गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १०१-१०५

{{header

|

← अध्यायाः ९६-१०० गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः १०१-१०५
[[लेखकः :|]]
अध्यायाः १०६-११० →

अध्याय १०१ प्रारंभ :-
क उवाच ।
ततस्तु दशमे वर्षे सुखासीनं महेश्वरम् ।
गिरिजासहितं वामे सप्तकोटिगणान्वितम् १
नृत्यत्तं तं मयूरेशं पश्यन्तं स्वांगणे शिशुम् ।
आययुर्मुनयः सर्वे गौतमाद्याः प्रणम्य तम् २
ऊचुः प्रबुद्धमतयो महादेवं महौजसम् ।
यावत्कालं शिवात्र त्वं मयूरेशसमन्वितः ३
स्थितोऽसि तावद्दैत्यानामनन्तानां समागमः ।
वयं तेन प्रपीड्यामोऽन्यत्र याहि शिवाधुना ४
वयं वान्यत्र गच्छामो यद्याज्ञा ते भवेद्धर ।
शिव उवाच ।
भवत्संगेन च मया नववर्षाणि सौख्यतः ५
अतिक्रान्ताति विघ्नानि मयूरेशेन तानि च ।
भवतां गमनेऽस्माकं स्थित्वा किन्नु प्रयोजनम् ६
अहमेव प्रयास्यामि स्थलमन्यन्निराकुलम् ।
क उवाच ।
इति शम्भुवचः श्रुत्वा मुनयस्तं प्रणम्य ते ७
जय देव मयूरेशेत्युक्त्वा स्वस्थानमाययुः ।
शिवोऽपि गणसंयुक्तो वृषारूढोऽम्बिकायुतः ८
बर्ह्यारूढं मयूरेशं पुरस्कृत्वा मुदान्वितः ।
नानावादित्रनिर्घोषैर्नादयन्विष्टपं ततः ९
अन्वयुर्मुनयः सर्वे मयूरेशं शिवान्वितम् ।
पत्न्योऽपि बालकै सार्द्धं स्नेहगद्गदभाषिभिः २.१०१.१०
रजसा व्योमनि तते न प्राज्ञायत किंचन।
परावृत्य शिवः सर्वान्दक्षिणाभिमुखो ययौ ११
ददृशुर्मार्गमध्ये तं द्वादशाक्षौहिणीयुतम् ।
कमलासुरमायान्तं धूलिधूसरिताम्बरम्
१२ गजाश्च पुरतो यान्ति रथाश्वपादचारिणः ।
न ज्ञायते रवेस्तेजः शस्त्रदीप्त्याथ किंचन १३
कोलाहलो महानासीद्गजाश्वरथपत्तिनः ।
नानाविधानां शस्त्राणां संघट्टस्वनमिश्रितः १४
ददृशुस्तं महादैत्यं शिवचाराः पुरो गताः ।
शंकासुरस्य तं बन्धुं नानाभूषाविराजितम् १५
नानायुधधरं प्रोचुरागत्य तु शिवं गणाः ।
पादाघातेन तस्याशु कम्पते कमठादयः १६
मुनयोऽग्रेचराः पेतुर्भयभीतास्तमब्रुवन् ।
मयूरेश महाभाग कथं रक्षसि नोऽखिलान् १७
क उवाच ।
इति तद्वचनं श्रुत्वा प्रावदत्स गुणेश्वरः ।
विद्यमाने शिवे चिन्ता न कार्या मुनिपुंगवा १८
मयूरेशो हरं प्राह नमस्कृत्य ततः पुनः ।
देव उवाच ।
महासेनायुतो दैत्यो नाम्नाऽसौ कमलासुरः १९
यदि तेऽनुग्रहो मे स्याद्युद्धायाशु व्रजाम्यहम् ।
शिव उवाच ।
सम्यगुक्तं त्वया पुत्र हृदयानन्दनं वचः २.१०१.२०
द्वादशाक्षौहिणीसेनायुतोऽसौ दैत्यपुंगव ।
एकाकी कथमायासि सप्तकोटिगणैर्युतः २१
वज्र्याप्नुहि जयं शीघ्रं जहि शत्रुं महाबलम् ।
देव उवाच ।
तव प्रसादात्त्रैलोक्यं दहेयमिति मे मतिः २२
कियन्तो न हता दैत्या न ज्ञातास्ते त्वया नु किम् ।
अस्य का गणना स्वामिन्नायास्ये जयवानहम् २३
क उवाच ।
एवमाकर्ण्य तद्वाक्यं शम्भूरालिंग्य तं ददौ ।
त्रिशूलं पुत्रहस्ते तन्मूर्निना न्यस्य करं शुभम् २४
आज्ञां ददौ स्वपुत्राय गणयुक्ताय शंकरः ।
क्ष्वेडितैर्जयशब्दैश्च नादयन्स दिशो दश २५
