प्रमुखा विकल्पसूचिः उद्घाट्यताम्

क उवाच ।
एवं साऽनुदिनं पूज्य तुष्टाव तं विनायकम् ।
एकस्मिन्दिवसे तस्याः सख्यो दूर्वार्थमाययुः ।। १ ।।
शुक्रमासवशान्नापुः क्वापि दूर्वांकुरान्शुभान् ।
शमीपत्राणि भूयांसि गृहीत्वा तु तदन्तिकम् ।।२।।
आययुः परमश्रान्ता दूर्वाभावं न्यवेदयन् ।
शमीपत्रैः पुपूजैनं सर्वोपचारपूर्वकम् ।।३।।
दूर्वां विना निराहाराऽतिष्ठत्सा नियमे रता ।
तस्य तुष्टिः परा जाता शमीपत्रैः समर्पितैः ।।४।।
अशेत तत्पुरः स्वप्नमपश्यत्सा महाद्भुतम् ।
अब्दान्ते सैव मूर्तिस्तामिमां वाचमुवाच ह । ।।५।।
वरं ददामि ते सुभ्रु शमीपत्रैः सुतोषितः ।
सा नोवाच यदा किंचित्कीर्तिः सा तां पुनर्जगौ ।।६।।
मूर्तिरुवाच ।
वश्यस्ते भविता कान्तो भोगाश्वानेकशः शुभाः ।
त्वद्भक्तिनिरतः पुत्रो भविष्यति महाबलः ।।७।।
क्षिप्रप्रसादनेत्येवं कुरु नामास्य सुन्दरम् ।
तुर्येऽब्देऽस्य विषान्मृत्युर्भविष्यति पुनः क्षणात् ।।८।।
गृत्समदो द्विजोभेऽत्यं पुनस्तं जीवयिष्यति ।
राज्यकर्ता चिरायुश्च धर्मशीलो भविष्यति ।।९।।
इदं स्तोत्रं पठेद्यस्तु मम संतोषकारणम् ।
तस्य वश्यो भवेद्राजा किमन्यः प्राकृतो जनः । 2.33.१ ०।।
पुत्रवान्धनसंपन्नो वेदवेदाङपारगः ।
बुद्धिश्च वर्धते तस्य मेधावृद्धिर्भवेद्दृढा ।। ११ ।।
वाच्छितांल्लभते सोऽर्थांस्त्रिसन्ध्यं यः पठेदिदम् ।
मम भक्तिर्दृढा तस्य मोक्षश्चान्ते भविष्यति ।। १ २।।
एवं दत्त्वा वरान्स्वप्ने स देवोऽपिदधे क्षणात् ।
जागृता साश्रुनयना विस्मिता मानसेऽवदत् ।। १ ३।।
दीनानाथेन महती कृपा मयि नियोजिता ।
अनुग्रहो महान्मह्यं यद्दत्तं दर्शनं स्वयम् । । १४।।
विनायकेन देवेन पाविता परमादरात् ।
अद्याहं तेन देवेन सर्वभूतानुकम्पिना ।। १५।।
इयमेव परा सिद्धिरिदमेव तपःफलम् ।
अयमेव परो लाभो यदवोचन्मया सह ।। १ ६।।
क उवाच ।
ततः प्रभाते स्नाता सा परमानन्दनिर्भरा ।
पुपूज परया भक्त्या गणेशं वरदं शुभम् ।। १ ७।।
समाप्य नियमं मूर्तिं पूर्वस्थाने न्यवेशयत् ।। १ ८।।
पुरोहितं समानीय पूजयामास भक्तितः ।
गणेशं मनसा ध्यात्वा वदन्ती नाममालिकाम् ।। १ ९।।
स्मरन्ती तद्वरान्कीर्तिः समयं च प्रतीक्षती ।
ततः कालेन महता प्रभा सा निष्प्रभाऽभवत् ।।2.33.२ ०।।
रक्तपित्तवती जाता प्रारब्धादीश्वरेच्छया ।
करौ पादौ च नासा च तस्याः क्षरति नित्यशः ।।२ १ ।।
अतिबीभत्सरूपां तां तत्याज मनसा पतिः।
न वक्ति नेक्षते ज्ञात्वा प्रयत्नान्निष्फलान्बहून् ।।२२।।
ततः कीर्तेर्गृहं यातस्तपसा सुन्दराकृतेः ।
कृपया गणराजस्य स्वयं वश्योऽभवच्च सः ।।२ ३।।
स गृहीत्वा करे तां तु मंच्चकं समुपानयत् ।
चिक्रीड स्वेच्छया कीर्त्या तन्निष्ठस्तत्परायणः ।।२४।।।
न वियोगं क्षणं तस्याः सहते नृपसत्तमः ।
साऽपि भोगानलङ्काराननन्तान्बुभुजे सती ।।२५।।
साऽपि गर्भवती जाता कालेन सुषुवे सुतम् ।
शुभे मुहूर्ते राजाऽसौ ददौ दानान्यनेकशः ।।२६।।
पुत्रजन्मप्रहष्टः सन्ब्राह्मणेभ्यो यथार्हतः ।
दिक्षु स्थाप्य द्विजान्पच्च जातकर्म चकार सः ।।२७।।
क्षिप्रप्रसादनेत्येवं नाम चक्रे ततोऽस्य ह ।
तुतोष पुत्रं दृष्ट्वैव नानालङ्कारसंयुतम् ।।२८।।
अतिप्रीतिमती कीर्तिरभवत्पुत्रदर्शनात्।
प्रभा च दुःखिता पुत्रं सपत्न्या वीक्ष्य सुन्दरम् ।।२९।।
एष एव भवेद्राजा ज्येष्ठपुत्रोऽयमित्युत ।
दध्योदनं तु सविषं कीर्तिपुत्राय सा ददौ ।। 2.33.३ ०।।
