गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ७६-८०

← अध्यायाः ७१-७५ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायाः ७६-८०
[[लेखकः :|]]
अध्यायाः ८१-८५ →

अध्याय ७६ प्रारंभ : -
दूता ऊचुः ।
गौंडे तु विषये गौडनगरेऽभूत्पुरा द्विजः ।
तपस्वी ज्ञानवान् प्राज्ञो देवब्राह्मण पूजकः ।
तस्य पुत्रोऽयमजनि जननी चास्य शाकिनी ॥१॥
तस्य पत्नी तु सावित्री सावित्रीव पतिव्रता ।
एकपुत्रस्नेहवशादलंकारैरलंकृतः ॥२॥
अत्यंतसुंदरतरो रतिभर्तेव शोभते ।
तन्माता पितरौ तस्य वियोगं नेच्छतः क्षणम् ॥३॥
स तु यौवनमापन्नो निजभार्यां विहाय ताम् ।
परदाररतो नित्यं परनिंदापरायणः ॥४॥
अभवत्पापनिष्ठश्च पितृवाक्यावमर्दनः ।
एकदा नगरे तस्मिन् वेश्या नर विमोहिनी ॥५॥
आगता तद्गतमना यच्चक्रेऽसौ शृणुष्व तत् ।
स्वालंकारान् पेटिकायां निष्कास्या स्थापयद्बलात् ॥६॥
मातापित्रोः समक्षं च पश्चाच्चौर्यं पुनश्च तान् ।
वेश्यायै प्रतिपाद्यैतांश्चिक्रीड सुभृशं तया ॥७॥
हित्वेन्द्रियार्थान् सकलान् सुगंधद्रव्यसंयुतः ।
तदेकनिष्ठः संजातो योगी ब्रह्मपरो यथा ॥८॥
कामाग्निविह्वलश्चासीत् क्षीबो मद्यबलाद्यथा ।
पिता तु खेदसंपन्नः क्षुतृङभ्यां परिवर्जितः ॥९॥
विलोकयामास सुतं नगरे प्रतिमन्दिरम् ।
अलब्धदर्शनस्तस्य श्वासोच्छ्वासपरायणः ॥१.७६.१०॥
निशीथे स्वप्रियां प्राह बुधः पुत्रो गतः क्व नु।
विना तेन वृथा गेहं विना दीपं यथा निशि ॥११॥
विना जलं वृथा वापी विनापत्यं यथाऽबला ।
कदा नु दर्शनं तस्य भविता प्राणरक्षकम् ॥१२॥
शाकिन्युवाच ।
क्षुधातृषा परिश्रान्ता चिन्ताशोक समन्विता ।
तिष्ठामि नाथ नो जाने क्व गतः प्रियबालकः ॥१३॥
यदि मे दर्शनं तस्य स्याज्जीवामि न चान्यथा ।
पुनश्चचाल दूर्वः स यष्टिमादाय मुष्टिना ॥१४॥
यं यं पश्यति मार्गेऽस्मिंस्तं तं पृच्छति चात्मजम् ।
यदा श्रान्तः क्षुधाक्रान्तस्तदा भ्रान्तश्च सोऽभवत् ॥१५॥
अनिवृद्धो महाभीमो नाम्ना भीमोऽन्त्यवर्णजः ।
स तेन पृष्टस्तनयं तेनाप्युक्तं परं स्फुटम् ॥१६॥
भीम उवाच ।
वेश्यागृहे ते तनयो बुधोऽसौ, बुधः सुखं क्रोडति कामसक्तः ।
कस्यात्मजो का जननी पिता वा, वृथैव खेदं कुरुषे द्विजेंद्र ॥१७॥
दूर्व उवाच ।
कथं मम सुतो जातो वेश्यायां निरतो बुधः ।
तस्या गृहं जगामाशु दृष्टवांस्तत्र तं सुतम् ॥१८॥
उन्मत्तं मदिरासक्तं नयनं मदविह्वलम् ।
पिता दधार तं हस्ते रुषाशिक्षापयत्सुतम् ॥१९॥
त्वत्तः कंटकवृक्षोऽयं पाषाणो वा मतोऽधिकः ।
कथं न त्यजसे प्राणान् कि स्यात्तैर्जीवितं खल ॥१.७६.२०॥
ब्रह्मोवाच । पितृवाक्यं समाकर्ण्य रोषाविष्टो बुधः सुतः ।
तलप्रहारं तंडेऽस्य दत्तवान् पितुरेव सः ॥२१॥
उक्तवान् कृमिकीटादी साधारणमुखे कथम् ।
कृतवानसि मे विघ्नं क्रीडाकाले नराधम ॥२२॥
अकस्मात्काकस्य शकृत पतितं मयि वा कथम् ।
पुनर्लत्ताप्रहारेण प्राणांस्तस्य गृहीतवान् ॥२३॥
पित्रा प्राणेशु त्यक्तेषु हरेश्वरेति सोऽवदत् ।
ननन्द स सुतः पादे बद्ध्वा तं दूरतोऽक्षिपत् ॥२४॥
मधु पीत्वा पुना रेमे वेश्यया स यथेच्छकम् ।
प्रातर्जगाम स्वगृहं ददर्श जननी च तम् ॥२५॥
आलिलिंग सुतं हर्षात् स्नेहस्नुत पयोधरा ।
बभाण क्व गताश्चासि क्व स्थितः किं कृतं त्वया ॥२६॥
वद मे विस्तराद्वत्स पिता ते दुःखितो भृशम् ।
अहं चापि निराहारा निर्जला निशि जाग्रती ॥२७॥
प्रतीक्षमाणा वत्स त्वां पिताऽन्वेष्टुं गतश्चिरात् ।
गच्छ त्वं पितरं द्रष्टुमित्युवाच पुनःपुनः ॥२८॥
