गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०५६-०६०

← अध्यायाः ५१-५५ गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ५६-६०
[[लेखकः :|]]
अध्यायाः ६१-६५ →

अध्याय ५६ प्रारंभ :-
मुनिरुवाच ।
तौ तु रौद्रपुरे रम्यां नरान्तकसभां गतौ ।
सहस्रस्तम्भरुचिरां मणिमुक्ताविभूषिताम् ॥१॥
अनेकवीरसंबाधां नानाश्चर्यवतीं शुभाम् ।
शतयोजनविस्तीर्णां तावदायामसंयुताम् ॥२॥
नानामणिमये रम्ये आसने स नरान्तकः ।
उपविष्टस्तत्समये तस्यामात्यौ वरासने ॥३॥
उभौ गगनसंलेहिमूर्धानौ बलिनां वरौ।
नत्वा तौ वदतः शूरश्वपलश्च गुणान्बहून् ॥४॥
वक्तव्यं दूतवर्येण यत्स्यात्साध्वितरच्च यत् ।
अन्यथा दूतदोषः स्यात्स्वामिकोपश्च दारुणः ॥५॥
श्रुत्वा तत्स्वामिना कार्यं विचार्य स्वहितं शुभम् ।
आवां विनायके विघ्नान्कर्तुं यातः पुरीं तु ताम् ॥६॥
अतिगुप्ततरौ तत्र स्थितौ बालप्रतीक्षकौः ।
विघण्टो दन्तुरश्चाथ प्रथमं बालरूपिणौ ॥७॥
ताभ्यामालिंगतस्तौ स भस्म चक्रे विनायकः ।
पतंगश्च विधूलश्च वायुरूपधरौ ततः ॥८॥
यातौ बालकमुत्क्षिप्तुं शिर आक्रम्य नाशितौ ।
पाषाणरूपी प्रबलः शतधा खण्डितोऽसुरः ॥९॥
कामक्रोधौ द्वावसुरौ रासभं रूपमास्थितौ ।
हन्तुं बालं तु मार्गे तौ चूर्णितौ धरणीतले ॥२.५६.१०॥
ततः कुण्डियास्तु वरः कौञ्जरं रुपमास्थितः ।
मार्गमावृत्य संतस्थौ तत्कुम्भस्य विदारणात् ॥११॥
निहतः क्षणमात्रेण कुमारेण बलेन सः ।
धर्मदत्तगृहं पश्चात्जृम्भिणी हन्तुमागता ॥१२॥
नारिकेलेन शिरसि हता मृत्युमवाप सा ।
ज्वालासुरो व्याघ्रतुण्डस्तृतीयस्तु विदारणः ॥१३॥
आगता नाशितुं बालमाद्यो जज्वालतां पुरीम् ।
अन्त्यः साहाय्यमकरोद्वायुरूपतयाऽस्य ह ॥१४॥
विदार्यास्यं व्याघ्रतुण्डोऽभक्षयच्चाखिलान्जनान् ।
त्रयोऽपि निहतास्तेन बालेनानन्तमायया ॥१५॥
मेघनामा महादैत्यो गाणकं रूपमास्थितः ।
निहतो मुद्रिकाघातात्तदद्भुतमिवाभवत् ॥१६॥
कूपश्च कन्दरश्चोभौ निहतौ मायिनौ बलात् ।
अम्भासुरोऽन्धकस्तुङ्गो नाशितुं बालमागताः ॥१७॥
एकेनाकारितुं तमो धाराभिर्ववृषे परः ।
अपरस्तुङ्गशिखरो न्यपतद्बालकोपरि ॥१८॥
महाविहङ्गरूपेण दूरे क्षिप्तास्त्रयोऽपि च ।
तेषां प्रतिकृतिं कर्तुं भ्रमरा नाम राक्षसी ॥१९॥
आगता भक्षितुं बालं दुष्टाशयवती शुभा ।
तदुरःस्थलमाक्रम्य प्राणां जग्राह विघ्नराट् ॥२.५६.२०॥
तत आवां तडिद्रूपमास्थाय बालकं गतौ ।
विहन्तु तेन विधृतौ करयोर्बलशालिना ॥२१॥
कृपावता विमुक्तौ च पृष्ट्वा सर्वं चिकीर्षितम् ।
कथयित्वोदन्तमखिलमागतौ स्वामिनं प्रति ॥२२॥
एकदा नगरे तत्र सर्वैरेकः समाहृतः ।
भोजनाय च शुक्लेन दरिद्रेण विनायकः ॥२३॥
विशीर्णमोदनं भुक्त्वा सह तैलेन प्राग्विभुः ।
पश्चाद्गतोऽनन्तकायो भोक्तुं सर्वगृहेषु सः ॥२४॥
सर्वत्र काशिराजेन सहितो बुभुजे हि सः ।
काशिराजेन मूढेन न ज्ञातं तद्विचेष्टितम ॥२५॥
स्वामिन्नेतादृशी शक्तिः क्वापि दृष्टा न च श्रुता।
इदानीं यद्धितं ते स्यात्तद्धि सम्यग्विधीयताम् ॥२६॥
जानीवहे न जेताऽस्य त्रैलोक्ये विद्यते पुमान् ।
मुनिरुवाच ॥
इत्थं श्रुत्वा तयोर्वाक्यं प्रजज्वाल सुरान्तकः ।
वमति स्म मुखाग्निं विश्वमत्तुं प्रसारितात् ॥२७॥
कपिरुड्डानशीलोऽपि न सिंहं बाधते क्वचित् ।
बद्ध्वा तु भ्रुकुटीमुग्रामुवाच स नरान्तकः ॥२८॥
ग्रासशीलश्चाजगरो न महीं ग्रसते क्वचित् ।
आश्चर्यं ममचित्ते तु भवद्वाक्यादुपागतम् ॥२९॥
खद्योतो राजते तावद्यावच्चन्द्रो न दृश्यते ।
चन्द्रोऽपि राजते तावद्यावत्सूर्यो न दृश्यते ॥२.५६.३०॥
न दृश्यते यदा राहुस्तावत्सूर्योऽपि राजते ।
