गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १५१-१५५

← अध्यायाः १४६-१५० गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः १५१--१५५
[[लेखकः :|]]

अध्याय १५१ प्रारंभ :-
सूत उवाच ।
एवं श्रुत्वा कथां नित्यं सोमकान्तो मुनीश्वरात् ।
शुष्कास्त्रमूले तत्पुण्यं न्यक्षिपज्जलतो नृपः १
गते संवत्सरे चूतः पल्लवैः कुसुमैः फलैः ।
शुशुभेऽतीवरुचिरः पुराणश्रुतिपुण्यतः २
सोमकान्तो दिव्यकान्तिस्त्यक्त्वा कुष्ठभवां रुजम् ।
अक्षतश्चाभवत्पूतिगन्धं त्यक्त्वा सुगन्धवान् ३
निःखेदः सुरभेर्गन्धाद्दशदिक्षु प्रसारिणः ।
दिव्यदेहं सूर्यकान्तिं कोटिचन्द्रनिभं नृपम् ४
दृष्ट्वा विसिस्मिरे लोकाः कथमीदृक् च तादृशः ।
गणेशाख्यपुराणस्य महिम्ना दोषहारिणा ५
भृगुरुवाच।
सिद्धिस्ते नृपशार्दूल पुराणश्रवणादभूत् ।
व्रजेदानीं निजं पुत्र सामात्यं जनमेव च ६
चिरोत्कण्ठं वर्षमध्ये दृष्ट्वा हर्षमवाप्स्यसि।
सूत उवाच ।
एवमाकर्ण्य तद्वाक्यं पादयोर्न्यपतन्मुनेः ७
आनन्दार्णवमग्नः स सोमकान्तोऽवदद्भृगुम् ।
राजोवाच ।
अद्भुतस्तपसस्तेऽद्य महिमैक्षि मया मुने ८
पुराणश्रवणस्यापि येनाहं पतितोऽपि च ।
गलत्कुष्ठो दिव्यदेहो जातो माता पिता मम ९
अस्यदेहस्य निर्माता त्वमेव मुनिसत्तम।
नीरसश्चूतवृक्षोऽपि फलपुष्पयुतोऽभवत् २.१५१.१०
त्यक्तुं नेच्छाम्यतोऽहं त्वां किं मे पुत्रजनैर्भवेत्।
एवं निशम्य तद्वाक्यं भृगुः पुनरथाब्रवीत् ११
भृगुरुवाच ।
जन्मान्तरीयपुण्येन पुराणश्रवणं तव ।
संजातं मन्मुखाद्धन्यं दुरितं येन तेऽनशत् १२
गणेशस्य पुराणस्य महिमा केन वर्ण्यते ।
न माविस्मर गच्छ त्वं जनेश नगरं निजम् १३
एवं तयोः संवदतोस्तेजसोज्वलदद्भुतम् ।
विमानं ददृशे ताभ्यां सूर्यकोटिनिभं महत् १४
भृगुरुवाच ।
त्वदर्थं यानमायातमिदं नृप महाद्भुतम् ।
इदमारुहय गच्छ त्वं गणनाथस्य सन्निधिम् १५
न प्राप्नुवन्त्यनुष्ठानाद्विमानं यन्मुनीश्वराः।
तत्पुराणश्रवाद्राजंस्त्वया प्राप्तं गणेश्वरात् १६
विमानं वदतोरेवं भूमण्डलमगात्क्षणात् ।
विनायकगणैर्युक्तं चतुर्बाहुविराजितैः १७
मुकुटांगदहारादि भूषणैरुपशोभितैः ।
दिव्यचन्दनवस्त्रादिपद्मपरशुशोभिभिः १८
नृत्यत्किन्नरकन्याभिर्मृदंगनालपाणिभिः ।
किन्नरैर्गायनैर्युक्तं दृष्ट्वा राजाऽब्रवीत्पुनः १९
राजोवाच ।
श्रुतासीद्बहुधा वार्ता विमानानां मुनीश्वर ।
तद्दृष्टं पुरतो ब्रह्मंस्तपोवीर्यबलात्तव २.१५१.२०
महिमा श्रूयते कर्णैर्बहुधा बहुवक्त्रतः ।
अनुभूतो मया सोऽपि पुराणश्रवणात्तव २१
एवं ब्रुवति भूपे तु दूता उत्तीर्य यानतः ।
प्रणिपत्याखिलाः प्रोचुः सोमकान्तं नृपं तदा २२
परात्परेण देवेन तव पुण्यात्स्मृतिः कृता ।
गजाननेन शुद्धात्मन्पुराणश्रवणादिना २३
वयं दूता आज्ञयाऽस्य विमानेन समागताः ।
नेतुं त्वां पुण्यकीर्तिं च याहि लोकमनुत्तमम् २४
तद्दर्शनाज्जन्ममृतेर्मुक्तस्तत्सन्निधिं गतः ।
सुखमात्यन्तिकं तत्र प्राप्स्यसे तत्प्रसादतः २५
निशम्य दूतवाक्यं तद्देहातीत इवाभवत् ।
रोमांचांचितसर्वांग प्राह गद्गदया गिरा २६