तयाज्ञप्तमिति क्रोधाच्छुष्ककाष्ठेन तां सुतः ।
ताडयामास शिरसि पतिता सा धरातले ॥२९॥
निश्चेतनां परिज्ञाय बद्ध्वा पाशेऽक्षिपद् बहिः ।
स्वयं वेश्यागृहं गत्वा चिक्रीड भृशहर्षितः ॥१.७६.३०॥
ददहुस्ते जनाः सन्तो दंपती स्वस्वकाष्ठतः ।
न शास्ति राजा दंड्यं तं ब्राह्मणत्वाद् द्विजाधमम् ॥३१॥
पुनर्गृहागतं तं तु पत्नीवाक्यं शनैर्जगौ ।
सावित्र्युवाच ।
प्राणनाथ वदाम्येकं तच्छृणुष्व महामते ॥३२॥
अतिख्यातेऽतिविमले वर्णे जन्म भवादृशाम् ।
आचारश्चान्यथा दुष्टस्त्यक्तव्यः स विवेकतः ॥३३॥
इहलोके तु तत्कार्यं येन सौख्यं परे भवेत।
पूर्वे वयसि तत्कार्यं येन शं वार्धके भवेत् ॥३४॥
अष्टमासेषु तत्कुर्याद्येन वर्षासु शं भवेत् ।
दिवसे कर्म तत्कार्यं येन रात्रौ सुखं भवेत् ॥३५॥
पितुः प्रितत्वाद्राजाऽपि ब्राह्मणत्वात् क्षमत्यसौ ।
सर्वावयवसंपूर्णां सुन्दरामनुसारिणीम् ॥३६॥
त्यक्वा माम् धर्मपत्नीं त्वं वेश्यायां निरतः कथम् ।
लोको निन्दति सर्वत्र भयात्त्वां न वदत्यसौ ॥३७॥
स मां जनः प्रतिब्रूते पतिस्ते कीदृशः शुभे ।
लज्जयाऽधोमुखी प्राणांस्त्यक्तुमीहे तदैव च ॥३८॥
यथेष्टं चेन्मया सार्धं रमतेऽहर्निशं पते ।
न कोऽपि किंचिद् ब्रूयात्त्वां दोषो वा न भवेन्महान् ॥३९॥
हितं चेत्कुरु मद्वाक्यं त्यक्त्वा तां स्वविवेकतः ।
अज्ञानाद्वा प्रमादाद्वा कृतं कर्म त्यजेद्बुधः ॥१.७६.४०॥
इदं कृतं ममैव स्यादिष्टं नैव कृतं यदि ।
अनिष्टं सर्वथा मे स्यात्तन्न कार्यं विनिश्चयात् ॥४१॥
अन्यथा कुर्वतः पुंस इहलोको न वा परः ।
इति स्त्रिया वाक्यबाणैर्बुधो विद्धो हि मर्मसु ॥४२॥
रोषाविष्टो महाक्रूरो जगाद प्रज्वलन्निव ।
बुध उवाच ।
निर्लज्जे निष्ठुरे प्रौढे दुष्टे रुष्टे मयि स्फुटम् ॥४३॥
गमिष्यासि गतिं तां त्वं यथा तौ पितरौ गतौ ।
सावित्र्युवाच ।
येन पित्रोर्न मर्यादा शिक्षित्रोश्च स्वतंत्रयोः ॥४४॥
रक्षिता तद् विपरीतां स मां त्राता कथं भवेत् ।
भर्तृहस्तान्मृतिः श्रेयः परत्रेह च सातूस्त्रियाः ॥४५॥
ब्रह्मोवाच ।
एवं ब्रुवन्त्यां पत्न्यां स धम्मिल्लं सहसाऽग्रहीत् ।
काष्ठैर्लोष्टैर्मुष्टिभिश्च पाषाणैस्तामताडयत् ॥४६॥
सा रामं भर्तृरूपेण सस्मार पूर्वपुण्यतः ।
प्राणांस्तत्याज सहसा भिन्ना मर्मसु तेन ह ॥४७॥
स्वर्गं गत्वा दिव्यदेहा बुभुजे परमं सुखम् ।
आकृष्य चरणे तां स चिक्षेप दूरतो निशि ॥४८॥
निरंकुशो हर्षयुतो रेमे वेश्या समन्वितः ।
त्वदर्थं नाशिता सर्वे बुधस्तामिति सोऽब्रवीत् ॥४९॥
ततो बहुगते काले बुधोऽगात्कालभेर्गृहम् ।
तस्मिन् स्नातुं गते दुष्टो भार्यां तस्याग्रहीत्कचे ॥१.७६.५०॥
अत्यंतं सुंदरतरामालिलिंग चुचुम्ब च ।
निःशंकं शयने नीत्वा ममर्द कुचमंडलीम् ॥५१॥
रेमे तया यथेष्टं स ततः सा तं शशाप ह।
सुलभोवाच ।
कथं नाम कृतं दुष्टं पितृभ्यां सुलभेति मे ॥५२॥
अहं ते सुलभा जाता दुष्टबुद्धे नराधम ।
स्नातुं गते भर्तरि मे कालभौ मुनिपुंगवे ॥५३॥
बलात्कारो मयि कृतो दुष्टः कुष्ठी भविष्यसि ।
जन्मान्तरे ते नामापि न गृह्णीयाज्जनः क्वचित् ॥५४॥
ब्रह्मोवाच ।
ततो भीतो ययौ वेश्यागृहमेव बुधः पुनः ।
रेमे तया सुरां पीत्वा न किंचिदपि चिन्तयन् ॥५५॥
एवं दुष्टानि कर्माणि वक्तव्यानि कथं मया।
पुण्यक्षयो भवेत्तस्य परदोषं य ईरयेत् ॥५६॥
स कालान्निधनं प्राप्तो दूतैर्नीतो यमालयम् ।
यमेनोक्तं किमानीतो नीयतां नरकेष्ययम् ॥५७॥
यमवाक्यं समाकर्ण्य दूता निन्युस्तदैव तम्।
चिक्षिपुर्नरके तावद्यावदाभूतसंप्लवम् ॥५८॥