प्रययौ प्रमथैर्युक्तो विघ्नहा युद्धलालसः ।
वृषारूढः शिवायुक्तो हरोऽपि द्रष्टुमन्वगात् २६
दृष्ट्वाऽपारां दैत्यसेनां मयूरेशः शरीरतः ।
निर्ममे बहुलां सेनां ततो युद्धमवर्तत २७
कालानुरूपास्ते वीरा ब्रह्माण्डाशनतत्पराः ।
मेरोरधिकमानास्ते शब्दतः शृंगपातिनः २८
परस्परं निजघ्नुस्ते तुमुले संयुगे ततः ।
अन्धकारो महानासीद्रजसाच्छादिता दिशः २९
विस्मयं चक्रिरे दैत्या इदानीमयमेकलः ।
अनेकतां कथं यातस्तस्मादेष परः पुमान् २.१०१.३०
भूभारं हर्तुकामोऽयमवतीर्णः शिवालये ।
सोऽपि दीर्घतरं रूपं दधार सहसा विभुः ३१
दृष्ट्वा दीर्घं दैत्यरूपं योगमायासमावृतः ।
दशायुधधरो देवो दशहस्तो महाबलः ३२
मयूरेशश्च दैत्यश्च युध्यमानौ विरेजतुः।
नानाशस्त्रप्रहरणैर्ना नायुद्धविशारदैः ३३
व्यस्ताव्यस्तमयुध्यन्त गणा: सेनाचराश्च ते।
मुष्टिप्रहारैर्दन्तैश्च शस्त्रास्त्रैरितरेतरम्३४
केषांचिन्मस्तका भग्ना अपरेषां मुखानि च ।
जानुजंघाविरहिता निपेतुरपरे रणे३५
गर्जयन्तो दशदिशः शस्त्रास्त्रघातनिस्वनै ।
स्वामिस्वनामतो जघ्नुरन्धकारे रजस्कृते३६
कबन्धामारयंस्तत्र परान्स्वानपि संमुखम् ।
दैत्यसेनाचरा भग्ना दैत्यमेवान्वयुस्तदा ३७
असंख्यातान्मृतान्प्राहुर्नद्युस्तु रक्तसंभवाः ।
दैत्य उवाच ।
इन्द्रादयो लोकपाला ब्रह्माद्या देवतागणाः ३८
निर्जिता येन तेनेह को युद्धं कुर्तुमुत्सहेत् ।
भूगोलं न्युब्जतां नेतुं कोऽन्यः शक्तो भविष्यति ३९
क उवाच ।
इत्युक्त्वान्दोलयामास शस्त्रान्दोलनतो जगत् ।
क्रोधसंरक्तनयनो मारयामास दैत्यराट् २.१०१.४०
मयूरेशगणान्सर्वान्नानावाहनहेतिकान्।
शिरःपादान्कृती हस्तान्भित्त्वाऽपातयदाहवे ४१
उत्कर्षं तस्य तं दृष्ट्वा मयूरेषो ययु पुरः ।
स्वर्गं च गर्जयन्व्योम दशशस्त्रैर्द्विषोऽहनत् ४२
असंख्याता हता दैत्या मुक्तिं प्रापुः सुदुर्लभाम् ४३ (४६१२)
इति श्री गणेशपुराणे क्रीडाखण्डे दैत्यसेनावधो नामैकशततमोऽध्यायः ॥१०१॥

अध्याय १०२ प्रारंभ :-
क उवाच ।
विनष्टे बहुधा सैन्ये रुरोहाश्वं स दैत्यराट् ।
खड्गपाणिर्ययौ योद्धुं मयूरेशं रुषान्वितः १
तं दृष्ट्वा तु मयूरेशो रुरोह स्वं शिखण्डिनम् ।
तं दृष्ट्वा शीघ्रमायान्तं पन्नगास्त्रं स दैत्यराट् २
जप्त्वा मन्त्रं च शतधा भार्गवादिष्टमादरात् ।
ससर्ज पन्नगास्त्रं तत्तेजसा जज्वलुर्दिशः ३
सर्पसैन्यैरवेष्ट्यन्त देवसेनाचरा नराः ।
मृताः केचिद्गताः केचित्पातिताश्चापरेऽवनौ ४
ननन्द देवस्तं दैत्यमतिवीर्य पराक्रमम् ।
साधु युध्यसि दैत्येन्द्र नेदृशः कोऽपि वीक्षितः ५
एवमुक्त्वा रिपुं देवो गरुडास्त्रमवासृजत् ।
ततः पलायिताः सर्पाः प्रोत्तिष्ठंश्च चमूचराः ६
चक्रास्त्रमसृजद्देवो दैत्यसेनानिबर्हणम् ।
तेन केचिन्मृता दैत्याः केचिच्छिन्नाङ्घ्रिमस्तकाः ७
विभिन्नजानुजङ्घाश्च छिन्नगुल्फाः परेऽपतन् ।
गर्जन्ति धाव धावेति पितर्मातः सुतेति च । ८
मुक्तिं याता मयूरेशं दृष्ट्वा प्राणां जहश्च ये ।
एवं सेना निरस्ताऽस्य ततो दैत्यो रुषाऽद्रवत् ९
