गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १२६-१३०

← अध्यायाः १२१-१२५ गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः १२६--१३०
[[लेखकः :|]]
अध्यायाः १३१-१३५ →

अध्याय १२६ प्रारंभ :-
क उवाच ।
सिद्धे विवाहे च ततो मयूरेशः शिखण्डिनम् ।
आरुह्य सहसा गन्तुं नगरीं स्वामियेष सः १
स्वं स्वं वाहनमारुढा गीर्वाणास्तत्क्षणेन च ।
यान्ति स्म पुरतस्तस्य मुनयः पृष्ठतो ययुः २
अन्वयुर्नागराः सर्वे स्त्रियश्च बालकानि च ।
आनन्दयुक्ता नगरात्सहसा चक्रपाणिना ३
वाद्यत्सु सर्ववाद्येषु ननृतुश्चाप्सरोगणाः ।
रणभूमिं गतो यावन्मयूरेशोऽखिलैर्वृतः ४
तावत्स्कन्दादयो वीराः प्रार्थयांचक्रिरे विभुम् ।
वीरा ऊचुः ।
सेनाचरा दैत्यगणैर्निहता युद्धसंभ्रमात् ५
उत्तस्थुः सर्व एवैते त्वत्कटाक्षामृतोक्षिताः ।
तान्दृष्ट्वा जीवितांस्तेन सर्वे देवाश्च नागराः ६
विस्मयं परमं प्राप्ताः साधु साध्वब्रुवंस्तदा ।
ततो योजनमात्रं च दत्त्वा मार्गमवस्थितः ७
देवोऽब्रवीच्चक्रपाणिं मूर्ध्नि दत्त्वा करं शुभम् ।
आलिंग्य दशदोर्दण्डैः शत्रुपक्षभयंकरैः ८
देव उवाच ।
त्वं याहि गण्डकीं शीघ्रं नागरैर्मम वाक्यतः ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं मुमोचाश्रूणि सत्वरम् ९
नागराश्च प्रणम्योच्चैरूचुर्वाक्यं शुचान्विताः।
यत्र यासि नयास्मांस्त्वमत्र त्यक्तुं न चार्हसि २.१२६.१०
नागतः स्यात्पूर्वमेव तदा दुःखं न नो भवेत् ।
एवमुक्त्वा नमस्कृत्य ययुः सर्वे तदाज्ञया ११
चक्रपाणिरपि तदा नमस्कृत्य ययौ पुरः ।
वर्णयन्तो गुणगणांस्तदीयानद्भुतान्बहून् १२
क्षणेन नगरीं प्राप्य चक्रपाण्यनुमोदिताः ।
नागराः स्वगृहं प्राप्ताश्चक्रपाणिर्निजालयम १३
पंचानामपि देवानां प्रासादानप्यकारयत् ।
पंचायतनमूर्तिं च स्थापयामास तेषु च १४
प्रत्यहं पूजयामास भक्तिभावसमन्वितः ।
मयूरेशपुरीं प्राप्तो मयूरेशोऽपि तत्क्षणात् १५
आश्चर्यं परमं प्राप्ता गणाः सर्वे निरीक्ष्य ताम् ।
यस्यां रत्नमया स्तम्भा भित्तयोऽष्टापदान्विताः १६
एको ना दृश्यते तत्रासंख्यातजनसंयुतः ।
प्रविश्य स सभां रम्यां ब्रह्मादीनुपवेश्य च १७
मध्ये विवेश च ततो लोकयन्सर्वतः स्वयम् ।
ददर्श पूर्वेभागे स मन्मथं रति संयुतम १८
देवीं मार्जारनाम्नीं ता लोके ख्यातां सुखप्रदाम ।
दक्षिणस्यां दिशि तदा लोकयत्पार्वती शिवौ १९
तत्पुरो विरजां देवी भक्तकामप्रपूरिकाम् ।
पश्चिमायां दिशि ततो वाराहं धरणीयुतम २.१२६.२०
आश्रयां नाम देवीं च सर्वविघ्नहरां शुभाम् ।
उत्तरस्यां दिशि तदा श्रीहरिं समलोकयत् २१
मुक्तादेवीं च विख्यातां सर्वमुक्तिप्रदां ततः ।
त्रयस्त्रिंशत्कोटिसुराः स्थितास्तद्दर्शनेच्छया २२
भाद्रशुद्धप्रतिपदि स्नात्वाऽभ्यर्च्य गजाननम् ।
गत्वा तु पूर्वदिग्भागे मार्जारीं पूजयेत्ततः २३
दत्त्वा दानानि विप्रेभ्यः स्मृत्वा ध्यात्वा गजाननम् ।
मौनं व्रतं समास्थाय न श्रुत्वा पादजध्वनिम् २४
कृमिकीटपतंगादीन्न हिंसेत्प्रयतः शुचिः ।
पुनः स्नात्वा समभ्यर्चेद्देवदेवं गजाननम् २५
पूर्ववत्तु द्वितीयेऽह्नि तृतीये च ततः क्रमात् ।
तथैव दक्षिणद्वारि विरजां द्वितयेऽहनि २६
तृतीये पश्चिमद्वारि तथैवाश्रमसंज्ञिताम।
नत्वाऽर्चयेच्चतुर्थ्यां तु तद्वदुत्तरतो नरः २७
मुक्तां देवीं समभ्यर्च्य मयूरेशं च तद्दिने ।
पूजामहोत्सवं कुर्याद्रात्रौ जागरणं चरेत् २८
एवं यः कुरुते भक्त्या द्वाराणि चोपवासतः ।
स सर्वांल्लभते कामान्मयूरेशप्रसादतः २९
चतुर्थ्यामेव चत्वारि शक्तो द्वाराणि पूर्ववत् ।
आद्यन्तमज्जनादेवदर्शनं च करोति यः २.१२६.३०
तस्य सद्यः फलं दद्यात्परितुष्टो गजाननः ।
तस्माच्छुद्धप्रतिपदमारभ्य ब्रह्मचर्यवान् ३१
