प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५६ गणेशपुराणम्/खण्डः १ (उपासना खण्डः)
अध्यायः ५७
अज्ञातलेखकः
अध्यायः ५८ →

शक्र उवाच ।
हन्त ते कथयिष्यामि कथामेतां पुरातनीम् ।
यथा तेनापि सादृश्यं गणनाथस्य भक्तितः ।। १ । ।
दंडकारण्य देशेषु नगरे नंदुराभिधे ।
एकः कैवर्तको दुष्टो नाम्ना नामैव विश्रुतः ।।२ ।।
आबाल्याच्चौर्य निरतो यौवने जारकर्मकृत्।
प्रत्यक्षं दृष्टिविगमाद्भरते च शपत्यपि ।। ३ ।।
शपथान्कुरुते मिथ्या परम्हद्भेद कारकान् ।
ततो निःसारितो ग्रामाद् द्यूतमद्यरतो यतः ।।४।।
लोकैर्बहिर्दूरतर गिरि कन्दर कानने ।
स्थितः कान्तायुतो मार्गे जघान पथिकान्बहून् ।।५।।
एवं बहुधनो जातो नानालंकरणै स्त्रियम् ।
भूषयामास ससुतां तोषयामास मायया ।।६ ।।
शस्त्र खड्गं च खेटं च पाशान्धनुरनुत्तमम् ।
दंडं चोभयतो लोहं वहन्पूर्णे महेषुधी।
वृक्षाग्रे कोटरे वापि स्थितो मारयते बहून् ।।७। ।
नानाविधानि वस्तूनि वासांस्याभरणानि च ।
गृहे संचयते नीत्वा विक्रीणाति पुरान्तरे । ।८ ।।
यथेष्टं भजते नित्यं विषयान्मन्दिरे निजे ।
एवं पापसमाचारो हन्त्यरण्ये पशूनपि ।।९।।
एकदा कस्यचित् पृष्ठे धावितो योजनावधि ।
स तु तस्माद्गतो दूरं स्खलित्वा पतितो भुवि ।। 1.57.१० ।।
तत उत्थाय कष्टेन शनै शनैर्ययौ खलः ।
अपश्यत्पथि गच्छन्स तीर्थं गाणेश्वरं शुभं ।। ११ ।।
अकरोन्मज्जनं तत्र श्रममेव व्यपोहितुम् ।
ततोऽगच्छन्स्वविषयं ददर्श पथि मुद्गलम् ।। १ २। ।
जपन्तं गणनाथस्य मन्त्रं नामसमन्वितम् ।
खड्गमुद्यम्य निष्कोशं मुद्गलस्यान्तिकं ययौ ।। १३ ।।
कैवर्तको नाम नामा हन्तुं कृतमतिस्तदा ।
जगलुस्तस्य शस्त्राणि खड्गोऽपि दृढमुष्टितः ।। १४।।
अन्यथा चाभवद् बुद्धिस्तस्य दुष्टस्य तत्क्षणात् ।
द्विरदानन भक्तस्य मुद्गलस्य प्रभावतः ।। १५।।
जहास मुनिमुख्योऽसौ दृष्ट्वा तं तु तथाविधम् ।
पप्रच्छ संयतः कस्माच्छस्त्राणि गलितानि ते ।। १ ६।।
बद्धान्यपि च सर्वाणि पतितानि कुतो वद ।
इन्द्र उवाच ।
गणेशतीर्थस्नानेन मुनेरालोकनेन च ।
ज्ञानवैराग्य युक्तोऽसावब्रवीन् मुद्गरुं वचः ।। १ ७। ।
कैवर्तक उवाच ।
आश्चर्यं परमं मन्ये कुंडस्नानेन मे मतिः ।
विपरीताभवद् ब्रह्मन् विशेषाद्दर्शनेन ते ।। १ ८। ।
बाल्यात् प्रभृति मे दुष्टा बुद्धिः पापरताऽभवत् ।
असंख्यातानि पापानि कृतान्यद्यावधि प्रभो ।। १ ९।।
इदानीमेव निर्विण्णा मतिर्मे त्वत्प्रसादतः ।
नादास्ये पुनरेतानि शस्त्राणि पतितानि मे ।।1.57.२ ० ।।
कुरू मेऽनुग्रहं पूर्णमुद्धरस्व भवार्णवात् ।
साधवो ह्यनुगृह्णन्ति दीनान् दुष्कृतिनोऽपि च । । २१ ।।
न साधु संगमः क्वापि वृथा दृष्टो महामुने ।
यथा शेवधि सम्पर्को न धातुषु वृथा भवेत् ।।२ २ ।
। शक्र उवाच ।
एवमुक्तो मुद्गलोऽसौ तं जगाद कृपान्वितः ।
शरणागत संत्यागे रमरन्दोषं विशेषतः ।।२ ३ ।
। मुद्गल उवाच ।
विधिप्रयुक्ते दानादौ नाधिकारोऽस्ति कुत्रचित् ।
तथापि नामजपं कथयामि प्रसादत ।।२४।।
गजाननस्य परमं सर्वसिद्धिकरं नृणाम् ।
ततः प्रणाममकरोत् कैवर्तो मुद्गलं मुनिम । ।२५ ।।
गणेशाय नम इति नाममंत्रमुपादिशत् ।।२ ६ ।।
स्व यष्टिं रोपयामास पुरस्तस्य धरातले ।
उवाच चैनं संप्रीत्या यावदागमनं मम ।।२७।।
तावज्जपस्व नामेदं यावद्यष्टिश्च सांकुरा ।