खड्गपाणी रुषा गर्जन्वेगेनायाद्गजाननम् ।
तथाविधं रिपुं दृष्ट्वा परशुं जगृहे विभुः २.१०२.१०
ययौ दैत्यं महावेगमसृजत्परशुं च तम् ।
स दहंस्तेजसा व्योम दिशः पक्षिगणानपि ११
अच्छिनद्दैत्यहस्तं च खड्गं च शतधा जवात् ।
स चापं सहसा गृह्य सज्यं कृत्वा शरान्बहून् १२
असंख्यातान्बलाद्विध्यंश्छादयामास सैनिकान् ।
गगनं च दिशः सर्वा जगर्ज घननिस्वनः १३
शराघातेन बलवान्निवार्य शरपंजरम् ।
अन्धकारे बाणमये नाज्ञासीत्कोपि कंचन १४
मयूरेशोऽथ शीघ्रं तदाश्वं भूमावपातयत् ।
ततोऽन्तरिक्षे तिष्ठन्त्स प्रोचे च गणनायकम् १५
अश्वो निपातितस्तस्य पश्य मे कौतुकं महत् ।
शिखण्डिनं हनिष्यामि पश्यतस्ते गुणेश्वर १६
उभयत्र निषंगस्थाञ्शरान्भूमौ व्यचिक्षिपत् ।
चापमाकृष्य कर्णान्तं चिक्षेप शरसंचयान् १७
मयूरेशस्य सेनायां मारयन्सर्वसैनिकान् ।
ववर्ष शरजालानि वर्षाकाले घना यथा १८
कियन्तो भिन्नसर्वागां केचित्प्राणां जहुः सुराः ।
एवं नश्यत्सु वीरेषु मयूरेषो रुषान्वितः १९
कमलासुरबाणैस्तु विद्धं त्यक्त्वा शिखण्डिनम् ।
पाशं करेण जग्राह तोलयित्वा स सादरम् २.१०२.२०
जगर्ज नादयन्व्योम तत्याज महसा युतम् ।
स पातयन्दैत्यगणान्ददाह रिपुसैनिकान् २१
कण्ठे च न्यपतत्तस्य दैत्यसेनाधिपस्य ह ।
रुरोध श्वासमस्यासौ दैत्यो रूपान्तरं श्रितः २२
मूर्ध्ना संछादयामास तत्क्षणाद्रविमण्डलम् ।
अन्धकारे घोरतमे न प्रज्ञायत किंचन २३
उवाच समुखो भूत्वा मयूरेशं रुषान्वितः।
मया कि युध्यसे बाल गच्छ मातः स्तनं पिब २४
रमस्व बालकैर्नो चेन्मरिष्यसि ममाग्रतः ।
मम चाक्रन्दनेनैव कम्पते भुवनत्रयम् २५
पादे भूमौ स्थाप्यमाने शेषोऽपि चलते ह्यधः ।
मम मुष्टिप्रहारेण चूर्णीभूता महाचलाः । २६
नखाग्रेण शिरस्तेऽहं गमयिष्ये रसातलम।
क उवाच ।
एवमाकर्ण्य दुबुद्धेर्वाक्यं प्रोचे गजाननः ।
पिशाचवन्मद्यपवत्किं वल्गसि ममाग्रतः २७
न जयं प्राप्नुते क्वापि देवद्विजविनिन्दकः ।
मम चेद्भविता क्रोधो ज्वालयेद्भुवनत्रयम् २८
यशस्ते ख्यापितुं लोके युद्ध्यापि हर्षनिर्भरः ।
नो चेद्हुंकरमात्रेण नीतः स्याद्यमसादनम् २९
क उवाच ।
एवमाकर्ण्य तद्वाक्यं दैत्यः क्रोधानलाकुलः ।
श्वेडितं प्रतिशब्देन नादयन्विदिशो दिशः २.१०२.३०
तदा गर्भा निपतितास्तस्य शब्देन तत्क्षणात् ।
प्रमथाद्या गणाः केचिन्मूर्छिता धरणीं गताः ३१
आकर्णं धनुराकृष्य मुमोच कमलासुरः ।
शरवृष्टिं पुना रौद्रां मयूरेषे बलेऽपि च ३२ (४६४४)
इति श्रीगणेशपुराणे क्रीडाखण्डे कमलासुरसंग्रामो नाम द्व्युत्तरशततमोऽध्यायः ॥१०२॥

अध्याय १०३ प्रारंभ :-
क उवाच ।
उत्कर्षं तस्य दैत्यस्य दृष्ट्वा देवस्त्वरान्वितः ।
आययौ पुरतो दैत्यं जघान शरवृष्टिभिः १
न्यवारयत दैत्योऽपि स्वशरैरतिवेगितैः ।
ततस्तुतोष भगवान्मयूरेशो गुणाग्रणी २
दर्शयामास तस्मै स विश्वरूपमनन्तकम् ।
दशदिक्षु मयूरेशं ददर्श कमलासुरः ३
विस्मितश्छाद्य नयने हृदि तं परिदृष्टवान् ।
ततः पलायनपरो यावद्गच्छति दैत्यराट् ४ .