ततश्चतुर्थ्यामुषसि स्नानं कृत्वा विधानतः ।
नित्यं संपाद्य विधिवन्मयूरेशं समर्चयेत् ३२
प्रदक्षिणा नमस्कारान्कुर्यादेवैकविंशतिम् ।
पूर्वद्वारे नमस्कृत्य मार्जारीं त्वरयान्वितः ३३
एवं शिवावाश्रयां च मुक्तादेवीं नमेत्पराम् ।
प्रारभेद्दिनशेषे तु मयूरेश्वरपूजनम् ३४
षोडशैरुपचारैस्तु पूजयेत्सुसमाहितः ।
रात्रौ जागरणं कुर्याद्गीतवादित्रनिस्वनैः ३५
प्रभाते विमले स्नात्वा पुनर्देवं समर्चयेत् ।
ब्राह्मणैः सह कुर्वीत पारणं स्वस्य शक्तितः ३६
तेभ्यो दद्याद्धिरण्यं च वासोधान्यं गवादिकम् ।
एवं यः कुरुते मर्त्यो दुःसाध्यमपि साधयेत् ३७
पुत्रपौत्रयुतो भोगान्भुक्त्वा चान्ते व्रजेद्दिवम् ।
इन्द्रादयो लोकपालाः पूजयिष्यन्ति तं नरम् ३८
सेवन्ते पादकमलं तस्य या अष्टानायिकाः ।
अन्धस्तु लभते दृष्टिं मूको वाचं लभेद्ध्रुवम् ३९
बधिरः श्रुतिमाप्नोति पङ्गुश्च चरणावपि ।
भार्यार्थी लभते भार्यां विद्यार्थी लभते मतिम् २.१२६.४०
एतदेव फलं प्रोक्तं द्वारेषु चोपवासतः ।
ततः कदाचिद्देवेशो मयूरेशोऽखिलान्सुरान् ४१
उवाच श्लक्ष्णया वाचा हरिब्रह्मशिवादिकान् ।
मयूरेश उवाच ।
यदर्थमवतीर्णोहं तत्कार्यं कृतं सुराः ४२
निहता बहवो दैत्या भूभारश्च कृतो लघुः ।
सिन्धोः कारागृहात्सर्वे मोचिता अमृतान्धसः ४३
स्वाहास्वधावषट्कारा भविष्यन्ति यथापुरा ।
भवतामाज्ञया देवा यस्ये स्वं धाम सांप्रतम् ४४
एवमाकर्ण्य तद्वाक्यं देवाः सर्वे शुचान्विताः ।
त्यजन्तोऽश्रूणि संप्रोचुः परस्परमुखेक्षणाः ४५
अस्मांस्त्यक्त्वा मयूरेश क्व वा गन्तुं समीहसे ।
कथं स्नेहं परित्यज्य नैष्ठुर्यं परमं गतः ४६
ततस्तत्पार्वती श्रुत्वा सहसा शोककर्षिता ।
पपात मूर्छिता भूमौ मुहूर्तादवदच्च सा ४७
पार्वत्युवाच ।
दीननाथ दयासिन्धो सिन्धुदैत्यविमर्दन ।
क्व यास्यति जगन्नाथ हित्वा मां जननीं तव ४८
न स्थास्यन्ति मम प्राणास्त्वयि याते सुरेश्वर ।
देव उवाच ।
द्वापरे पुनरेवाहं यास्ये त्वत्पुत्रतां शुभे ४९
न मिथ्या वचनं मे स्यान्न चिन्तां कर्तुमर्हसि ।
ममापि दुःखमतुलं वियोगात्तव जायते २.१२६.५०
नैकत्र सर्वदा मातः सुह्र वसतिर्भवेत् ।
सिन्दूरो नाम दैत्योऽपि भविष्यति सुदारुणः ५१
अवध्यः सर्वदेवानां तदाऽहं स्यां तवार्भकः ।
स्मृतमात्रः तवाग्रेऽहं स्थास्यामि शिवनंदिनि ५२
ततः षडाननः प्राह नय मां यत्र यास्यसि ।
बालके कृपणे दीने नौदासिन्यं हि युज्यते ५३
देव उवाच ।
न चिन्तां कुरु बन्धो त्वमत्रायास्याम्यहं पुनः ।
भवतो न वियोगो मे सर्वान्तर्यामिणः खलु ५४
तस्मै ददौ मयूरं तं मयूरेशः स्वबन्धवे ।
मयूरध्वज इत्येव नामचक्रेऽस्य तत्क्षणात् ५५
आरुरोह मयूरं तं स्कन्दो बन्धोरथाज्ञया ।
तस्मिन्नेव क्षणे देवोऽन्तर्दधे स मयूरराट् ५६
तस्मिन्नन्तहिते केशा अपश्यन्ह्रदि तं सदा ।
ततो ब्रह्मा वालुकाभिः कृत्वा मूर्तिं गजाननीम् ५७
स्थापयामास विधिवत्प्रासादे सुमनोहरे ।
पुपूजुः सर्वलोकास्तमुपचारैर्यथाविधि ५८
वसिष्ठाद्या मुनिगणाः सस्नुर्ब्रह्मकमण्डलौ ।
सर्व नित्यविधिं कृत्वा ययुर्मूर्ति सुशोभनीम् ५९
उपोष्य केचिद्विदधुर्द्वाराणि धामलब्धये ।
स्नात्वा नत्वा मयूरेशं धावमानास्तथाऽपरे २.१२६.६०
ऊचुः परस्परं देवा मुनयोऽपि मुदा तदा ।
नैतादृशं पुण्यक्षेत्रं यत्र देवः स्थितः स्वयम् ६१
मयूरेशो विघ्नहरो भक्तानां कामपूरकः ।
पूजायित्यैवमुक्त्वा तु जग्मुस्ते स्वं स्वमाश्रमम् ६२
ब्रह्मादयः सुराः स्वं स्वं पदमभ्यागमंस्तदा ।
शंकरः सपरीवारः कैलासमगमन्मुदा ६३
स्वधास्वाहावषट्कारैरिन्द्राद्या मुमुदुस्तदा ।
क उवाच ।
एवं ते सर्वमाख्यातं त्रेतायुगकृतं मुने ६४
मयूरेशस्य चरितं श्रवणात्सर्वकामदम् ।