परात्परेण देवेन चराचरकृताऽमुना।
निर्गुणेन गुणक्षोभकारिणा विश्वयोनिना २७
दीननाथेन भो दूताः. स्मृतोऽहं कृपयाऽनघाः ।
ब्रह्माद्या न विदुर्यं हि ध्यात्वा च सनकादयः २८
अनन्तगणपूर्णः सोऽप्रेषयद्यानमुत्तमम् ।
नानावतारवान्नानारूपी परममायिकः २९
तेन मे स्मरणं कस्मात्कृतमाश्चर्यकारकम ।
एवमुक्त्वा नमस्कृत्य भृगुं तं प्राह भूमिपः २.१५१.३०
आज्ञया ते गमिष्यामि दूतैः सह विमानगः ।
प्रसादात्ते च देवस्य न मां विस्मर्तुमर्हसि ३१
सूत उवाच ।
निशम्य गदितं तस्य भृगुः संभ्रमविह्वलः ।
आनन्दाश्रुः सरोमांचः कण्ठे धृत्वा नृपस्य सः ३२
प्राहाहं नृपते विप्रोऽभाग्यवांस्त्वं महाफलः।
गणेशपुरगो भूत्वा न मां विस्मर कर्हिचित् ३३
एवमुकत्वा बहिर्यातौ धृत्वा हस्तावुभावपि ।
नमस्कृत्य विमानं तन्नृपो मुनिवरं च तम् ३४
आरुहत्परमप्रीतो दूतवाक्यात्त्वरान्वितः ।
द्वावमात्यौ सुधर्मा च रुरुहुर्यानमुत्तमम् ३५
ततो दूताश्च वाद्यानां घोषैर्व्याप्तं दिगन्तरम् ।
विमानशोभां वीक्ष्यैव सोमकान्तो ननन्द ह ३६
जन्मान्तरीयपुण्येन प्राप्तमेतदमन्यत।
ततोऽस्मिन्पश्यति भृगौ विमानं यानमम्बरे ३७
सर्वोत्तमपदं प्राप्तं मर्त्यदेहेन वीक्ष्य च ।
विस्मयं परमं प्राप नत्वा दूतान्ययौ पदं ३८ (६८०६)
इति श्रीगणेशपुराणे क्रीडाखण्डे सोमकान्तविमानप्राप्तिवर्णनं नामैकपंचाशदधिकशततमोऽध्यायः ॥१५१॥

अध्याय १५२ प्रारंभः-
सूत उवाच ।
उपरिष्टाद्ददर्शाथ नृपो दैवपुरं निजम् ।
जहर्ष गोपुरादालशोभां दृष्ट्वाथ काञ्चनीम् १
ततः सुधर्मा सस्मार सभां रम्यां समीक्ष्य ह ।
निजं पुत्रं स्नेहवशात्प्राह गद्गदभाषिणी २
हेमकण्ठो मम सुतो भद्रासनगतो भवेत्।
पित्रोर्मार्गं प्रतीक्षन्स जाते संवत्सरेऽधुना ३
स्वामिन्कृपानिधे तस्य दर्शनं दातुमर्हसि।
स्त्रियो वाक्यं निशम्यैवं शुशोच नृपतिस्तदा ४
नृप उवाच ।
हेमकण्ठो मम सुतो जीवन्स्याद्वा मृतो भवेत् ।
उक्तमासीन्मया चास्मै वत्सराद्दर्शनं भवेत् ५
अनृतात्कुत्र गच्छेयं नोक्तमासीत्कदाचन ।
न तत्र गन्तुं नो हातुं शक्तोऽहं परमं पदम् ६
विरुद्धं कथमेतद्धि घटेतेत्यरुदद्भृशम् ।
दृष्ट्वा दूतास्तयोः शोकमब्रुवन्राजसत्तमम् ७
युवयो रोदनं श्रुत्वा कृपा नः समुपागता।
क्षणमुत्तारयामोऽत्र दृष्ट्वा तं यात सत्वरम् ८
जाते भवत्समाधाने संतोषो नः परो भवेत् ।
तत उत्तारयामासुर्दूता देवपुरादुदक् ९
विमानं तद्गणेशस्य पुराणश्रवणागतम् ।
नगरं प्रभया व्याप्तं वाद्यघोषैश्च नादितम् २.१५२.१०
सुबलो ज्ञानगम्यश्च नमस्कृत्य नृपं गणान् ।
ईयतुर्हेमकण्ठं तं सर्ववृत्तान्तमीरितुम ११
क्षणाद्भद्रासनगतं हेमकण्ठमपश्यताम् ।
सन्नद्धैर्वीरमुख्यैश्च परिवीतं महाबलैः १२
अमात्यनागरैर्युक्तमीक्षन्तं नृत्यमुत्तमम् ।
तदमात्यो ज्ञानगम्यं सुबलं समपश्यताम् १३
उत्तस्थुः सर्ववीराश्व सामात्यो हेमकण्ठकः ।
आलिंगनाय ते सर्वे तयोः प्रापुः ससंभ्रमम १४
तेषामालिंगने जाते ततो नृपसुतो ययौ ।
हर्षेण महता युक्तः सरोमांचोऽब्रवीच्च तौ १५
मम माता पिताऽमात्यौ क्षेमयुक्तौ न वा क्वचित् ।