न दृष्टः कालरूपोऽहं तावद्बालो महानयम् ॥३१॥
सकाशिराजं तं बालं जानीयातां दिवं गतम् ।
यत्र ते निहता दैत्या गतास्तत्र गमिष्यति ॥३२॥
मुनिरुवाच ।
एवमुक्त्वा समुत्तस्थौ जगर्ज गर्जयन्दिशः ।
चकम्पे पृथिवी सर्वा तद्गर्जनरवाकुला ॥३३॥
तत आज्ञापयत्सर्वान्वीरान्सज्जी भवन्त्विति ।
काशिराजस्य नगरीं यामि युद्धाय दंशितः ॥३४॥
तस्मिन्वदति सेनेत्थं सन्नद्धा समुपागता ।
सर्वशान्तिकरा घोरा चतुरङ्गध्वजान्विता ॥३५॥
सैन्येन रजसा सर्वं व्याप्तमासीद्दिगन्तरम् ।
आच्छादिते दिनकरे न प्राज्ञायत किंचन ॥३६॥
पदातयोऽप्यसंख्येयाः सिन्दूरारुणमस्तकाः ।
उड्डीयोड्डीय धावन्तो मिथ्यायुद्धं प्रचक्रिरे ॥३७॥
मुक्तकेशाः खड्गहस्ता भृशुण्डीचर्मपाणयः ।
पाषाणद्रुमखट्वाङ्गशक्तिपाशकराः परे ॥३८॥
ततो ययौ गजानीकं घण्टानादविभूषितम् ।
सिन्दूरारुणसद्गण्डं दन्तावरणराजितम् ॥३९॥
नानाधातुविचित्रो नु पर्वतानां व्रजो व्रजन् ।
चीत्कारेण नदद्दन्तैर्भिन्दन्निव गिरिव्रजम् ॥२.५६.४०॥
आधोरणा यदा न स्युस्तदा सर्वे हतं भवेत् ।
दानोदकेन तु रजः प्रशान्तमभवत्तदा ॥४१॥
अश्वारोहास्तयोर्जग्मुर्मुकुटाटोपमस्तकाः ।
शस्त्रिकाचर्मनिस्त्रिंशधनुर्बाणविभूषिताः ॥४२॥
बृंहितैर्हेषितैर्व्योम कुर्वन्तः सगुणं भृशम् ।
कंकालैश्च तनुत्राणैस्त्रिशूलैश्च विराजिताः ॥४३॥
गदामुद्गरपट्टीशमहापरशुपाणयः ।
चक्रतोमरभस्लासिपाशसृणिकराः परे ॥४४॥
अश्वा अलंकृता नानालंकारैश्चामरैरपि ।
मनोजवा वायुवेगा व्योमैवाक्रान्तुमिच्छवः ॥४५॥
ततः सुवर्णरजतमुक्तामणिविभूषितम् ।
सुवर्णाक्षैर्ध्वजैर्युक्तं नानालंकृतवाजिभिः ॥४६॥
नानायुद्धसमूहैश्च धनुर्बाणशतैर्युतम् ।
कार्तस्वरमहाचक्रं किंकिणीजालमण्डितम् ॥४७॥
महारथी महामात्यौ रथमास्थाय निर्ययौ ।
कृष्णदेहो महाकायो वीरकंकणशोभितः ॥४८॥
लसत्कुण्डलसुश्रोत्रो महामुकुटमण्डितः ।
मुक्तासुवर्णमालाढ्यो मुद्रिकाखड्गमंडितः ॥४९॥
केशरागरुकस्तूरीकर्पूरांगविलेपनः ।
शुचिरस्त्राणि सस्मार न प्रयुक्तानि कुत्रचित् ॥२.५६.५०॥
वीरावेशेन स बभौ रोगी शोफां गतो यथा ।
नानावादित्रनिर्घोषैर्नादयन्विदिशो दिशः॥५१॥
वीरा विनायकं जेतुं दृष्टा गर्जन्त्यनेकशः ।
बृंहितैर्हेषितैः क्ष्वेडै रथनेमिस्वनैरपि ॥५२॥
निनादं तं समाकर्ण्य त्रस्ता देवा दरीं ययुः ।
एवं नरान्तकः काशीराजस्य नगरीं ययौ ॥५३॥ (२५११)
इति श्रीगणेशपुराणे क्रीडाखंडे नरान्तकनिर्गमनं नाम षट्पच्चाशत्तमोऽध्यायः ॥५६॥

अध्याय ५७ प्रारंभ-
क उवाच ।
तस्मिन्प्रयाते दैत्येन्द्रे प्राग्गुल्मेषु गता नराः ।
धावमाना नृपं प्रोचुर्भुक्तवन्तं नरान्तकः ॥१॥
आगतो दैत्यराजोऽसौ चतुरंगबलान्वितः ।
पौरा वादित्रनिर्घोषाञ्श्रुत्वा चक्रुर्महास्वनान् ॥२॥
कोलाहलो महानासील्लोकानां नगरे भृशम् ।
पलायिता दश दिशो लोकाः प्राणपरीप्सया ॥३॥
राजाऽथ भोजनं त्यक्त्वा प्रोत्तस्थौ स्पर्शवानिव ।
कृत्वा युद्धक्षमं वेषं लोकानाज्ञापयत्पुरा ॥४॥
सज्जीभवन्तु युद्धाय भेरीशब्दमकारयत् ।
खड्गचर्मधरो राजा निषंगी चापवान्बली ॥५॥
तनुत्राणी च कंकाली पुपूजे तं विनायकम् ।
जयपूर्वे च तं स्मृत्वा नत्वा चाश्वं समारुहत् ॥६॥
तृतीयमानकारावं श्रुत्वा सेनाचरा ययुः ।
सन्नद्धास्त्वरमाणाश्च पत्त्यश्वस्यन्दनैर्गजैः ॥७॥
अतिप्रहृष्टास्ते योधास्त्रैलोक्यग्राससाहसाः ।
नगर्याः पूर्वभागे स वेदिकायां स्थितो नृपः ॥८॥
अमात्यान्सर्ववीरांश्च ददौ वस्त्रधनानि सः ।
उवाच समयोऽयं वो दर्शयन्तु पराक्रमम् ॥९॥
विनायकानुग्रहान्नो न भयं विद्यते क्वचित् ।
