प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ४१ गणेशपुराणम्/खण्डः १ (उपासना खण्डः)
अध्यायः ४२
[[लेखकः :|]]
अध्यायः ४३ →

व्यास उवाच ।
कृतवान् किमु दैत्यः स गते तास्मिन्कलाधरे।
कथमानीय दत्ताऽस्मै मूर्तिश्चिन्तामणेः शुभा ॥१॥
एतत्कथय मे सर्वं विस्तार्य चतुरानन ।
लीला गजाननीः शृण्वन् न तृप्यामि समासतः ॥२॥
ब्रह्मोवाच
तस्मिन्गते यदकरोत् स दैत्यो मुनिसत्तम ।
तत्सर्वं कथयिष्यामि शृणुष्वावहितो मुने ॥३॥
दूतौ संप्रेषयामास मन्दराद्रिस्थितं शिवम् ।
अशिक्षयच्छिवं गत्वा ब्रूतं मद्वाक्यमादरात् ॥४॥
मूर्तिश्चिन्तामणेस्तेऽस्ति गृहे सर्वार्थदा शुभा।
देहि तां दैत्यराजाय साम्नैव गिरिजापते ॥५॥
पाताले स्वर्गलोके वा मर्त्ये वा पुनरद्भुतम् ।
तत्सर्वं तेन दैत्यैन ह्यानीतं स्वगृहे तलात् ॥६॥
शीघ्रमानीयतां देव यावो दैत्यं महाबलम् ।
न दास्यसे यदा साम्ना तदा दैत्यः पराक्रमी ॥७॥
ग्रहीष्यति बलात्तां तु ततो दुःखमवाप्स्यसि ।
इति दैत्यवचः श्रुत्वा जग्मतुस्तौ शिवं प्रति ॥८॥
आहतुस्तौ महादेवं दैत्यराजेन शिक्षितम् ।
इत्थं दूतवचः श्रुत्वा त्रिनेत्रः क्रोधमूर्छितः ॥९॥
उवाच दूतौ दूतौ वामिति कृत्वा क्षमे वचः ।
कामस्येव भवेद्भस्म नो चेद्वां नात्र संशयः ॥1.42.१०॥
किं कार्यं तेत दैत्येन तृणीभूतेन मे विभोः ।
आयातु युद्धमेवास्तु मर्तुकामो ममान्तिकम् ॥११॥
नेयं मूर्तिस्तेन शक्या प्राप्तुं जन्मशतैरपि ।
प्रलयाग्निः पतंगेन किं शान्तिमधिगच्छति ॥१२॥
मेरोः पांतो मूषकेन शक्यः कर्तुं किमोजसा ।
असंख्य जल निष्काशाच्छुष्कः स्यात्किं महोदधिः ॥१३॥
ब्रह्मोवाच :-
श्रुत्वा तु शांकरीं वाणीं दैत्यौ यातौ यथागतम् ।
अब्रूतां स्वामिनं वाक्यं शंभुना यदुदीरितम् ॥१४॥
तदाकर्ण्य प्रजज्वाल दैत्यो वाक्यार्थकोविदः ।
क्रोधानलेन दीप्तोऽसौ त्रैलोक्यं प्रदहन्निव ॥१५॥
आज्ञापयच्च युद्धाय स्वसेनां चतुरंगिणीम् ।
निर्गता सहसा सेना मन्दराचलसंमुखा। १६ ।।
भूतलं छादयामास निमंर्यादो यथाऽम्बुधिः ।
अनेंकसूर्य संकाशा विकोशैः शस्त्रसंचयैः ॥१७॥
गर्जन्ती घनवद्घोरं मृत्योर्मानसकम्पिनीं ।
दैत्यस्त्रिपुरमारुह्य विमानसदृशं महत् ॥१८॥
मनोवेगं ततः पश्चाज्जिघांसुः शंभुमाययौं ।
बृहन्मणिमयं चारु कवचं कुंडलेऽगदे ॥१९॥
मुक्तामालां मुद्रिकाश्च कटिसूत्रं च कांचनम्।
मुकुटं रत्नखचितं महार्घं बिभ्रदुल्लसत् ॥1.42.२०॥
यस्य शब्देन महता चकम्पे हरमानसम् ।
तद्धनुः स निषंगं च कौर्मं खेटमसिं दृढम् ॥२१॥
शुशुभे शक्तिका दिव्याऽवहद्यां दैत्यपुंगवः ।
गायमाना नर्तमाना गंधर्वाप्सरसां गणाः ॥२२॥
बन्दिनश्चारणाश्चापि ययुरस्याग्रतो मुदा ।
शंकरो दूतवाक्येन श्रुत्वा दैत्यं ममागतम् ॥२३॥
असंख्य व्रतसंयुक्तं युयुत्सुं कालकर्षितम् ।
शूलपाणिरपि तदा संपूज्य द्विरदाननम् ॥२४॥
प्रणम्य तं परिक्रम्य पुरस्कृत्य बलं बलात् ।
आययौ क्रोधदीप्ताक्षः स्वस्थलाद् गणमंडलम् ॥२५॥
ते वीरा वीरशब्देन नादयन्तो दिशो दश ।
अभिजग्मुः प्रहरणैः परस्परवधेप्सवः ॥२६॥
अभूतां मीलिते सेनें रजस्तिमिरसंकुले।
स्वपरज्ञानरहिते जघ्नतू रणमूर्धनि ॥२७॥
अभवत्तुमुलं युद्धं न प्राज्ञायत किंचन।
गजाश्वरथवीराणां हतानां शोणितोक्षिते ॥२८॥
शान्ते रजस्य युध्यन्त वीरा वीरैः पृथक् पृथक्।
केचित् प्रासः केऽपि खड्गैः केचिद्बाणै शिलाशितैः ॥२९॥
ऋष्टिभिर्मुष्टिभिः केचित् केचित् परशु तोमरैः ।
हतानां तत्र वीराणां हयानां च पदातिनाम् ॥1.42.३०॥
असृङनदी समभवत् केशशैवल वाहिनी ।
खेटकूर्मा खड्गमत्स्या शिरः कमलभूषणा ॥३१॥
छत्रावर्ता घोरतरा कबन्ध वृक्षवाहिनी ।
वीर संतोषजननी गृध्रगोमायु हर्षकृत् ॥३२॥
दृष्ट्वा नदीं तु गिरिशो ययौ दैत्यान्तिकं बली ।
दैत्योऽपि त्रिपुरारूढो ययौ तस्य पुरः पुरः ॥३३॥
नायकौ संगतौ दृष्ट्वा द्वन्द्वशोऽन्ये परस्परम् ।
अव्याकुले युयुधिरे दैतेयाः शाम्भवास्तदा ॥३४॥
नाना प्रहरणैर्दिव्यैः शस्त्ररस्त्रैर्द्रुमैरपि ।
तेषां युद्धानि नामानि कथयिष्ये समासतः ॥३५॥ (१६३७)
इति श्रीगणेशपुराण उपासनाखंडे युद्धवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ।४२।।