गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः २६-३०
← अध्यायाः २१-२५ | गणेशपुराणम्/खण्डः १(उपासनाखण्डम्) अध्यायाः २६-३० [[लेखकः :|]] |
अध्यायाः ३१-३५ → |
अध्याय २६ प्रारंभः –
विश्वामित्र उवाच ॥
एकस्मिन्दिवसे शुभग्रहयुते लग्ने शुभे वासरे।
योगे चारुफले जने च नगरे नानाविधे मेलिते ।
मालां रत्नमयीं ददौ नरपते राज्ञी करेणोः करे ।
संप्रार्थ्य द्विरदं कुरुष्व नृपतिं लोकेषु यस्ते मतः ॥१॥
तामाज्ञां प्रतिगृहय वारणपतिः संरंजितो धातुभिर्बभ्राम द्विजबन्दिचारणगणैराशासितः सर्वतः ।
नानावाद्यकरैर्वृतो नृपभटै राज्यार्थिभिः पूरूषै।
जिघ्रन् सर्वजनं सभापरिगतं यातो बहिः पत्तनात् ॥२॥
नार्यस्तन्नगरे शिशूनथ पतीन् कृत्वा पुरोऽवस्थितान् ।
सज्यार्थं विविधा नराश्च बहुधा श्रेणीमुखाश्च स्थिताः ।
ते सर्वे विमनस्कतां परिगताः स्वं स्वं गृहं चागता ।
यातेऽस्मिन् गहने करिण्यथ पुरो याता बहिश्चापरे ॥३॥
गजस्तु यातः कमलासुतं तं संपूजयन्तं द्विरदाननं तम् ।
दृष्ट्वैव तस्मिन्निदधे स मालां पश्यत्सु लोकेषु सुरेषु नाके ॥४॥
वस्त्राणि माल्यानि च भूषणानि दक्षाय दत्तानि तदैव लोकैः ।
ज्ञात्वा मतं पौरजनस्य राजा राज्ञः प्रकृत्योरुभयोस्तदैव ॥५॥
ववंदुर्वाद्यसंघाश्च दिव्या भौमा अनेकशः।
मुमुचुः पुष्पवर्षं ते देवा हर्षयुताः शुभम् ॥६॥
उपविष्टास्तदा लोका यथास्थानं यथाक्रमम् ।
नेमुश्च तं दक्षनृपममात्यद्वय संयुतम् ॥७॥
ताम्बूलानि च वस्त्राणि जनेभ्यः प्रददौ नृपः ।
ब्राह्मणान् पूजयित्वैव दत्त्वा दानान्यनेकशः ॥८॥
संपूज्य मातरे तां तु वस्त्रालंकरणादिभिः।
दापयामास दानानि ब्राह्मणेभ्यो यथाविधि ॥९॥
नरयाने समारोप्य स्वयमारुरुहे गजम् ।
अलंकृतं सिक्तमार्गं पताकाध्वजसंयुतम् ॥१.२६.१०॥
अश्वारुढावमात्यौ तौ पुरस्कृत्य ययौ पुरम् ।
स्तुवन्ति बन्दिनः पौरा नृत्यन्त्यप्सरसः पुरः ।
गंधर्वा गाननिष्णाता धावित्वा यान्त्यमुं पुरः ॥११॥
जयशब्दैर्नमः शब्दो वाद्यशब्दोऽगमद्दिवम् ।
नृपद्वारं समासाद्य नत्वा केचिद्गृहं ययुः ॥१२॥
सभायां विविशुः सर्वे संख्यातीता नृपास्तदा ।
नृयानं प्रेषयामास मुद्गलाय महामतिः ॥१३॥
छत्रं ध्वजं चामरं च सुमन्तुं प्रकृतिं तथा ।
आयान्तं मुद्गलं दृष्ट्वा स्वासनात्पुरतो ययौ ॥१४॥
सकिरीटेन शिरसा पादयोः प्रणनाम तम् ।
न्यवेशयत् स्वासने तं तेनाज्ञप्तोऽन्य आसने ॥१५॥
उपविष्टो राजसंघैः पूजयामास तं मुनिम् ।
गां चापि प्रददौ तत्र ब्राह्मणाय महामतिः ॥१६॥
उवाच तं नृपो दक्षो भो मुद्गल महामुने ।