तथापि बलवान्दैत्यो बलाज्जिग्ये वसुन्धराम् ॥२.५७.१०॥
जयस्य नियमो नास्ति दैवाधीनाश्च पूरुषाः ।
न सेना लक्षभागेन विद्यतेऽतोऽब्रवीम्यहम् ॥११॥
क्व सागरः क्व कुम्भोदं क्व खद्योतः क्व वा रविः ।
तेनैव रक्षिताः साम्ना स्थिता राज्यश्रिया वयम् ॥१२॥
अपराधाः सुबहवो जाता नो मस्तके ततः ।
कियन्तो निहता दैत्या विनायकबलेन च ॥१३॥
त्यक्त्वा साम प्रयातोऽसौ विचारः क्रियतां हितः ।
मुनिरुवाच।
तत्राब्रवीन्महामात्यो राजानं भयविह्वलम् ॥१४॥
चतुर्भिर्बुद्धिमद्भिस्त्वं याहि दैत्यं नरान्तकम् ।
शरणं स्वस्वकार्यार्थे नीचानुशरणं शुभम् ॥१५॥
बृहस्पतिमतं राजन्ब्रवीमि ते शृणुष्व तत् ।
श्रुत्वा तत्कुरु राजेंद्र ततः क्षेमं भविष्यति ॥१६॥
बृहस्पतिरुवाच।
कन्याप्रदानसहभोजनवस्त्रदानसामाभिधाननमनप्रणयमाणैः ।
तत्कीर्तिकीर्तनतदाप्तजनानुवादमुख्यैरुपायनिचयैरहितान्विहंस्यात् ॥१७॥
मुनिरुवाच ।
स चेद्विनायकं याचेद्दत्त्वा राज्यस्य रक्षणम् ।
कर्तव्यमिति मे भाति स्वहितं तद्विचिन्त्यताम् ॥१८॥
ततः सर्वजनाः साधु साध्विति प्राब्रुवन्नृपम् ।
सम्यगुक्तममात्येन वैरच्छेदाय भो नृप ॥१९॥
विचारयत्सु तेष्येवं दैत्यास्ते बलवत्तराः ।
रुरुधुस्तां पुरीं सैन्यैः सर्वे ते शलभा इव ॥२.५७.२०॥
मध्ये गतान्नरान्दृष्ट्वा ददहुस्तां पुरीं खलाः।
प्रजज्वाल महानग्निश्चतुर्दिक्षु विदिक्षु च ॥२१॥
धूमेनाच्छादि तपनो न प्राज्ञायत किंचन ।
कल्पान्त इव तत्रासील्लोकानामतिदारुणः ॥२२॥
ध्रियन्ते ते परैर्येऽग्निभयाद्यान्ति बहिर्नराः ।
सबाला योषितश्चापि लिलिंगुश्च चुचम्बिरे ॥२३॥
पतिव्रतास्त्यजुः प्राणाँल्लज्जयाऽतिपरिप्लुताः ।
आरुह्य गोपुरं काश्चिद्देहत्यागं प्रचक्रिरे ॥२४॥
अपरास्तत्यजुः प्राणां शस्त्रैः पाशैर्विषैरपि ।
अतिरम्या धृता दूतैर्नीतास्ता स्वामिनं प्रति ॥२५॥
नरान्तकेन भुक्त्वा ताः प्रेषिता नगरं स्वयम् ।
एवं तं प्रलयं दृष्ट्वाऽमात्यानूचे नृपः पुनः ॥२६॥
अस्मत्समक्षं योषाश्चेन्नीता दुष्टर्दुरात्मभिः ।
तदाऽयशो महन्न स्यात्तस्माद्युध्यामहेऽसुरैः ॥२७॥
एवमुक्त्वा स्वमश्वं स प्रेरयन्युद्धदुर्मदः ।
सज्यं कृत्वा धनुः सद्यो बाणवृष्टिमथाकरोत् ॥२८॥
आच्छादितो रश्मिमाली दैत्या मोहमुपागमन् ।
धाराधरा यथा धारा विमुंचन्ति तथा धनुः ॥२९॥
मुंचति स्म शरैस्ते ते निहता दैत्य संचयाः ।
केचिन्मृताश्च भग्नाश्च केचिन्निश्चरणाः कृताः ॥२.५७.३०॥
केषांचिदुदरं भग्नं परेषां बाहवो हताः ।
केषांचित्स्फोटिता नेत्राः केषांचिदुरवोऽपि च ॥३१॥
अमात्याः सेनया सार्द्धं काशीराजं समन्वयुः ।
खड्गैः परश्वधैस्ते तान्परवीरान्निजघ्निरे ॥३२॥
तदाघातैर्हताः केचित्पतिता भूतले परे ।
तेऽपि दैत्या महाशस्त्रैर्निजघ्नुस्तान्रणाजिरे ॥३३॥
अन्धकारे महारौद्रे सेनाधूलिकृते परे ।
निजघ्नुरेव शस्त्रैस्ते वीरान्स्वांश्च परानपि ॥३४॥
मल्लयुद्धं च चक्रुस्ते परस्परजिगीषया ।
अश्वारूढैर्गजारूढै रथारूढैः पदातिभिः ॥३५॥
पदाताश्च रथारूढा युयुधुः शस्त्रसायकैः ।
एवं संभ्रान्तमभवत्तद्युद्धं तुमुलं परैः ॥३६॥
प्रभग्ना दैत्यसेना सा तदा याता परांगमुखी।
सिंहनादं चकारोच्चैः काशिराजो जयान्वितः ॥३७॥
हर्षात्सेनान्तरं यातो निघ्नन्युद्धे वरान्वरान् ।
भिन्दन्सेनां महाघोरां युद्धावेशी गजो यथा ॥३८॥
शतं सहस्रं वीराणां सेनामध्ये जघान सः ।
निघ्नन्तं तं तथा दृष्ट्वा रुरुधुः परसैनिकाः ॥३९॥
राजाऽयमिति बुद्ध्वा ते सर्व एव समाययुः ।
तच्छराणां महावृष्टिं सोढ्वा दध्रुर्बलादमुम् ॥२.५७.४०॥
