गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ३१-३५

← अध्यायाः २६-३० गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायाः ३१-३५
[[लेखकः :|]]
अध्यायाः ३६-४० →

अध्याय ३१ प्रारंभ : -
रूक्मांगद उवाच ।
आगते गौतमे को वा वृत्तान्तोऽभून्महामुने ।
वद मे सकलं तं तु जिज्ञासा महती मम ॥१॥
नारद उवाच ।
नित्यकर्म समाप्यैव स्वाश्रमं गौतमो ययौ।
आकार्यं निजपत्नीं तां देहि पादोदकं मम॥२॥
किमर्थं नागताऽद्य त्वं संमुखं मम पूर्ववत् ।
नानीतमासनं कस्मात्कथं चाटु न भाषसे ॥३॥
श्रुत्वेत्थं वचनं तस्य वेपमाना लतेव सा ।
अधोमुखी विनिर्गम्य मुहुर्तान्मुनिमाययौ ॥४॥
साष्टांगं पतिता भूमौ तत्पादौ परिमस्तका ।
विह्वला शापभीता सा शनैरथ जगौ मुनिम् ॥५॥
उषसि त्वं प्रयातोऽसि स्नानं कर्तुं निजं विधिम् ।
तवरूपधरो दुष्टो देवेन्द्रो मामुवाच ह ॥६॥
दृष्टा वराऽप्सरोभ्योऽपि सुंदरी कामिनी मया ।
न मे मनो जपे दैवे विधौ नित्ये स्थिरं भवेत् ।
परावृत्यागतस्तस्माद्रतिं मे देहि शोभने ॥७॥
त्वमेवेति मया भान्त्या कृतं वाक्यं तथैव तत् ।
दिव्यगन्धानुपाघ्राय विकल्पो मेऽभवत्पुनः ॥८॥
दुरात्मन् कोऽसि नो ब्रूहि नोचेद्भस्म भविष्यसि ।
इति शापभयाज्जातः प्रकटो बलसूदनः ॥९॥
तावदेव भवद्वाक्यं श्रुतं तु मुनिसत्तम ।
लज्जयाऽनागता शीघ्रमपराधं क्षमस्व मे ॥१.३१.१०॥
स्वयं निवेदनेऽदोषो दोषोऽपर निवेदने ।
मन्त्रायुर्गृहरुध्रश्री रतयश्चौषधानि च ॥११॥
मानापमान दानानि प्रकटानि न कारयेत् ।
इत्थं निशम्य स मुनिः कोपव्याकुलितेन्द्रियः ॥१२॥
शशाप वनिनां स्वीयां दुःशीलां त्वं शिला भव ।
नाज्ञासीर्मे स्वरुपं तं स्वभावं चेष्टितानि च ॥१३॥
परे पुंसि निमग्नं ते यतश्चेतोऽतिकामुके ।
यदा दाशरथी रामो भमद्राजा वने वने ॥१४॥
तस्यांघ्रिस्पर्शनादेव स्वं रुपं प्रतिपत्स्यसे ।
नारद उवाच ।
तदैव सा शिला जाता तपोनिधी वचोबलात् ॥१५॥
तस्या शापं समाकर्ण्य चकम्पे पाकशासनः ।
प्रकम्पनस्य संयोगाद्धिमवत् पर्वतो यथा ॥१६॥
तर्कयामास मनसि कथं कार्यं मयाऽधुना।
समुद्रमध्ये कूपे वा तडागे कमलेऽथवा ॥१७॥
लीनो भूत्वा तदा स्थास्ये तदा ज्ञास्यति मां मुनिः ।
अतो बिडालरूपेण विचचार स वज्रभृत ॥१८॥
गौतमस्तमचक्षाणो गृहे द्वारि तथाश्रमे ।
क्व गतो दानवरिपुर्यो मे भार्याविदूषकः ॥१९॥
ध्यानेन बुबुधे तं तु क्षणेन मुनिसत्त्मः ।
न ते भस्म करिष्यामि देवेन्द्रोऽसि यतः खलः ॥१.३१.२०॥
शपामि त्वां शचीभर्तः सहस्रभगवान्भव ।
श्रुतवान्वचनं यावद्रोषेण मुनिनेरितम् ॥२१॥
तावद्ददर्श स्वं देहं सहस्रभग चिह्नितम् ।
ततो दुःखार्णवे मग्नः शुशोच बलवृत्रहा ॥२२॥
इन्द्र उवाच ।