शिखामाक्रम्य देवोऽपि धृत्वा प्रोवाच तं पुनः ।
तिष्ठ युध्यस्व दैत्येन्द्र स्मर वाक्यानि तानि च ५
पुनर्ददर्श दैत्यस्तमेकमेव पुरः स्थितम् ।
अधावत्सहसा योद्धुं जगर्ज च महाबली ६
दशायुधधरो देवो बोधयामास तं तदा ।
बिभेदास्य शरीरं स विघ्नराट् शस्त्रघाततः ७
यत्रास्य न्यपतद्रक्तबिन्दुस्तत्रासुरोऽभवत् ।
तद्रूपस्तद्बलश्चैवमसंख्यातास्तदाऽसुराः ८
नानाशस्त्रैरथास्त्रैस्ते तं जघ्नुः शरवृष्टिभिः ।
ततः परावृतो देवो मयूरेशो रुषा ज्वलन् ९
सार्द्धकोटित्रयमितैः सिद्धिबुद्धी तदा बलैः ।
ईयतुः परमक्रुद्धे ततो युद्धमवर्ततत २.१०३.१०
ऊचतुर्गणराजं ते देहि भक्ष्यं क्षुधापहम् ।
त ऊचे भक्षतं देवो दैत्यासृग्जनितान्बहून् ११
इत्युक्ते ते तदा तेन मयूरेशेन सत्वरम् ।
बभक्षतुर्भूतगणैस्तान्दैत्यानखिलानपि १२
देवो जघान खड्गेन तं दैत्यं कमलासुरम् ।
पुनश्च शतशो जाता दैत्यास्तद्रक्तसंभवाः १३
बभक्षुस्तानपि ततो पिबन्रक्तं समन्ततः ।
ततः खिन्नो मयूरेशः शूलमुद्यम्य वेगवान् १४
तत्याज सहसा दैत्ये ययौ स प्रदहन्दिशः।
चूर्णयन्पर्वतान्व्योम नादयन्भानि पातयन् १५
वेगेन पतितो दैत्यदेहं भित्त्वा द्विधाऽकरोत् ।
मस्तकस्तस्य पतितो भीमाय दक्षिणे तटे १६
कृष्णाया उत्तरे तीरे तस्थौ तत्र गुणेश्वरः ।
सर्वे सन्तुष्टमनसो जयशब्दैस्तमब्रुवन् १७
जय देव मयूरेश कुरु दुष्टविनाशनम् ।
ततस्तत्राययौ गौरीपतिर्गणपरीवृतः १८
गौतमाद्यैश्च मुनिभिः पार्वत्या च समायुतः ।
वाद्यत्सु सर्ववाद्येषु पुष्पवृष्टिः पपात खात् १९
आलिंग्य पार्वती प्रादात्स्तनपानं मुदा तदा ।
मुनयस्तुष्टुवुश्चैनं मयूरेशं सुरेश्वरम् २.१०३.२०
कमलाकान्तहृदयहृद्दयानन्दवर्धन ।
कमलाकान्तनमित कमलासुरनाशन २१
कमलासेवितपद जय त्वं कमलाप्रद।
कमलासनवन्द्येश कमलाकरशीतल २२
कमलांकसुपादाब्ज कमलांकितसत्कर ।
कमलाबन्धुतिलक भक्तानां कमलाप्रद २३
कमलासूनुरिपुज कमलासूनुसुन्दर ।
कमलापितृरत्नानां मालया जय शोभित २४
कमलासुरबाणानां कमलेन निवारक ।
कमलाक्रान्तकमलकोशजित्करपंकज २५
कमलापतिहस्तस्थपद्मकोशनिभेक्षण।
सर्वहृत्कमलानन्द जय सर्वाघनाशन २६
कमलाङकुशहस्ताब्ज जयविघ्नहराव्यय ।
त्वया विनिहतः पापः शक्रादिभयदो रिपुः २७
वज्रचक्राद्यभेद्यो यो मुनीनामपि भीतिदः ।
एवं स्तुत्वा पुपूजस्ते गौतमाद्या महर्षयः २८
दशभिर्दोर्भिरालिंग्य पुपूज गिरिशोऽपि तम् ।
ततस्ते मुनयः प्रोचुर्मयूरेशं च शंकरम् २९
अत्रत्वं सर्वदा तिष्ठ सर्वदेवगणैर्युतः।
पूरयन्भक्तकार्याणि वारयन्विघ्नसंचयान २.१०३.३०
क उवाच ।
एवं तैः प्रार्थितौ देवौ सर्वदेवगणैयुतौ ।
पूरयन्तौ भक्तकामान्हरन्तौ विघ्नसंचयान ३१
स्थितौ तत्र मयूरेशशंकरौ लोकशंकरौ।
विश्वकर्मा व्यधात्तत्र मन्दिरं सुन्दरं ततः ३२
असंख्यशिखरद्वारमसंख्याश्चर्यसंयुतम् ।
तत्राभून्नगरं चारु सर्वलोकसमन्वितम् ३३
मयूरेशपुरं तस्य नाम चक्रुर्महर्षयः ।
तपस्तेपुर्मुनिगणा नानाभरणसंश्रिताः ३४
हरोऽपि च तपस्तेपे गिरिजागणसंयुतः ।
तस्य ध्यानं पूजनं च स्मरणं ते व्यधुर्द्विजाः ३५
मयूरेशः पुनर्बालैः क्रीडति स्म यथा पुरा ३६ (४६८०)
इति श्रीगणेशपुराणे क्रीडाखण्डे कमलासुरवधोनाम त्र्युत्तरशततमोऽध्यायः ॥१०३॥

अध्याय १०४ प्रारंभः-
क उवाच ।
अहं प्रयातस्तं द्रष्टुं गुप्तरूपो द्विजोत्तम ।