अमात्ययोस्तु पुत्राभ्यां सह ते दैत्यपुंगवाः ।
सेनाचरा महाशब्दं धृतो राजेति चक्रिरे ॥४१॥
ततः सेनाचरा राज्ञो धृताः केचित्पलायिताः ।
मृताः केचित्क्षताः केचिच्छरणं केऽपि तान्ययुः ॥४२॥
महावने महोक्षेव बलवद्भिर्वृकैरिव ।
अमात्यपुत्रसहितं निन्युर्दूता नरान्तकम ॥४३॥
दग्धा च नगरी सर्वा निवार्यैः सैनिकैस्तु सा ।
ततो नरान्तकः स्वीयां जगाद वीरसत्तमान् ॥४४॥
यदर्थमागता वीरास्तत्कार्यं सिद्धमेव नः ।
न मेऽस्ति गणना तस्य मुनिपुत्रस्य साम्प्रतम् ॥४५॥
जिते प्रभौ जिता सेना जिते दुर्गे जितं पुरम् ।
काशिराजे जिते बालो जित एव न संशयः ॥४६॥
अथानेष्यति राजाऽयं बालं निग्रहतोऽधुना ।
एवमुक्त्वा ययौ वाद्यनिर्घोषैः स तथा पुरीम् ॥४७॥
काशिराजं पुरस्कृत्य स्तूयमानोऽथ बन्दिभिः ।
यच्छन्वस्तूनि बन्दिभ्यो ददौ विप्रेभ्य एव च ॥४८॥ (२५५९)
इति श्रीगणेशपुराणे क्रीडाखंडे राजनिग्रहनाम सप्तपंचाशत्तमोऽध्यायः ॥५७॥

अध्याय ५८ प्रारंभ –
क उवाच ।
अर्धमार्गं गतो यावद्धर्षेणासौ नरान्तकः ।
तावदेव श्रुतं काशीराजपत्न्या धृतो नृपः ॥१॥
अत्यन्तं सा शुशोचाथ पौरा ये चावशेषिताः ।
आक्रन्दः सुमहानासीन्मत्स्यानां निर्जले यथा ॥२॥
अम्बा सा पतिता भूमौ धृते भर्तरि वैरिभिः ।
मूर्छिता च विवर्णाऽभूद्रम्भा वातहता यथा ॥३॥
सखीभिः सहिताऽरोदीद्रुदती प्राब्रवीत्तदा ।
अम्बोवाच ।
सिंहखेलो गजानीकहन्ता यो रिपुमर्दनः ॥४॥
सृगालतुल्यदैत्येन स कथं विधृतो बलात् ।
क्व गतं मत्तमातंगसहस्रबलशालिनः ॥५॥
बलं भर्तुर्मदीयस्य दैत्यकोटिहरस्य ह ।
कथं रुष्टो महेशो मे कदा द्रक्ष्ये निजं पतिम् ॥६॥
कं देवं शरणं यामि यस्तं शीघ्रं विमोचयेत् ।
कश्यपस्यास्य बालस्य वराद्युद्धं कृतं वरम् ॥७॥
तद्धि सर्वं वृथा जातं राज्ञि मूढत्वमागतम् ।
यो बालवचनाच्छ्रेष्ठैर्विरोधं कृतवान्वृथा ॥८॥
को जयेत्तं महादैत्यं भर्तृग्राहं नरान्तकम् ।
विना सर्वैः कथं कल्पकालः प्राप्तो हताशया ॥९॥
अहं च धरणी चापि कथं वैधव्यमागता।
न तादृशः क्वापि जातो करुणाब्धिः शरण्यदः।॥२.५८.१०॥
मुनिरुवाच ।
एवं तच्छोकमाकर्ण्य कश्यपस्यात्मजो बली।
शब्देन महता गर्जन्ब्रह्मांडस्फोटकारिणा ॥११॥
प्रतिशब्देन गगनं जगर्ज च दिशोऽपि च ।
चकम्पे धरणी सर्वा सपर्वतवनाकरा ॥१२॥
पक्षिणः पतितास्तेन मृता भ्रान्ता जनास्तदा ।
ततः सिद्धिं समालोक्य क्रोधव्याकुललोचनः ॥१३॥
क्व गताऽसि महायुद्धप्रसंगं प्राह तामिति ।
सा तदाशयमालक्ष्य चक्रे नानाविधां चमूम् ॥१४॥
विकरालमुखा वीराः प्रादुरासन्सहस्रशः ।
हलदन्ताः सर्पजिह्वा नराः पर्वतमस्तकाः ॥१५॥
दारितास्यास्तु भूगोलमकस्माद्ग्रसयिष्णवः ।
आस्यानलं विमुंचंतः शतनेत्रा महाबलाः ॥१६॥
येषां नासारन्ध्रगता न दृश्यन्ते महागजाः ।
सूर्याचन्द्रामसौ येषां श्वासान्निपतितौ भुवि ॥१७॥
जटाभिः पृथिवी येषां सर्वा संमार्ज्यते भृशम् ।
सहस्रयोजनहस्ता द्विगुणाश्च तदंघ्रयः ॥१८॥
तेषां तु नायकः क्रूरो विनायकसमीपतः ।
आगतः परिपप्रच्छ किं कार्यं वद मे प्रभो ॥१९॥
देहि मे क्षुधितस्यादौ भक्ष्यं तृप्तिकरं प्रभो ।
इत्युक्तवन्तं पुरुषमुवाच स विनायकः ॥२.५८.२०॥
भक्षयस्व महासेनां नरान्तकसुपालिताम् ।
हत्वा तु तच्छिरो मह्यमानयस्व त्वरान्वितः ॥२१॥
तत्सैन्येन न तृप्तिश्चेद्दास्ये भक्ष्यान्तरं तव ।
एवमाज्ञामनुप्राप्य नत्वा तं कश्यपात्मजम् ॥२२॥
महाक्ष्वेडितशब्दं तु कृत्वा यातो नरान्तकम् ।
तस्य श्वेडितशब्दस्य नादृग्रूपेण सैनिकाः ॥२३॥
नरान्तकोऽपि भीतास्ते दुद्रुवुस्ते दिशो दश ।
हस्ते धृत्वा तु तान्सर्वान्मुखमध्ये समाक्षिपत् ॥२४॥
