प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २८ गणेशपुराणम्/खण्डः १ (उपासना खण्डः)
अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →

मुनिरुवाच ।।
तस्मिन्वटे समासीनः कस्मिश्चिद्दिवसे नृपः ।
दूराद्ददर्श देवर्षि नारदं मुनिपुंगवम् ।। १ ।।
ननाम प्रार्थयामास क्षणं विश्राम्यतामिति ।
उत्ततार नभोमार्गान्नारदः करुणानिधिः ।।२।।
पूजयित्वा यथाशक्ति प्रपच्छ मुनिमादरात् ।
अहं रुक्मांगदो नाम भीमपुत्रो महाबलः ।।३ ।।
मृगयां व्यचरन्वाचक्नवेराश्रममागतः ।
जलयाच्चा कृता तत्र तृषितेन मयाऽनघ ।।४।।
तस्य पत्नी भृशं नष्टा कामार्ता मामचुंबत ।
तस्मिन्मुनौ गते स्नातुं दुष्टभावेन चेतसा ।।५।।
उवाच मां भजस्वेति कामबाण प्रपीडिता ।
जितेन्द्रिय तया देव प्रसादात्सा निराकृता ।।६।।
अशपद् दुःखिताऽत्यन्तं सा मां निष्ठुर चेतसा ।
कुष्ठी भव महादुष्ट सकामां त्यजसे यतः ।।७।।
श्रुत्वैवं नष्टवचनं निर्गतोऽहं तदाश्रमात् ।
श्वेतकुष्ठी तदा जातो वद मे निष्कृतिं मुने ।।८।।
वियोगान्मम भीमोऽपि मग्नः स्याद् दुःखसागरे ।
श्रुत्वेत्थं वचनं तस्य नारदः प्राह विश्ववित् ।।९।।
उपायं तस्य कुष्ठस्य नाशाय करुणायुतः ।
नारद उवाच ।।
आगच्छता मया मार्गे दृष्टमाश्चर्यमुत्तमम् ।। 1.29.१०।।
विदर्भे नगरं ख्यातं कदम्बमिति संज्ञया ।
तत्प्रासादे मया दृष्टा मूर्ति वैनायकी शुभा ।। ११ ।।
चिंतामणिरिति ख्याता सर्वेषां सर्वकामदा ।
तस्याग्रतो महाकुंडं गणेश पदपूर्वकम् ।। १२ ।।
कश्चिच्छूद्रो महाकुष्ठी जराजर्जरितो नृप ।
तीर्थयात्रा प्रसंगेन कदम्बपुरमागतः ।। १३ ।।
गणेशकुंडे स्नात्वैव दिव्यदेहमवाप सः ।
विनायकस्वरूपैस्तु गणैरानतितम्बरात् ।। १४।।
विमानवरमारुह्य स गतः स्थानमुत्तमम् ।
यत्र गत्वा न शोचन्ति न पतन्ति पुनः क्वचित् ।। १ ५।।
दृष्टो मयैव राजेन्द्र तत्र स्नानाय सांप्रतम् ।
स्नात्वा देवं समभ्यर्च चिन्तितार्थप्रदं विभुम् ।। १ ६।।
देहि दानानि विप्रेभ्य सद्यः पूतो भविष्यसि ।
जीर्णां त्वचं परित्यज्य सुरूपी भुजगो यथा ।। १७।।
ब्रह्मोवाच ।।
इति वाणीं नारदोक्तां निशम्य नृपसत्तम ।
न किंचिदुक्तवान् वाक्यं मग्न आनंदसागरे ।। १८।।
गंतुं समुद्यते तस्मिन्नारदे मुनिपुंगवे ।
प्रणिपत्य ततोऽपृच्छत् प्रपूज्य च मुनिं पुनः ।। १ ९।।
रुक्मांगद उवाच ।।
तस्मिन्क्षेत्रे पुरा केन सिद्धिः प्राप्ता शुभानघ ।।1.29.२० ।।
मूर्तिश्च स्थापिता केन मणिरत्नमयी शुभा ।
वैनायकीति मे शंस परं कौतूहलं मुने ।।२ १ ।।
भवादृशानां साधूनां परोपकरणे मतिः ।
अन्यथा भ्रमणे कृत्यं न लोकेषु प्रदृश्यते ।।२ २।।
लोकेषु वर्षते मेघः शेषेण ध्रियते धरा ।
उपकाराय सूर्योऽपि भ्रमते हर्निशं द्विज ।।२ ३ ।।
समस्य सर्वभूतेषु सर्वज्ञस्य तवाग्रतः ।
अनभिज्ञेन मूढेन किं वक्तव्यं दयानिधे ।।२४।।
पृच्छे तथापि देवर्षे संशयच्छेदनाय वै ।
नारद उवाच ।।
साधु पृष्टं त्वया भूप लोकानुग्रहकारक ।। २५ ।।
तृप्तोहं तव वाक्येन सर्वं च कथयामि ते ।। २६।। ( १११०)
इति श्रीगणेशपुराण उपासनाखंडे नारदागमनं नामैकोनत्रिंशोऽध्यायः ।।२ ९।।