एकासन गतो वायुभक्ष एकाग्रमानसः ।।२८।।
सायं प्रातर्जलं देहि यष्टिमूले निरन्तरम् ।।२९।।
शक्र उवाच ।
उपदिष्टो मुद्गलेन नामा कैवर्तकस्तदा ।
निराशो जीविते तस्थौ तस्मिन्नन्तर्हिते मुनौ ।। 1.57.३० ।।
एकासन गतोऽरण्ये जजाप नाममंत्रकम् ।
पुरोधाय मुनेर्यष्टि वृक्षच्छाया समाश्रितः ।। ३१ ।।
निराहारो निरीहश्च जितेन्द्रिय गणो वशी ।
एवं सहस्रवर्षान्ते सा यष्टिः सांकुराऽभवत् ।। ३ २।।
ततः प्रतीक्षामकरोन्मुनेरागमनस्य यः ।
वल्मीकवेष्टित तनुर्लताजाल समन्वितः ।।३ ३ ।।
ततो मुनि मुद्गलोऽपि दैवाच्च देशमाययौ ।
सस्मार च तदा यष्टिं तं च कैवर्तकं यदा ।।३४।।
ददर्श भ्रममाणः स सांकशं यष्टिमुत्तमाम् ।
वल्मीकाक्रान्त देहं च तं च कैवर्तकं मुनिः ।। ३५।।
दुश्चरं मुनिभिः सर्वैरास्थितं तप उत्तमम् ।
लक्षितं नेत्रमात्रेण यतता मुनिना तदा ।।३ ६।।
उत्साद्य तस्य देहस्थं वल्मीकं मुनिसत्तमः ।
मंत्रितेन जलेनास्य सिषेचांगं च सर्वशः ।।३७।।
सदैव दिव्यदेहं तं जगाद मुनिसत्तमः ।
प्राप्तवन्तं गणेशस्य सारूप्यं करयो गतः ।।३ ८।।
द्विकरं प्रजपंतं च नाम वैनायकं शुभम् ।
उन्मीलीते तदा नेत्रे मुनिना बोधितस्तु सः ।।३ ९ ।।
तस्य नेत्रोद्भवे वह्निर्विद्युद्वद् गगनं गतः ।
त्रिलोकीमुद्यतो दग्धुं मुनिना वारितो यतः ।।1.57.४० ।।
सोऽपि तं मुनिमानम्य स्वगुरुं करूणायुतम् ।
आलिलिंग मुदा युक्तस्तनयः पितरं यथा ।।४ १ ।।
उपदिष्ये मुद्गलेन नाम कैवर्तकस्तदा ।
वल्मीकात् पुनरुत्पन्नं मानयामास तं सुतम् ।।४२ ।।
चकार नाम कर्मास्य मुद्गलो मुनिरादरात् ।
भ्रुशुंडीति ततो नृप ।।४३।।
एकाक्षरं च मन्त्रं च तस्मै प्राहाथ मुद्गल ।।४४।।
वरानस्मै ददौ पश्चाद्भव त्वं मुनिसत्तमः ।
इन्द्रादि देवगंधर्वैः सिद्धैरर्च्यतमो भव ।।४५।।
यथा गजाननो देवो ध्यातो दृष्टोऽघनाशनः ।
तथाहि त्वमपि मुने भ्रूशुंडिः प्रथितो भव । । ४६ ।।
यस्य ते दर्शनं स्यात्स कृतकृत्यं भवेन्नर ।
आयुश्च कल्पलक्षं ते भविता मम् वाक्यतः ।।४७।।
एवं बहुविधा तस्मै वरान्यच्छति मुद्गले ।
ययुरिन्द्रादयो द्रष्टुं मुनयो नारदादयः । ।४८।।
ऊचुस्तं प्रणिपत्यैव भ्रूशुंडे तव दर्शनात ।
सार्थकं जन्म नो विद्या पितरौ च तपो यशः ।।४९।।
त्वमेव गणनाथोऽसि पूजनीयोऽसि नो मुने ।
स तु संपूज्यवान्सर्वान् प्रणम्य च विसृज्य च ।।1.57.५ ० ।।
पुनः पद्मासन गतो जजापैकाक्षरं मनुम् ।
पुरो मूर्तिं प्रतिष्ठाप्य गणेशस्य मनोहराम् ।।५ १ ।।
उपचारैः षोडशभिरपूपुजद्दिनेदिने ।
आश्रमश्च बभौ वापी सरोवृक्ष लतादिभि । ।५ २ ।।
त्यक्तवैरे सिंहमृगै नकुलैर्भुजगोत्तमैः ।
ततो वर्षशतस्यान्ते प्रसन्नोऽभूद् गजाननः ।।५३ ।।
उवाच मत्स्वरूपस्त्वं किमर्थं तपसे तपः ।
कृतकृत्योऽसि सायुज्यमायुषोऽन्ते च लप्स्यसे ।।५४।।
इदं क्षेत्र सुविख्यातं नामलेति भविष्यति ।
अनुष्ठान कृतामत्र नानासिद्धिप्रदं नृणाम् ।।५५ ।।
मन्मूर्ति दर्शनादत्र न पुनर्जन्मभाग्भवेत् ।
अपुत्रच्च लभेत् पुत्रान् विद्यार्थी ज्ञानमाप्नुयात् ।।५ ६।
शक्र उवाच ।
इति ते कथितं सर्वं शूरसेन नृपोत्तम ।
यत्वया परिपृष्टं मे किमन्यच्छ्रोतुमिच्छसि ।।५७।। ।।५७।। (२५२०)
इति श्री गणेश पुराणे उपासनाखंडे भ्रूशुंड्युपाख्यानं नाम सप्तपंचाशत्तमोऽध्यायः ।।५७।।