उद्दुधूल रजो भौमं न प्राज्ञायत किंचन ।
अन्धकारे महाघोरे दीपिकाभिर्व्यलोकयन् ॥२५॥
तं दृष्ट्वा पुरुषं घोरं केचित्प्राणान्प्रजह्रिरे।
तांश्चापि जीवतः सर्वांस्त्वरया भक्षयत्यसौ ॥२६॥
नरान्तकस्तु दृष्ट्वैवं सर्वसैन्यविनाशनम् ।
अतर्कयत्स्वमनसा कृतान्तस्यान्तकोऽपरः ॥२७॥
आगतः किं मया कार्यं दृश्यते बलवानयम ।
एवं वदन्ददर्शाथ सेनामर्द्धां तु भक्षिताम् ॥२८॥
प्रलयानलवच्चायं पृतनां हरते बलात ।
निःशेषामेव कर्ताऽमुमगस्त्य इव वारिधिम् ॥२९॥
दैत्यसेनाचराः सर्वे महाशब्दान्प्रचक्रिरे ।
केचिच्च भक्षितास्तेन चूर्णिताः पादघाततः ॥२.५८.३०॥
श्वासानिलाहताः केचित्केचिद्भीत्यैव मम्रिरे ।
परस्परोपरि तदा वीरा निपतिताः परे ॥३१॥
याहि याहीहि वस्त्रातुं चुक्रुशुस्तं नरान्तकम् ।
कराघातेन निहतान्भक्षयत्येष तत्क्षणात् ॥३२॥
असंख्यभक्षणादस्य न शान्तो जठरानलः ।
अश्वारोहा गजारोहाः पदाता रथसादिनः ॥३३॥
भक्षिता निहता वाहा गजाश्चानेकशो मुने ।
एवं कोलाहलं श्रुत्वा सज्यं कृत्वा धनुर्बलात् ॥३४॥
धरण्यां जानुनी स्थाप्य शरानुभयतस्तथा ।
आदाय धनुराकृष्य शरवृष्टिं तदाऽकरोत् ॥३५॥
ततोऽन्धकारमभवच्छरवृष्टिकृतं पुनः ।
पक्षिणः पतिता भूमौ राज्ञो भृत्या अनेकशः ॥३६॥
स गीलयति पुरुषो बाणान्दैत्यसमीरितान्।
असंख्याताः शरास्तस्य रोमकूपेषु निर्गताः ॥३७॥
स्रवन्तो रुधिरं सर्वे न जानात्यणु वेदनाम् ।
प्रादुश्चक्रे ततोऽस्त्राणि पौरुषेण नरान्तकः ॥३८॥
तान्यस्त्राण्यगिलत्सर्वाण्यण्डान्याजगरी यथा ।
कुण्ठितास्त्रः क्षीणशस्त्रो नष्टसायकसञ्चयः ॥३९॥
क्षीणशक्तिः पमालासौ दैत्यराजो नरान्तकः ।
स कालपुरुषस्तस्य पृष्ठ एवालगत्तदा ॥२.५८.४०॥
बभ्राम भूतले दैत्योऽपश्यत्पृष्ठे तु तं यदा ।
तदा स्वर्गं जगामाशु भयात्तस्य नरान्तकः ॥४१॥
पुनः पृष्ठे च तं दृष्ट्वा पपात धरणीतले ।
तत्रापि तं ददर्शाथ प्राविशद्धरणीतलम् ॥४२॥
स कालपुरुषः केशे ततो दध्रे नरान्तकम् ।
बिलं विशन्तमुरगं गरुडोऽतिबलं यथा ॥४३॥
ततो नरान्तकं प्राह पुरुषः स बलान्वितः ।
क्व गमिष्यसि दृष्टः सन्ममाग्रे त्वं नरान्तक ॥४४॥
ईश्वरस्य वरान्मत्तो वृथा देवर्षिपीडनम् ।
मनुष्याणां च संहारमनन्तानां महाखल ॥४५॥
तव संहरणे दुष्टावतीर्णोऽस्ति विनायकः ।
अहंकारं च सकलं त्यक्त्वा तं शरणं व्रज ॥४६॥
अघानि ते विनश्यन्ति दृष्ट्वा तत्पादपंकजम् ।
इत्युक्त्वा तं बलाद्दैत्यमानिनाय नरान्तकम् ॥४७॥
विनायकस्य निकटे दैत्यराजं परं ततः ।
उवाचाथ प्रणम्यासौ स्वामिनं तं विनायकम् ॥४८॥
भक्षितं सर्वसैन्यं ते आज्ञां प्राप्य महत्तरम् ।
अत्यन्तं क्लेशितोऽनेन धृत्वैनं त्वां समानयम् ॥४९॥
मम निद्रास्थलं यच्छ श्रमापनुत्तये विभो ।
सर्वेषां च सुखायास्य मुक्तिं यच्छ विनायक ॥२.५८.५०॥
एवं तद्वाक्यमाकर्ण्य तं विभुः प्रत्यभाषत ।
मम वक्त्रान्तर्गतस्त्वं निद्रां प्राप्नुहि स्वेच्छया ॥५१॥
इत्याकर्ण्य महावाक्यं विनायकमुखोद्गतम्।
तन्मुखं प्रविवेशाथ तद्रूपं समपद्यत ॥५२॥
यथा गन्धो धराजातस्तत्रैव परिलीयते ।
तथा विनायकाज्जातस्तत्रैव लयमाप्तवान् ॥५३॥
य इदं शृणुयाद्भक्त्या महदाख्यानमुत्तमम् ।
सर्वान्कामानवाप्याथ मुक्तिं च लभते ध्रुवम् ॥५४॥ (२६१३)
इति श्रीगणेशपुराणे क्रीडाखंडे नरान्तकनिग्रहो नामाष्टपंचाशत्तमोऽध्यायः ॥५८॥

अध्याय ५९ प्रारंभ –
मुनिरुवाच ।
विनायकेन बालेन कुतः स पुरुषः कृतः ।
येन तद्भक्षितं सैन्यमानीतः स नरांतकः ॥१॥
एतन्मे प्रकटं ब्रूहि संशयोऽत्र महान्मम ।
क उवाच ।
यन्निर्गुणं परं ब्रह्म तदेतत्सगुणं बभौ ॥२॥