भुक्तभोगः स वैश्यस्य गृहे जन्म समाप्तवान् ।
ऋषिपत्न्या: स शापेन कुष्ठी जातो भृशं तदा ॥५९॥
पितृहा मातृहा स्त्रीहा मद्यपी गुरूतल्पगः ।
तस्य संस्पर्शनादेव सचैलं स्नानमाचरेत् ॥१.७६.६०॥
नामाप्येतस्य न ग्राह्यं महादोषकरं यतः ।
एतादृशोऽयं दुष्टात्मा यदा त्यक्तं इतस्तदा ॥६१॥
विमानं यास्यते चोर्ध्वं नूनं नास्त्यत्र संशयः ॥६२॥
ब्रह्मोवाच ।
श्रुत्वेत्थं वचनं तेषां दूतानां भृशकंपितः ॥६३॥
शूरसेन उवाचैतान्न मयाऽज्ञायि दुष्कृतम् ।
पुनरुत्थाय राजाऽसौ प्रणनाम भृशातुरः ॥६४॥
प्राह तान्देवदूतान्स कृपां कृत्वा वदन्तु मे।
उपायमस्य दुष्टस्य सर्वदोषापनुत्तये ॥६५॥
दूता ऊचुः ।
उत्तिष्ठोत्तिष्ठ नृपते ब्रूमो दोषापनुत्तये ।
उपायं राजशार्दूल शृणुश्वैकमना भव ॥६६॥
गणेशस्य भवेन्नाम यत् ख्यातं चतुरक्षरम् ।
जप तत् कर्णरन्ध्रेऽस्य सर्वदोषक्षयो भवेत् ॥६७॥
उदये दिननाथस्य यथा सर्वतमः क्षयः ।
नान्योपायेऽधिकारोऽस्य यतो नामैव जप्यताम् ॥६८॥
ब्रह्मोवाच ।
शूरसेनो दूतवाक्याज्जयपूर्वं जजाप ह ।
त्रिवारं वैश्यकर्णे तु नाम यच्चतुरक्षरम् ॥६९॥
गजाननेति श्रुत्वैव दिव्यदेहोऽभवच्च सः ।
भासयंस्तेजसा सर्वमरुणो भुवनं यथा ॥१.७६.७०॥
सर्वपापक्षये जाते नामश्रवणमात्रतः ।
दीपयन् सर्वदिग्देशान् विमानं चाध्यरोहत ॥७१॥
तद्विमानं क्षणाद् दूतैः सर्वलोकसमन्वितम् ।
नीतं वैनायकं धाम विघ्नराज्यस्य शासनात् ॥७२॥
इति सर्वं समाख्यातं यद्यत्पृष्टं त्वयाऽनघ ॥७३॥
महापुण्यं च संकष्टचतुर्थीव्रतमुत्तमम् ।
धर्म्यं यशस्यमायुष्यं श्रवणात् सर्वसिद्धिदम् ॥७४॥
सर्वपीडाप्रशमनं सर्वं विघ्न विनाशनम् ।
दूर्वानाम प्रभावश्च किमन्यच्छ्रोतुमिच्छसि॥७५।। (३३६८)
इति श्रीगणेशपुराण उपासनाखंडे षट्सप्ततितमोऽध्यायः ॥७६॥

अध्याय ७७ प्रारंभ :-
व्यास उवाच ।
अन्येनाकारि केनेदं वद तत्कौतुकं महत् ।
ब्रह्मोवाच ।
जामदग्न्येन रामेण व्रतमेतत् पुरा कृतम् ॥१॥
सोऽपि कीर्ति जयं ज्ञानमायुर्दीर्घं च लब्धवान् ।
व्यास उवाच ।
रामः कथं समुत्पन्नः कस्मात् कस्यां पितामह ॥२॥
एतत्सर्वं सुविस्तार्यं ब्रूहि त्वं मम पृच्छतः ।
ब्रह्मोवाच ।
श्वेतद्वीपेऽति विख्यातो जमदग्निर्महामुनिः ॥३॥
मनसा सृष्टिसंहारान्निग्रहानुग्रहानपि ।
यः करोति त्रिकालज्ञस्ततो देवाश्चकम्पिरे ॥४॥
यस्यासीत् पत्न्यपि तथा रेणुका नाम नामतः ।
यस्या लावण्यगुंजापि पत्न्याः कामस्य नाभवत् ॥५॥
रतिरित्येव लोकेषु विख्याताऽभूत्ततस्तु सा ।
यया संमोह्यते सर्वं क्षमस्तद्वर्णने तु कः ॥६॥
यन्नेत्रशोभा संप्राप्त्यै चकोरा जलवासिनः ।
हरिणाश्च तपश्चेस र्वने छन्दतृणाशिनः ॥७॥
यदास्य शोभा संप्राप्त्यै सेवते चन्द्र ईश्वरम्।
अनादिनिधना देवी मूलप्रकृतिरीश्वरी ॥८॥
स्यामजनि रामोऽसौ विष्णुर्योगेश्वरो यथा ।
जमदग्नेर्महाभागात् साक्षादीश्वररूपिणः ॥९॥
अतिसुन्दर गात्रोऽसौ साक्षान्मन्मथ मन्मथ:।
मातापितृवचः कर्ता विख्यातबलपौरुषः ॥१.७७.१०॥
देवद्विजगुरुप्राज्ञ गोबोधिपूजने रतः ।
वेदवेदांगशास्त्राणां स्मृतीनामपि पाठकः ॥११॥
वाक्ये बृहस्पतिसमः क्षमया पृथिविसमः ।
गांभीर्येऽब्धिसमो यस्तु पित्रोर्वाक्यपरायणः ॥१२॥
पित्रोराज्ञां गृहीत्वा स निमेषारण्यमाययौ ।
अनेकविद्याभ्यसने मतिं कृत्वा परां स्थिराम् ॥१३॥
तस्मिन्गते तदा राजा कार्तवीर्यो महाबलः ।
यस्य प्रतापादभवद्वश्यं भूमंडलं सदा ॥१४॥
यस्मिंल्लक्ष्मी स्थिरा विष्णोरंशभूतेऽखिलार्थदे ।
आजौ पंचशतं बाणान् सृजते रिपुघातकान् ॥१५॥
इन्द्रादिवृन्दसेव्योऽसौ विख्यातबलपौरुषः ।