अदर्श तत्र तं देवमुमया सहितं प्रभुम् १
स्नात्वासीनं जपन्तं च परंब्रह्मसनातनम् ।
अहं तमस्तुवं देवं मयूरेश्वरसंज्ञकम् । २
पुराणपुरुषं देवं नानाक्रीडाकरं मुदा ।
मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम् ३
परात्परं चिदानन्दं निर्विकारं हृदिस्थितम् ।
गुणातीतं गुणमयं मयूरेशं० ४
सृजन्तं पालयन्तं च संहरन्तं निजेच्छया।
सर्वविघ्नहरं देवं मयूरेशं०५ इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम् ।
सदसदव्यक्तमव्यक्तं मयूरेशं० ६
नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम् ।
नानायुधधरं भक्त्या म०७
सर्वशक्तिमयं देवं सर्वरुपधरं विभुम् ।
सर्वविद्याप्रवक्तारं मयूरे० ८
पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् ।
भक्तानन्दकरं नित्यं म० ९
मुनिध्येयं मुनीनुतं मुनिकामप्रपूरकम् ।
समष्टिव्यष्टिरूपं त्वां म० २.१०४.१०
सर्वाज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम्।
सत्यज्ञानमयं सत्यं म०११
अनेककोटिब्रह्माण्डनायकं जगदीश्वरम् ।
अनन्तविभवं विष्णुं ० १२
त्वद्दर्शनेन पूतोऽहं परमानन्दनिर्भरः ।
आश्चर्यं परमं प्राप्तस्तस्य दैत्यस्य मारणात् १३
येन शक्रोऽन्तको देवा लोकपाला जिता बलात् ।
सहस्रशतयोधी योऽसंख्यदेहो रणे हतः १४
त्रिधाभूतस्त्रिस्थलेषु पतित: कमलासुरः ।
तं समापूजयमहं सर्वतीर्थजलैः शुभैः १५
कमण्डलुगतैरेनोनाशकैरभिषेचयम् ।
दिव्यवस्त्रे दिव्यगन्धं दिव्यपुप्पमयीं शुभाम् १६
वनमालामस्य कण्ठे दत्त्वा नाम व्यधामहम् ।
वनमालीति लोकेषु विख्यातं सर्वमंगलम् १७
पूजाविधिं समाप्यैनं प्रदक्षिणामथो व्यधाम् ।
पादाघातेन मे तत्र न्युब्जतां गमितः क्षणात् १८
नानातीर्थजलैर्युक्तः स्थापितो मे कमण्डलुः ।
यतेऽहं तज्जलं भर्तुं ततो मामब्रवीद्विभुः १९
मयूरेश उवाच ।
इदं ब्रह्मकृतं स्तोत्रं सर्वपापप्रणाशनम् ।
सर्वकामप्रदं नृणां सर्वोपद्रवनाशनम् २.१०४.२०
कारागृहगतानां च मोचनं दिनसप्तकात् ।
आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं विधे २१
स्थिरो भव विरिंचे त्वं नदीयं सर्वपावनी ।
कमण्डलुभवा नाम्ना ख्याता लोके भविष्यति २२
दर्शनाद्वाचिकं पापं स्पर्शनाच्च मनोमयम् ।
स्नानाच्च कायिकं सर्वं नाशयिष्याति निम्नगा २३
निरन्तरं सेवनाच्च मोक्षमेषा प्रदास्यति ।
क उवाच ।
एवं दत्ते वरे तेन सस्नुस्तत्र मुनीश्वराः २४
सदाराः सपरीवाराः सप्तकोटिगणा अहम् ।
तपस्तेपुस्तदा तत्र मुनयस्ते मया सह २५
ततोऽहं मायया तस्य मोहितः प्राब्रुवं बहून् ।
जगत्कर्ता जगद्वन्द्यः शक्रादिसुरपूजितः २६
बालमेकादशाब्दं तत्कथं प्रणतवानहम् ।
अर्भकैः क्रीडमानं तमाचाररहितं शिशुम् २७
धिङ्मे ज्ञानं महत्वं च पैतामहपदं च धिक् ।
इमां सृष्टिं विधायाहं स्थास्यामि गुप्तरूपधृक् २८
अयं चेत्परमात्मा स्यादपरां निर्ममेत्पुनः ।
एवं निश्चित्य मनसा सृष्टिमात्मानमेव च ।
अन्तर्धाय स्थितो यावत्तावद्देवो गजाननः २९
न ददर्श सखीन्बालांस्ततस्तेषां गृहानगात् ।
शून्यान्दृष्ट्वा गृहान्सर्वान्खिन्नो वृक्षानलोकयत् २.१०४.३०
न ददर्श द्रुमांजन्तून्पशुपक्षिगणान्यदा ।
तदा स्वर्गं गतो देवो नापश्यत्तत्र तान्सुरान् ३१
गन्धर्वान्किन्नरान्यक्षान्पितृञ्शशिरवी न च।
