प्रमुखा विकल्पसूचिः उद्घाट्यताम्

कीर्तिरुवाच ।
ब्रूहि ब्रह्मन्नशेषेण संवादं नारदेन्द्रजम् ।
श्रुत्वा तं संशयं त्यक्त्वा तृप्ताः स्याममृतादिव ।। १ ।।
क उवाच ।
इति तस्या वचः श्रुत्वा वक्तुं समुपचक्रमे ।
स मुनिरितिहासं तं संवादं नारदेन्द्रजम् । ।२।।
मुनिरुवाच ।
कदाचित्पर्यटन्सुभ्रु नारदो दिव्यदर्शनः ।
यदृच्छया गतः शक्रं त्रिलोकीभ्रमणे रतः ।।३।।
शक्रस्तं परिपूज्यैव पप्रच्छौरवचेष्टितम् ।
यदाह नारदो धीमांस्तच्छृणुष्व महामुने ।।४।।
नारद उवाच ।
देशे मालवसंज्ञात औरवो नाम वै द्विजः ।
वेदवेदांगवित्साक्षाद्भानुरस्तं विना यथा ।।५।।
शक्तो यो मनसा स्रष्टुं पातुं हर्तुं चराचरम् ।
धर्मपत्नीरतो नित्यं समलोष्ठाश्मकांचनः ।। ६।।
मेधावी तपसा श्रेष्ठो जातवेदा इवापरः ।
सुमेधा नाम तस्यासीत्पत्नी परमधार्मिका ।।७।।
लावण्यलहरी कान्ता नानालंकारशोभना ।
रूपेण निर्जितरतिर्धिक्कृताप्सरसोगणा ।।८।।
पतिशुश्रूषणरता लालिता परमादरात् ।
तयोः समभवत्कन्या साऽपि ताभ्यां सुलालिता ।।९।।
नामास्याश्चक्रतुरुभौ शमीकेति निजेच्छया ।
यद्यत्प्रार्थयते सा तं तद्ददाति पिता विभुः ।। 2.34.१० ।।
सा तु कन्या रूपवती संजाता सप्तवार्षिकी ।
तदर्थं चिन्तयामास वरार्थमौरवो गतः ।। ११ ।।
धौम्यपुत्रं स शुश्राव वेदशास्त्रांगपारगम् ।
शौनकस्य मुनेः शिष्यं तेजोराशिं परं मुनिम् ।। १ २।।
गुरुवाक्यरतं दांतं गुरुशुश्रूषकं परम् ।
मन्दारनामकं शान्तं समाहूय शुभे दिने ।। १३ ।।
तां ददौ गृह्य विधिना पारिबर्हं ददौ बहु ।
जाते विवाहे मन्दारो ययौ स्वस्याश्रमं प्रति ।। १४।।
यौवनस्थां तु तां ज्ञात्वा शमीकां पुनराययौ ।
मन्दारो मानितः सम्यग्गौरवेण सुपूजितः ।। १५।।
संभोज्य सुमुहूर्तेन दत्त्वा वस्त्रादि कांचनम् ।
प्रास्थापयदुभौ विप्रो जामातरमथाब्रवीत् ।। १ ६।।
इयं सुता मम ब्रह्मन्दत्ता तुभ्यं विधानतः ।
पालयस्व बहुस्नेहादद्ययावन्मया यथा। । १७।।
प्रणिपत्याथ श्वशुरं ओमित्युक्त्वा जगाम सः ।
स्वमाश्रमपदं प्राप्य चिक्रीड निजभार्यया ।। १ ८।।
कदाचिद् ऋविमुख्योऽसौ भ्रुशुण्डी तस्य चाश्रमम् ।
मन्दारस्य समायातो द्विरदाननभक्तिमान् ।। १ ९।।
रुष्टोऽसावनलः साक्षात्तुष्टश्चेदीश्वरोपमः ।
तपसा निर्गता शुण्डा भ्रुशुण्डीति च सोऽभवत् ।।2.34.२ ०।।
स्थूलोदरो बृहत्कायो नानालंकारमण्डितः ।
ददर्शतुरुभौ तं तौ मन्दारः शमिका तदा ।।२ १ ।।
विरूपमिव तं दृष्ट्वा जहसतुर्मुदा तदा ।
सोऽपमानभयात्त्रस्तश्चुकोपारुणलोचनः ।।२२।।
उवाच तं मन्दमते न जानासि मदोद्धतः ।