त्यक्त्वा तौ पितरौ यातो युवामेकाकिनौ कथम् १६
एवमुक्त्वा स्वासने तावुपवेश्य प्रपूज्य च ।
वस्त्रचन्दनभूषादिफलताम्बूलकांचनैः १७
तयोर्विना मम प्राणाः कण्ठमात्रावलम्बिनः ।
अहर्निशं तयोर्ध्यानं नान्यस्य मम मानसे १८
पिता मे प्रावदत्पूर्वमेकदा दर्शनं पुनः ।
दास्यामीति कथं तच्चानृतं वाक्यं करिष्यति १९
तावूचतुः ।
मा कुरुष्व वृथा चिन्तां पित्रोस्ते कुशलं नृप ।
तयोः पुण्यप्रभावं को जानाति भुवनत्रये २.१५२.२०
अनुज्ञां भवतो गृहय निर्गता नगराद्वयम् ।
चत्वारोऽपि पितुस्तेऽभूत्सौकुमार्यादिकं महत् २१
क्षुधया पीडितोऽत्यन्तं रक्तस्रावि पदाम्बुजम् ।
कन्दमूलैः फलैस्तृप्तिर्न चासीत्तस्य भूपतेः २२
मातुस्तेऽपि तथावस्था चेलतुर्न पदं तदा ।
भ्रमद्भिर्बहुधा पश्चाद्दृष्ठं चारु सरो महत् २३
शीतलं वृक्षवल्लीभिस्तत्र सुष्वाप भूमिपः।
सुधर्मा पादसंवाहं चकार श्रमकर्षिता २४
आवां तु कन्दमूलार्थे यातस्तत्राययौ मुनिः।
च्यवनो मुनिशार्दूलो जलार्थे तौ ददर्श ह २५
तयोर्हार्दं स गृह्यैव निजमाश्रममाययौ ।
तत आवां समायातौ गृह्य मूलफलं बहु २६
सर्वे तदाश्रमे याता मुनिना पूजिता भृशम् ।
भोजिताः षड्रसैश्चान्नैर्विश्रान्तिं परमां गताः २७
ततःकथाप्रसंगोऽभून्मुनिना च नृपेण च ।
सर्वं चाकथयद्राजा वृत्तान्तं मुनये तदा २८
ततो मुनिर्ध्यानबलात्पूर्व जन्मास्य संजगौ।
दुरितं तच्छमोपायमब्रवीत्करुणायुतः २९
दुरितश्रवणे चास्य संत्रासो नौ नृपाभवत् ।
स संदिग्धमना यावत्तावद्देहाद्विनिर्गताः २.१५२.३०
पक्षिणः श्वेतवर्णास्तमारब्धा भक्षितुं नृपम् ।
तेषां चंचुप्रहारेण विह्वलः पतितो नृपः ३१
रक्ष रक्षेति कारुण्यात्प्रोक्तः प्रार्तनया मुनिः ।
तस्य प्रेक्षणमात्रेण पक्षिणोऽन्तर्दधुः क्षणात् ३२
स तु हस्तयुगं बद्ध्वा तस्थौ मुनिमुखो नृपः ।
महज्ज्ञात्वा नृपैनः स श्रावयामास भक्तितः ३३
गणेशस्य पुराणं यद्वर्षमात्रं कृपानिधिः ।
अष्टोत्तरशतेनादौ देवनाम्ना प्रसिच्य च ३४
तदंगात्पुरुषं घोरं निष्काश्यतपसो बलात् ।
व्योमकेशो ललज्जिह्वो व्याकुलः क्षुधया भृशम् ३५
भक्ष्यं ययाचे स भृगुं सोऽवदत्तं पुरस्थितम् ।
भक्षयस्वाम्रवृक्षं त्वं महान्तं शुष्कमेव च ३६
तेन स्पृष्टो आम्रवृक्षो भस्मसादभवत्क्षणात् ।
ततस्तं धीवरं प्राह भक्षयस्वेत्यसौ मुनिः ३७
ततो नृपं मुनिः प्राह पुराणश्रवणं महत् ।
श्रेयो निक्षिप नित्यं त्वमस्मिन्भस्मनि भूमिप ३८
यावच्चूतस्य वृक्षोऽत्र भवेदन्यो यथा पुरा ।
ततस्त्वमपि राजेन्द्र दिव्यदेहो भविष्यसि ३९
तथैव स नृपश्चक्रे स्नात्वा श्रुत्वा कथां बहु ।
न्यक्षिपत्त्यहं श्रेयस्तस्मिन्मस्मानि भक्तितः २.१५२.४०
संवत्सरान्ते वृक्षोऽसौ भवन्नृप यथा पुरा ।
गणेशस्य पुराणे तु समाप्ते फलपुष्पवान् ४१
नृपोऽपि दिव्यकान्तिः स शशिसूर्यनिभोऽभवत् ।
यावन्नृपो मुनिं स्तौति विमानं तावदागतम् ४२
नृत्यगीतसमायुक्तं वाद्यघोषनिनादितम् ।
गणेशदूतसंयुक्तमाश्रमान्तिकमास्थितम् ४३
यच्छोभां पश्यतोर्नाथ दृशो नौ सफलाभवन् ।
अतिपुण्यात्पितुस्ते ते दूता देवाज्ञया नृपम् ४४