असंख्याता गजा यस्य रथवाजिपदातिगः ॥१६॥
यस्य निर्गमने सैन्याश्च्छादयन्ति महीतलम् ।
वर्षाकाले यथा मेघा धाराभिर्व्योममंडलम् ॥१७॥
यस्य कंबुस्वनं श्रुत्वा द्विषो यांति दिशो दश ।
यथा सिंहस्वं श्रुत्वा मत्तमातंगकोटयः ॥१८॥
यदा ताली पंचशतं स्वेच्छया कुरुते नृपः ।
तदा सनादं ब्रह्माण्डं कम्पते मुनिसत्तम ॥१९॥
असौ यदृच्छया यत्तश्चतुरंगबलान्वितः ।
नीलवस्त्रधरो नील छत्रस्तादृशसैनिकः ॥१.७७.२०॥
वनानि सरितो दुर्गान् पर्वतांश्च विलोडयन् ।
नानामृगगणान्वीक्ष्य विनिघ्नन्नापि कांश्चन ॥२१॥
ततः सहयाद्रिशिखरेऽपश्यदाश्रममुत्तमम् ।
यथा कैलासशिखरे गिरिशालयमुत्तमम्।।२२॥
अपृच्छत् सेवकान् राजा कस्येदमुत्तमं स्थलम् ॥२३॥
भृत्य उवाच ।
जमदग्निरिति ख्यातः साक्षात्सूर्य इवापरः ।
मुनिरास्ते महाभाग शापानुग्रहकारकः ।।२४॥
यस्य दर्शनतः पापकोटयो यान्ति संक्षयम् ।
इच्छा चेत्तम गन्तव्यं दर्शनं ते भविष्यति ॥२५॥
तवप्रसादात् सर्वेषामुपकारो भविष्यति ।
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा गमनायोद्यतो नृपः ॥२६॥
न्यषेधयत् सर्वबलं श्रेष्ठानादाय तत् क्षणात् ।
ययौ तं मुनिशार्दूलं जमदग्निं तपोनिधिम् ॥२७॥
ददर्श तं कुशासीनं ज्वलन्तमिव पावकम् ।
प्रणनाम स साष्टांगं ते सर्वे सहयायिनः ॥२८॥
नानाविशालशालासु कुंजवृक्षावलीषु च।
निषेदुः सैनिकास्ते तु राजा तस्थौ मुनेः परः ॥२९॥
आसने मुनिनादिष्टे चतुर्भिः परिवारितः ।
निषसाद तदा राजा कृतवीर्यसुतो बली ॥१.७७.३०॥
अपूजयत् तान्सर्वान् पाद्यार्घ्यविष्टरादिभिः ।
स मुनिः प्रददौ गाश्च शिष्यैः सर्वानपूजयत् ॥३१॥
नानासरोवरजले निर्मले चारुशीतले ।
अमज्जन्त तदा सर्वे सैनिका मृगयार्दिताः ॥३२॥
शृण्वन्वेदनिनादांश्च शास्त्रशब्दांश्च पुष्कलान् ।
अभितो वादशब्दांश्च तच्छिष्यैः समुदीरितान् ॥३३॥
अब्रवीन्मुनिमुख्यं तं राजा राजीवलोचनः।
अद्य मे पितरौ धन्यौ जन्म ज्ञानं तथा तपः ॥३४॥
पुण्यवृक्षोऽद्य फलितो यज्जातं तव दर्शनम् ।
अद्य मे संपदो धन्याः कुल धन्यं यशोऽपि मे ॥३५॥
परब्रह्मेति यत् प्रोक्तं तदेव त्वं न संशयः ।
आतिथ्यं तव दृष्ट्वैवं परितुष्टं मनो मम ॥३६॥
इति श्रुत्वा तु तद्ब्राह्मीं स्मयन्निव प्रसन्नधीः ।
कोऽसि कस्यासि किं नाम किं कार्यं तव वर्तते ॥३७॥
इति तं परिपप्रच्छ जानन्नपि मुनिस्तदा ।
राजोवाच ।
राज्ञां स्वकार्यं कर्तृणां भवादृश निरीक्षणात् ॥३८॥
नान्यत् प्रयोजनमुरू श्रेयसाऽजनि तत्स्फुटम् ।
कृतवीर्यसुतोऽहं च कार्तवीर्य इति श्रुतः ॥३९॥
अनुज्ञातो गमिष्यामि ततोऽहं नगरं प्रति ।
मुनिरुवाच ।
मयाऽश्रावि महाकीर्तिस्तत राजन्यसत्तम ॥१.७७.४०॥
आसीत्वद्दर्शनाकांक्षा जाता पुण्यैर्न सत्फला ।
देह आत्मा तपो ज्ञानमाश्रमो मम सांप्रतम् ॥४१॥
अभूत्त्वदागमाद्राजन् सार्थकाः सर्वसम्पदः ।
अकृत्वा भोजनं किंचित्कथं त्वं गंतुमर्हसि । ४२।।
मम श्लाघा भवेल्लोके न्यूनं कि तव विद्यते ।
किंचिद् भुक्त्वा व्रज विभो सनाथं कुरु मां प्रभो ॥४३॥
राजोवाच ।
सत्यं भोजनकालोऽस्ति भोक्तव्यं च तवाज्ञया।
अन्नाभावे श्रोत्रियाणां जलं याच्च पिबेदपि ॥४४॥
तथाऽप्येतान् विहायाहं सैनिकान् गणनातिगान् ।
जलं पातुं न शक्नोमि कथं भोक्तुं समुत्सहे ॥४५॥
जानेऽहं मनसा ब्रह्मन्न शक्तिः सर्वभोजने।
भवद्दर्शनमात्रेण कृतकृत्यो व्रजेऽधुना ॥४६॥
मुनिरुवाच ।
चिन्तां मा कुरु राजर्षे भोजयिष्ये ससैनिकम् ।
चतुर्विधेन चान्नेन किमसाध्यं तपस्विनाम् ॥४७॥