अद्य ते महिमा ज्ञातो लोकैरेतैर्महानयम् ॥१७॥
शरीरे चारुता राज्यप्राप्तिश्च त्वत्प्रसादतः ।
क्व साऽवस्था पूर्वतनोः क्वेदृगराज्यं महामुने ॥१८॥
विनायकमहं जाने त्वामेव मुनिसत्तम ।
पुनर्मे मस्तके ब्रह्मन्निधेहि करपंकजम् ॥१९॥
येनाहं सर्वकामानां भाजनं स्याच्चिरं मुने ।
विश्वामित्र उवाच ॥
आकर्ण्य वचने तस्य मुद्गलोऽथाब्रवीच्च तम् ॥१.२६.२०॥
न ते भयं रिपुकृतं भविष्यति कदाचन ।
यं यं कामयसे कामं सर्वतस्ते भविष्यति ॥२१॥
ततस्तस्मै ददौ ग्रामान् वासो रत्न धनादिकम् ।
अन्येषां ब्राह्मणानां च गोधनान्यंशुकानि च ॥२२॥
आशीर्भिरभिनन्द्याथ ययुस्ते ब्राह्मणा गृहम् ।
अमात्याभ्यां गृहेभ्यश्च ददौ ग्रामाननेकशः ॥२३॥
प्रासादं कारयामास गणेशस्य बृहत्तरम् ।
कुंडिने नगरे तस्मिन् प्राक्तनं संस्थितं लघुम् ।
विसर्जयामास सभां प्रविवेश गृहं नृपः ॥२४॥
आययौ वल्लभस्तत्र श्रुत्वा वार्तां जनेरिताम् ।
वीरसेनो नरपतिः स्वां सुतां पतिमिच्छतीम् ॥२५॥
ददौ तस्मै स्वप्नगतं गणेशस्याज्ञया शुभम् ।
दक्षाय राज्ञे महते त्रिलोकश्रुतकीर्तये ॥२६॥
तस्मात्तस्याऽभवत्पुत्रो बृहद्भानुरिति श्रुतः ।
ततोऽभवत् खड्गधरः सुलभस्तत् सुतोऽभवत् ॥२७॥
पद्माकरस्तत्तनयो वपुर्दीप्तस्तु तत्सुतः ।
चित्रसेनस्तत्सुतोऽऽभूच्चित्रसेनात्त्वमेव हि ॥२८॥
ब्रह्मोवाच ॥
विश्वामित्रमुखात्सर्वं श्रुत्वा वंशपरंपराम् ।
ततः स नरशार्दूलो भीमो नाम महीपतिः ॥२९॥
संतोष्य तं मुनिं प्रार्थ्य पप्रच्छ द्विजपुंगवम् ।
भीम उवाच ॥
विनायकः कदा मे स्यात् सुप्रसन्नो महामुने ॥१.२६.३०॥
तमुपायं वद विभो येन मे तदनुग्रहः ।
कदाऽहं कृतकृत्यः स्यां दृष्ट्वा देवं गजाननम् ॥३१॥ ( १०२८)
इति श्रीगणेशपुराणे उपासना खंडे परंपरावर्णनं नाम षड्विंशोऽध्यायः ॥२६॥
अध्याय २७ प्रारंभः-
व्यास उवाच ॥
क उपायस्तु मुनिना विश्वामित्रेण धीमता।
कृपावता तु भीमाय कथितस्तं वदस्व मे।
मन्मनोमोहपटलं मृत्योरिव विनिःसृतम् ॥१॥
तत्कथामृतपानेन पितामह मृता यथा। ब्रह्मोवाच ॥
भीमाय कथितस्तेन य उपायः शृणुष्व तम् ।
एकाक्षरं महामंत्रं भीमायाकथयन्मुनि ॥२॥
पाराशर्य मुनिश्रेष्ठ कथयामि शृणुष्व तम् ।
उवाच तं प्रसन्नात्मा विश्वामित्रः सुधर्मवित् ॥३॥
विश्वामित्र उवाच ॥
अनेनाराधय विभुं दैवतं गणनायकम् ।
अनुष्ठानं कुरुष्व प्रासादे दक्षनिर्मिते ।
विनायकः प्रसन्नस्ते सर्वान्कामान् प्रदास्यति ॥४॥
धर्ममर्थं तथा कामं मोक्षमन्यदपेक्षितम् ।
गच्छ वा स्वपुरं भीम चिन्तां कामपि मा कुरु ॥५॥