अन्धकारे गाढतमे न प्राज्ञायत किंचन ३२
ततोऽसौ प्रणिधानेन ज्ञात्वा ब्रह्मकृतं च यत् ।
सामर्थ्यं निजमायां च आविश्चक्रेऽखिलात्मकः ३३
ब्रह्माण्डं निर्ममे देवो मयूरेशः स्वलीलया।
विश्वं चराजरं तत्र मयूरेशपुरीमपि ३४
यथापूर्वं पश्यति स्म सर्वं त्रिभुवनं विभुः ।
स्वं च बालैः परिवृतं ब्रह्माण्डं च तथाविधम् ३५
शंकरं च भवानीं तामनुष्ठानगतान्मुनीन् ।
तपनं शशिनं भानि स्वर्गान्देवगणानपि ३६
पृथिवीं सर्ववृक्षांश्च समुद्रान्सरितोऽपि च ।
पातालानि मयूरेशो ददर्श पूर्ववद्विभुः ३७
क उवाच ।
ततोऽहं स्मृतिमापन्नोऽपश्यन्देवं चिदात्मकम् ।
कलाकाष्ठामुहूर्तादिदिनपक्षस्वरूपिणम् ३८
दृष्ट्वेत्थं तमहं नत्वा क्षमापयमुदारधीः ।
मासर्तुवर्षकल्पादिचराचरस्वरूपिणम् ३९
असंख्यब्रह्माण्डयुतरोमांचैरुपशोभितम् ।
देवर्षियक्षगन्धर्वसरित्सागररूपिणम् २.१०४.४०
मनुष्यकिन्नरलतावृक्षपन्नगरूपिणम् ।
दृष्ट्वेत्थं तमहं नत्वा क्षमापमुदारधीः ४१
पुनः पुनरपश्यं तं मयूरेशं किरीटिनम् ।
कुण्डलाभ्यां नूपुराभ्यामंगदाभ्यां विराजितम् ४२
शेषनाभिं सर्पकण्ठं दिव्यमालाम्बरावृतम् ।
दिव्यसिंहासनगतं सर्वदेवैरभिष्टुतम् ४३
सिद्धिबुद्धिसमायुक्तं विभूतिभिरुपासितम् ।
चराचरमयं सर्वनमस्यं तत्स्वरूपिणम् ४४
प्रत्येकं तत्र चात्मानं तद्रूपं स्वं व्यलोकयम् ।
ततस्तं स्तुतवान्नत्वा प्रार्थयं च पुनः पुनः ४५
क्षमापराधं मे देव त्वन्मायागर्वितस्य मे ।
प्रभावं द्रष्टुकामस्य दीनस्य शरणार्थिनः ४६
क्षणेनानन्तब्रह्माण्डकारिणे ते नमो नमः ।
एवं वदन्तं मां नासापवनात्स्वोदरेऽनयत् ४७
तत्रापश्यं सर्वलोकं यथा बहिः प्रदृष्टवान् ।
देवं तथाविधं चापि कोटिब्रह्माण्डरोमकम् ४८
सर्वं चराचरं विश्वं यथा भूमौ यथा दिवि ।
एकस्मादण्डतश्चान्यद्ब्रह्माण्डान्तरमाशिशम् ४९
तथैव दृष्टवान्सर्वानेवं नानाण्डमध्यगः ।
अपश्यं विश्वमखिलं स्वात्मानं देवमेव च २.१०४.५०
ततखिन्नोऽब्रुवं देवं नान्तं पश्यामि ते क्वचित् ।
कृपां कुरु मम विभो मायामेतां निवारय ५१
ततः स करुणाविष्टः सर्वमन्तर्दधे क्षणात् ।
पुनरेव मयूरेशमपश्यं बालकैर्वृतम् ५२
क्रीडन्तं पूर्ववन्नत्वाऽब्रुवं मायां न तेऽविदम् ।
अपराधसहस्रं मे मातृवत्त्वं क्षमस्व च ५३
मयूरेशोऽब्रवीन्मां हि मूर्ध्नि हस्तं निवेश्य ह ।
देव उवाच ।
न मे क्रोधो न भिन्ना धीः स्वीयः पर इति भ्रमः ५४
कस्मादपि भयं मे न न मत्तो भयमण्वपि ।
श्रुत्वेयं वचनं तस्य मयूरेशपुरं शिवम् ५५
भवानीमपि तत्सूनुमद्राक्षं मुनिबालकैः ।
गृहीत्वाज्ञां स्वकं स्थानमगमं हर्षनिर्भरः ५६
भवानी बालकैनायान्मन्दिरं स्व च बालकाः ५७ (४७३७)
इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वरूपदर्शनं नाम चतुरधिकशततमोऽध्यायः ॥१०४॥

अध्याय १०५ प्रारंभ –
क उवाच ।
ततो भाद्रचतुर्थ्यां तु ते सर्वे मुनिबालकाः ।
मृदमाहर्तुमायाता विमलां तामथानयन् १
स्वस्वबुद्ध्या विधायाशु मूर्तीर्नानाविधाः शुभाः ।
सिंहारूढा मयूरस्थाः काश्चिन्मूषकसंस्थिताः २
नानायुधधरा नानादिव्यालंकारसंयुताः ।
चतुर्भुजा गणेशस्य दिव्यगन्धाम्बराः शुभाः ३
भक्त्या परमयाऽपूजन्नुपचारैः पृथक्पृथक्।
मण्डपे ताः प्रतिष्ठाप्य पुष्पादर्शप्रभायुजि ४
पद्मपुष्पयुता माला ददुस्ताः सुमनोहराः ।
वाद्यत्सु तूर्यघोषेषु नगरी हर्षमाप सा ५