धन्यं यशस्यमायुष्यं सर्वपापहरं नृणाम् ६५
पुत्रदं धनदं विद्याप्रदं दुःखनिवारणम् ।
आधिव्याधिहरं कुष्ठदुष्टरोगादिनाशनम् ६६
पठतां शृण्वतां पुंसां भुक्तिमुक्तिप्रदं शुभम् ।
विजयश्रीपदनृणां क्षत्रियाणां विशामपि ६७
शूद्राणामपि सर्वेषां श्रीप्रदं पुष्टिवर्धनम्।
यद्यत्ते परिपृष्ठं मे तत्तत्ते कथितं मुने ६८
गजाननस्य चरितं पुनः श्रोष्यसि मन्मुखात् ६९ (५७९५)
इति श्रीगणेशपुराणे क्रीडाखण्डे षड्विंशत्युत्तरशततमोऽध्यायः ॥१२६॥

अथ गजाननचरितं-द्वापर युग
अध्याय १२७ प्रारंभ :-
व्यास उवाच ।
चतुरानन देवेश गुणेशचरितं शुभम् ।
कथितं विस्तराद्देव नाहं तृप्तोऽस्मि तच्छ्रवात्१
सुधया तु विरक्तः स्यान्न कथा श्रवणान्नरः ।
त्रेतायुगकथा सर्वा गुणेशस्य श्रुता मया २
गजाननेति नामास्य द्वापरे तु कुतोऽभवत् ।
मूषको वाहनं चास्य कथं यातो महाविभो ३
कृपया संशयममुं छिन्धि त्वं कमलासन ।
क उवाच ।
सम्यक्पृष्टं त्वया वत्स मम चित्तगतं मुने ४
यतः श्रोता च वक्ता च पृच्छकः सिद्धिमाप्नुयात् ।
तां कथां कथयिष्यामि विनायककृतां मुने। ५
द्वापरे यत्कृतं तेन चरितं शृणु साम्प्रतम् ।
यथा गजाननो देवो रक्तवर्णश्चतुर्भुजः ६
गजाननश्चाखुवाहस्तत्सर्वं कथयामि ते ।
कदाचिद् ब्रह्मभुवनं यातः शंभुर्यदृच्छया ७
उत्थापयामास तदा प्रसुप्तं कमलासनम् ।
स उत्थितो महाजृम्भा चकार क्रोधसंयुतः ८
तत एको महाघोरः पुरुषः समपद्यत ।
स च चक्रे महाघोरं शब्दं सर्वभयंकरम् ९
चकम्पे पृथिवी तेन साब्धिद्वीपा सपर्वता।
दिक्पालाश्चकिताः सर्वे शेषः क्षुब्धोऽसृजद्विषम् २.१२७.१०
विशीर्णा गिरयः सर्वे भूतान्याकुलतां ययुः ।
कल्पान्त इव तत्रासीत्त्रैलोक्यवासिनां नृणाम् ११
ब्रह्माण्डं मस्तकेनासौ स्फोटयन्निव तस्थिवान् ।
यद्देहतश्चारुगन्धो व्यानशे भुवनत्रयम् १२
जपाकुसुमदेहस्य प्रभयारुणिता दिशः ।
अयं किं मदनो जातो द्वितीयो ब्रह्मसंभवः १३
कामस्तु लज्जितस्तस्य सद्यो रूपनिरीक्षणात् ।
पुरस्तं सन्निरीक्ष्यैनं विस्मितः कमलासनः १४
कस्य त्वं कुत उत्पन्नः किं चिकीर्षसि तद्वद ।
पुरुष उवाच ।
अनेकानि सुरेश त्वं ब्रह्माण्डानि सृजस्यपि १५
विभ्रान्त इव कस्मान्मां सर्वज्ञः सन्हि पृच्छसि ।
जम्भायास्ते समुत्पन्नं कथं मां नावबुध्यसे १६
अनुगृह्णीष्व पुत्रं मा देहि नाम यथामति ।
स्थानं च देहि मे नाथ भक्ष्यं कार्यं च मे वद १७
इत्याकर्ण्य वचस्तस्य प्रोवाच चतुराननः।
रक्तं वपुर्यतस्तेऽस्ति सिन्दूराख्यो भविष्यसि १८
सामर्थ्यं च महत्ते स्यात्त्रैलोक्याकर्षणक्षमम् ।
क्रोधादालिंगसे यं त्वं शतधा स भविष्यति १९
पंचभ्योऽपि च भूतेऽभ्यो न भयं ते कदाचन ।
देवदानवयक्षेभ्यो मानुषेभ्यो भयं न ते २.१२७.२०
इन्द्रादिलोकपालेभ्यः कालादपि भयं न ते ।
न नागेभ्यो न रक्षोभ्यो नाहोरात्रे भयं न ते २१
सजीवान्न च निर्जीवाद्भयं सिन्दूर ते भवेत् ।
वस यत्र मनस्ते स्यात्स्थातुं त्रिभुवनेष्वपि २२
ततः स वरदानेन तुतोष चतुरास्यजः ।
चक्रन्द कम्पयञ्शब्दैस्त्रैलोक्यं सचराचरम् २३
चुक्षुभुः सागराः सर्वे लोकपालाश्च दुद्रुवुः ।
उवाच स तदा देवं नमस्कृत्य पितामहम् २४
सिन्दूर उवाच ।
तव वाक्यामृतेनाहं प्रीतो ब्रह्माण्डनायक ।
त्वमेव विश्वं सृजसि पासि हंसि गुणैस्त्रिधा २५
त्वयि सुप्ते जगत्सुप्तमन्धकारश्च जायते ।
महत्भाग्यं मम विभो तपोदानव्रतैर्विना २६
पुत्रस्नेहात्प्रसन्नस्त्वं नान्यथा ते प्रसन्नता ।
कल्पकोटिततोभिस्त्वं प्रसन्नो जायसे विभौ २७
क उवाच ।
इत्युक्त्वा तं प्रणम्यासौ कृत्वापि च प्रदक्षिणम् ।
जगाम मनसा भूमिं मार्गे तर्कमथाकरोत् २८
न मे तपो वा ध्यानं वा जपः स्वाध्याय एव च ।