अहं शिक्षापितो वृद्धैर्नाना धर्माननेकशः ।
वृद्धानां वचनं यन्मे न विचारितमादरात् ॥२३॥
स्व बुद्धीर्हितकृत्सर्वा विनाशाय परेरिता ।
गुरोर्गरीयसी बुद्धिः क्षयदा कामिनीमतिः ॥२४॥
कुतो नारदवाक्येन यातोऽहं तामनिंदिताम् ।
देवराजो भवन्नास्यं लोकानां दर्शये कथम् ॥२५॥
दिव्यदेहो गतः क्वाद्य निजभार्यां वदे नु किम् ।
धिङ्ग्मां च धिक्स्मरं येन प्रापितो गर्हितां दशाम् ॥२६॥
प्राणिभिर्भुज्यते कर्म शुभं वा यदि वाऽशुभम् ।
तिर्यग् योनिं समासाद्य क्षपयिष्येऽघमात्मनः ॥२७॥
नलिनी कुड्मले तिष्ठे हीन्द्र गोपकरूपधृक । ॥२८॥ (११७०)
इति श्रीगणेशपुराण उपासनाखंडे शक्रशापवर्णनं नामैकत्रिंशतितमोऽध्यायः ॥३१

अध्याय ३२ प्रारंभ :-
नारद उवाच ।
शक्रे तु नलिनीं याते तत्पुरं त्वहमागतः ।
बृहस्पतिपुरोगांस्तांस्तत्रापश्यं स्थितान् सुरान् ॥१॥
तेभ्यो ह्यकथयं सर्वमुभयोः शापकारणम् ।
अहल्याया महेन्द्रस्य संयोगं च विरूपताम् ॥२॥
सहस्रभगतां यातः शक्रो गौतमशापतः ।
अहल्याधर्षणाद्देवास्तत्संगात्सा शिलाऽभवत् ॥३॥
ब्रह्मोवाच ।
श्रुत्वा ते नारदोक्तं तत् सर्वे देवाः शुचान्विताः।
अतिदुःखाद्रुदन्तस्ते निश्वासोच्छवास विभ्रमैः ॥४॥
देवा ऊचुः ।
येनाकारि शतं यज्ञा दानवा येन निर्जिताः ।
त्रैलोक्यं पालितं येन भुक्तमैन्द्रं पदं शुभम् ॥५॥
पूजिता बहवो देवा ब्राह्मणा ब्रह्मवित्तमाः ।
भुक्ता नानाविधा भोगा अन्येषामतिदुर्लभाः ॥६॥
कुत्र स्थास्यत्यसौ देवो भोक्ष्यते स्वप्स्यते कथम् ।
कमद्य शरणं यामः स्वकृते तत्कृतेऽपि वा ॥७॥
पालयिष्यति कांऽस्मान्वै पदमैन्द्रं शचीं तथा ।
कथं प्रसन्नतां यायाद् गौतमो मुनिसत्तमः ॥८॥
स्वीयभार्या वियुक्तःसंस्तत्कृतागः स्मरन् रूषा ।
अन्योपायं न पश्यामो गौतमस्य प्रसादतः ॥९॥
तस्मान्नारद यास्यामो गौतमं सान्वितुं मुनिम् ।
एवं ते निर्ययुर्देवा नारदेन समन्विताः ॥१.३२.१०॥
गौतमं ते समासाद्य बद्धांजलिपुटा मुनिम् ।
तुष्टवुर्विविधैर्वाक्यै स्तमेव शरणं गताः ॥११॥
देवा ऊचुः ।
तव प्रभावं वक्तुं नो मुने शक्तिर्न विद्यते ।
गरिमाणं वदेत् को नु मेरोर्हिमवतोऽपि च ।
वृष्टिधारा रजो भूमेर्गंगायाः सिकता अपि ॥१२॥
कमम्बुधेर्गुणान्विष्णोर् गणयेत्को नु मूढधीः ।
प्रातरेवोप्तबीजानां मध्याह्ने सस्यसंपदः ॥१३॥
संपादितास्त्वया पूर्वमविता ऋषिसत्तमाः।
वालखिल्यैर्यजिं कृत्वा पर इन्द्रो विनिर्मितः ॥१४॥
ब्रह्मादिभिः प्रार्थितास्ते पक्षिणां तमकल्पयन् ।
पयसां निधिरेकेन प्राशितश्चुलकेन यत् ॥१५॥
अपरा सृष्टिरारब्धा गाधिपुत्रेण धीमता ।
स्तम्भितो भुज इन्द्रस्य च्यवनेन महात्मना ॥१६॥
तस्मात्सर्वात्मना पुंसां भवतां सेवनं नतिः ।