गृहे ते वाहिनी या स्यात्तामप्याकारय प्रभो।
क्षणं विश्राम्यतां तीरे नद्याश्चारुतरे शुभे ॥४८॥
यावत्सिद्धं भवेदन्नं पश्चाद्द्रक्ष्यसि कौतुकम् ।
क उवाच ।
अन्तः स विस्मयाविष्टो जगाम कृतवीर्यजः ॥४९॥
वाक्यमाकर्ण्य तु मुनेर्नदीतीरं सुशोभनम् ।
मुनिः पत्नीं समाहूय वृत्तांतं तं जगाद ताम् ॥१.७७.५०॥
आहूय कामधेनुं तौ पुपूजतुः क्षणेन ताम् ।
प्रार्थयामासतुरुभौ लज्जां नौ रक्ष धेनुके ॥५१॥
असंख्यातबलो राजा भोजनाय निमंत्रितः ।
यथारुचि भवेत्तस्य स सैन्यस्य भुजिः शुभे ॥५२॥
तथा कुरु क्षणेन त्वं नो चेत् सत्यं लयं व्रजेत ।
अकीर्तिश्च भवेल्लोके यथेच्छसि तथा कुरु ॥५३॥
एवं संप्रार्थिता ताभ्यां कामधेनुर्महापुरम् ।
निर्माय स्वप्रभावेन नानामंदिरसुंदरम् ॥५४॥
नानारत्नमयं स्तम्भं शोभिनाना सभागृहम् ।
नानापुष्पलताचारू वाटिकाराममंडितम् ॥५५॥
नानाध्वजपताकाढ्यं नानावादित्रनिःस्वनम् ।
अष्टापदानां भांडानां नाना पंक्तिविराजितम् ॥५६॥
चतुर्विधान्नसंपन्नं नानाभोजनपंक्तिमत् ।
महातोरणशोभाढ्यं परिखावलयांकितम् ॥५७॥
अनेकदासदासीभिर्विलसच्चारु वेदिकम् ।
निवारयन्ति लोकाश्च यत्र तत्र स्थिता नराः ॥५८॥
पुरो गंतुं न चाज्ञाऽस्ति जमदग्निमुनेरिति ।
परिविष्टेषु पात्रेषु संख्यातीतेषु सर्वतः ॥५९॥
दीपप्रभा भासुरेषु नानाव्यंजनशालिषु ।
सूप पायस पक्वान्न पंचामृतयुतेषु च ॥१.७७.६०॥
सखाद्य लेह्यचोष्यादि पेय पंक्तिविराजिषु ।
सामुद्रपक्व निम्बाभ्रामृत बिल्वादिशालिषु ॥६१॥
सिद्धेषु पात्रेषु मुनिस्तदाऽसावाकारयच्छिष्यगणं तदानीम् ।
श्रीकामधेनोः परिपूर्ण तोषाद , भोक्तुं ससैन्यं कृतवीर्यपुत्रम् ॥६२॥ (३४३०)
इति श्रीगणेशपुराण उपासनाखंडे सप्तसप्ततितमोऽध्यायः ॥७७॥

अध्याय ७८ प्रारंभ : -
क उवाच ।
ततो मुनिः शिष्यगणमुवाच त्वरया व्रज ।
आकारयितुं नृपतिं नदीतीर निवासिनम् ॥१॥
ते शिष्यास्तं नृपं गत्वा गृह्य तत् प्रणतिं पुरा।
दत्वाऽऽशीर्वचनं तस्मै मुनेराज्ञां तथाब्रुवन् ॥२॥
चल राजन्नवहितो भोजनाय ससैनिकः ।
पात्राणि परिविष्टानि संख्यातीतानी षड्रसैः ॥३॥
क उवाच ।
तत उत्थाय राजाऽसौ समाहूय ससैनिकान् ।
सुस्नातः सर्वसैन्येन कार्तवीर्यो नृपो ययौ ॥४॥
मुनिवेश्म ततोऽपश्यन्न दृष्टं न च वै श्रुतम् ।
एतादृशं त्रिलोकेषु गृहतोरण मापसा ॥५॥
स निषिद्धो वेत्रधरैर्मुनिसंकेत कामुकैः ।
ते निषिद्धाः शिष्यगणैस्ततोऽगाद् भोजनालयम् ॥६॥
स्थित्वा मध्ये पश्यति स्म राजाऽसौ संपदं मुनेः ।
अमन्यत् तदा स्वान्ते नेदृशी श्रीर्हरौ हरे ॥७॥
पालकेऽपालके स्रष्टर्यपि ब्रह्मणि नेदृशी।
ततो मुनिः पुरो भूत्वा प्रतिपात्रे न्यवेशयत् ॥८॥
राजानुमतिमाज्ञाय पंक्तौ पंक्तौ ससैनिकान् ।
दापयामास पात्राणि ये बहिर्भोजिनश्च तान् ॥९॥
उपविष्टेषु सर्वेषु राजानमुपवेशयत् ।
बुभुजुस्ते तदा वाद्ये वादिते सर्व एव हि ॥१.७८.१०॥
अदृष्टपूर्वाण्यन्नानि स्वादुमूलफलानि च ।
परस्परं च पप्रच्छुः किमिदं किमिदं त्विति ॥११॥
आश्चर्यं मेनिरे सर्वे यामेनेत्थं कथं कृतम् ।
यथेष्टं भुंजते सर्वे तृप्ताश्चान्नानि तत्यजुः ॥१२॥
ते प्रक्षालनपात्राणि प्रतिपात्रे न्यवेदयन् ।
मुनिशिष्यांजलं चापि शलाका अपि चारवः ॥१३॥
गजाश्ववृषवृन्देभ्यः शिष्याः शेषान्नमर्पयन ।
ततोऽन्यस्मिन् गृहे सर्वे विस्तिीर्णे कृतसंस्तरे ॥१४॥
इक्षुद्राक्षाम्रपनस दाडिमानि बभक्षिरे ।
एलालवंग कर्पूर चूर्णखादिर पूगकान् ॥१५॥
जगृहुर्मुनिदत्तांस्ते नागवल्लीदलैर्युतान् ।
ततो ददावलंकारान् वासांसि च मुदा मुनिः ॥१६॥