कथं तेन वरा दत्ताः सत्या उत वृथा नु ते २९
गत्वा द्रक्ष्यामि पितरमित्युक्त्वाऽगात्पितामहम् ।
तुलयित्वा तु दोर्दण्डौ जगर्ज स भयानकः २.१२७.३०
तमेवालिंगितुं चैच्छत्तत ऊचे पितामहः ।
पुत्रस्नेहान्मया दत्ता वरा अन्यस्य दुर्लभाः ३१
दुष्टभावान्ममैव त्वमपकर्तुमिहागतः ३२
भुजगस्य पयो दत्तं विषमेव हि जायते ।
दुष्टभावं गतो यस्मात्तस्माद्दैत्यो भविष्यसि ३३
परमात्माऽवतीर्याशु हनिष्यति गजाननः ।
तवांगं सुरभिं ज्ञात्वा स्वांगे तन्मर्दयिष्यति ३४
सिन्दूरारुणदेहश्च सिन्दूरप्रिय एव च ।
भविष्यति स देवोऽपि सिन्दूरवध एव च ३५
एवमुक्त्वा पपालाशु भयेन कमलासनः ।
मनोवायुमहावेगा निश्वासश्वाससङ्कुलः ३६
दैत्योऽपि पृष्ठतो याति शापमाकर्ण्य मन्युमान् ।
स्वेदेनार्द्रं तनुर्दुष्टो दृष्ट्वा दृष्ट्वा पुरो व्रजन् ३७
धरिष्यामि पदेन्यस्मिन्निति दैत्योऽभ्यधावत ।
वैकुण्ठमगमद्ब्रह्मा कम्पमांनस्त्वरान्वितः ३८ (५८३३)
इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्दूरोत्पत्तिवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥१२७॥

अध्याय १२८ प्रारंभ:-
क उवाच ।
स ददर्श समासीनं नारायणमनामयम् ।
रत्नकाञ्चनविलत्पद्मासनगतं विभुम् १
सोऽपि तं पुरतो वीक्ष्य विवर्णवदनं तदा ।
तत्पृष्ठतो महादैत्यं गगनस्पर्धिमस्तकम् २
उदतिष्ठत वेगेन दयालुः कमलापतिः ।
धृत्वा करं समालिङ्ग्य स्वासने कं न्यवेशयत् ३
संपूज्य परिपप्रच्छ किं ते कार्यमुपस्थितम् ।
कथं च म्लानवदनः श्वासवांश्च हतप्रभः ४
मम खेदः समुत्पन्नो द्रष्ट्वैव त्वां पितामह ।
इति तद्वचनं श्रुत्वा जगाद कमलासनः ५
क उवाच ।
प्रबोधितः शिवेनाहं प्रतिसुप्तो निजालये।
ततो मे जृम्भतो वक्त्रान्निर्गतः पुरुषो महान् ६
पतन्ति भूतले भानि यन्मस्तकविधानतः ।
तस्य सौरभगन्धेन सर्व देवा विसिस्मिरे ७
यस्य लावण्यमीक्ष्यैव लज्जितो मदनोऽभवत् ।
यस्य क्रन्दितशब्देन चकम्पे भुवनत्रयम् ८
स नमस्कृत्य मां देव विनीतः पुरतः स्थितः ।
ततस्तस्मै वरा दत्ताः पुत्रस्नेहेन माधव ९
यं यं त्वमालिङ्ग्यसी स स मृत्युमुपैष्यति ।
कालोऽपि न रणे स्थातुं तव शक्तो भविष्यति २.१२८.१०
स्थानं च स्वेच्छया तस्य दत्तं देव मया ततः ।
नमस्कृत्य गतो दूरं वितर्कात्पुनरागतः ११
मामेवालिङ्गितुं यातोऽपलमस्माद्भयादहम।
हंसमारुह्य सहसा वेगेन त्वामुपागतः १२
दृष्ट्वा दृष्ट्वा पृष्ठगतं कम्पः श्वासश्च मेऽभवत्।
विना त्वां शरणं कं वा यामि सर्वेश्वरेश्वर १३
ततोऽब्रवीन्महाविष्णुर्ब्रह्माणं शरणागतम् ।
देव उवाच ।
पूर्वं दत्वा वरान्देव सङ्कटं प्राप्य बुद्धितः१४
इदानीं चिन्तया किं स्याद्यद्भाव्यं तद्भविष्यति ।
स पीडां त्रिषु लोकेषु विधातुमुद्यतोऽभवत् १५
क उवाच।
यावत्तौ चिन्तयाविष्टौ स्थितौ ब्रह्महरी तदा ।
तावत्स पुरतोऽतिष्ठद्दृष्ट्वा ताभ्यां महासुरः १६
जगर्ज गर्जयामास त्रैलोक्यं बलवत्तरम् ।
ब्रह्मांडं कम्पयामास ब्रह्माणं च तदा खलः १७
सोऽवदद्रक्ष रक्षेति विष्णुं त्रैलोक्यरक्षकम् ।
ततो विष्णुर्जगौ दैत्यं वाचा मधुरया तदा १८
हरिरुवाच ।
न त्वया वरदानेन मत्तेन यौद्धुमुत्सहे ।
अहं सत्त्वगुणोपेतः पालने निरतः सदा १९
अयं च ब्राह्मणो ब्रह्मा तेन योद्धुं न चार्हसि ।
तव युद्धप्रदो देवः ख्यातोऽसौ मदनान्तकः २.१२८.२०
तेन युद्ध्यस्व ते कीर्तिर्महती स्यात्त्रिलोकगा।
क उवाच ।
इत्याकर्ण्य वचस्तस्य जहृषे दैत्यपुङ्गवः २१
उड्डीय प्रययौ सद्यः कम्पयन्भुवनत्रयम् ।
पातयन्पर्वतान्वृक्षांश्चूर्णयन्सहसा बहून् २२
दिग्गजाश्चलिता सर्वे संजग्मुर्विदिशो दिशः ।
एवमुपत्यकां यातः कैलासस्य महागिरेः २३
ददर्शाधित्यकायां स ध्यानस्थं गिरिशं खलः ।
नन्दिभृङ्गिगणाकीर्णं पार्वत्या सेवितं विभुम् २४
