प्रमुखा विकल्पसूचिः उद्घाट्यताम्


अध्याय १११ प्रारंभ –
क उवाच ।
प्रायात्सभां महारम्यां द्वारपालनिवेदितः ।
नन्दी ननन्द तं दृष्ट्वा दैत्यं सिन्धुं सभागतम् १
महावीरैः परिवृतं नानाशस्त्रेषु पाणिभिः ।
वारांगनानृत्यरतं वीज्यमानं नृभिर्मुदा २
वाद्यत्सु सर्ववाद्येषु नादनादित दिक्षु च।
दृष्ट्वा तं नन्दिनं केचिन्मेनिरे रविमागतम् ३
महाकायं महावीरं वीक्ष्य केचिच्चकम्पिरे ।
जगर्जुरपरे तत्र भीषयन्तो बलादमुम् ४
न बिभेति महाधैर्यान्नन्दी स्वबलगर्वितः ।
करसंज्ञार्पितं नन्दी भेजे आसनमुत्तमम् ५
सर्वे तटस्थता याताश्चित्रमा इव पुत्तला ।
बुद्ध्वा तदिंगितं प्राह नन्दी वाचस्पतिः परः ६
नानासभा दृष्टपूर्वां नेदृशास्तासु मूढकाः ।
यूयं सर्वेतिबलिनः श्रिया परमशोभिताः ७
सुन्दराः कामसदृशा बुद्ध्या हीना वृका इव ।
सभायामागतः साधुरसाधु- र्दुर्बलो बली ८
प्रष्टव्यो माननीयश्च नीतिरेषा सनातनी ।
न सा दृष्टा सभामध्ये अतो मे विस्मितं मनः ९
वृथा सभासदः सर्वे वृथाऽमात्याश्च नागराः ।
नायं धर्मो राज्ञ एव सभ्यानां कृत्यमेव तत् 2.111.१०
क उवाच ।
इति तद्वचनं श्रुत्वा सिन्धुः प्रोवाच नन्दिनम् ।
पद्मयोनेरिव तव मतिर्दृष्टा गुणाकर ११
कस्य त्वं कुत आयातः किमर्थं वा वृषेश्वर ।
तेजसा वह्निसदृशः पंचास्य इव विक्रमे १२
नन्द्युवाच ।
सुरभेः कामरूपाया अपत्यं नन्दिनामकम् ।
विद्धि मां गिरिजानाथवाहं ब्रह्माण्डभेदिनम् १३
मयूरेशो धराभारहरो दुष्टनिबर्हण ।
अवतीर्णः शिवगृहे बाल्यात्प्रभृति दैत्यहा १४
शेषो मूकोऽभवत्तस्य प्रतापवर्णनेऽब्जजः ।
समुद्रमथनाद्यद्वद्रत्नजातं बहिर्ययौ १५
तद्वन्नीतिं विमथ्याद्य कार्यसिद्धिं विचारय ।
आज्ञां शृणु मयूरेशप्रेषितां बलवत्तराम् १६
आज्ञाभंगे तस्य भवेद्विनाशो यस्य कस्यचित् ।
यतः स सृजते विश्वं पाति हन्ति चराचरम् १७
त्वया विनिहिता कारागृहे देवगणा बलात् ।
पदानि तेषां लब्धानि भाग्यं स्यात्किमतः परम् १८
इदानीं वैरनिर्मोकं विचार्य कर्तुमर्हसि ।
मोचयाशु सुरान्सर्वानाज्ञया स्वामिनो मम १९
त्रिपुरेण कृतं वैरं शिवेन सह तत्क्षणात् ।
हिरण्यकशिपुं स्तम्भेऽवतीर्य हतवान्हरिः 2.111.२०
तारकेण जिता देवा अतिष्ठत्तत्पदे स्वयम् ।
स्कन्देन निहतो युद्धे क्षणेन तारको बलात् २१