ब्रह्मोवाच ॥
इत्युक्तः स तदा तेन तं प्रणम्य ययौ नृपः ।
सपत्नीको ददर्शाथ पत्तनं स्वं जहर्ष च ॥६॥
अमात्यौ सेनया सार्द्धं नागरैरीयतुर्नृपम् ।
आलिलिंगुर्नृपं केचिन्नेमुर्दूरात्तथान्तिके ॥७॥
प्रविवेश पुरं राजा सर्वैः साकं ध्वजालिमत्।
सिक्तमार्गं चारुगंधं नानावादित्रशब्दितम् ॥८॥
ऊचुः परस्परं लोकाः पुरीयं शोभतेऽधुना।
यथा नारी पतिं प्राप्य यथाऽन्धो वापि सदृशम् ॥९॥
इति शृण्वन्नृयानस्थस्तथा सा चारूहासिनी ।
वस्त्रालंकारशोभाढ्यौ स्तूयमानौ मुदान्वितौ ॥१.२७.१०॥
उभौ विविशतू रम्यं पुरं नानर्द्धिसंकुलम् ।
विसृज्य सर्वलोकं तौ वस्त्रालंकार मौक्तिकैः ॥११॥
तांबूलैस्तेषु यातेषु भवनं स्वमगच्छताम् ।
ततः शुभे दिने राजा दक्षप्रासादमागतम् ॥१२॥
यत्कौंडिन्यपुरेऽकारि पुरा दक्षेण धीमता।
तत्रार्चयामास विभुं सर्वदा तं विनायकम् ।
उपवासपरो नित्यं तन्मंत्रमवलोडयन् ॥१३॥
भोजने शयने याने वचने श्वसनेपि च ।
तमेव चिंतयन्नित्यमनन्यमनसा नृपः ॥१४॥
जले स्थले नभोमार्गे स्वर्गे देवे नरे द्रुमे ।
भक्ष्ये पेये नृपोऽपश्यद्विनायकमनुत्तमम् ॥१५॥
यं यं पश्यति तं नौति दृढालिंगनतत्परः ।
नगरे तं जनाः सर्वे पिशाच इति मेनिरे ॥१६॥
ततो विनायकोऽभ्येत्य धृत्वा पाणितले नृपम् ।
आह तं नृप मुक्तोऽसि किं वांछसि वदस्व तत् ॥१७॥
तमुवाच नृपो नान्यं जाने त्वच्चरणाम्बुजात् ।
ततो विनायकः प्राह पुत्रस्ते चारुदर्शनः ॥१८॥
भविता मत्प्रसादेन गुणी स्वर्णतनुर्नृप।
व्रज स्वं भवनं देवद्विजपूजापरो भव ॥१९॥
स गत्वा भवनं राजा तच्चकार तथैव च ।
देवानां ब्राह्मणानां च पूजनं तर्पणं तथा ॥१.२७.२०॥
अकरोत्सर्वभावेन गणेशः प्रीयतामिति ।
अल्पेनैव तु कालेन पुत्रस्तस्याभवच्छुभः ॥२१॥
ददौ दानान्यनेकानि पुत्रजन्मनिमित्ततः ।
रुक्मांगदेति नामास्य चक्रे द्विजवरोदितम् ॥२२॥
ववृधे बालको नित्यं शुक्लपक्षे यथा शशी ।
चकार गुरुसात्तं स शिक्षार्थं नृपतिः सुतम् ॥२३॥
स च श्रवणमात्रेण जग्राह गुरुणोदितम् ।
सर्वविद्यानिधानेन दत्तं यत्कपिलेन च ॥२४॥
सोऽपि विद्यानिधिरभूद् गजकर्ण इवापरः ।
रूक्मांगदोऽति बलवान् सर्वशास्त्रविशारदः ॥२५॥
तस्मै पट्टाभिषेकं स चकार गुणराशये।
ददौ च द्विजमुख्येभ्यो दासोरत्न धनानि च ॥२६॥
ततोऽधिकां महाभक्तिं सोऽपि चक्रे विनायके ।
जजापैकाक्षरं मन्त्रं पितुः प्राप्तं दिने दिने ॥२७॥
एकस्मिन्दिवसेऽरण्यं युवराजा विवेश ह ।
मृगयां व्यचरद्भूस्ति जघान नवयान्मृगान् ॥२८॥
अतिश्रान्तो ददर्शाथ मुनेः कस्यचिदाश्रमम् ।