गौरी तस्यां जन्मतिथौ द्वादशाब्दिकमर्भकम् ।
स्नापयामास च ददौ वायनानि सुवासिनीः ६
संपूज्य विधिवद्भक्त्या हरिद्राकुंकुमादिभिः ।
एतस्मिन्नन्तरे दैत्यो विश्वदेव इति श्रुतः ७
भगवद्रूपमास्थाय श्रीमुद्रांकितमाययौ ।
शंखचक्र गदापद्मवनमालालसत्तनुः ८
तुलसीदामरुचिरो दिव्यवस्त्रानुलेपनः ।
कमण्डलु वारिपूर्णं वेणुदण्डं दधत्करे ९
गौरी तमतिथिं द्वारि तिष्ठन्तं प्राह भक्तितः ।
कुत आगम्यते ब्रह्मंस्तुष्टाऽहं तव तेजसा २.१०५.१०
इत्युक्तः प्राह तां विप्रः श्रुतवानस्मि यत्पुरा ।
तद्दृष्ट्वा नयनाभ्यां ते परितुष्टं मनो मम ११
क्षुधया पीडितश्चाहं भवतीगृहमागतः ।
पार्वत्युवाच ।
आस्यतां भुज्यतां स्वस्थं स च तत्रासने स्थितः १२
आसीनस्य मयूरेशो विष्टरेऽक्षालयत्तदा ।
चरणौ तत्तीर्थजलैः सिषेच सर्वतोऽमलैः १३
संपूज्य भोजयामास पक्वान्नैः पायसैरपि।
अपोशानकरस्तूष्णीमासीच्चिन्तातुरो द्विजः १४
उमोवाच द्विजं पश्चाद्भुज्यतां भुज्यतामिति ।
यदि नान्नं मनोयोग्यं तदा दास्येऽतिवाञ्छितम् ।
वद तच्छीघ्रमान्येष्ये शंकरस्य प्रभौवतः १५
द्विज उवाच ।
क्षीरार्णवस्थितं देवं दृष्ट्वा नित्यं भुनज्म्यहम्।
जलं पिबामि तच्चाद्य विस्मृतं मोहतो मया १६
उमोवाच ।
पूर्वमेव कथं नोक्तो नियमस्ते द्विजोत्तम ।
पात्रादुत्थाय गन्तासि कथं सत्त्वविलुम्पक १७
शंकरः क्षोभमापन्नो न जाने किं करिष्यति १८
मयूरेशोऽब्रवीत्तत्र यदि भावो दृढो हृदि ।
तदात्रैव भवेत्पद्मनाभेर्दर्शनमाशु ते १९
प्रायोऽभाग्य महद्दृष्टं यत्पक्वान्नं च पायसम् ।
त्यक्त्वा व्रजसि कुत्र त्वं मूढभावेन वा द्विज २.१०५.२०
बहुजन्मतपोभिर्यत्कटाक्षो भुवि लभ्यते ।
तया ते परिविष्टान्न कथं त्यजसि सुव्रत २१
ब्रह्मादीनां न गम्या या दृष्टा साक्षात्त्वया शिवा ।
सर्वलोकस्य जननी सर्वयोषिद्वरा हि सा २२
सर्वेषामेव देवानां शक्तिः सा परमाद्भुता ।
तद्दर्शनेन देवस्य विष्णोर्जातं हि दर्शनम् २३
चकोरस्येवाग्निभुजो मिष्टान्नं नैव रोचते ।
तथा किं ते न रोचेत देवान्नममृतोपमम् ।
मम वा सर्वरूपस्य दर्शनेऽस्य दृशिर्भवेत् २४
द्विज उवाच ।
रमापतेरहं दासो न नमस्यामि किंचन ।
यदि त्वं सर्वरूपोऽसि यदि सामर्थ्यमस्ति ते २५
तदा दर्शय विश्वेशं नारायणमनामयम् ।
एवं बुद्ध्वा दृढं तस्य निश्चयं स मयूरराट् २६
अन्तर्धाय प्रादुरासीन्नारायणस्वरूपवान् ।
पीताम्बरः शंखचक्रगदापद्मधरो विभुः २७
नानालंकाररुचिरः सर्वालंकारसुन्दरः ।
कौस्तुभेन लसद्वक्षा वनमालाविभूषितः २८
शेषशायी महालक्ष्म्या संवाहितपदाम्बुजः ।
विश्वदेवश्च तं दृष्ट्वा ननाम परिपूज्य च २९
यातस्तन्मयतां भक्त्या विस्मृत्य च शरीरताम् ।
उवाच च चिदानन्दपरिपूर्णो द्विजोत्तमः २.१०५.३०
अद्य धन्यं जनुर्मेऽद्य जीवितं च सुजीवितम् ।
अद्येयं नगरी धन्या धन्यौ तौ पितरौ मम ३१
मयूरेशोपदेशेन भवान्या दर्शनेन च ।
परात्परस्य विष्णोस्ते चराचरस्वरूपिणः ३२
लब्धं दर्शनमत्रैव सर्वान्तर्यामिणो विभोः ।
नारायणोऽपि तं भक्तं बाहुभिः परिषस्वजे ३३
उवाच च प्रसन्नात्मा बाष्पगद्गदया गिरा।
मदर्थं त्यक्तवान्भुक्तिं क्षीराब्धेरहमागतः ३४
दृष्ट्वा ते निश्चयं भक्तिं दृढामव्यभिचारिणीम् ।
भक्तमार्गं प्रसिंचामि मारुतोद्धतकण्टकम् ३५
भक्ततृषानिवृत्त्यर्थं जातोऽहं जलरूपधृक् ।