तेभ्यो यथार्ह सर्वेभ्यो राज्ञेऽनर्घ्यैतराणि च ।
मुनिरुवाच ।
किं मया भोजनं देयं मुनिना वन्यवृत्तिना॥१७॥
अवाप्तसर्वकामाय राज्ञे ते विष्णुरूपिणे ।
यशोऽकारि त्रिलोके मे त्वया मद्वाक्यकारिणा ॥१८॥
जमदग्नेर्गृहे राज्ञा ससैन्येन भुजिः कृता ।
अतिपुण्यवतो लोके साधुशब्दः प्रयुज्यते ॥१९॥
महान् क्षुद्रस्य वाक्यं चेत् कुरूते सोपि साधुताम् ।
प्राप्नोति सर्वलोकेषु कीर्तिं स्फीतां समुत्कटाम् ॥१.७८.२०॥
मद्वाक्यकरणे तेऽपि दूरेऽरिष्टं गतं महत् ।
ब्रह्मोवाच ।
इति वाणीं समाकर्ण्य जमदग्निसमीरिताम् ॥२१॥
पप्रच्छ राजा तं तत्र विस्मयाविष्टमानसः ।
राजोवाच ।
नादर्शि प्रथमं किंचिदिदं किं मायया कृतम् ॥२२॥
तपः प्रभावाद्वाऽकारि सत्यं मे वद सुव्रत ।
मुनिरुवाच ।
अनृतं नोक्तपूर्वं मे परिहासेऽपि वा नृप ॥२३॥
अतः सत्यं ब्रवीमि त्वां कामधेन्वाऽखिलं कृतम् ।
ब्रह्मोवाच ।
कुमतिस्तस्य भवति यस्य दैवमदक्षिणम् ॥२४॥
अनिष्टं बलवद्भावि दुष्टग्रहकृतं मुने।
भुक्त्वा तृप्तोऽपि राजाऽसौ सम्यक् सबलवाहनः ॥२५॥
आदाने कामधेनोः स मतिं चक्रेऽब्रवीदिदम् ।
राजोवाच ।
मुनीनां शांतचित्तानां कंदमूलफलाशिनाम् ॥२६॥
मनसा सृष्टिसंहार कर्तृणामस्पृहावताम ।
जितन्द्रियाणां विज्ञानां नेक्षे धेन्वा प्रयोजनम् ॥२७॥
वन्यमारुत भक्ष्याणां मोक्षसाधनकारिणाम् ।
वेदाभ्यसनशीलानां सम्पदा किं प्रयोजनम् ॥२८॥
शास्त्रपाठनशीलांना धर्मशास्त्रार्थ वेदिनाम् ।
योगाभ्यासरतानां च कामधेनोः प्रयोजनम् ॥२९॥
कार्या स महते स्यात्तु महद्वस्तु महद्गतम् ।
अरण्यवासिने तुभ्यं महद्रत्नं च नोचितम् ॥१.७८.३०॥
तस्माद्देया कामधेनुं मम ब्रह्मन् मुदा त्वया ।
मयि स्थिता तवैवास्ति चेतसि त्विति धार्यताम् ॥३१॥
मर्यादा रक्ष तां ब्रह्मन्नुक्तमेवं पुरस्तव ।
नो चेद्राज्ञां किमग्राहयं लोकेषु बलशालिनाम् ॥३२॥
स्वराष्ट्रे परराष्ट्रं वा चतुरंगबलैः सह ।
ब्रह्मोवाच ।
श्रुत्वैवं वचनं तस्य कार्तवीर्यस्य दुर्मतेः ॥३३॥
प्रतिजज्वाल रोषेण जमदग्निर्महामुनिः।
सर्पिषा बहुलेनैव जातवेदा यथा द्विजः ॥३४॥
उवाचारक्तनयनः शिक्षयन्निव भूमिपम् ।
मुनिरुवाच ।
साधुः शुद्धी महान् राजा प्रार्थितां भोजनाय हि ॥३५॥
कौटिल्यं तव न ज्ञातं बकस्येव हृदि स्थितम् ।
यथा वा कोकिला काक बालं पुष्णाति मायया ॥३६॥
अन्ते तत् काकभावेन भक्ष्याभक्ष्यरतिं व्रजेत् ।
अहमेवाभवं भ्रान्तो य इमां राजमित्रताम् ॥३७॥
न दृष्टां न श्रुतां लोके नानुभूतां च केनचित् ॥३८॥ (३४६८)
इति श्रीगणेशपुराण उपासनाखंडे कार्तवीर्योपाख्यानं नामाष्टसप्ततितमोऽध्यायः ॥७८॥

अध्याय ७९ प्रारंभ :-
मुनिरुवाच ।
उपकारस्त्वयाऽरम्भि साधुवृत्तानुसारिणा ।
आत्मघातं पुरस्कृत्वा कामधेनुं त्वमिच्छसि ॥१॥
भ्रान्तोऽसि नृप सत्यं त्वमप्राप्यं योऽभिवांछसि ।
त्रैलोक्यनाशजं पापं तव मूर्ध्नि पतिष्यति ॥२॥
ब्रह्मोवाच ।
इति वाक्शरविद्धोऽसौ प्रलयानलसन्निभः ।
राजा बभूव रोषेण मुखादनलमुद्वमन् ॥३॥
उवाच परमक्रुद्धो जमदग्निं मुनिं तदा।
राजोवाच ।
न मया दुष्टवचनं कस्यापि श्रूयते शठ ॥४॥
किं करोमि द्विजोऽसि त्वमिति क्षान्तं वचः कटु ।
क उवाच ।
तत उत्थाय राजाऽसौ दूतानाज्ञाप्य सत्वरम् ॥५॥
मुक्त्वा कीलात् कामधेनुं शीघ्रं यान्तु ममान्तिकम् ।
आवेष्टयंस्तदा दूताः कामधेनुं तदाज्ञया ॥६॥
फूत्कारेणैव तस्यास्ते त्यक्त्वा प्राणान्दिवं ययुः ।
अन्यान् क्रोधानलेनासौ राजदूतान् ददाह च ॥७॥
श्वासमारुतवेगेन व्योम्नि वीराः परेऽभ्रमन् ।