स तु विह्वलतां यातो विवृत्तनयनः क्षणात् ।
प्रभैव च महाशब्दं कृत्वाऽरोदीद्भृशातुरा ।।३ १ ।।
तस्या शब्दं समाकर्ण्य कीर्तिस्तमगमत्तदा ।
तमुदन्तं सा पतये न्यवेदयत सादरम् ।।३ २।।
भिषजोऽपि ददुस्तस्मा औषधानि नृपाज्ञया ।
परीक्ष्य विषबाधां ते तस्मै राज्ञे न्यवेदयन् ।। ३३ ।।
न गुणाय भवन्ति स्म नानामन्त्रौषधानि च ।
प्रभा तु धिक्कृता भर्त्रा निरस्ता दूरतो गृहात् ।। ३४।।
कीर्तिस्तं बालकं गृह्य सखीभिः काननं ययौ ।
नगराद्योजनं याति तावद्बालो ममार सः ।। ३५।।
अंके कृत्वा तु तं बालं रुरोद शोकविह्वला ।
मूर्छिता पतिता भूमौ लतेव वायुनेरिता ।।३ ६।।
च्युतालंकरणाध्वस्त कंकणा मस्तकांचला ।
क्षणेन किंचिदाश्वस्ता सस्मार द्विरदाननम् । ।३७।।
उत्पतेः स्मरती बालचेष्टितं निघ्नती स्वहृत् ।
दैवात्तेनैव मार्गेंण प्रययौ मुनिसत्तमः ।। ३८।।
नाम्ना गृत्समदः साधुः साक्षात्सूर्य इवापरः ।
गणेशभक्तप्रवरस्तपसां परमो निधिः ।। ३ ९।।
स तस्थौ करुणाविष्टः सा कीर्तिः प्रणनाम तम् ।
उवाच श्वसती सा तं गणनाथप्रसादजः ।।2.33.४० ।।
अयं बालो मम मृतो जीवयैनं तपोबलात् ।
क्षिप्रप्रसादन इति नाम देवाज्ञया कृतम् ।।४ १ ।।
सपत्न्या दुष्टभावेन विषमस्मै समर्पितम् ।
ततोऽनेन समप्रापि मुने मरणमीदृशम् ।।४२ ।।
न सतां दर्शनं व्यर्थमिति याचे तपोधन ।
शरणं संत्यागं गेहन्ते साधवो जनाः ।। ३३ ।।
इति तस्या वचः श्रुत्वा मुहुर्तं ध्यानतत्परः ।
अभवन्मुनिशार्दूलस्ततो गृत्समदोऽब्रबीत् ।।४४।।
शृणु देवि प्रवक्ष्येऽहमुपायं पुत्रजीवने ।
अज्ञानतः शमीपत्रैस्त्वयाऽपूजि विनायकः ।।४५।।
तत्पुण्यमस्य हस्ते त्वमर्पयस्व ममाज्ञया ।
तत्प्रसादादाशु सुत उत्थास्यति तवाधुना ।।४६। ।
सा तु तद्वचनस्यान्ते कीतिर्हर्षसमन्विता ।
ददौ तस्मै शमीपूजासंभवै पुण्यमुत्कटम् ।।४७।।
उत्तस्थौ सुकुमारोऽस्या अमृतेनोक्षितो यथा ।
सा तु हर्षान्मुनेः पादौ ववन्दे शिरसा पुनः ।।४८।।
उवाच तं मुनिं ज्ञातं कथं शम्याप्रपूजनम् ।
महिमानं वद मुने शमीपूजनसंभवम् ।।४९।।
येन संजीवितो बालो मुक्तश्च यमकिङ्करैः ।
ज्ञात्वा तं च करिष्यामि नित्यं शम्याः प्रपूजनम् ।।2.33.५०।।
येन वै बहुधा क्रूरा यमदूता दुरासदाः ।
निरस्ता गणनाथस्य दूतैर्बहु रणाजिरे ।।५ १।।
जीवयित्वा शिशुं मे ते गता धाम गजाननम् ।
येन पुण्येन बालो मे विषं त्यक्त्वा सुखी पुनः ।।५२।।
सजीवन्नुत्थितः शीघ्रं सुप्तोत्थित इवापरः ।
अतोऽहं परिपृच्छामि महिमानं शमीभवम् ।।५३।।
क उवाच ।
इति तद्वचनं श्रुत्वा प्रोचे गृत्समदस्तु ताम् ।
गृत्समद उवाच ।
उच्चारिते नाम्नि यस्याः कोटिपातकनाशनम् ।।५४।।
महिमानं हि कस्तस्याः साकल्येन वदेद्भुवि ।
संक्षेपेण तु वक्ष्यामि महिमानं यथामति ।।५५।।
व्रतदानतपोभिश्च नानातीर्थऽनिषेवणैः ।
पंच्चाग्निसाधनेरप्सु निवासैर्हेमकालिकैः ।।५६।।
न तत्फलमवाप्नोति यत्स्याच्छम्याप्रपूजने ।
प्रातःकाले त्रिसन्ध्यं वा शमीं नित्यं स्मरेत्तु यः ।।५७।।
वन्दयेदर्चयेद्वापि भक्तिभावसमन्वितः ।
ध्यात्वा गजाननं देवं तस्य तुष्टो विनायकः ।।५८।।
ददाति वांच्छितानर्थानन्ते मोक्षं न संशयः ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।।५९।।
नारदस्य च संवादं शक्रस्य च महात्मनः ।।2.33.६०।। ( १५०८)
इति श्रीगणेशपुराणे क्रीडाखंडे बालसंजीवनं नाम त्रयस्त्रिंशोऽध्यायः ।।३३।।