व्याघ्रचर्मपरीधानमर्धचन्द्रविभूषणम् ।
भस्माङ्गरागशोभाढ्यं करिचर्मोत्तरीयकम् २५
दृष्ट्वा देवं तदा दैत्यो निनिद्र सहसा हरम् ।
अनेन किं मया युद्धं कर्तव्यं तापसेन ह २६
एतस्य सुन्दरी भार्यां नीत्वा यामि यदृच्छया।
एवं निश्चित्य मनसा गौरीमन्तिकमाययौ २७
तदा चकम्पे गिरिजा कल्पान्ते जगती यथा।
निमील्य नयने मूर्छामापाशु भयविह्वला २८
दधार तां केशपाशे स दैत्यो दुष्टमानसः ।
उड्डीय चलितो वेगाच्छुशोच गिरिजा तदा२९
रावणेन नीयमाना यथा सा धरणीसुता। गिरिजोवाच ।
औदासीन्यं कथं यातो मयि देवोऽखिलार्थवित् २.१२८.३०
ध्यानं कथं गतोऽस्यर्धे हीयमाणे त्वदङ्गके ।
नाकारि दास्यं न्यूनं ते येन काठिन्यमागतः ३१
कः सखा मोचयेन्मां हि प्राणदाता भवेच्च कः।
पुनर्मे शंकरं को नु दर्शयेद्बलवत्तरः ३२
क उवाच ।
ततः शोकाकुलां वीक्ष्य तां गणाः प्राब्रुवंस्तदा ।
अनेन योद्धुं शक्तिर्नो त्रैलोक्यनाशिनाऽधुना ३३
शिवश्च ध्याननिष्ठोभूद्दैवादस्यानुकूलता।
नीता नो जननी विश्वसृष्टिस्थित्यन्तकारिणी ३४
मोहिनी सर्वदेवानां सर्वदुःखविनाशनी।
लावण्यलहरी नीता सर्वयोषिद्वरा शुभा३५
रत्नभूता कथं नीता कथं सा पुनरेष्यति ।
ध्यानस्थे शंकरे सर्वनाशने नेत्रवह्नितः ३६
तस्मिन्यास्यति लोभेन पुत्रानिव जनन्यथ ।
एवं शोकं प्रकुर्वत्सु हाहाकारै रुदत्सु च.३७
गणेषु विससर्जाशु ध्यानं क्रोधान्महेश्वरः ।
क्रोधानलेन ब्रह्माण्डं दहन्निव दिशो दश ३८
पप्रच्छ तान्गणाञ्शम्भुः सङ्कटं किमुपस्थितम् ।
भस्मसात्तं करिष्यामि येन वः कदनं कृतम् ३९
इति तद्वचनं श्रुत्वा प्रोचुस्तं ते गणास्तदा।
त्वयि ध्यानस्थिते देव मन्दराचलसन्निभः २.१२८.४०
कृतान्तसमरूपः सन्नागतो दैत्यपुङ्गवः ।
यस्य श्वासानिलहता अचलाश्चलतां गताः ४१
संमोहं प्रापिता देवा दर्शनादेव शंकर।
ततः स गिरिजां धृत्वा केशापाशे महाबलः ४२
निनाय सत्वरं व्योममार्गेण जननीं हि नः।
नीयमाना शिवा प्राह धावधावेति सत्वरम् ४३
मूर्छिताः पतिता भूमौ वयं सर्वे विमूर्छिताः ।
तथाविधां समादाय ययौ स दुष्टमानसः ४४
श्रुत्वा तेषां वचः शंभुर्जज्वाल परमं रुषा ।
कुर्वन्भस्मेव लोकानामारुरोह वृषं निजम् ४५
त्रिशूलादीनि शस्त्राणि दधानो दशभिर्भुजैः ।
नभोमार्गेण प्रययौ गर्जयन्विदिशो दिशः ४६
यत्रासीत्सिन्दुरोदैत्यस्तं देशमगमत्क्षणात्।
अहनत्पृष्ठदेशे तं तस्थौ स संमुखं तदा ४७
मुंच भार्यां महादुष्ट ह्रष्ट: सन्क्व गमिष्यसि ।
इत्युक्तः स रुषाविष्टस्त्रिलोकीं भस्मतां नयन् ४८
बाहुभ्यां मारयन्नेव प्रययौ शिवसन्निधौ ।
उवाच च महादैत्यो गर्वेण परिमोहितः ४९
नाहं मशकवाक्येन बिभेमि भुवनाधिपः ।
यस्य श्वासानिलेनाशु कम्पते मेरुपर्वतः २.१२८.५०
तस्य मे गणना नास्ति मुखं मां मा प्रदर्शय ।
यदि शक्तिर्मया सार्धं युद्धं कर्तुं तदा कुरु ५१
नो चेदन्यां पाणिय ततः सौख्यमवाप्स्यसि ।
किं मया सह यौद्धव्यं मशकेन त्वया लघो ५२
एवमुक्त्वा बाहुयुद्धं कर्तुं शंकरमाययौ ।
दुर्गा देवी तु सस्मार मयूरेशं स्वचेतसि ५३
द्विजरूपधरो देवो मयूरेशस्ततस्तयोः ।
अन्तराले प्रादुरासीत्कोटिसूर्यनिभः क्षणात् ५४
सर्वाङ्गसुन्दरो नानाभूषणैरुपशोभितः ।
परशुं मध्यतः कृत्वा वारयामास दैत्यपम् ५५
उवाच श्लक्ष्णया वाचा सिन्दूरं तं द्विजोत्तमः ।
त्रैलोक्यजननीं गौरीं स्थापयाशु ममान्तिके ५६
युध्यस्व शंकरेण त्वं यावज्जयपराजयौ ।
जयो यस्य भवेत्तेन ग्राह्येति नान्यथा वचः ५७
क उवाच ।
द्विजवाक्यं समाकर्ण्य सिन्दूरो ह्रष्टमानसः ।
स्थापयामास गिरिजां युद्धाय बहुलालसः५८
तयोस्तु पश्यतोरेव तावुभावप्य युध्यताम।
सिन्दूरश्च महेशश्च नानायुद्धविशारदौ ५९
क्रोधसंरक्तनयनौ तुल्यतेजःपराक्रमौ ।