न्यक्षिपन्यानमध्ये नौ नृपेक्षणप्रणोदिताः ।
सुधर्मा च मुनेराज्ञां गृह्य याता विमानगा ४५
दृष्टं देवपुरं यावत्तावत्वत्स्मृतिरागता।
अत उत्तारितं यानं उत्तरे नगरान्नृप ४६
दिदृक्षया पितृभ्यां ते तौ यातौ त्वां निवेदितुम् ।
तयोः शीघ्रं दर्शनाय याहि नो चेद्गमिष्यति ४७
तयोर्वाक्यं निशम्येत्थं हेमकण्ठत्वरान्वितः ।
रोमांचाश्रुसमायुक्तो धावमानः श्रुताखिलः ४८
ययौ तद्दर्शनोत्सुक्यात्पुरस्कृत्य तदा तु तौ।
विशीर्णभूषणगणो नागरैः सेवकैर्वृतः ४९
गलदश्रुः क्षणात्प्राप विमानं गणसंकुलम् २.१५२.५० (६८५६)
इति श्रीगणेशपुराणे क्रीडाखण्डे हेमकण्ठदर्शनं नाम द्विपंचाशदुत्तरशततमोऽध्यायः ॥१५२॥

अध्याय १५३ प्रारंभः-
सूत उवाच ।
तदमात्याश्च चत्वारः सोमकान्तं पुरो ययुः ।
प्रणिपत्याखिलान्प्रोचुरागतस्ते सुतो नृप १
सर्ववीरैर्नागरिकैरिन्द्रः सुरगणैरिव ।
वृतो हर्षेण शोकेन दृष्ट्वान्यानमेव च २
एवं निवेदितोऽमात्यैः सोऽपि शीघ्रं समागतः ।
आबालवनितावृद्धैः सेवकैश्च समन्वितः ३
दृष्ट्वा शोभां विमानस्य सर्व आनन्दनिर्भराः।
तन्मध्ये सोमकान्तं ते दृष्ट्वा नेमुर्धरातले ४
युक्तं दूतैर्गणेशस्य कान्तयाप्यतिकान्तया ।
तत उत्तीर्य यानात्स आलिलिंग सुतं मुदा ५
आनन्दाश्रूणि मुंचंतौ सरोमांचावुभावपि ।
विदेहाविव संजातौ न किंचिदूचतुः क्षणम् ६
तत ऊचे पिता पुत्रं स्नेहेन वत्सरागतम् ।
त्वामेव नित्यं ध्यायामि सत्पुत्रं वंशभूषणम् ।
न त्वया सदृशं पश्ये पुत्रेषुर्जनवर्तिषु ।
ततः सुधर्मा सस्नेहा धावमाना सुतं ययौ ।
आलिलिंग मुदा युक्ता गलदश्रू उभावपि ।
तत ऊचे सुतं माता चिरदृष्टोऽसि बालक ।
न मे सुखं किंचिदभूत्तादुत्कण्ठितचेतसः ।
इदानीं ते मुखं दृष्ट्वा सानन्दं मे मनोऽभवत् ।
वियोगेन च ते देहो मम जातः कृशो भृशम् ।
तत आलिंगनं चक्रुर्नागरा नामधारकाः ।
केचित्प्रदक्षिणां चक्रुः केचित्पादौ तदाऽस्पृशन् ।
केचिच्च दर्शनादेव प्रतियाताः पुरं प्रति ।
तत ऊचे नृपः सर्वान्भृगुणाऽनुग्रहान्मम ।
गणेशस्य पुराणं यच्छ्रावितं पापनाशनम् ७
अभवं तेन निष्पापो दिव्यदेहो विमानगः।
सर्वेषां दर्शनं जातं पुनर्यास्यामि यानगः ८
कृपावता गणेशेन यानं मे प्रेषितं भुवि ।
राज्यं च परिभुक्तं मे स्वेच्छया संपदः सुत ९
धाम यास्यामि परमं प्रसादाद्भृगुसंभवात् ।
एवं ते शुश्रुवुर्वाणी सोमकान्तसमीरिताम् २.१५३.१०
रुरुदुः सुस्वरं सर्वे पतिता भुवि केचन ।
श्रेणीमुख्यास्ततः प्रोचुः सोमकान्तं कृपानिधिम् ११
नो विना जगतीपाल कथं यास्यसि धाम तत् ।
प्राणांस्त्यक्त्वा वयं सर्वे यास्यामोऽप्यनु ते नृप १२
हत्या त्वन्मस्तके राजन्सर्वेषां नो भविष्यति ।
ननः पुण्यं तथा येन द्रक्ष्यामस्तं गुणेश्वरम् १३
तव प्रसादाद्देवस्य यास्यामो लोकमुत्तमम् ।
न संसारे सुखं किंचिदायुनाशो वृथाऽत्र हि १४
अस्माकं न भवेत्किंचित्साधनं धामसाधनम् ।
ततोऽवदद्धेमकण्ठो जनकं वाक्यमादृतः १५
कथं त्यक्त्वाऽर्भकं तात यासि द्रष्टुं गजाननम् ।
मम राज्येन को हेतुराज्ञया तव वत्सरम् १६
पालितं राज्यमखिलं नेच्छेदानीं ममापि च ।