विनायकस्वरुपेण ब्रह्मविष्णुशिवात्मकम् ।
भूभारहरणार्थाय दुष्टानां निधनाय च ॥३॥
पालनाय स्वधर्मस्य बिभ्रतेऽनन्तरूपताम् ।
स एव सृजते विश्वं पाति हन्ति स्वतेजसा ॥४॥
अपेक्षते स लोकानां निमित्तं नियतिं पराम् ।
न चात्र संशयः कार्योऽनेकमायामये विभौ ॥५॥
तदिच्छया सर्वमिदं जगद्धि परिवर्तते ।
इदानीं तस्य मायां ते कथयिष्यामि विस्तरात् ॥६॥
अमात्यपुत्रसहितो नरांतकधृतो नृपः ।
यावन्न पत्तनं प्राप तावत्कालं पुमानसौ ॥७॥
भक्षयामास तां सेनां दैत्येन परिपालिताम् ।
विनायकेन पुरुषो मुखेऽसौ निहितस्तदा ॥८॥
राजामात्यकुमारौ च सोऽपि ते सर्व एव तु ।
जठरे तस्य देवस्य ददृशुः सकलं जगत् ॥९॥
सप्तद्वीपवतीं पृथ्वीं पर्वतद्रुमसंयुताम् ।
सरित्सागरवापीभिस्तडागैर्मानवैः श्रिताम् ॥२.५९.१०॥
देवगन्धर्वमुनिभिः सिद्धयक्षनिशाचरैः ।
पन्नगैरप्सरोभिश्च शोभितं स्वर्गमंडलम् ॥११॥
पातालानि च सप्तानि भ्रमन्तो ददृशुस्तदा ।
एवं ते जठरे तस्य कोष्ठे कोष्ठे पृथक्पृथक् ॥१२॥
ददृशुर्भ्रान्तमनसो ब्रह्मांडनिचयान्बहून् ।
खिन्नास्ते शरणं जग्मुर्देवदेवं विनायकम् ॥१३॥
मनसा प्रार्थयामासुस्तदा देवं विनायकम् ।
भ्रान्तानां खिन्नचित्तानां कृपां कुरु कृपानिधे ॥१४॥
ततस्तान्बालरूपेण मार्गमादर्शयद्विभुः ।
ततो रोमांचमार्गेण बहिर्याता यथा पुरा ॥१५॥
ददर्श काशिराजः स्वं नगरं भद्रमेव च ।
कश्यपस्यात्मजं बालं क्रीडन्तं तं विनायकम् ॥१६॥
तत्प्रसादादाप्तबुद्धिर्नुनाव परया मुदा ।
ज्ञाता ते परमा माया मया कुक्षिगतेन च ॥१७॥
त्वमेव कर्ता देवानां मनुष्याणां दिशामपि ।
सर्गाणां सागराणां च सरितां बलिसद्मनाम् ॥१८॥
यतस्ते रोमकूपेषु ब्रह्माण्डानां हि कोटयः ।
दृष्ट्वा भ्रान्तेन च मया प्रसादात्तव नाथ भो ॥१९॥
आश्चर्यं बहुधा दृष्टं मया तव च विश्वक्ति ।
अहं युद्धाय संप्राप्तो ध्वजिनी पुनरागता ॥२.५९.२०॥
नरान्तकस्य सैन्येन सा जिता तत्क्षणादनु ।
अमात्यपुत्रसहितो नरान्तकमुपाद्रवम् ॥२१॥
विधृतस्तेन सहसा सैन्यं जित्वा मम क्षणात् ।
दग्धा च नगरी सर्वा दृष्टः स कालपूरुषः ॥२२॥
तेनापि भक्षिता तस्य सेना नानाविधा क्षणात् ।
धृत्वा नरान्तकं यातः पुरुषः स तवान्तिकम् ॥२३॥
सर्वे त्वदुदरं यातास्तत्र दृष्टोऽसि मे प्रभो ।
सर्वं दृष्टं च तत्रापि जम्बुद्वीपं सविस्तरम् ॥२४॥
एवं कोष्ठान्तरे दृष्टं भूतलं च सविस्तरम् ।
ततो हि खिन्नास्त्वां याता: शरणं जगदीश्वर ॥२५॥
त्वदाज्ञया तु रोमांचदारेण निर्गता बहिः ।
पुनर्दृष्टोऽसि बालस्त्वं निजं च भवनं महत् ॥२६॥
किमिदं कौतुकं देव मायाजालमिदं विभो ।
कश्चासौ पुरुषो देव येनाभक्षि महाचमूः ॥२७॥
केनासौ विधृतो दैत्यो रक्षितश्चापि केन च ।
केनादर्शि च रोमांचद्वारं निर्गमनाय च ॥२८॥
इति मे संशयं देव नुद भक्तस्य यत्नतः ।
क उवाच ।
एवं तेन कृतः प्रश्नो मस्तके तस्य धीमतः ॥२९॥
विनायकः करतलं कृपया निदधार ह ।
दिव्यज्ञानोऽभवद्राजा काशीराजस्तु तत्क्षणात् ॥२.५९.३०॥
तुष्टाव परया भक्त्या देवदेवं विनायकम् ।
राजोवाच ।
त्वमेव ब्रह्मा विष्णुश्च महेशो भानुरेव च ॥३१॥
त्वमेव पृथिवि वायुरन्तरिक्षं दिशो द्रुमाः ।
पर्वतैः सहिताः सिद्धा गन्धर्वा यक्षराक्षसाः ॥३२॥
मुनयो मानवाश्चापि स्थावरं जंगमं जगत् ।
त्वमेव सर्व देवेश सचेतनमचेतनम् ॥३३॥
जन्मान्तरीयपुण्येन दृष्टोऽसि कश्यपात्मज।
क उवाच ।
एवं ब्रुवति राजेन्द्रे मोहयामास तत्क्षणात् ॥३४॥
ततो राजा पुपूजैनं विनायकमनामयम् ।
ततः पौरा हर्षयुता राजानं द्रष्टुमाययुः॥३५॥