बाहुभ्यां वेष्टितुं यावदियेष सोऽसुरो हरम् २.१२८.६०
अदृश्य एवं परशुरस्य जघ्ने बलादुरः।
क्षीणशक्तिं ततो दैत्यं त्रिशूलेनाहनद्धरः ६१
ततोऽशक्तं द्विजवरो वदति स्म हितं वचः।
त्रैलोक्यनायकेन त्वं न युद्धं कर्तुमर्हसि ६२
गिरिजाशां विहायाशु व्रजस्व निजमन्दिरम् ।
नो चेदयं शिवो भस्म करिष्यति तवाधुना ६३
एवमुक्तो द्विजेनाऽसौ वाञ्छां त्यक्त्वा भुवं ययौ।
ततः सा पार्वती प्राह द्विजं प्राप्ते जयं शिवे६४
कोऽसि त्वं मुनिशार्दूल येनाहं मोचिता खलात ।
निजं मे दर्शय स्वीयं रूपं नेदं स्वभावजम्६५
ममप्राणाधिकोऽसि त्वं सखा प्राणप्रदो यतः।
न भवेदुपकारस्ते प्राणे त्यक्ते द्विजोत्तम ६६
एवमाश्रुत्य तां वाचमुवाच स मुनीश्वरः।
न च मातर्मयाऽकारि किञ्चिदत्र महेश्वरः ६७
अजयत्सिन्दुरं दैत्यं मोचिता त्वं शिवेन ह ।
इत्युक्त्वा पूर्वरूपं स आविष्चक्रे विनायकः ६८
दशदोर्दण्डरुचिरं कर्णकुण्डलमण्डितम् ।
कस्तूरीतिलकं रत्नमुक्तामाविभूषितम् ६९
नानालंकार रुचिरं शेषकण्ठमणिप्रभम् ।
दृष्टवैवं परमात्मानं ननन्द गिरिजा तदा २.१२८.७०
ननाम पादयोस्तस्य स उत्थाप्य च तां जगौ ।
विनायक उवाच ।
त्रेतायुगे प्राब्रुवं त्वां दास्यामि दर्शनं पुनः ७१
अवतीर्य द्वापरे ते गृहे नाम्ना गजाननः ।
भविष्यामि हनिष्यामि सिन्दूरं दैत्यमोजसा ।
क उवाच ।
मुनिरूपधरो देव उक्त्वावान्तरधीयत ।
ततः शुशोच गिरिजा मूर्छां सा परमां ययौ ७३
तत ऊचे विश्वनाथो मनः स्वस्थं कुरु प्रिये।
पश्य त्वं ह्रदि तं देवं विनायकमनामयम् ७४
न मिथ्या भाषितम् तस्य यदुक्तं तत्करिष्यति ।
एवमुक्त्वा महादेवो वृषारूढस्तया सह ७५
आययौ परमं प्रीतः कैलासं पर्वतेश्वरम् ७६ (९०९)
इति श्रीगणेशपुराणे क्रीडाखण्डेऽष्टाविंशत्युत्तरशततमोऽध्यायः ॥१२८॥

अध्याय १२९ प्रारंभ :-
क उवाच ।
ततो दैत्यो मृत्युलोकं गतो गर्वादगर्जत।
कम्पितः पर्वताः सर्वे वृक्षा निपतिता भुवि१
पक्षिसिंहाः श्वापदानि बभ्रमुः कानने तदा ।
ततो जिगाय नृपतीन्सर्वान्वीरांश्च दानवः २
ब्रह्मादयो जिता येन तेनायुध्यन्कथं नृपाः।
केचिद्द्विधा कृतास्तेन केचिन्नभसि बभ्रमुः ३
केचिच्च सम्मुखे युद्धं कृत्वा स्वर्गं गता नृपाः ।
केचिच्च शरणं याता: सेवकत्वमुपागताः४
केचिद्भ्रष्टपदा जग्मुरभिमानेन काननम्।
एवं जित्वा नृपान्सर्वान्मुनीनामाक्रमे मतिम५
अकरोद्दुष्ट बुद्धिःस बबन्ध सहसा च तान् ।
तदा केचिन्मुनिगणास्त्यक्त्वा देहं दिवं गताः ६
केचिच्च मेरुकन्दर्यां न्यवसन्विगतज्वराः ।
केचिच्च निहतास्तेन केचिच्च ताडिता भृशम् ७
प्रासादाः सकलास्तेन विध्वस्ता देवता अपि ।
एवं तु प्रलये जाते लुप्यन्क्रियाश्च वैदिकाः ८
स्वाहास्वधावषट्कारा हाहाकारोऽप्यजायत ।
देवा गिरिगुहास्थास्ते मुनयो यक्षकिन्नराः ९
न्यमन्त्रयन्त कार्यार्थं तत्र प्राह बृहस्पतिः ।
विद्यमानेभ्यो देवेभ्यस्तेभ्यः सर्वेभ्य एव च २.१२९.१०
न भयं विद्यते तस्य तस्माद्देवं विनायकम् ।
प्रार्थयध्वं यदा विप्राः प्रादुर्भावं शिवालये ११
गजाननेति नाम्ना स करिष्यति च साम्प्रतम् ।
हनिष्यति बलाद्दैत्यं सिन्दूरं नात्र संशयः १२
निराबाधं जगत्सर्वं भविष्यति तदा सुराः ।
एवमुक्तास्तु जीवेन तं तु देवादयोऽखिला ।
भक्त्या परमया युक्तास्तुष्टुवुस्तं विनायकम् १३
देवा ऊचुः ।
जगतः कारणं योऽसौ रविनक्षत्रसंभवः ।
सिद्धसाध्यगणाः सर्वे यत एव च सिन्धवः १४
गन्धर्वाः किन्नरा यक्षा मनुष्योरगराक्षसाः ।
यतश्चराचरं विश्वं तं नमामि विनायकम् १५
यतो ब्रह्मादयो देवा मुनयश्च महर्षयः ।
यतो गुणास्त्रयो जातास्तं नमामि विनायकम् १६
यतो नानावताराश्च यश्च सर्वहृदि स्थितः ।
यं स्तोतुं नैव शक्नोति शेषस्तं गणपं भजेत् १७