नानावृक्षलताजालं त्यक्तवैरमृगान्वितम् ॥२९॥ (१०५७)
इति श्री गणेशपुराणे उपासनाखंडे रुक्मांगदाभिषेकवर्णनं नाम सप्तविंशोऽध्यायः ॥२७॥
ब्रह्मोवाच ।।
ततो रुक्मांगदोऽपश्यदृषिं वाचक्नविं शुभम् ।
मुकुन्दां तस्य पत्नीं च स्निग्ध मंजुल भाषिणीम् ।। १ ।।
अतिश्रान्तो नरपतिर्नमश्चक्रे उभावपि ।
तस्मिन्मुनौ गते स्नातुं ययाचे नृपसत्तमः ।।२।।
मातुर्मुकुन्दे मे देहि शीतलं जलमुत्तमम् ।
विना जलं मम प्राणा गमिष्यन्ति यमक्षयम् ।। ३ ।।
आकर्ण्य तस्य वाचं सा जगाद मदनातुरा ।
त्वादृशं पुरूषं क्वापि मारादप्यति सुन्दरम् ।।४।।
न देवेषु न नागेषु यक्षगंधर्व पुंजयोः ।
पश्यामि चारु सर्वागं मते मे हृदयं त्वयि ।।५ ।।
अत्यासक्तं त्वदधरामृतपाने च देहि तत् ।
मुनिरुवाच ।।
व्यलीकं स तु श्रुत्वैव श्रान्तत्वाद् भृशदुःखित ।।६ ।।
तिलोत्तमोत्तमां तां स जितेन्द्रिय तया जगौ ।
त्यज प्रौढिं न मे चित्तं पारदार्यं विगर्हिते ।।७।।
विनायक प्रभावेण सक्तं नैवात्र कर्हिचित् ।
न जलं पातुमिच्छामि त्वया दत्तं सुदुष्टया।।८।।
ऋषेराश्रम इत्येवं यातो यास्य इतोऽशुभे ।
तं गन्तुमुद्यतं पाणिं धृत्वा ऽब्रवीवद्धदातुरा ।।९।।
मुकुन्दोवाच ।।
बलात्कारेण योऽन्यस्य स्त्रियं धर्षितुमिच्छति ।
स एव नरकं याति न स्वयं यातितामपि ।। १.२८.१० ।।
कृते त्रेतायुगे ब्रह्मा स्त्रीणां स्वातन्त्र्यमभ्यधात् ।
न करोषि यदा वाक्यं तदा भस्म भविष्यसि ।। ११ ।।
अथवा राज्यविभ्रष्टं करिष्ये वनचारिणम् ।
मुनिरुवाच ।।
इत्युक्त्वा धावमाना सा काममार्गणपीडिता ।। १२ । ।
रभसाऽऽलिंगयामास चुचुम्बे वदनं हठात् ।
ततो रूक्मांगदस्तां तु बलाच्चिक्षेप दूरतः ।। १३ ।।
मूर्छिता पतिता भूमौ रम्भेव मरुता हता ।
उत्थितां तां तदा प्राह परदार विरक्तधीः ।। १४।।
रुक्मांगदो महाभागे मुनिपत्न्यविवेकिनि ।
परपुंसि मनो यस्याः सा वै निरयभाग्भवेत् ।। १५ ।।
न मे मनश्चलेत् क्वापि यदि शुष्येन् महोदधिः ।
एवं निराकृता तेन तं शशाप रुषान्विता ।। १ ६।।
ययाऽहं कष्टमगमं तथा त्वं कुष्ठभाग्भव ।
यतस्ते वज्रात् सारभूतं न च द्रुतम् ।। १७।।
इत्थं वदतीं तां राजा निर्भर्त्स्य बहुधा ततः ।
त्वरया निर्गतस्तस्मादाश्रमाद् भृशदुःखितः ।। १ ८।।
स्वं ददर्श शरीरं स श्वेतं बक शरीरवत् ।
कुष्ठरोगयुतं कान्त्या हीनं च भृश कुत्सितम् ।। १ ९।।
चिन्तार्णवे तदा मग्न इदमाह गजाननम् ।
किमपराद्धं मया तेऽद्य कथमत्रागतोऽ प्यहम् ।।१.२८.२० ।।