दर्शनं भाषणं पूजा स्पर्शनं पापनाशनम् ॥१७॥
उपकारेरतानां च दीनानुग्रहकारिणाम् ।
इन्द्रार्थे शरणं यातान्कृपां कर्तुं त्वमर्हसि ॥१८॥
गौतम उवाच ।
भवतां दर्शनं चर्मचक्षुषां नैव जायते ।
मम पुण्येन जातं तत् कामसंपादनं नृणाम् ॥१९॥
जन्माश्रम तपोदानं देह आत्मा व्रतानि च ।
सार्थकानी क्षणेनैव जातानि भवतां खलु ॥१.३२.२०॥
इदानीं प्रार्थितं किं वस्तन्निरुप्यं ममाग्रतः ।
शक्यं चेत्तत् करिष्येऽहं भवत्स्मृतिबलेन तत् ॥२१॥
मुनिरुवाच ।
इति तद्वचनं श्रुत्वा जहृषुस्ते दिवौकसः ।
चन्द्रोदये यथा हर्षं प्राप्नोति जलधिः स्फुटम् ॥२२॥
यथा वा बालभाषाभिः पितरौ मुदमीयतुः ।
प्रार्थनां चक्रिरे सर्वे गौतमं तं महामुनिम् ॥२३॥
देवा ऊचुः ।
ईश्वरस्यापराधेन कामो भस्मत्वमागतः ।
आगस्कारी त्वया शक्रो न च प्राणैर्वियोजितः ॥२४॥
इदानीं स यथास्थानं स्वकीयं प्राप्नुयान्मुने ।
क्षमित्वा तस्य चागांसि सर्वेषां वचनाद्धि नः ॥२५॥
कृते तस्मिन्प्रसादे तु सर्वेषां वांछितं भवेत् ।
नारद उवाच ।
श्रुत्वा देवसमूहस्य वचनानि स गौतमः ॥२६॥
प्रहस्य प्रत्युवाचेदं सर्वान् देवगणान्प्रति ।
गौतम उवाच ।
नामापि तस्य न ग्राहयं पतितस्य कृतागसः ॥२७॥
कपटस्य शठस्यापि दुष्टस्याप्यविवेकिनः ।
अनुतापविहीनस्य निष्कृतिर्नैव विद्यते ॥२८॥
तथापि भवतां वाक्यात्करिष्ये तत्प्रियं सुराः ।
भवन्तोऽपि यदा रुष्टास्तदा शापः पतेन्ययि ॥२९॥
पूतो भवति जन्तुर्हि बहुभिर्यो ऽनुगृह्यते ।
अत एकं वदे मन्त्रं तस्मै तं प्रदिशन्तु च। ॥१.३२.३०॥
सर्वकर्ता सर्वहर्ता सर्वपाता कृपानिधिः ।
विनायको देवदेवो ब्रह्मविष्णुशिवात्मकः ॥३१॥
षडक्षरस्तस्य मन्त्रो महासिद्धि प्रदायकः।
उपदेशे कृते तस्य दिव्यदेहो भवेत्तु सः ॥३२॥
भगानि तस्य यावन्ति तावन्नेत्रो भविष्यति ।
स्वराज्यं प्राप्स्यते शक्र इति सत्यं वदामि वः ॥३३॥
अभिधाय सुरानित्थं तूष्णीमासीत्स गौतमः।
तं च ते पूजयित्वा तु नमश्चक्रुर्मुदान्विताः ॥३४॥
प्रदक्षिणीकृत्य पुनः प्राप्यानुज्ञां ययुः सुराः ।
प्रशंसन्तो मुनिं तत्र यत्रास्ते बलवृत्रहा ॥३५॥
गौतमा ज्ञानसंपन्नात् सात्विकोऽन्यो न वर्तते ॥३६॥ (१२०६ )
इति श्रीगणेशपुराण उपासनाखंडे मन्त्रकथनं नाम द्वात्रिंशोऽध्यायः ॥३२॥

अध्याय ३३ प्रारंभः –
नारद उवाच । ऊचुर्देवा वृत्रहणं बहिर्याहि शतक्रतो।
वयं हि सहितास्तत्र नारदेन सुरर्षिणा ॥१॥
तं गत्वा गौतममुनिं प्रसाद्य त्वामिहागताः ।
उपायस्तेन कथितो वरो दत्तस्तवापि च ॥२॥
दोषे जाते स्वयं सन्तः ख्यापयन्ति जनेषु तम् ।
तत्र प्रतिविधिं सम्यक्कुर्वन्ति तन्निरर्थकम् ॥३॥
आच्छादने दोषवृद्धिः ख्यापने तु लये भवेत् ।