सिन्दूरो निर्मितः केन विश्वसंहारकारकः ।
तेनातिप्रापितं विश्वं त्वयि स्वामिनि जाग्रति १८
अन्यं कं शरणं यामः को नु पास्यति नोऽखिलान् ।
जह्येनं दुष्टबुद्धिं त्वमवतीर्य शिवालये १९
इत्युक्त्वा परितेपुस्ते नानानुष्ठानतत्परा: ।
निराहारा यताहाराः प्राणायामपरायणाः २.१२९.२०
एकपादस्थिताः केचिज्जलमध्ये स्थिताः परे २१
ऊर्ध्वबाहुतया केचित्केचिच्च योगमास्थिताः ।
केचिच्चकर्तुःस्वान्देहान्केचिच्च मस्तकानपि २२
एवं तेषां निरीक्ष्यैव तपांसि गणराट्तदा ।
आविरासीत्कोटिसूर्यप्रलयानलसन्निभः २३
दृष्ट्वा तेजोमयं रूपं जह्रषुस्ते सुरास्तदा ।
यश्चिन्तितः स एवायमाविर्भूतोऽखिलेश्वरः २४
अपनेष्यति नो दुःखं नात्र कार्या विचारणा ।
तत ऊचे स भगवांस्तान्सुरांश्चिन्तया युतान् २५
हनिष्ये सिन्दुरं देवा मा चिन्तां कर्तुमर्हथ ।
दुःखप्रशमनं नाम स्तोत्रं वः ख्यातिमेष्यति २६
अतो दुःखविनाशो वा जातोऽस्मान्मदनुग्रहात् ।
एककालं द्विकालं वा त्रिकालं वापि यः पठेत् २७
कदाचिन्न भवेदस्य दुःखं त्रिविधमण्वपि।
अहं तु सांप्रतं देवा अवतीर्य शिवालये २८
नाम्ना गजानन इति ख्यातः सर्वार्थसाधकः ।
भविष्यामि हनिष्यामि सिन्दूरादीन्महासुरान् २९
करिष्यामि शिवादास्यं कौतुकानि प्रदर्शयन्।
क उवाच।
एवमुक्त्वा ततो देवांस्तत्रैवान्तर धीयत २.१२९.३०
ततोऽकस्माद्धैमवती शिवानुग्रहतो दधौ ।
गर्भं स ववृधेऽत्यन्तं दिने दिने यथाशशी३१
ततस्तत्तेजसा तप्ता नानादोहदकांक्षिणी।
उवाच शंकरं गौरी संतप्ता गर्भतेजसा३२
अतिशीतस्थलं यत्र तत्र मां नय शंकर।
तत्रोऽसौ वृषभारूढः पृष्ठे तामुपवेश्य ह३३
भासयन्तीं महातेजःपुंजेन विदिशो दिशः ।
वाद्यत्सु सर्ववाद्येषु ययौ स क्षितिमण्डलम् ३४
नानागणैः समायुक्तो बभ्राम काननानि सः ।
भ्रमता तेन दृष्टं हि पर्यलीकाननं महत् ३५
तत्र विश्रान्तिमकरोत्पार्वत्यानुमते तदा ।
नानापुष्पसमाकीर्णं नानाद्रुमफलान्वितम् ३६
सरोवापीयुतं सान्द्रतरुच्छायं मनोरमम् ।
यत्रोस्त्राणां न प्रवेशः कैलासशिखरोपमम् ३७
नन्दनादधिशोभं तद्वनं चैत्ररथादपि ।
तद्वीक्ष्य गिरिजा प्रोच इच्छया सदृशं शिव ३८
वनं प्राप्तं महादेव क्रीडावोऽत्र चिरं विभो ।
गणानामपि सर्वेषां प्रीतिस्तत्र ह्यभूत्तदा ३९
ततो गणा मण्डपं ते चक्रुस्तत्प्रियकाम्यया ।
नानावेदीगृहयुतं नानोपस्करसंयुतम् २.१२९.४०
तत ऊचे शिवो देवीं वसात्र त्वं गणैर्युता ।
यद्यत्ते प्रार्थितं तत्ते दास्यन्ति मदनुग्रहात् ४१
ततः स्वयं जगामाशु ध्यानस्थोऽभूद्धिमालये।
सखीभिः पार्वती तत्र चिक्रीडे सा यथारुचि ४२
अरक्षंस्तां कोटिगणाः समन्तादावृतस्तदा ।
तदाज्ञावशगाः सर्वे कन्दमूलफलाशिनः ४३ (५९५२)
इति श्रीगणेशपुराणे क्रीडाखण्डे गौरीदोहदवर्णनं नामैकोनविंशोत्तरशततमोऽध्यायः ॥१२९॥

अध्याय १३० प्रारंभ :-
क उवाच।
ततस्तु नवमे मासि पूर्णे साऽसूत बालकम।
चारुचन्द्राननं पद्मशोभाजिन्नयनं शुभम्१
किरीटकेयूरधरं कोटिसूर्यसमप्रभम् ।
प्रवालाधरशोभाढ्यं चतुर्बाहुर्विराजितम् २
मुक्ताहारधरं चारुकंकणैरुपशोभितम् ।
परशुं कमलं माला मोदकांश्च करैर्दधत् ३
ध्वजांकुशाब्जविलसत्पादपद्मसमन्वितम् ।
किंकिणीजालविलसच्चारुगुल्फयुतं शुभम् ४
भालचन्द्रं कोटिचन्द्रनिभं वह्निसमप्रभम् ।
एवं दृष्ट्वा स्वरूपं सा चकम्पे हर्षनिर्भरा ५
किमिदं तेज उदितं नयनाच्छादकं महत् ।
कोऽसि त्वं वद मे चेतो नन्दयस्व कृपां कुरु ६
इत्युक्त्वा तं नमश्चक्रे स्मरन्ती पूर्वकं वचः ।
तत ऊचे महोमूर्तिर्मा मातर्विमना भव ७
गुणेशोऽहमनेकानां ब्रह्माण्डानां विधायकः ।
असंख्याता मेऽवतारा न ज्ञायंते ऽमरैरपि ८
इच्छया सृष्टिसंहारपालनानि करोम्यहम्।