नत्वा नत्वा ददुस्तस्मै वस्त्राण्याभरणानि च ।
राजाऽपि दापयामास तेभ्यो वस्त्राण्यनेकशः ॥३६॥
विसृज्य लोकांस्तान्सर्वाञ्जननीमभ्यगात्ततः ।
तव प्रसादान्मातस्ते दृष्टं पादयुगं मया ॥३७॥
गृहीतो दैत्यराजेन देवदेवेन रक्षितः।
ततो हर्षयुता मातर्लिलिंग तं चिरागतम् ॥३८॥
अमात्यौ राजपत्नीं तां नत्वाहतुरुभौ तदा।
तव पुण्यप्रभावेण दृष्टं ते चरणाम्बुजम् ॥३९॥
विनायकस्य मायाभिर्मोहिता मोचिताश्च ह ।
ततस्तत्र ययौ राजा भार्यामम्बां जगाद च ॥२.५९.४०॥
निवृतेषु च लोकेषु हर्षगद्गगया गिरा। राजोवाच ।
परमं कष्टमापन्नो धृतो दैत्येन तत्क्षणात् ॥४१॥
मोचितो माययाऽनेन प्रापितौ नगरं निजम् ।
क उवाच ।
शुशुभे नगरं तच्च नानावादित्रनिस्वनैः ॥४२॥
पताकाभिरनेकाभिर्विविधैश्च महोत्सवैः ।
प्रत्यानीतैः सर्वलोकैर्विनायकबलेन च ॥४३॥
कुमाराः कन्यकाश्चापि योषितः पतयोऽपि च ।
जनकाश्च जनन्यश्च पुत्राश्च भ्रातरस्तथा ॥४४॥
लिलिंगुश्च जहर्षुश्च ददुर्दानान्यनेकशः ।
बुभुजुर्भोजयामासुर्लुलोकुश्च पपुर्जगुः ॥४५॥
इति श्रीगणेशपुराणे क्रीडाखंडे राजमोक्षणं नामैकोनषष्टितमोऽध्यायः ॥५९॥ (२६५८)

अध्याय ६० प्रारंभ :
क उवाच ।
ततो नरान्तको दृष्ट्वा विनायकविचेष्टितम् ।
मेधया तर्कयामास दृष्टमस्याद्भुतं महत् ॥१॥
काशीराजे धृते तेन निर्मितः कालपूरुषः ।
अखिला वाहिनी तेन भक्षिता मम सर्वशः ॥२॥
अमात्यपुत्रसहितो राजाऽसावुदरं गतः ।
अव्यंगी बहिरानीतोऽदर्शि विश्वं नृपस्य ह॥३॥
अस्माद्भुक्तिश्च मुक्तिश्च भविता मे न संशयः ।
तस्मादेनं हनिष्यामि मामयं वा हनिष्यति ॥४॥
इत्येवं निश्चयं कृत्वा प्रोवाच स विनायकम् ।
दैत्य उवाच।
ऐन्द्रजालिकविद्येयं दर्शिता बहुधा त्वया ॥५॥
नाहं बिभेमि तस्यास्तु मायावी च नरान्तकः ।
यस्य निश्वसितेनापि निपतन्ति महाद्रयः॥६॥
भ्रूक्षेपमात्रेण च मे ब्रह्माण्डं कम्पते भृशम् ।
यस्य हस्ततलाघाताद्भूगोलोऽपि द्विधा भवेत्॥७॥
तेन त्वं बालरूपः सन्कथं युद्धं करिष्यसि ।
यो व्याघ्रसंमुखं गच्छेत्स कथं सुखमेष्यति ॥८॥
क उवाच ।
इति ब्राह्मीं समाकर्ण्य नरान्तकसमीरिताम् ।
अब्रवीत्परमात्माऽसौ बालरूपी विनायकः ॥९॥
विनायक उवाच ।
किमर्थं वल्गसे मूढ यदा ते पृतनाऽखिला ।
भक्षिता क्व गता शक्तिर्यदर्थं कथ्यते मुहुः ॥२.६०.१०॥
शूराः शौर्यं दर्शयन्ति न गां परबलारुजाम् ।
वृश्चिकेनाल्पकायेन मृगेन्द्रो हन्यते क्षणात् ॥११॥
अल्पेन हि प्रदीपेन नश्यते प्रबलं तमः ।
यस्य संनिहितो मृत्युः सन्निपातात्स लीयते ॥१२॥
अल्पेन मृणिना मत्तमातंगी हि नियम्यते ।
क उवाच ।
इति श्रुत्वा तु वाक्यानि देवप्रोक्तानि दैत्यराट् ॥१३॥
चकम्पे परया भीत्या जगर्ज घनवद्दृढम् ॥१४॥
भीषयन्रोदयन्रावैः कम्पयन्भूमिमण्डलम् ।
अधावत्परमावेशो हन्तुकामो विनायकम् ॥१५॥
यथा पतंगो दीपार्चिं हन्तुं याति त्वरान्वितः ।
त्रिवक्रां भ्रुकुटीं बद्ध्वा वमन्नास्येन पावकम् ॥१६॥
तं तथा यान्तमालोक्य काशिराजो निजं धनुः ।
सज्जीचकार सहसा कर्णमाकृष्य सायकम् ॥१७॥
उवाच साम्ना दैत्यं तं निर्लज्जं बद्धमोचितम् ।
मा जीवं त्यज दैत्येन्द्र जीवन्भद्राणि पश्यसि॥१८॥
परावृत्य प्रयाहि त्वं नो चेन्मृत्युं प्रयास्यसि ।
क उवाच ।
इति तद्वाक्यमाकर्ण्य प्राह दैत्यो रुषा ज्वलन् ॥१९॥
नरान्तकेति मे नाम त्वादृशानां हि भक्षणात् ।
इदानीं शरणं याहि यदि जीवितुमिच्छसि ॥२.६०.२०॥
पुनर्नृपोऽब्रवीद्वाक्यं मुमूर्षुं तं नरान्तकम् ।
विनाशसमये मूढ विपरीता मतिर्भवेत् ॥२१॥
मित्राणि शत्रुतां यान्ति विपरीतेप्यनेहसि ।
त्वयाप्याचरितं पापं वरगर्वादनेकशः ॥२२॥