तस्मात्त्वमपि देवेन्द्र बहिरागत्य तं वद ॥४॥
देवर्षिं प्रति तं ब्रूहि कुरूपायं मुनीरितम् ।
वैनायकं महामन्त्रं गृहाण त्वं षडक्षरम् ॥५॥
ब्रह्मा ददर्श चांगुष्ठुं विवाहे गिरिजेशयोः ।
चस्कन्द स तदा रेतो लज्जितोऽवाङ्मुखो गतः ॥६॥
ज्ञात्वा महेशः कृतवान्निर्दोषं तमुपायतः ।
इति वाणीं स श्रुत्वैव देवर्षिगणनिर्मिताम् ॥७॥
आजगाम बहिः शक्रो नलिनीकोशतो नृप।
सर्वेषां तत्र देवानां श्रुत्वा वाक्यानि सादरम् ॥८॥
पूयशोणितदिग्धांगो मलिनः पूतिगन्धवान् ।
दृष्ट्वा तथाविधं देवा नेमुः सर्वे सुरेश्वरम ॥९॥
आच्छाद्य घ्राणरन्ध्राणि वस्त्राग्रैर्नृपसत्तम ।
सुस्नातं पुनराचान्तं तमिन्द्रं वाक्पतिस्तदा ॥१.३३.१०॥
षडक्षरं महामन्त्रं गणेशस्योपदिष्टवान् ।
उपदेशे कृते तेन दिव्यदेहोऽभवच्च सः ॥११॥
सहस्रनयनः श्रीमान्बभौ सूर्यं इवाकरः ।
ततो वाद्यनिनादैश्च जयशब्र्दैर्दिवौकसाम् ॥१२॥
गन्धर्वाणां गानरवैर्नादिता विदिशो दिशः ।
मुमुचुः पुष्पवर्णाणि सर्वे देवा मुदान्विताः ॥२३॥
आशिषोऽथ ददुः सर्वे मुनयो नारदादयः ।
आलिलिंगुर्मुदा देवास्तुष्टुवुश्चापरे च तम् ॥१४॥
केऽप्यूचुस्तं सुमनसः सनाथा हि वयं त्वया ।
विना त्वां नैव शोभामो विना चंद्रं नभो यथा ॥१५॥
विना स्वपितरौ बाला न सुखं यान्ति सर्वथा।
तथा विना वयं त्वां हि लभामः शर्म न क्वचित् ॥१६॥
मुनिरुवाच ।
श्रुत्वेत्थं देववचनं जहर्ष च शतक्रतुः ।
उवाच च प्रसन्नात्मा तथ्यं वाक्यं सुरान्प्रति ॥१८॥
इन्द्र उवाच ।
मया कृतं कर्म सुदुष्करं यद् देवर्षिवाक्येन विमोहितेन ।
लब्धं फलं दुःसहमद्य सर्वैरुद्धारितोऽहं दुरितप्रकोपात् ॥१८॥
नमामि सर्वानमरप्रबर्हाँनृषींश्च सर्वान् सुगुरु प्रभावान् ।
उद्धर्तुमात्मानमतोऽखिला मां, संत्रातुमर्हाः शरणं प्रपन्नम् ॥१९॥
कथं प्रयत्नो रचितो भवद्भिः, प्रसादनायास्य हि गौतमस्य ।
कथं नु मन्त्रं परमं मदर्थे, स उक्तवांस्तत् कथयन्तु सर्वे ॥१.३३.२०॥
देवा ऊचुः ।
मुनिं पुरस्कृत्य गुरुं वयं च, गता मुनिं तं प्रणिपत्य सम्यक् ।
प्रसादितो वागमृतैर्विचित्रैः , स याच्यमानोऽप्यवदत् स्वमन्त्रम् ॥२१॥
यस्योपदेशेन सहस्रनेत्रो, जातो भवान्सर्व सुखाय देव ।
प्रयाहि देव त्वमरावतीं स्वां, प्रशाधि सर्वान् विबुधांश्च लोकान् ॥२२॥
इन्द्र उवाच ।
नाहं प्रयास्ये स्वपुरीं प्रसादं, विना गणेशस्य सुरर्षिवर्याः ।
व्रजन्तु यूयं कृतसाधुकृत्या, धामानि दिव्यानि मुदा रमन्तः ॥२३॥
एतावताऽलं प्रकटीकृतोऽहं, लज्जाविलीनो बहुदुर्गतिश्च ।
प्रसादितो यन्मुनिरुग्रतेजा, भवत् प्रसादाद् बहुनेत्रता मे २४ (१२३०)
इति श्रीगणेशपुराण उपासनाखंडे त्रयस्त्रिंशतितमोऽध्यायः ॥३३॥