प्राप्तः कथं नु दुष्टाया मुनिपत्न्या समागमम् ।
त्वया नूनं सिद्धिपते दुष्टाः संवर्धिता भृशम् ।।२ १ ।।
अवताराश्च साधूनां रक्षणाय बिभर्षि हि ।
इयं न नाशिता दुष्टा स्वैरिणी रुपगर्विता ।। २२ ।।
कथं मम शरीरं तत् कांचनस्पर्द्धि सुंदरम् ।
इवामवस्थां संप्राप्तः केन वा दुष्टकर्मणा ।।२३ ।।
तव भक्ति यथा पूर्वं सदा कुर्वे यथाविधि ।
त्वदन्यं नैव शरणं यामि नाथ गजानन ।।२४।।
नेदं शरीरं वक्त्रं वा दर्शयिष्ये जनं प्रति ।
प्रायोपवेशनेनेदं शोषयिष्ये कलेवरम् ।।२५।।
निश्चित्यैवं नरपतिरास न्यग्रोधसन्निधौ ।
भृत्या इतस्ततो धावन्नेक्षन्ते स्म च तं नृपम् ।।२ ६।।
प्रवृत्तायां निशायां च जग्मुः स्वं स्वं निकेतनम् ।
स्वामि सेवकयोर्जाता गतिश्चक्राह्वयोरिव ।। २७।। ( १०८४)
इति श्रीगणेशपुराणे उपासनाखंडे प्रायोपवेशनं नामाष्टाविंशतितमोऽध्यायः ।।२८।।
मुनिरुवाच ।।
तस्मिन्वटे समासीनः कस्मिश्चिद्दिवसे नृपः ।
दूराद्ददर्श देवर्षि नारदं मुनिपुंगवम् ।। १ ।।
ननाम प्रार्थयामास क्षणं विश्राम्यतामिति ।
उत्ततार नभोमार्गान्नारदः करुणानिधिः ।।२।।
पूजयित्वा यथाशक्ति प्रपच्छ मुनिमादरात् ।
अहं रुक्मांगदो नाम भीमपुत्रो महाबलः ।।३ ।।
मृगयां व्यचरन्वाचक्नवेराश्रममागतः ।
जलयाच्चा कृता तत्र तृषितेन मयाऽनघ ।।४।।
तस्य पत्नी भृशं नष्टा कामार्ता मामचुंबत ।
तस्मिन्मुनौ गते स्नातुं दुष्टभावेन चेतसा ।।५।।
उवाच मां भजस्वेति कामबाण प्रपीडिता ।
जितेन्द्रिय तया देव प्रसादात्सा निराकृता ।।६।।
अशपद् दुःखिताऽत्यन्तं सा मां निष्ठुर चेतसा ।
कुष्ठी भव महादुष्ट सकामां त्यजसे यतः ।।७।।
श्रुत्वैवं नष्टवचनं निर्गतोऽहं तदाश्रमात् ।
श्वेतकुष्ठी तदा जातो वद मे निष्कृतिं मुने ।।८।।
वियोगान्मम भीमोऽपि मग्नः स्याद् दुःखसागरे ।
श्रुत्वेत्थं वचनं तस्य नारदः प्राह विश्ववित् ।।९।।
उपायं तस्य कुष्ठस्य नाशाय करुणायुतः ।
नारद उवाच ।।
आगच्छता मया मार्गे दृष्टमाश्चर्यमुत्तमम् ।। १.२९.१०।।
विदर्भे नगरं ख्यातं कदम्बमिति संज्ञया ।
तत्प्रासादे मया दृष्टा मूर्ति वैनायकी शुभा ।। ११ ।।
चिंतामणिरिति ख्याता सर्वेषां सर्वकामदा ।
तस्याग्रतो महाकुंडं गणेश पदपूर्वकम् ।। १२ ।।
कश्चिच्छूद्रो महाकुष्ठी जराजर्जरितो नृप ।
तीर्थयात्रा प्रसंगेन कदम्बपुरमागतः ।। १३ ।।
गणेशकुंडे स्नात्वैव दिव्यदेहमवाप सः ।
विनायकस्वरूपैस्तु गणैरानतितम्बरात् ।। १४।।
विमानवरमारुह्य स गतः स्थानमुत्तमम् ।
यत्र गत्वा न शोचन्ति न पतन्ति पुनः क्वचित् ।। १ ५।।