त्रिधा रूपं विधायाहं विश्वस्य शिवनन्दिनि ९
त्रेतायुगेऽवतीर्याहं त्वद्गृहे लीलया पुरा ।
अनेकानि चरित्राणि कृतानि सिन्धुनाशनम् २.१३०.१०
मयूरेश्वरनामाहं षड्रभुजोऽर्जुनवर्णकः ।
तदा मया वचो दत्तं द्वापरे ते सुतः पुनः ११
भवेयं सेवकश्चाहं सिन्दूरान्मोचिता मया ।
द्विजरूपेण सहसा स्मर सर्वं शुचिस्मिते १२
तदापि तनयस्तेऽहं भविष्यामीत्यथाब्रुवम् ।
तदिदं सत्यवचनं मया संपादि पार्वति १३
भूभारं च हरिष्यामि सिन्दूरं च महाबलम् ।
सेवनं च करिष्यामि तव मातर्गजाननः १४
विख्यातोऽहं भविष्यामि भक्तानां कामपूरकः ।
क उवाच ।
एवं श्रुत्वा वचो गौरी स्मृत्वा सर्वं पुरातनम् १५
नत्वा तुष्टाव देवेशं विश्वेशं विघ्ननाशकम् ।
गौर्युवाच ।
निर्विकल्पचिदानन्दघनं ब्रह्मस्वरूपिणम् १६
भक्तप्रियं निराकारं साकारं गुणभेदत ।
नमाम्यहमतिस्थूलमणुभ्योऽणुतरं विभुम् १७
अव्यक्तं व्यक्तिमापन्नं रजःसत्त्वतमोगुणम् ।
मायाविनं मायिनं च सर्वमायाविदं प्रभुम् १८
सर्वान्तर्यामिणं नित्यं सर्वाधारं परात्परम् ।
चतुर्णामपि देवानां मानसस्याप्यगोचरम् १९
महद्भाग्यं मम विभो स त्वं मे पुत्रतां गतः।
प्रतीक्षन्त्या मम विभो प्रत्यक्षं दर्शनं गतः ।
इदानीं त्वद्वियोगो मे न स्याद्देव तथा कुरु २.१३०.२०
एवं वदन्त्या तस्यां तु देवो रूपान्तरं दधौ ।
चतुर्भुजं भालचन्द्रं शुण्डादण्डविराजितम् २१
अनेकभूषणयुतं चिन्तामणियुतं ह्रदि ।
दिव्याम्बरं दिव्यगन्धं सिद्धिबुद्धियुतं तदा २२
रुरोद बालवच्चाज्ञो ददृशे गिरिजा तु तम् ।
शुशोच बहुधा तन्वी निधिः केन हुतो मम २३
न बालस्त्रिषु लोकेषु दृष्टः शुण्डाविराजितः ।
ब्रह्मादयो हसिष्यन्ति लोकाश्चेक्ष्येदृशं शिशुम् २४
एवं बहुविधं शोकं श्रुत्वाऽगाच्छंकरो गृहम् ।
सगणस्तं शिशुं गृहय प्राह तां शृणु मे प्रिये २५
अनादिनिधनो देवः शुण्डादण्ड विराजितः ।
यत्र कुण्ठाश्चतुर्वेदाः शास्त्राणि मुनयोऽवराः २६
प्रपञ्चे गुम्फिता येन नाना कार्यवता प्रिये ।
सर्वान्तर्याम्यनेकानां ब्रह्माण्डानां च कारकः २७
चत्वार्यस्य च रूपाणि चतुर्षु च युगेषु च ।
कृते दशभुजो नाम्ना विनायक इति श्रुतः २८
त्रेतायुगे शुक्लवर्णः षड्भुजो ऽसौ मयूरराट् ।
सिन्धुं हत्वाऽपालयत्सोऽवतीर्य स्वालये प्रिये २९
स एवायं रक्तवर्णश्चतुर्बाहुविराजितः ।
अवतीर्णो गृहे नौ हि सिन्दूरं निहनिष्यति २.१३०.३०
आरुह्य मूषकं देवो भूभारं च हरिष्यति ।
नाम्ना गजानन इति त्रैलोक्ये ख्यातिमेष्यति ३१
अयं कलियुगे देवि धूम्रकेतुरिति प्रथाम् ।
चतुर्बाहुश्चारुनेत्रो यास्यते रुचिरां भुवि ३२
निशम्य शिववाक्यं स उवाच बालकः स्फुटम् ।
बाल उवाच ।
सम्यग्बुद्धं स्वरूपं मे सम्यगुक्तं त्वया शिव ३३
अवतीर्णस्तव गृहे सेवा कर्तुं च सिन्दुरम् ।
निहन्तुं च निहंतारं देवानां सर्वभुभूजाम् ३४
मर्दनं भूधराणां च त्रैलोक्यजयशालिनम् ।
हत्वा तं विश्वसंतोषं करिष्यामि च शंकर ३५
भक्तानां कामपूरश्च वेदकर्मप्रवर्तकः ।
भविष्यामि वरेण्यस्य वरदो ज्ञानदायकः ३६
अयि भक्तिर्भवेत्तस्य मम ध्यानपरायणः ।
देवद्विजातिथीनां च पूजकः पंचयज्ञकृत् ३७
पुराणश्रवणे सक्तः स्वाचारः सत्यवांशुचिः ।
पुष्पिका नाम यस्यापि पत्नी धर्मपरायणा ३८
पतिव्रता पतिप्राणा पतिवाक्यपरायणा ।
ताभ्यां द्वादशवर्षाणि तपस्तप्तं सुदारुणम् ३९
तयोर्मया वरो दत्त एष्ये वां पुत्रतां ध्रुवम् ।
पुष्पिकायां प्रसूतायामद्यैव राक्षसैः शिशुः २.१३०.४०
नीतश्च त्यक्ष्यते प्राणांस्तस्मान्मां नय तत्र ह ।
एवमाकर्ण्य तद्वाक्यं शिवो हर्षसमन्वितः ४१
नानावाङ्मयपुष्पैस्तं पूजयामास भक्तितः ४२ (५९९४ )
इति श्रीगणेशपुराणे क्रीडाखण्डे गजाननाविर्भावो नाम त्रिंशाधिकशततमोऽध्यायः ॥१३०॥