अतो दत्त्वा सुरान्मत्द्यं? तिष्ठ स्थाने सुखं चिरम् ।
क उवाच ।
एवं नन्दिवचः श्रुत्वा चुक्रोध सिन्धुदैत्यराट् २२
उवाच रक्तनयनो वमन्निव हुताशनम् ।
सिन्धुरुवाच ।
चातुर्यं बहुधा दृष्टं त्वदीयं वृषनन्दन २२
प्रसंगं नैव जानासि यतो वाचस्पतेरपि ।
अज्ञानात्प्रकृतार्थस्य वचो याति वृथार्थताम् २४
बालस्य तव वाक्येन स्वामिनस्तेऽपि वाक्यतः ।
मोचयेयं कथं देवान्यावत्सोऽपि न निर्जितः २५
प्रमाणं किन्तु ते वाक्यं तृणादवनचारिण ।
क्व ते गिरीशस्तत्पुत्रो वृथा भीतिः प्रवर्षते २६
लांगले योजयाम्यद्य दौत्येन नागतो यदि ।
यदि मे वक्रतां यायाद्भ्रुकुठी क्रोधतो वृष २७
तदा त्रिभुवनं नश्येत्का तत्र गणना तयोः ।
रुष्टः सृगालः किं कुर्यादप्रियं सिंहनागयोः २८
क उवाच । एवं शब्दशरैर्विद्धो नन्दी क्रोधादथाब्रवीत् ।
नन्द्युवाच ।
विपरीतां मतिं तेऽद्य लक्षयाम्य सुरा धम २९
सन्निपातीव विकलं वल्गसे मरणोन्मुखः ।
पूर्वं साम प्रयोक्तव्यमिति तेनाहमीरितः 2.111.३०
त्वयि नीतिर्वृथा जाता उपदेशो यथा खले ।
यदि निन्दा प्रयुक्ता ते मयूरेशे शिवेऽपि च ३१
क्षीयमायुस्तया तेऽद्य न युद्धे जयमेष्यसि ।
इदानीं हन्मि त्वां मूढ नाज्ञास्ति स्वामिनो मम ३२
नायकेन न हन्तव्यो दूतस्तेनापि नायकः ।
इत्युक्त्वा पातयन्दैत्यान्नन्दी निश्वासवायुना ३३
क्रोधेन तमपृष्ट्वैव प्रतस्थे हर्षनिर्भरः ।
सान्निध्यं प्राप्य देवस्य मयूरेशस्य तत्क्षणात् ३४
दूराद्ददर्श देवोऽपि प्राह नन्दी समागतः ।
प्रणिपत्याब्रवीद्देवं वृत्तान्तं सर्वमादितः ३५
नन्द्युवाच ।
बहुधा बोधितो दैत्यो न स्वीचक्रे वचो मम ।
निर्भर्त्सितो बहुविधं तेनाहं च मया च सः ३६
न्युब्जे घटे यथा बिन्दुस्तस्मिन्सर्वं वृथा भवेत् ।
क उवाच ।
इति तद्वचनं श्रुत्वा प्रयातस्य यथागतम् ३७
जहर्ष स मयूरेशो दैत्यमर्दनलालसः ।
आज्ञापयत्स युद्धाय प्रमथादीन्गणांस्तथा ३८
इदानीं सिन्धुनगरे युद्धं कर्तुं समुत्सुकाः ।
गर्जन्तु वीरशब्दैश्च मोचितुं बन्धनात्सुरान् ३९
हत्वा सिन्धुं च सबलं मोचितुं चाखिलान्सुरान् ।
मुनीनां त्वरमाणानां गन्तुं स्वाश्रममण्डलम् 2.111.४० ( ५०३६)
इति श्रीगणेशपुराणे क्रीडाखण्डे विचारवर्णनं नामैकादशाधिकशततमोऽध्यायः ।। ११ १।।