नानारूपधरो जातो भक्तानामार्तिनाशनः ३६
यथा भक्तः प्रियो नित्यमिति ते दर्शयाम्यहम् ।
अभूद्भाद्रचतुर्थ्यां हि मयूरेशमहोत्सवः ३७
मूर्तिं महीमयीं कृत्वा बर्या ।खुसिंहगां पृथक् ।
नानालंकारशोभाढ्यां नानारंगैः सुशोभिताम् ३८
अनेकैः पूज्य तां सम्यग्बालकैर्मुनिसंचयैः ।
केचिदग्रे प्रगायन्ति केचिन्नृत्यन्ति भक्तितः ३९
वाचयन्ति पुराणानि प्रदक्षिणपराः परे ।
एतस्मिन्नन्तरे पौत्रो वसिष्ठस्य महात्मनः २.१०५.४०
पराशर इतिख्यात आययौ स्वेच्छया मुनिः ।
स चतुर्वार्षिको मूर्तिं विदधे भक्तितत्परः ४१
शुष्कपर्णकृतां मालां कृत्वा तस्मै न्यवेदयत् ।
गन्धबुद्ध्या कर्दमेन तां व्यलेपयदादरात् ४२
मिष्टान्नानि च लड्डूकान्दक्षिणां च फलानि च ।
न्यवेदयत्तदा पत्रैरनेकैः कर्दमैरपि ४३
षंकल्पं लीलया चक्रं जङ्घावाद्यं शनैः शनैः ।
मुहूर्तं नर्तनं कृत्वा रुरोद भक्षयेति च ४४
संप्रार्थ्य मूर्तिं बहुधा ततः सा चेतनां ययौ ।
यद्यत्तेन यदुद्देशात्स्थापितं पुरतोऽभवत् ४५
तत्तथैव च संजातं ततः साऽभक्षयत्तदा ।
लड्डुकान्मोदकान्नानापक्वान्नं पायसान्वितम् ४६
विश्वदेवश्च तं दृष्ट्वा मिथ्याभूतं यथार्थवत् ।
मृत्तिकान्नानि सत्यानि सर्वं पुष्पफलादिकम् ४७
सचेतनां च तां मूर्तिं षड्भुजां च पुनः पुनः ।
व्यलोकयद्विष्णुरूपां चतुर्बाहुविराजिताम् ४८
उवाच सततं देवं किमिदं मृत्तिकाशनम् ।
मूर्तिरुवाच ।
भक्त्या यदर्पितं मह्यं सुधारससमं भवेत् ४९
अभक्तार्पितममृतं विषमेव भवेन्मम ।
क उवाच ।
एवं तद्वचनं श्रुत्वा विश्वदेवोऽब्रवीत्पुनः २.१०५.५०
कस्ते भक्तो मम च तं दर्शयस्व सुरेश्वर ।
ततस्तस्य करं धृत्वा बहिरायान्मयूरराट् ५१
गृहे गृहे पूज्यमानं देवं तस्मै व्यदर्शयत् ।
शिखिनं सुसमारूढं मयूरेशमलोकयत् ५२
तत्रापि पर्यपश्यत्स विश्वदेवयुतं च तम् ।
नायं मम भवत्स्वामीत्येवं बुद्धिं विसृज्य ताम् ५३
गृहे गृहे विश्वदेवो नारायणमलोकयत् ।
सर्वत्र स ददर्शाथ पूज्यमानं गुणेश्वरम् ५४
क्वापि क्वापि मयूरेशं ददर्श विष्णुरूपिणम् ।
पुनरालोकयंस्त त्तन्मयूरेशमलोकयत् ५५
भुजं स्वं परिगृह्येव बहिर्यातं स्वलीलया।
आक्षिप्य हस्तं स प्रायान्नायं स्वामी ममेति च ५६
अटद्गृहे गृहे सोऽथ पूज्यमानं ददर्श ह ।
मयूरेशं वाद्यघोषैर्नृत्यगीतैरनेकधा ५७
क्वापि दृष्ट्वा विष्णुरूपं नमस्कर्तुं यथावध।
पुनर्मयूरेशरूपं ददर्श स शिखिस्थितम् । ५८
गरुडारूढमन्यत्र शेषारूढं तथा क्वचित ।
नमस्कर्तुं यदा याति विश्वदेवो मुदा यतः ५९
तावद्बर्हिसमारूढं पश्यति स्म पुनः पुनः।
भुंजन्तं च रमन्तं च स्वपन्तं च ददर्श सः२.१०५.६०
ततः खिन्नो विश्वदेवो वसिष्ठद्वारमागमत्।
ततोऽब्रवीन्मयूरेशः पश्य मे भक्तमुत्तमम् ६१
ततः पराशरं सोऽथ ददर्श पुरतः स्थितम् ।
मृन्मयैरुपचारैस्तं पूजयन्तं गुणेश्वरम् ६२
भक्षयन्तं च लड्डूकान्मृन्मयान्देवमेव च ।
पश्यति स्म पुनर्व्योम्नि जले भूमौ तमेव सः ६३
क्षणं नारायणं देवं मयूरेशं क्षणादपि ।
ततः स्वभेदबुद्धिं स्वां तत्याज भ्रान्तिमेव च ६४
सर्वभावेन तं नत्वा स्तुत्वाऽभेदधिया पुनः ।
अनुज्ञातो मुदा प्रायाद्विश्वदेवः स्वमाश्रमम् ६५ (४८०२)
इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वदेवभेदबुद्धिनिरासो नामपंचाधिकशततमोऽध्यायः ॥१०५॥