आच्छाद्य मंडलभानोर्न प्राज्ञायत किंचन ॥८॥
दिशः सतिमिरा जाता व्योमापि न च भासते ।
धराकम्पः समभवद् वृक्षाः पेतुः प्रकम्पिताः ॥९॥
सैनिकाश्च ततो भीता यान्ति सर्वे दिशो दश ।
केनचित्ताडिता सा गौः कशाघातेन दूरतः ॥१.७९.१०॥
उड्डीयोड्डीय सा धेनुरधावत् सैन्यमेव तत् ।
गजवृन्दं यथा सिंहो गरुत्मानुरगानिव ॥११॥
हाहाकारो महानासीद्वीराणां तत्र धावताम् ।
तानुवाच न भीः कार्या कार्तवीर्यो महाबली ॥१२॥
मया ध्माते मुदा शंखे भीता यास्यति मन्दिरम् ।
कामधेनुः कियच्चास्ति पश्यन्तु कौतुकं मम ॥१३॥
ततो दध्मौ महाशंखं त्रैलोक्यं पूरयन् रवैः ।
न बिभ्यत् कामधेनुस्तां ताडयामासुरोजसा॥१४॥
यष्टिभिर्लोहनिचयैः सर्वे ते राजसेवकाः ।
यत्र यत्र प्रहारोऽस्याः शरीरे जायते ततः ॥१५॥
सन्नद्धाः सर्व शस्त्राढ्या नानावीराः विनिःसृताः ।
शकाश्च बर्बरा आसंस्तस्या केशसमुद्भवाः ॥१६॥
पटच्चराः पाददेशा देवं सर्वै प्रजज्ञिरे ।
नानायवन जातीया नानावीरास्तथाऽपरे ॥१७॥
वाजिवारणसंघाश्च रथिनो बलवत्तराः ।
ते चैव युयुधुस्तत्र कार्तवीर्यस्य सैनिकैः ॥१८॥
न्यपतन् कार्तवीर्यस्य सैनिकास्तैः प्रहारिताः ।
अपरे मिलितास्तत्र निशि वृक्षे पतंगवत् ॥१९॥
परस्परघातहता निपेतुः शतशो नराः ।
भङ्क्त्वा शस्त्रैश्च शस्त्राणि मल्लयुद्धं प्रचक्रिरे ॥१.७९.२०॥
एवं सुतुमुले जन्ये शस्त्रेषु निपतत्सु च ।
स्वीयो वा परकीयो वा न प्राज्ञायत किंचन ॥२१॥
रजसाच्छादिते सूर्ये जघ्नुरेवं परस्परम् ।
कोलाहलो महानासीद् हन्यतां हन्यतामिति ॥२२॥
हेषितैर्बृंहितैः क्ष्वेडैर्निबिडो रथनेमिभिः ।
मृदंग ताल वेणूनां भेरीणां निनदैरपि ॥२३॥
एवं गव्यैः कार्तवीर्यैरथ्यश्वगजपत्तिभिः ।
अभवत् सुमहद् युद्धं भूतराक्षसभीतिदम् ॥२४॥
पक्षिजम्बूकसुखदं वीरपत्नी भयप्रदम् ।
केषाञ्चिज्जानुनी भग्ने केषांचिच्च शिरांसि च ॥२५॥
खड्गखेटकभल्लांनां शराणां धनुषामपि ।
भग्नानां न च संख्याऽस्ति वीराणां रथिनापि ॥२६॥
प्रपेतुः कार्तवीर्यस्य शेषा ये सैनिकास्तदा।
पृष्ठलग्ना ययुर्गव्या हसन्तो न च जघ्निरे ॥२७॥
निनिन्दुर्मुनिना किं वोऽनिष्टं कृतमितीह ते ।
पूर्वदोषप्रसंगेन राज्ञो जाता सुदुर्मतिः ॥२८॥
एवं प्रभग्ने सैन्ये स उत्तस्थौ कृतवीर्यजः ।
हस्तयोर्जगृहे पंच शतं बाणान् धनूंषि च ॥२९॥
दत्त्वा भूमौ वामजानुं धनूंष्याकृष्य वेगवान् ।
चिक्षेप शरजालं स गव्ये सैन्ये महाभुज ॥१.७९.३०॥
फलहीनमभूत्तस्य शरजालं नृपस्य तत् ।
अनीतेश्चरितं तद्वद् वन्ध्यायाः सुरतं यथा ॥३१॥
पुनःपुनर्जहौ बाणांस्तावतो राजसत्तम ।
कामधेनोर्न चैकोऽपि वीरो भग्नोऽभवत्तदा ॥३२॥
शरजाले वृथा याते संतप्तोऽभून्नृपस्तदा ।
क्व गतं मम सामर्थ्यमिति चिन्तातुरोऽभवत् ॥३३॥
व्याकुले न प्रहर्तव्यमिति सर्वं ययुर्दिवम् ।
कामधेनुर्मुदा युक्ता किं युद्धं लघुना सह ॥३४॥
गतायां कामधेनौ स कार्तवीर्यो मुनिं ययौ।
रोषेणोवाच ते ब्रह्मन् कापट्यं विदितं मया ॥३५॥
न स विप्रोऽभि मन्तव्यो यस्य स्यात्कपटं हृदि ।
इत्येकं बाणमादाय विव्याध द्विजपुंगवम् ॥३६॥
लग्ने हृदि महाबाणे प्राणत्यागं चकार सः।
रेणुका तं नृपं प्राह ब्रह्महत्या वृथा कृता।॥३७॥
स ऊचे रक्तनयनः क्रोधाविष्टो नृपस्तु ताम् ।
तूष्णीं तिष्ठ न चेद् हन्मि त्वामपीह मुनिप्रिये ॥३८॥
एकविंशति बाणैस्तां दुष्टो राजाऽहनद्रुषा ।
सस्मार मनसा साऽपि जमदग्नि मुनिं तदा ॥३९॥
पश्चादुवाच नृपतिं दुष्ट चांडाल किं कृतम् ।
अपराधं विना कस्मादावां निहतवानसि ॥१.७९.४०॥