शपथस्त तथा राजन्नतो नेतुं ममार्हसि १७
सोमकान्त उवाच ।
सर्वेषामेव संद्रष्टुमिच्छा देवपदाम्बुजम् ।
अहं च परवानत्र कथं कार्यं मया जनाः १८
भवत्स्नेहेन शोचामि पुत्रस्नेहाद्विशेषतः ।
अतएवोर्ध्वगं यानमुत्तार्य द्रष्टुमागतः १९
सूत उवाच ।
ततः शोचत्सु लोकेषु सोमकान्ते रुदत्यपि ।
पुत्रे च देवदूतानां दया प्रादुरभूत्तदा २.१५३.२०
ते ऊचुः सोमकान्तं तं धन्यो राजन्यतो जनाः ।
त्वयि संकल्पितप्राणा यथा त्वं जगदीश्वरे २१
अतः सर्वान्गृहीत्वैव यामः शीघ्रं गजाननम्।
राजोवाच ।
यदि सर्वा पुरी नीता तदा कीर्तिर्दृढा मम २२
भविष्यति रसायां मे नान्यथा तु भविष्यति ।
सूत उवाच ।
एवमुक्त्वा पुराणस्य गणेशस्य श्रवोद्भवम् २३
पूज्यं हस्ते जले नैषां ददौ राजा तदाज्ञया ।
तोये हस्ते गते लोका निष्पापाः पुण्यमूर्तयः २४
आबालवनितावृद्धा रुरुहुर्यानमुत्तमम् ।
गणेशस्य तु ये दूतास्ततोऽगुरूर्ध्वमार्गतः २५
ततः केचिन्नराः पापा यैर्नापि च जलं करे ।
ते पुनर्नगरे याताः शशंसुः शेषितं जनम् २६
ततो ददृशिरे सर्वे उर्ध्वगं नगरं बहु ।
ऊचुः परस्परं शेषा द्रव्यलाभेन तोषिणः २७
नानाव्यवसायरता बभूवुर्हष्टमानसाः ।
कांश्चित्पलायनपरान्दूता दण्डप्रहारिणः २८
बलाद्गृहीत्वा प्राक्षिपन्यानमध्येतिकौतुकात् ।
नानामिषेण जग्मुर्ये तांस्तथैव निचिक्षिपुः २९
उपविष्टा मध्यदेशे राजपत्नीसुतादयः ।
अमात्याः परितो लोका नागरा विविशुः सुखम् २.१५३.३०
मयूरेशमयूरेश जय त्वमिति घोषिणः ।
वाद्यत्सु देववाद्येषु नृत्यत्यप्सरसां गणे ३१
प्रतिनादेन गर्जन्ति मण्डलानि दिशामपि ।
अतिवेगेन ते प्राप्ता गणेशस्य पदं शुभम् ३२
सुषमां परिपश्यन्तो विस्मयेनाब्रुवन्निति ।
अहो महत्पुण्यमस्य येन दृष्टो गजाननः ३३
समीपतां ययुः सर्वे राजा सायुज्यमाप च।
सूत उवाच ।
एवं वः कथिता विप्रा गणेशस्य पुराणना ३४
कथा सर्वजनस्यापि श्रवणात्पापनाशनि ।
शृणुध्वं देवदूतेभ्यो विमाने पृष्टवान्नृपः ।
तत्सर्वं भवतां विप्राः कथयामि कथानकम् ३५ (६८९१)
इति श्री गणेशपुराणे क्रीडाखण्डे सोमकान्तस्य देवपदप्राप्तिवर्णनं नाम त्रिपंचाशदुत्तरशततमोऽध्यायः ॥१५३॥

अध्याय १५४ प्रारंभ :-
ऋषय ऊचुः ।
किं पृष्टं सोमकान्तेन विमानवर्तिनाऽनघ ।
तद्वयं श्रोतुमिच्छामो वद सर्वमशेषतः १
सूत उवाच ।
गच्छता व्योममार्गेण पृष्टा दूता महात्मना ।
वाराणसीस्थितानां तु गणेशानां महात्मनाम् २
नामानि परिवाराणां तानि नः शृणुतानघाः ।
राजोवाच ।
दूता वदन्तु कृपया विश्वेशपरिवारगान् ३
गणेशान्मम कार्त्स्न्येन स्मरणात्सर्वसिद्धिदान् ।
दूता ऊचुः ।
कथयामः समासेन विश्वेशावरणे गतान् ४
गणेशान्क्रमशो राजञ्शृणु सर्वभयापहान् ।
दुर्गा विनायकोऽथार्क भीमचण्डी विनायकः ५
देहलीगणपश्चाथ तथोद्दण्डविनायकः ।
पाशपाणिः सर्वविघ्न हरणोऽथ विनायकः ६
प्रथमावरणे सिद्धसिद्धिरूपो विनायकः ।
लम्बोदरः कूटदन्तः शूलटंक विनायकः ७
कूष्माण्डाख्यश्चतुर्थश्च पंचमो मुण्डसंज्ञकः।
विकटद्विजसंज्ञस्तु राजपुत्रविनायकः ८
प्रणवाख्योऽथापरश्च द्वितीयावरणे स्थिताः ।