अहसीद्विवृतैर्दन्तैः पत्न्या सह यतस्तु माम् ।।२३। ।
अतो यातं वृक्षयोनौ सर्वप्राणिविवर्जितौ ।
क उवाच ।
शापं श्रुत्वाऽतिकठिनं संतप्तौ तौ बभूवतुः । ।२४। ।
प्रणम्य प्रोचतुर्विप्रमुच्छापं वक्तुमर्हसि ।
तत ऊचे भ्रुशुण्डी स जानन्करुणया युतः ।।२५।।
शुण्डां दृष्टवा कृतं हास्यं युवाभ्यां मूढभावतः ।
शुण्डावान्देवदेवोऽसौ सुप्रसन्नो भवेद्यदा ।।२ ६।।
तदा युवां निजं रूपं प्राप्स्येथे नात्र संशयः ।
एवमुक्त्वा गतो यावन्मुनिराश्रममण्डलम् ।।२७।।
तावत्तौ वृक्षतां यातौ त्यक्त्वा देहौ तु मानुषौ ।
मन्दारतां च मन्दारो ब्राह्मणः प्राप तत्क्षणात् ।।२८।।
शमिका शमितां प्राप्ता सर्वतः कण्टकैर्वृता ।
उभौ वृक्षौ प्राणिमात्रैर्वर्जितौ मुनिवाक्यतः ।।२९।।
अनागतौ तु तौ ज्ञात्वा शौनकश्चिन्तयान्वितः ।
मासमात्रे गते नैव याति कस्मान्महाबलः ।।2.34.३ ०।।
मन्दारो यामि तं दृष्टुं शिष्या यान्तु मया सह ।
शीघ्रमौरवमागम्य पप्रच्छ शनकैरिदम् ।।३ १ ।।
अनितुं शमिकां प्राप्तो मन्दारः क्वास्ति तद्वद ।
औरव उवाच ।
मयाऽप्रेषि तदैवाशु दत्त्वा कन्यां तु तत्समम् ।। ३२ ।।
नागतश्चेत्स्वाश्रमं स न जाने क्व गतो ह्यसौ ।
चिन्तयामासुरथ ते औरवः शौनकादयः । । ३३ ।।
किमुभौ भक्षितौ मार्गे वृकव्याघ्रतरक्षुभिः ।
अथवा निहतौ चोरैर्दष्टावाशीविषेण वा ।।३४।।
ततस्ते त्वरिता जग्मुस्तदुदन्तबुभुत्सया ।
क्वचित्क्वचिज्जना ऊचुर्मासमात्रमितो गतौ ।। ३५।।
ततोऽरण्ये पदे दृष्टे स्रीपुंसोश्चारुत्रपिणी ।
अनूपेते तयोर्ज्ञात्वा स्नात्वा ध्यात्वा विलोकयन् ।। ३६ । ।
ज्ञात्वा भ्रुशुण्डिना शप्तावुपहासरुषावशात् ।
वृक्षतां गमितौ सर्वपक्षिकीटविवर्जितौ । ।३७। ।
मन्दारतां तु मन्दारः शमिका शमितामपि ।
शोचाते तावुभौ विप्रौ औरवः शौनकोऽपि च । । ३८।।
धौम्यपुत्रः साधुरयमध्ये तु समुपागतः ।
अधीतविद्यः स कथं गमितो द्रुमतां बलात् ।। ३९।।
पिता श्रुत्वा त्यजेत्प्राणान्पृष्टः किं वा वदामि तम् ।
औरवोऽपि शुशोचैनां शमिकां निजकन्यकाम् ।।2.34.४० ।।
क उवाच ।
तावुभौ परिचिन्त्यैवं न भेदो भक्तदेवयोः ।
गणेशं परिराध्यैव मोचयाव इमावघात् । ।।४१ ।।
जितेन्द्रियावूर्ध्वदृष्टी निराहारौ दृढव्रतौ ।
एकांगुष्ठस्थितावुर्व्यां तोषयामासतुर्मुदा ।।४२।।
ततस्तौ कृपयाविष्टौ तेपाते परमं तपः ।
षडक्षरेण मन्त्रेण देवदेवं विनायकम् ।।४३ ।।
एवं द्वादशवर्षाणि चेरतुस्तप उत्तमम् ।
औरवः कन्यकार्थं च शिष्यार्थं शौनकोऽपि च ।।४४।। ( १५५२)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते चतुस्त्रिंशोऽध्यायः ।। ३४।।