अध्याय ३४ प्रारंभ :-
नारद उवाच ।
कदंबवृक्षस्य तले निधाय, नासाग्रदृष्टिं परमासने सः ।
मनो निरुध्याथ जजाप मन्त्रं, षडक्षरं जम्भरिपुर्नरेन्द्र ॥१॥
सहस्रवर्षाणि गतानि तस्य, मरुत्पते मारुत भक्षणस्य।
वल्मीक गुल्मानि शरीरदेशे, जातानि वै भूधरवस्थिरस्य ॥२॥
ततः प्रसन्नो भगवान् गणेशो, यः सर्वगः सर्वविदुर तेजाः ।
स्वतेजसा बह्वि शशीनतेजां, स्याच्छादयन्सर्व विलोचनानि ॥३॥
चतुर्भुजो रत्नकिरीट माली, चावंगदः कुंडलमंडिगंड: ।
मुक्तामयं दाम च नूपुरे च, बिभ्रन् महा कटिसूत्रमुच्चैः ॥४॥
यः पुष्कराक्षः पृथु पुष्करोऽपि, बृहत्करः पुष्करशालिमालः ।
आविर्बभूवाखिल देवमूर्तिः सिन्दूरशालि पुरतो मथोनः ॥५॥
तं दृष्ट्वा भयभीतोऽभूत् किमिदं किमिवागतम् ।
कथं च जीवितं मे स्यादस्थिप्राणमयस्य च ॥६॥
विघ्नोऽयं किं महानद्य न जाने केन निर्मितः ।
स्वेदस्रावि शरीरं मे कम्पते बोधिपत्रवत् ॥७॥
इत्थं विक्लवितं तस्य बुबुधेऽखिलदृग्विभुः ।
विनायको महेन्द्रं तमुवाच मंजुलं वचः ॥८॥
विनायक उवाच ।
मा भयं कुरु देवेश मां न वेत्सि कथं सुर ।
यन्निर्गुणं निर्विकारं चिदानन्दं सनातनम् ॥९॥
कारणातीतमव्यक्तं जगत्कारणकारणम् ।
यं ध्यायसि सदा देवं मन्त्रेणानेन निश्चलः ॥१.३४.१०॥
श्रान्तोऽसि बहु कालं त्वम् इति प्रत्यक्षतां गतः ।
तपसाऽनेन तुष्टोऽहं वरं दातुमिहागतः ॥१॥
ब्रह्मांडानामनन्तानामुत्पत्ति प्रलयावनम् ।
मत्त एवेति विद्धि त्वं वृणु यद्वांछसेऽनघ ॥१२॥
नारद उवाच ।
श्रुत्वा तस्य वचो रम्यं बुबुधे बलभेदनः ।
भगवन्ते महाकायं देवदेवं विनायकम् ॥१३॥
ननाम परया भक्त्या तत उत्थाय सत्वरः ।
अवीवदच्छचीकान्तः प्रत्यक्षं ब्रह्मरूपिणम् ॥१४॥
इन्द्र उवाच ।
ब्रह्मादयोऽपि नो देवा विदुस्त्वां सदिगीश्वराः।
गुणांस्तव महाबाहो सष्टिस्थित्यन्तकारिणः ॥१५॥
पदं तु कृत्रिमं मह्यं शतयज्ञसमुद्भवम् ।
दत्तं तत्राप्यन्तराया भवन्ति बहुधा मम ॥१६॥
मया कथं तु विज्ञेयो महिमा ते गजानन ।
यस्य तेऽनुग्रहः पूर्णो भविष्यति महेश्वर ॥१७॥
स एव महिमानं ते जानीयाद्विघ्नकारण ।
तस्य ते गुणरूपाणि वक्तुं शक्तिर्भविष्यति ॥१८॥
निराधारोऽखिलाधारो नित्यज्ञानोऽजरोऽमरः ।
नित्यानन्देन संपूर्णो मायावी क्षर एव च ॥१९॥
अक्षरः परमात्मा च विश्वरूपोऽखिलेश्वरः ।
उग्रैस्तपोभिस्त्वां ज्ञात्वा निर्वृत्ता सनकादयः ॥१.३४.२०॥
षडक्षरप्रभावेण दृष्टोसि परमेश्वर ।
पुराऽयं ब्रह्मणादिष्टो मन्त्रो मेऽनुग्रहेण वै ॥२१॥
उक्तवांश्चैव मां ब्रह्मा यदाऽमुं विस्मरिष्यसि ।
तदैव भ्रश्यसे स्थानाद्दुर्दशां चैव यास्यसि ॥२२॥
नतो मयाऽति लुब्धेन दुर्भाग्यंवशगेन ते।