वरस्यैव प्रभावेण न वजं गणितं त्वया ।
इदानीमवतीर्णोऽयं त्वादृशानां वधाय च ॥२३॥
कश्यपस्यात्मजो भारं हर्तुं भूमिगतं दृढम् ।
वरः पुण्यं च शिथिलं जातं ते पापसंचयात् ॥२४॥
भारतीमेवमाश्रुत्य चकम्पे हृदि दैत्यराट् ।
धावयित्वा नृपकराज्जगृहे सशरं धनुः ॥२५॥
बलाच्चिक्षेप भूमौ तच्छतधा च व्यशीर्यत ।
अहनन्मुष्टिघातेन तं नृपं स नरान्तकः ॥२६॥
पतितः स धरापृष्ठे वज्राहत इवाचलः ।
दृष्ट्रवा विनायकोऽधावत्सृणिहस्तो महाबलः ॥२७॥
गर्जयन्गगनं सर्वं दिशश्च विदिशः स्वनैः ।
चकम्पे पृथिवी सर्वां दिशः प्रज्वलिता इव ॥२८॥
तेजसा परशोस्तस्य सर्वदृष्टिहरेण च ।
तेनाहनद्दैत्यशिरो यथेन्द्रो गिरिमुत्कटम् ॥२९॥
तथा हतो दैत्यराजो निपपात महीतले ।
मूर्छनां महतीं प्राप्तो मर्मभिन्नो यथाश्मना ॥२.६०.३०॥
उदतिष्ठत्क्षणाद्दैत्यो हस्ताभ्यां पर्वतावुभौ ।
प्रगृह्य च प्रचिक्षेप विनायकजिघांसया ॥३१॥
शतधा चूर्णितौ तेन मुद्रा परशुघातिना ।
मायया दैत्यराजोऽथ नानारूपधरोऽभवत्॥३२॥
यद्यद्रूपं चकाराशु तत्तद्रूपं विनायकः ।
भग्नदर्पं चकाराशु तेन तेन महासुरम्॥३३॥
शस्त्रैः शस्त्राणि संवार्य तथाऽस्त्रैरस्त्रसंचयम् ।
ततस्तु मल्लयुद्धेन युयुधाते परस्परम् ॥३४॥
चरणं चरणेनैव हस्तं हस्तेन जघ्नतुः ।
जानुभ्यां जानुनी चोभौ पुष्पिताविव किंशुकौ ॥३५॥
वक्षसा चैव वक्षश्च पेततुर्धरणीतले ।
पुनरुत्थाय बलिनौ कूर्पराभ्यां निजघ्नतुः ॥३६॥
पुनर्दैत्यो महादेवं स्मृत्वा वृक्षानवासृजत् ।
पृष्ठेन पृष्ठं धावन्तो ललाटेन ललाटकम् ॥३७॥
स्रवन्तौ रुधिरं चोभौ गुल्फाभ्यां गुल्फमेव च ॥३८॥
पर्वतांश्च सवृक्षांश्च विनायकजिघांसया ।
अप्राप्तानेव तान्सर्वांश्चिच्छेद स विनायकः ॥३९॥
पद्मपाशाङकुशाघातैः परशोर्दृढकर्मणा ।
तस्यां निवारितायां तु दैत्योऽमुच्चत्तथा पराम् ॥२.६०.४०॥
वृष्टिमन्यां तथा चान्यां निरस्तां वीक्ष्य चापराम् ।
काशिराजो ययौ दूरं मृतं ज्ञात्वा विनायकम् ॥४१॥
विनायकोऽपि संक्लेशाद्हृदि चिन्तामथाकरोत् ।
असंख्यातबलो दैत्यो जयोपायो न दृश्यते ॥४२॥
कदा देवाः स्वनिलयं प्राप्स्यन्ति निहतारयः ।
नरान्तकोऽपि संजातो देवानामप्ययान्तकः ॥४३॥
एवं चित्ते चिन्तयति वारंवारं विनातके ।
तूणेषु पतिता बाणाः कालदण्डोपमा दृढाः ॥४४॥
पिनाकोऽष्टापदमयः पुरस्तस्य पपात ह ।
शोभयंस्तेजसा स्वेन दिशश्च विदिशोऽपि च ॥४५॥
कार्मुकं तु स्फुरत्कान्ति दृष्ट्वा सर्वं जहर्ष सः ।
मेने जितं तं च दैत्यं सिद्धं च देवकांक्षितम् ॥४६॥
जग्राह बाणान्कोदण्डं कृत्वा क्ष्वेडितमुच्चकैः ।
पिनाकं तोलयामास सज्यं चक्रे धनुस्तदा ॥४७॥
पृथिव्या जानुनी स्थाप्य तूणौ चोभयतस्तथा ।
तद्धनुःशब्दमाकर्ण्य चकम्पे भुवनत्रयम् ॥४८॥
सव्यदक्षिणहस्ताभ्यामाकृष्य सायकद्वयम् ।
मुमोच दैत्यमालक्ष्य मुंचन्नग्निकणान्मुहुः ॥४९॥
पपात दैत्यभुजयोरकस्मात्सायकद्वयम् ।
गर्जत्प्रकाशयद्व्योम संहरज्जीवसंचयान् ॥२.६०.५०॥
उल्कैव पात्तयामास भुजौ वृक्षाविवास्य तत् ।
यथेन्द्रो वज्रघातेन पर्वतस्येव सानुनी ॥५१॥
नरान्तकद्वारदेशे महानकोऽपतत्करः ।
अपरस्तत्पितुर्द्वारि चूर्णयन्याणि संचयान् ॥५२॥
अन्यावास्तां करौ तस्य ददर्श च विनायकः ।
अभ्यधावत्पुनर्दैत्यो व्यादितास्य इवान्तकः ॥५३॥
हस्ताभ्यां तत्र पादाभ्यां चिक्षेप पादपान्बहून् ।
द्रुमाणां च महावृष्टिं प्रक्षिपत्स विनायके ॥५४॥
अन्धकारं महच्चासीन्न प्राज्ञायत किंचन ।
ततोऽब्रवीद्दैत्यराजं दृष्ट्वा वीर्यं विनायकः॥५५॥(२७१३)
इति श्रीगणेशपुराणे क्रीडाखण्डे षष्टितमोध्यायः॥६०॥