दृष्टो मयैव राजेन्द्र तत्र स्नानाय सांप्रतम् ।
स्नात्वा देवं समभ्यर्च चिन्तितार्थप्रदं विभुम् ।। १ ६।।
देहि दानानि विप्रेभ्य सद्यः पूतो भविष्यसि ।
जीर्णां त्वचं परित्यज्य सुरूपी भुजगो यथा ।। १७।।
ब्रह्मोवाच ।।
इति वाणीं नारदोक्तां निशम्य नृपसत्तम ।
न किंचिदुक्तवान् वाक्यं मग्न आनंदसागरे ।। १८।।
गंतुं समुद्यते तस्मिन्नारदे मुनिपुंगवे ।
प्रणिपत्य ततोऽपृच्छत् प्रपूज्य च मुनिं पुनः ।। १ ९।।
रुक्मांगद उवाच ।।
तस्मिन्क्षेत्रे पुरा केन सिद्धिः प्राप्ता शुभानघ ।।१.२९.२० ।।
मूर्तिश्च स्थापिता केन मणिरत्नमयी शुभा ।
वैनायकीति मे शंस परं कौतूहलं मुने ।।२ १ ।।
भवादृशानां साधूनां परोपकरणे मतिः ।
अन्यथा भ्रमणे कृत्यं न लोकेषु प्रदृश्यते ।।२ २।।
लोकेषु वर्षते मेघः शेषेण ध्रियते धरा ।
उपकाराय सूर्योऽपि भ्रमते हर्निशं द्विज ।।२ ३ ।।
समस्य सर्वभूतेषु सर्वज्ञस्य तवाग्रतः ।
अनभिज्ञेन मूढेन किं वक्तव्यं दयानिधे ।।२४।।
पृच्छे तथापि देवर्षे संशयच्छेदनाय वै ।
नारद उवाच ।।
साधु पृष्टं त्वया भूप लोकानुग्रहकारक ।। २५ ।।
तृप्तोहं तव वाक्येन सर्वं च कथयामि ते ।। २६।। ( १११०)
इति श्रीगणेशपुराण उपासनाखंडे नारदागमनं नामैकोनत्रिंशोऽध्यायः ।।२ ९।।
अध्याय ३० प्रारंभः –
नारद उवाच ॥
कदाचिदमरावत्यां शक्रं दृष्टुं गतोऽस्म्यहम् ।
स मां संपूज्य विधिवदुवाचावनतो भृशम् ॥१॥
इन्द्र उवाच ॥
किंचिदाश्चर्यभूतं मे संतोषाय मुने वद।
भ्रमसे सर्वलोकांस्त्वं विदितं सर्वमस्ति ते ॥२॥
नारद उवाच ॥
मृत्युलोके मया दृष्टो गौतमस्याश्रमो महान् ।
नाना वृक्षलताजालैर्नानाक्षिगणैर्युतः ॥३॥
अहिल्यासहितं तत्र गौतमं दृष्टवानहम् ।
रूपं विलोक्य तस्यास्तु जातोऽहं कामविह्वलः ॥४॥
यस्या रूपेण सावित्री शची लक्ष्मी गिरीन्द्रजा।
उर्वशी मेनका रम्भा लोके ख्याता तिलोत्तमा ॥५॥
केशाबाला ययाऽकारि साऽनसूयाऽप्यरून्धती।
छाया संज्ञा रवेर्भार्या कश्यपस्य च याऽदितिः ॥६॥
सदृशी नैव काऽपिस्यान्नागपत्नीषु वा क्वचित् ।
न च मे रोचते गानं न पूजा न च भोजनम् ॥७॥
ब्रह्मचर्य च मे स्वीयं निद्रां च न लभे क्वचित् ।
त्वरावानहमायातो दृष्टुं साध्वमरावतीम् ॥८॥
तुच्छां पश्य इमां देवीं विना ताममरावतीम् ।
नारद उवाच ॥
इति शक्रं ब्रुवन्नन्तर्हितोऽहं नृपते वर ॥९॥
अन्तर्हिते मयि तदा मद्वाक्यं मनसा स्मरन् ।
जम्भभेदी मत्सकेतु विद्धो मूर्छामवाप सः ॥१.३०.१०॥
पश्ये कदा मुनेर्भार्यां गौतमस्येत्य चिन्तयत् ।