वक्रतुण्ड एकदन्तत्रिमुखश्च विनायकः ९
पंचास्यश्चापरश्चात्र हेरम्बश्च विनायकः २.१५४.१०
मोदकप्रिय इत्येव तृतीयावरणे स्थिताः ।
विनायकोऽभयप्रदः सिंहतुण्डविनायकः ११
कुणिताक्षश्चापरश्च क्षिप्रप्रसादसंज्ञकः ।
चिन्तामणिरिति ख्यातो दन्तहस्तविनायकः १२
प्रचंडश्चाप्यपरश्चोद्दण्डमुण्डविनायकौ ।
चतुर्थावरणे ज्ञेया अष्टावेते विनायकाः १३
स्थूलदन्तो द्वितीयस्तु कलिप्रियविनायकः ।
चतुर्दन्तो द्वितुण्डाख्यो ज्येष्ठो गजविनायकः १४
कालाख्यश्च तथा ज्ञेयो मार्गेशालयोपरोऽपि च ।
पंचमावरणे ज्ञेया अष्टावेते विनायकाः १५
मणिकर्णिविनायक आशासृष्टिविनायकः ।
यक्षाख्यो गजकर्णाख्यश्चित्रघण्टविनायकः १६
सुमंगलश्च मित्राख्य एते षष्ठे विनायकाः ।
मोदः प्रमोदः सुमुखो दुर्मुखश्च विनायकः १७
गणपाख्योथापरश्च तथा ज्ञान विनायकः ।
सप्तमावरणे ज्ञेया तस्था द्वारविनायकाः १८
अविमुक्तोऽष्टमो यत्र मोक्षदोऽथ विनायकः ।
अन्यो भगीरथाख्यो हि हरिश्चन्द्रविनायकः १९
कपर्दीति परो ज्ञेयस्तथा बिन्दुविनायकः ।
एतेषां स्मरणं नित्यं सर्वकामफलप्रदम् २.१५४.२०
प्रातरुत्थाय यश्चैतान्पठते शुद्धमानसः ।
न तस्य विघ्ना विघ्नं हि कुर्वन्ति सर्वकर्मसु २१
एकैकनाम्ना राजेन्द्र दूर्वाभिस्तन्दुलैरपि ।
तिलैः शमीदलैश्चैतान्पूजयेद्भक्तिमान्नरः २२
असाध्यं साधयेत्कार्यं सर्वत्र विजयी भवेत् ।
आयुष्यं पुष्टिमारोग्यं प्राप्नुयाद्धनमुत्तमम् २३
इदं ते कथितं सर्वं यद्धि पृष्टं त्वया नृप ।
तूष्णीं ययुर्देवदूतास्ततो धाम निजं मुदा २४
सूत उवाच ।
इदं तत्कथितं विप्रा विश्वेशावरणं मया।
इदानीं कथयिष्यामि पुराणस्य फलश्रुतिम् २५ (६९१६)
इति श्री गणेशपुराणे क्रीडाखण्डे षट्पंचाशद्विनायकवर्णनं नाम चतुःपंचाशदुत्तरशततमोऽध्यायः ॥१५४॥

अध्याय १५५ प्रारंभः –
सूत उवाच ।
जन्ममृतिः न च स्यातां पुराणस्यास्य संश्रयात् ।
एकशोबहुशश्चेत्स्याद्यद्यस्य श्रवणं द्विजाः १
न शक्नुतामलं वक्तुं शेषपद्मासनावपि ।
यो ददाति कुरुक्षेत्रे सोमसूर्यग्रहे नरः २
हेमभारसहस्राणि विप्रेभ्यो भक्तिभावतः ।
तदस्य श्रवणात्पुण्यं प्राप्नुयाद्भक्तिमान्नरः ३
यज्ञानां सांगजातानां सर्वेषां दक्षिणावताम्।
फलं कस्तुलयामास पुराणश्रवणस्य च ४
पुराणश्रणस्यास्य पुण्यं तस्माद्विशेषवत्।
व्रतानां जलदानानां तत्र का गणना मता ५
कोटिकन्याप्रदानानां गोदानानां सहस्रशः ।
तत्पुण्यं कोटिगुणितं श्रवणादस्य जायते ६
चतुर्णामपि वेदानां सांगानां पठनात्सदा ।
शास्त्राणां व्याकृतेर्वापि सदा सत्सेवनादपि ७
तत्पुण्यं कोटिगुणितं तदस्य श्रवणाद्भवेत् ।
भारतस्य पुराणस्य संपूर्णस्य श्रवादपि ।
यत्पुण्यं कोटिगुणितं तदस्य श्रवणाद्भवेत् ८
यस्य गेहे गणेशस्य पुराणं लिखितं भवेत् ।
न तत्र राक्षसा भूताः प्रेताश्च पूतनादयः ९
ग्रहा बालग्रहा नैव पीडां कुर्वन्ति कर्हिचित् ।
तद्गृहं हि गणेशेन रक्ष्यते सर्वदा स्वयम् २.१५५.१०
इदं पुराणं शृणुयात्पूजयेद्वा समाहितः ।
तस्य दर्शनतः पूता भवन्ति पतिता नराः ११
ब्रह्मादीनां मुनीनां स मान्यो भवति मानवः।