धर्षिता मुनिपत्नी सा ततो दुर्गतिमाप्तवान् ॥२३॥
पुनश्च धिषणोक्तेन तेन मंत्रेण दृष्टवान् ।
स्वरूपं तव देवेश सहस्रनयनोऽधुना ॥२४॥
अन्यमेकं वरं याचे यतस्त्वं चिन्तितार्थदः।
इदं कदम्बनगरं चिन्तामणिपुरं त्विति ॥२५॥
अनुष्ठानफलं प्राप्तं यत्ते दृढपदाम्बुजम् ।
इदानीं तु वरं याचे यं तं मे देहि विघ्नप ॥२६॥
तव विस्मरणं देव न भवेन्मे तथा कुरु ।
मनो मे रमतां तव पादाम्बुजे विभो ॥२७॥
अद्यप्रभृति लोकेऽस्मिन् ख्यातिं यातु गजानन ।
चिन्तामणीति तीर्थं तु सरश्च प्रथतामिदम् ॥२८॥
अस्मिन्स्नानेन दानेन धर्मकामार्थमुक्तयः ।
जनानां सिद्धयः सन्तु प्रसादात्ते जगद्गुरो ॥२९॥
मुनिरुवाच ।
आकर्ण्य वचनं शाक्रं मेघगंभारनिस्वनः।
उवाच श्लक्ष्णया वाचा विघ्नेशो जगतां पतिः ॥१.३४.३०॥
विनायक उवाच ।
इदं संपत्स्यते सर्वं यत्त्वया प्रार्थितं विभो ।
अन्य एको वरस्तेऽस्तु स्वपदे त्वं स्थिरो भव ॥३१॥
अविस्मृतश्च सततं मम तेऽस्तु सुरेश्वर ।
यदा च संकटं ते स्यात्तदा मां स्मर वासर ॥३२॥
आविर्भावेन ते कार्यं सर्वं संपादयेऽनिशम्।
इदं चिन्तामणिपुरं ख्यातं भुवि भविष्यति ॥३३॥
कदम्बपुरमित्येतत्तीर्थं चिन्तामणीति च ।
अत्र स्नानेन सर्वेषां सिद्धयोऽपि करे स्थिताः ॥३४॥
चिंतितं च प्रदास्यामि चिंतामणिविनायकः।
नारद उवाच ।
एवं वरं ततो लब्ध्वा स्वतःसिंधुमानयद्धरिः ॥३५॥
कृत्वाभिषेकं तद्द्वारा पूजयामास तं विभुम् ।
गजाननं महाभागं परिवारसमन्वितम् ॥३६॥
पूजितः सुरनाथेन तत्रैवान्तर्दधे विभुः ।
स्थापयामास शक्रोऽपि स्फाटिकां मूर्तिमादरात् ॥३७॥
वैनायकीं शुभां दिव्यां सर्वावयवसुंदराम् ।
कारयामास विपुलम् प्रासादं रत्नकांचनैः ॥३८॥
नत्वा प्रदक्षिणीकृत्य शक्रः स्वं पदमभ्यगात् ।
तदेतद्भुवि विख्यातं चिंतामणिसरो महत् ॥३९॥
अद्यापि सा शुभजला गंगा शक्रस्य शासनात् ।
कृत्वाऽभिषेकं तन्मूर्तौ याति स्वं धाम सर्वदा ॥१.३४.४०॥
एवं ते क्षेत्र महिमा कथितोऽद्भुतदर्शनः ।
सर्वदोषहरः श्रीमान् सर्वकामप्रदः शुभ ॥४१॥
तत्र गत्वा महीपाल स्नानं कुरु यथाविधि ।
सर्वदोषविनिर्मुक्तो भविष्यसि न संशयः ॥४२॥
ब्रह्मोवाच ।
ततो ययौ मुनिः शीघ्रमनुपृच्छ्य च तं नृपम् ।
आशीर्भिरभिनन्द्यैव स रुक्मांगदमादरात् । ॥४३॥ (१२७३)
इति श्री गणेशपुराण उपांसनाखंडे चिंतामणितीर्थवर्णनं नाम चतुस्त्रिंशोऽध्यायः ।


व्यास उवाच ।
देवर्षौ तु गते तस्मिन्नृपः किमकरोत्तदा ।
रुक्मांगदो मे कथय कथामेतां मनोरमाम् ।। १ ।।
ब्रह्मोवाच ।
कृत्वोपदेशं सुमहान्तमेव गते मुनौ नारद नाम्नि पुत्र ।
रुक्मांगदो हर्षयुतो ददर्श सेनां स्वकीयां चतुरंगिणीताम् ।।२ ।।
तयाऽपि दृष्टो नृपतिर्विरूपो यः स्वर्णकान्तो रतिभर्तृरूपः ।
