ यदाज्ञयाग्निज्र्वलति त्रिलोके ।।१७।।
तस्य यच्चरितं गुप्तं कस्यापि न निवेदितम् ।
तदहं वः प्रवक्ष्यामि सादरं श्रूयतां द्विजाः ।।१८।।
ब्रह्मणा कथितं पूर्वं व्यासायामिततेजसे ।
भृगवे कथितं तेन सोमकान्ताय तेन च ।।१९।।
व्रतैर्यज्ञैस्तपोभिश्च दानैस्तीर्थैश्च कोटयः ।
भवन्ति येषां पुण्यानां तेषां बुद्धिः प्रजायते ।।२०।।
गणेशाख्य पुराणस्य श्रवणे द्विजसत्तमाः ।
माया येषां न संसारे न दारापत्यभूमिषु ।।२१।।
मयूरेश कथायां ते सादरा मुनिसत्तमाः ।
श्रूयतामस्य महिमा सोमकान्त प्रसङ्गतः ।।२२।।
सौराष्ट्रे देवनगरे सोमकान्तो भवन्नृपः ।
वेदशास्त्रार्थतत्त्वज्ञो धर्मशास्त्रार्थतत्परः ।।२३।।
दशनागसहस्राणि हयानां द्विगुणानि च ।
रथानां षट्सहस्राणि यंयीत मनुयान्ति च ।।२४।।
पदातयोप्यसंख्याता अग्निशस्त्रधरास्तथा ।
कोदण्डधारिणश्चान्ये निषङ्गद्वयधारिणः ।।२५।।
बुद्ध्याबृहस्पतिं जिग्ये संपदा धनदञ्चयः ।
क्षमया पृथिवीं जिग्ये गाम्भीर्येण महोदधिम् ।।२६।।
सूर्याचन्द्रमसौ जिग्ये भासाकान्त्याचयोनृपः ।
प्रतापेनानलं जिग्ये सौन्दर्येण मनोभवम् ।।२७।।
यस्यामात्याः प्रबलिनः पञ्चासन्दृढविक्रमाः ।
नीतिशास्त्रार्थतत्त्वज्ञाः परराष्ट्रविमर्दिनः ।।२८।।
रूपवान्प्रथमस्तत्र विद्याधीशस्तथापरः ।
क्षेमंकरो ज्ञानगम्यः सुबलः पञ्चमः स्मृतः ।।२९।।
एतैर्नानाविधादेशा आक्रान्ताः स्वपराक्रमात् ।
एतेति सुन्दरा नाना भूषावस्त्रैरलंकृताः ।।३०।।
राजकार्य करानित्यं राज्ञः प्रियतमाभृश ।
तस्य राज्ञो भवद्भार्या सुधर्मा गुणशालिनी ।।३१।।
तद्रूपमवलोक्यैव रतिरम्भातिलोत्तमाः ।
लज्जिता न सुखं क्वापि लेभिरे नचमेनिरे ।।३२।।
अनेकरत्नरचितेताटङ्के काञ्चने शुभे ।
बिभ्रतीकर्णयोः कण्ठे निष्कंमुक्ताफलानि च ।।३३।।
कटौरत्नमयींकाञ्चीं तादृशे नूपुरेङ्घ्रिगे ।
अङ्गुलीयान्युत्तमानि करपादाङ्गुलीषु च ।।३४।।
वासांस्यनेकवर्णानि महार्हाणि सहस्रशः ।
भगवद्भजनेदानेसक्ताचातिथिपूजने ।।३५।।
सेवनेहर्निशं भत्र्तुर्वचने चरता सदा ।
हेमकण्ठ इतिख्यातः पुत्रो भूवनयोः शुभः ।।३६।।
नागायुतबलोधीमान् विक्रमी शत्रुतापनः ।
एवमासीत्सोमकान्तः पृथिव्यां राजसत्तमः ।।३७।।
सर्वान् राज्ञो वशेकृत्वा चक्रे राज्यं धरातले ।
नित्यं धर्मरतो यज्वादातात्यागीद्विजोत्तमाः ।।३८।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्तवर्णनं नाम प्रथमोऽध्यायः ।।१।।