क्रुद्धो दहेत्स भुवनं तुष्टश्चेन्द्रपदं ददेत् १२
अष्टसिद्धीः समाप्नोति श्रवणात्प्रत्यहं नरः ।
न दारिद्र्यं समाप्नोति न संकष्टं नरः क्वचित् १३
ईप्सितं समवाप्नोती पद्मादींश्च निधीनपि ।
कल्पद्रुमः कामधेनुर्निधिश्चिन्तामणिस्तथा १४
तस्य वश्यत्वमभ्येति सोऽपि वन्द्यो भवत्यपि ।
जारणं मारणं स्तम्भं उच्चाटनमथापि च १५
अस्य स्मरणमात्रेण निरस्तं स्यात्क्षणेन ह।
गणेशनिकटं स्थित्वा पुराणं शृणुयान्नरः १६
महापापाद्विनिर्मुक्तः स्त्रीबालहत्ययापि च ।
सान्निध्यमाप्नुयादन्ते गणेशस्य न संशयः १७
शूद्रोऽपि मध्ये संस्थाप्य ब्राह्मणान्शृणुयादिदम् ।
क्रमेण लभते वर्णान्वैश्यक्षत्रद्विजाह्याम् १८
नित्यनैमित्तिकर्मभ्यश्च्युतो यः शृणुयादिदम् ।
कर्मसाद्गुण्यमाप्नोति गणेशस्य प्रसादतः १९
भाद्रे शुक्लचतुर्थ्यां यः कृत्वा मूर्तिं महीमयीम् ।
मण्डपे तोरणे रम्ये संपूज्य परमादरात् २.१५५.२०
पुराणं शृणुयात्सद्यस्तस्य तुष्टो विनायकः ।
ददाति निखिलान्कामानन्ते मोक्षं च विघ्नपः २१
स्तोत्राण्यत्र च ख्या यावन्ति तावन्ति प्रत्यहं नरः।
पठते यदि यो भवत्या स सिद्धः स्यान्न संशयः २२
असाध्यमपि यत्किंचित्तेषां पाठाल्लभेन्नरः ।
अनुष्ठानविधानेन मासमात्रं जपेत्तु यः २३
ब्राह्मणान्भोजयेद्भक्त्या सोऽपि तन्मयतामियात् ।
ऋषय ऊचुः ।
कथमस्य श्रवात्पुण्यं केन प्राप्तं पुराऽनध २४
तन्नः शंस महाभाग पृच्छतां सूतनन्दन ।
सूत उवाच ।
शृण्वन्तु मुनयः पूर्वं कश्चिन्मूकोऽभवन्मुनिः २५
ब्रह्मलोकं गतोऽकस्माल्लोमशोऽपि यदृच्छया।
नमस्कृत्य च लोकेशमुपविष्टस्तदाज्ञया २६ ।
पूजितः परया भक्त्या लोमशोऽथाब्रवीद्विधिम ।
लोमश उवाच ।
व्यासाय कथितं देव पुराणं पुण्यवर्द्धनम् २७
गणेशस्य महाभाग तन्मे वक्तुमिहार्हसि ।
ब्रह्मोवाच ।
शृणु लोमश यत्नेन सर्वपापहरं शुभम् २८
पुराणं हि गणेशस्य काममोक्षप्रदं नृणाम्।
सूत उवाच ।
ततः स कथयामास ब्रह्मा स्वीयेन यामतः २९
लोमशाय गणेशस्य पुराणं काममोक्षदम् ।
मूकेन नादलुब्धेन श्रुतं भक्त्याऽखिलं तु तत् २.१५५.३०
ततः स वागीश्वरवत्प्रोवाच भारतीं मुनिः ।
अधीत्य पाठतः कृत्वा श्रावयामास चेतराम् ३१
भुक्त्वा भोगान्यथा कामान्पुत्रान्पौत्रानवाप्य च।
अन्ते जगाम परमं धाम गाणेश्वरं शुभम् ३२
पुनः शृण्वन्तु मुनय इतिहासं पुरातनम् ।
इक्ष्वाकुकुलसंभूतो राजा शुद्धात्मकः शुचिः ३३
यज्वा दानप्रदो नित्यं स्वाध्यायपरमोरिहा ।
आख्याता सर्वधर्माणां प्रजानां पालने रतः ।
षष्ठांशभागी लोकानां मान्यः प्रियतरोपि च ३४
विख्यातस्त्रिषु लोकेष गोप्ता संवरणाभिधः।
अनपत्यः स पुत्रार्थे पुत्रीयामिष्टिमाहरत् ३५
सांगा सदक्षिणामन्नदानैः सुविहितां ततः ।
न लेभे संततिं राजा हरिवंशमथाशृणोत् ३६
पूजयित्वा द्विजानन्ते वाचकं परितोष्य च ।
वस्त्रधेनुहिरण्याद्यै रत्नमूलफलादिभिः ३७
ततोऽपि नाभवत्पुत्रो दैवान्मूकस्तु तद्गृहम् ।
समायातस्तु विख्यातो गणेशाख्यपुराणवित ३८
स्थापितं प्रार्थयित्वा च राज्ञा संवरणेन सः।