आसीत् पुरेत्थं कथमेष जातः, संशय्य पप्रच्छ नृपं निमित्तम् । । ३ ।।
सेनान्य ऊचुः ।
गिरीन्वनानि सरितो भ्रान्त्वा च वयमागतः ।
क्षुत्तृट्परीता राजेन्द्र त्वद्दर्शन समुत्सुकाः ।।४।।
पदे पदे प्रपश्यन्तः संप्राप्तास्ते पदाम्बुजम् ।
इमामवस्थां दृष्टवा ते दुःखाद् दुःखतरं गताः ।।५ ।।
किं निमित्तमभूत्तन्नः कथयस्व नृपोत्तम ।
नृप उवाच ।
अहमग्रे समायातस्तृषितः क्षुधितश्च ह ।। ६। ।
अपश्यं पुरतः शीघ्रं वाचक्नवि गृहाश्रमम् ।
तत्र गत्वा मया दृष्ट्वा तस्य पत्नी शुभानना । ।७। ।
नाम्ना मुकुंदेति शुभा याचिता सा जलं मया ।
सा तु दुष्टा स्वैरिणी च मामुवाचाशुभं वचः ।।८।।
रतिं कुरु मया सार्धं नो चेच्छापं ददामि ते ।
निराकृता मया सा तु बलाच्छुद्धेन चेतसा ।।९।।
तद् भर्तरि गते स्नातुं सा मां दुष्टाऽशपद्रुषा ।
ततस्तु वृक्षमूलेऽहमुपविष्टो हि दुःखितः ।। १.३५.१० ।।
प्रभावात् पूर्वपुण्यस्य दृष्टवान् नारदं मुनिम् ।
तेन मे कथितोऽरिष्टनाशको विधिरुत्तमः ।। ११ ।।
चिन्तामणि क्षेत्रगतो गणेशतीर्थ संश्रितः ।
महिमा कथितस्तेन तस्य तीर्थस्य विस्तरात् ।। १२ ।।
तत्र स्नानं समाख्यातं मुनिना दिव्यचक्षुषा ।
अतः स्नातुं गमिष्यामि स्वदोषस्यापनुत्तये ।। १३ ।।
यान्तु सर्वे मया सार्धं तत्र स्नातुं यदीच्छथ ।
स्नात्वा दत्त्वा यथाशक्ति संपूज्य च विनायकम् ।। १४।।
पूतास्तयोः प्रभावेण यास्यामः स्वपुरं ततः ।
क उवाच ।
इति ते निश्चयं बुद्ध्वा जग्मू राजपुरःसराः।
दृष्टवा तीर्थं गणेशाख्यं दिव्यदेहो बभौ नृपः ।। १५ ।।
तप्तकांचनवर्णाभो यथापूर्वं मुनीश्वर ।
ततो रुक्मांगदो मेने नारदोक्तमृतं वचः ।। १६ ।।
तत्र स्नात्वा ददौ दानान्यनेकानि नृपस्तदा ।
रुक्मांगदो ब्राह्मणेभ्यो मुदा परमया युतः ।। १७। ।
विनायकं पूजयित्वा तेजोराशिं ददर्श सः ।
विमानमर्कप्रतिमं ब्राह्मणाः सेवकाश्च ते ।। १ ८।
विनायकगणैर्जुंष्टमप्सरः किन्नरैर्युतम् ।
नत्वा नृपस्तान् पप्रच्छ के यूयं कुत आगताः ।। १ ९।।
दूताः कस्य किमत्रास्ति कार्यं तद्ब्रूत सादरम् ।
ब्रह्मोवाच –
श्रुत्वा नृपतिवाक्यानि मंजुलानि विमानगा ।।१.३५.२ ० ।।
दूता विनायकस्योचुर्धन्योसि नृपसत्तम ।
येन ते सर्वभावेन ध्यातश्चिंतामणिः प्रभु ।।२ १ ।।
तीर्थयात्रा कृता सम्यग्दानं दत्वा यथाविधि ।
चिन्तामणिः पूजितश्च कृतकृत्योऽसि सांप्रतम् ।।२ २।।
चिन्तितस्य प्रदानाद्धि चिन्तामणिरयं स्मृतः ।
वयं च कृतकृत्याः स्मो दर्शनात्तव सुव्रत ।।२३।।
महिमानं न जानीमस्तव भक्तेर्नृपोत्तम ।
कः येन वचसा बुद्ध्या जीवस्याप्यर्पणेन च ।।२४।।
आराधितास्त्वया देव सर्वब्रह्मांडनायक। ।