कदाऽधरामृतं प्राप्य मुच्येयं मदनानलात् ॥११॥
जीवितुं नैव पश्येऽन्यं तदाश्लेषं विना शुभम् ।
एवं निश्चित्य संकल्पं गौतमोऽभूत्स जम्भहा ॥१२॥
चितयन्नेव तां मार्गे मुनेराश्रममाययौ।
ददर्श तामहल्यां तु स्नातुं याते स गौतमे ॥१३॥
अभ्यंतरगतः प्रोचे प्रिये शय्यां शुभां कुरु ।
सा चोवाच जपं त्यक्त्वा कथमद्यागतो गृहम् ॥१४॥
दिवैव सुरतेच्छां किं कुरुषेऽतिविगर्हिताम् ।
गौतम उवाच ॥
अहं स्नातुं गतो यावत्तावद्देवा वराप्सराः ॥१५॥
तत्रैव स्नातुमायाता जाता नग्नाऽक्षिगोचरा ।
बिम्बाधरा सुचार्वंगी चारुपीन पयोधरा ॥१६॥
न लग्नं मे मनो देवि जपे कामास्त्र पीडितम्।
ततोऽहमाश्रमं यातो रति देहि प्रियेऽधुना ॥१७॥
नोचेत्कामाग्निना दग्धं मृतं मां क्व नु पश्यसि ।
शपे त्वां प्रव्रजिष्ये वा निग्रहीष्ये मनोभृशम् ॥१८॥
अहल्योवाच ।
स्वाध्यायं देवपूजां च त्यक्त्वा किं प्रार्थ्यते रतिः ।
नोचितं तव ब्रह्मर्षे तथाऽप्याज्ञां करोम्यहम् ॥१९॥
भर्तुः शुश्रूषणादन्यो धर्मो नास्ति स्त्रियाः क्वचित् ।
नारद उवाच ।
स्वराकृति स्वभावैः सा ज्ञात्वा तं स्वामिनं निजम् ॥१.३०.२०॥
विवेश शयने रन्तुमहल्या सह वज्रिणा।
निःशंकं चुम्बनाश्लेष नीवीविस्रंसनादिभिः ॥२१॥
आकृत्या गौतमस्यैवं चिक्रीडे जम्भहा तया।
दिव्यान्गन्धानुपाघ्राय चकिता शंकिता भृशम् ॥२२॥
तर्कयामास मनसि किमयं कूटरुपवान् ।
कलंकोऽयं मम भृशं चन्द्रस्येव भवेन्नु किम् ॥२३॥
उभे कुले मे नष्टे किं दुष्टस्यास्य तु संगमात् ।
दर्शयिष्ये कथं लोकेऽयशःश्यामं मुखं त्विदम् ॥२४॥
नयिष्यति गतिं कां मे प्रियो भर्ता तु मां मुनिः।
पप्रच्छ तं शठं कोपात् कोऽसि त्वं कूटरुपधृक् ॥२५॥
विश्वस्ता स्वामिरूपेण वद नो चेच्छपामि ते ।
इत्युक्तः शापभीतोऽसा आविश्चक्रे निजं वपुः ॥२६॥
दिव्याभरण संयुक्तं किरीट कटकान्वितम् ।
कुंडलाद्भुत दीप्ताभिर्विलसन्मुखपंकजम् ॥२७॥
उवाच स ततस्तां तु विद्धि मां त्वं शचीपतिम्।
लावण्यदर्शनात्तेऽहं विह्वलो मदनाग्निना ॥२८॥
न लेभे कुत्रचिच्छर्म तत इत्थं कृतं मया।
इतोऽपि मां भजस्व त्वं त्रैलोक्येश्वरमादरात् ॥२९॥
श्रुत्वेत्थं वचनं तस्य मुनिपत्नी रुषान्विता।
वमन्तीव मुखाज्ज्वालां जगाद त्रिदशाधिपम् ॥१.३०.३०॥
अस्य ते वपुषो मूढ मद्भर्तरि समागते।
अवस्था का भवेन्मन्द न जानेऽहं शतक्रतो ॥३१॥
पातिव्रत्यं त्वया भग्नं दुष्ट पापीयसा मम ।
कामवस्थां गमिष्यामि शापाद् गौतमवाग्भवात् ॥३२॥ (११४२)
इति श्रीगणेशपुराण उपासनाखंडेऽहल्याधर्षणं नाम त्रिंशतितमोऽध्यायः ॥३०॥