श्रुत्वा पुराणं तद्वक्त्राद्गणेशाख्यं मुदा नृपः ३९
तदन्ते तोषयामास मूकं तं द्विजपुंगवम् ।
रत्नमुक्ताफलैर्वस्त्रैर्भूषणैर्हेमनिर्मितैः २.१५५.४०
लेभे ततः कुमारं स गणेशे तत्परोऽभवत् ।
भुक्त्वानेकसुखान्याप गाणेशं पदमुत्तमम् ४१
भगिनी तस्य वन्ध्यासीत्त्रिंशद्वर्षा रजस्वला ।
यथाकालं भवत्यव श्रुत्वा तस्याथ संततिम् ४२
गणेशाख्यपुराणस्य श्रवाज्जातां च तं मुनिम् ।
आकार्यं परिशुश्राव पुराणं तन्मुखाच्छुभम् ४३
लेभे पुत्रं महाशूरं गणेशभजने रता ।
पुत्रान्पौत्रान्समावाप्य भुक्त्वा भोगान्मनोहरान् ४४
जगाम सा गणेशस्य निजधामोवसानतः ।
सगरस्य तु पुत्राणामेकः पङगुरभूत्सुतः ४५
तेनापीदं श्रुतं पुण्यं पुराणं लोमशात्पुरा।
भक्त्या द्वादशवर्षेण विनीतेनाथ भक्तित: ४६
संतोष्य लोमशं द्रव्यैस्ततोङ्घ्रि समवाप स: ।
विजयं पुष्टिमायुष्यं प्राणान्ते धामतत्परः ४७
अष्टादशपुराणानां श्रवणे यत्फलं लभेत्।
तदेकस्य पुराणस्य गणेशस्य श्रुतेर्भवेत्४८
काकवन्ध्या बहुसुता श्रवणादस्य जायते।
स्रवद्गर्भा भवेद्विप्रा दृढगर्भा भवत्यपि ४९
मूको वागीशतां याति श्रवणान्मुनिपुंगवाः ।
वेदाध्ययनसंपन्नो मान्योऽपि द्विजपुंगवः २.१५५.५०
शूद्रो वैश्यत्वमाप्नोति वैश्यः क्षत्रियतामियात् ।
क्षत्रियो द्विजतां याति स्मरणादप्यमुष्य ह ५१
कन्यां तु लभते चास्याप्येकाध्यायस्य संश्रवात् ।
गुणवन्तं कुलीनं च पतिं साधुं धनान्वितम् ५२
जात्यन्धो लभते दृष्टिं पुराणस्यास्य संश्रयात् ।
सर्वतीर्थषु यः स्नायाद्दद्याद्दानानि सर्वशः ५३
तत्फलं समवाप्नोति भक्त्या यः शृणुयादिदम् ।
पंचाग्निसाधनं ग्रीष्मे हेमन्ते जलवासनम् ५४
वर्षास्वाकाशवासं यः कुरुते बहुवत्सरम् ।
तत्फलं प्राप्नुयान्मर्त्य संश्रुतेऽध्यायपंचके ५५
अग्निहोत्रं सदा यस्तु सेवते भक्तिमान्नरः ।
तत्फलं हि पुराणस्य श्रवणादस्य जायते ५६
एकांगुप्ठेन यस्तिष्ठेद्वर्षाणामयुतं नरः ।
दशाध्यायश्रुतेरस्य पुराणस्य तथा फलम् ५७
लभते मानवो भक्त्या निश्चितं नात्र संशयः ।
आजन्ममरणान्नित्यं शृणुयान्मानवो भुवि ५८
पुराणं तु गणेशस्य चक्रवर्ती भवेत्तु सः ।
आजन्ममरणाद्यस्तु काशीवासं करोति यः ५९
तत्पुण्यं लभते मर्त्यो गणेशस्य पुराणतः ।
सहस्रं माघमासान्यः प्रयागे स्नाति मानवः २.१५५.६०
तत्फलं लभते मर्त्यः पुराणस्यास्य संश्रवात् ।
गोमतीसंगमे तद्वत्स्नानं भक्त्या करोति यः ६१
तत्फलं कोटिगुणितं लभते चास्य संश्रवात् ।
गणेशस्य पुराणं यः शृणुयाद्भक्तिमान्नरः ६२
न भयं तस्य शूलात्तु वज्राच्च चक्रिचक्रतः ।
इदं वः कथितं सर्वं पुराणं च सविस्तरम् ६३
संपूर्णो महिमा वक्तुं न शक्यो वर्षकोटिभिः ।
ब्राह्मणा षण्मुखेनापि शेषेणापि मुनीश्वराः ६४
युष्माभिः परिपृष्टं यत्सर्वपापप्रणाशनम् ।
सर्वं कामप्रदं भुक्तिमुक्तिदं पुण्यवर्धनम् ६५
गणेशस्य परेशस्य नानालीलाधरस्य व ।
वक्तृस्रोस्रोरघहरं किमन्यच्छ्रोतुमिच्छथ ६६ (६९८६) (११०७९)
इति श्रीगणेशपुराणे क्रीडाखण्डे फलश्रुतिनिरूपणं नाम पंचपंचाशदुत्तरशततमोऽध्यायः ॥१५५।।
॥ श्रीगजाननार्पणमस्तु ॥
॥ शुभं भवतु ॥