विनायकस्तस्य दूतास्तेन च प्रेषिता नृप ।।।२५।।
उत्सुकः स उवाचास्मान् मद्भक्तं शीघ्रयायिनः ।
रुक्मांगदं विमानेन आनयन्तु ममान्तिकम् ।।२६।।
इति श्रुत्वा वयं याता आरोहस्व नभोगमम् ।
याहि शीघ्रतरं देव सहास्माभिर्विनायकम् ।।२७।।
ब्रह्मोवाच ।
इति श्रुत्वा वचस्तेषामाह रूक्मांगदो नृपः ।
क्वाहं मन्दमतिर्दूता क्व चाखंडित विग्रहः ।।२८।।
अप्रमेयेऽप्रतर्क्यश्च चिन्मात्रो विभुरव्ययः ।
सर्गस्थित्यप्ययानां यः कारणं कारणातिगः ।।२९।।
तस्यादरो मयि कथं न जाने तीर्थजं फलम् ।
जन्मान्तरगतं कि मे फलितं पुण्यमुत्तमम् ।। १.३५.३० ।।
तेन वो दर्शनं जातमग्रेऽति फलदं शुभम् ।
यूयं धन्यतरा येषां प्रत्यक्षोऽहर्निशं विभुः ।।३१ ।।
इत्युक्त्वा पूजयामास नत्वा चरणपंकजम् ।
प्रार्थयामास सर्वांस्तान्पिता मम नृपोत्तम ।
ब्रह्मण्यः सत्यवादी च भीमो भीमपराक्रमः ।।३ २।।
विना तं कथमायामि मातरं चारुहासिनीम् ।
तयाऽप्याराधितो देवो देवदेवो विनायकः ।। ३३ ।।
जन्मावधि न चान्यं सा मनुते देवतांतरम् ।
दूत उवाच ।
एवं चेत्तर्हि तीर्थे ऽस्मिन्कुरु स्नानं तयोरपि ।
श्रेयस्तस्मै च तस्य च पित्रे मात्रे प्रदीयताम् ।। ३५ ।।
ततस्तावपि नेष्यामो विमानवरमास्थितौ ।।३ ६।।
ब्रह्मोवाच ।
इति तद् वचनं श्रुत्वा कृत्वा प्रतिकृतिं कुशैः ।
कुशोऽसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः पुरा । ।।३ ७।।
त्वयि स्नाते तु स स्नातो यस्येदं ग्रन्थिबंधनम् ।
एवं मन्त्रं समुच्चार्य सर्वेषामानुपूर्वशः ।।३।।
ग्राम्याणां सर्वलोकानां चक्रे स्नानविधिं नृप ।
चिन्तामणि क्षेत्रगतं तीर्थे गाणेश संज्ञके ।। ३९ ।।
ततो रुक्मांगदो राजा सबलो दूतवाक्यतः ।
विमानवरमारुह्य कौंडिन्यं पुरमाययौ ।।१.३५.४० ।।
वाद्यघोषैर्ब्रह्मघोषैर्गन्धर्वाप्सरसां रवैः ।
नादितं गगनं तेन विमानेन दिशो दश ।।४ १ ।।
मातापितृभ्यां प्रददौ श्रेयो रुक्मांगदो नृपः ।
सर्वेषामेव लोकानां स्नानश्रेयो विनायके ।।४२।।
दत्तमात्रे तु कौशेय स्नानजे श्रेयसि ध्रुवम् ।
विनायकाज्ञयाऽन्यानि विमानानि समाययुः ।।४३ ।।
प्रत्येकं ते समारुढा एकेकं गगनेचरम् ।
एवं रुक्मांगदो भीमस्तन्माता चारुहासिनी ।।४४।।
सर्वे लोका ययुस्तत्र यत्र देवो विनायकः ।
एवं तन्नगरं सर्वमाबालश्वपचावधि ।।४५।।
पुण्याद् गणेशतीर्थस्य स्नानजात् स्वर्गतिं गतम् ।
क उवाच।
इति ते कथितं सर्वं यद्यत् पृष्टं त्वया मुने ।।४६ ।।
चिन्तामणि क्षेत्रगतं माहात्म्यं तीर्थसम्भवम् ।
यः शृणोति नरो भक्त्या सोऽपि तद् गतिमाप्नुयात् ।।४७।।
इति श्रीगणेशपुराण उपासना खंडे कादम्बपुरगतवर्णनं नाम पंचत्रिंशत्तमोऽध्यायः ( १३२०)