तवापि भविता नाशो मूजानां नात्र संशयः ।
श्रुत्वेत्थं वचनं तस्यास्ततो यातो नृपस्तदा ॥४१॥
अल्पावशिष्ट सैन्येन चिन्ताक्रान्तो ययौ पुरीम् ।
विनिन्दन् हृदि चात्मानं शोचंश्च मृतसैनिकान् ॥४२॥
निरुत्साहो निरुद्योगो विवेश निजमन्दिरम् ॥४३॥ (३५११)
इति श्रीगणेशपुराण उपासनाखंडे कार्तवीर्योपाख्यान एकोनाशीतितमोऽध्यायः ॥७९॥

अध्याय ८० प्रारंभ : -
क उवाच ।
रेणुका तु गते तस्मिन् शुशोच भृशविह्वला ।
क्व गता मम पुत्रास्ते संहारेऽस्मिन्नुपस्थिते ॥१॥
मृते भर्तरि किं कुर्यां बाणजालसमावृता ।
क्व गतोऽसौ महाक्रोधी रामो मे प्रियबालकः ॥२॥
तस्मिन् दृष्टे मम प्राणा गमिष्यन्ति सुरालयम् ।
स्मृतमात्रस्तया रामो ययौ मातुस्तदाऽन्तिकम् ॥३॥
बाणजालचितां तां च पितरं मृतमैक्षत ।
कार्तवीर्येण दुष्टेन दृढबाणहतं हृदि ॥४॥
पपात मूर्छया भूमौ वातभग्न इव द्रुमः ।
पितरं मातरं चैव रुरोद भृशदुःखितः ॥५॥
राम उवाच ।
अद्यान्धकारः सर्वत्र अद्य शून्या दिशो दश ।
मेरुर्विना यथा पृथ्वी शक्रहीनाऽमरावती ॥६॥
नाश्रमः शोभते तद्वत् पित्रा हीनोऽयमद्य मे ।
त्रिलोकी गंगया हीना तद्वदाश्रम मंडली ॥७॥
न शोभते रेणुकया हीनाऽप्याश्रम मंडली।
गतं भयं तु देवानां मुनयोऽद्य निरीश्वराः ।
यदासीत्तपसा चास्य किमयं वा गृहीष्यति ॥८॥
एवं बहुविधाकारं चक्र आक्रंदनं तु सः ।
अचेष्टत भृशं रामो मत्स्यो नीरं विना यथां ॥९॥
ततः पुनर्मांतरं स रुदन्नेव समाययौ ।
निष्काशयामास शरानंके कृत्वा शिरोधराम् ॥१.८०.१०॥
चक्रन्द च पुना रामो मातृदुःखेन दुःखितः ।
त्रैलोक्यं भस्मसात् कर्तुं या क्षमा जननी मम ॥११॥
सा कथं पतिता भूमौ दुष्टबाण प्रपीडता ।
न विस्मरसि मां नित्यं क्षणं क्रीडागतं पुरा ॥१२॥
त्यक्त्वा मां कथमद्य त्वं कुत्र वा गन्तुमुद्यता।
ददासि मे पयो भूरि वस्त्राण्यन्नानि शोभने ॥१३॥
फलमूलानि चारूणि यासि त्यक्त्वा कथं नु सा ।
मातापितृभ्यां हीनस्य धिङ्मे जीवितमद्य मे ॥१४॥
ब्रह्मोवाच ।
इति पुत्रवचः श्रुत्वा रेणुका भृशदुःखिता।
प्रमृज्याश्रूणि पुत्रस्य जगाद भृशविह्वला ॥१५॥
अहं ते निकटे स्थास्ये न शोकं कर्तुमर्हसि ।
शृणु वार्तां पुरा वृत्तां राजाऽसौ कृतवीर्यजः ॥१६॥
मध्याह्ने सह सैन्येन प्राप्तः आश्रममंडलम्।
पित्रा ते मानितः सम्यग् भोजितो बलसंयुतः ॥१७॥
कामधेनोः प्रसादेन भुक्त्वाऽयाचत धेनुकाम् ।
तूष्णींभूते मुनौ कोपात् कामधेनुं मुमोच सः ॥१८॥
स्पृष्टमात्रा च सा धेनुः ससर्ज बलमुत्कटम् ।
चतुरंग ततो युद्धमभवद्राजसैनिकैः ॥१९॥
भग्नास्तेऽप्यपलन्सर्वे राजा युद्धमथाकरोत् ।
स च पंचशतं बाणान् वारंवारमथासृजत् ॥१.८०.२०॥
सोऽपि भग्नो गृहं यातः कामधेनुर्दिवं गता ।
पुनरागत्य दुष्टोऽसौ बाणेनैकेन वक्षसि ॥२१॥
जघान पितरं कोपादेक विंशति सायकैः ।
अपराधं विना मां च ताडयित्वा गतः खलः ॥२२॥
तस्मात्त्वयाऽद्य दुष्टस्य नाशः शीघ्रं विधीयताम् ।
एकविंशति वारं च कुरु निःक्षत्रियां धराम् ॥२३॥
एकविंशति बाणा मे देहे तेन यतोऽर्पिताः ।•
अन्यदेकं वदे पुत्र तत्कुरुष्व वचो मम ॥२४॥
संस्कारं कुरु नौ तत्र यत्र कोऽपि न दाहिताः ।
दत्तात्रेयं मुनिवरमाकार्य सर्व वेदिनम् ॥२५॥
कुरु कर्मान्तरं नौ त्वं त्रयोदशदिनावधि ।
तदैव गतिमाप्स्यावो नान्योवक्ताऽस्ति तादृशः ॥२६॥
इत्युक्त्वा रेणुका देहं त्यक्त्वा धामाप दुर्गमम्।
रामस्तत्सर्वमकरोत्तयादिष्टं महामनाः ॥२७॥ (३५३८)
इति श्रीगणेशपुराण उपासनाखंडे रामोपाख्यानेऽशीतितमोऽध्यायः ॥८०॥