प्रमुखा विकल्पसूचिः उद्घाट्यताम्

गणेशपुराणम्/खण्डः २ (क्रीडाखण्डः)/अध्यायः ०२८


अध्याय २८ प्रारंभ –
क उवाच ।
स राजकार्यं कुरुते स्वयं भुंक्ते वरस्त्रियः ।
राष्ट्रे शृणोति रामांसोऽपति वा सपतिं तथा ।। १।।
बलादानयते भोक्तुं क्रन्दतां रुदनामपि ।
न वा गणयते ज्ञातिभेदं विषयलम्पटः ।।२।।
या चोन्नतकुचा नारी तस्य दृष्टिपथं गता ।
तामालिंग्यत्यसौ कामी चुम्बतीमांयमत्यपि ।।३।।
परद्रव्याणि गृह्णाति स्त्रियोऽपि स बलात् पुनः ।
सोऽपि तादृग्गुणो मन्त्री दुष्टबुद्धिपथे रत ।।४।।
एवं दुराचाररतौ न कन्यां न च मातरम् ।
न वर्जयन्तः सम्भोगे भगिनीमपि निर्घृणो ।।५।।
न ब्रह्महत्यां मनुतो न स्त्रीबालवधं तथा ।
एवं पापसमाचारौ पामस्य पर्वताविव ।।६।।
आस्तामुभो दुष्टबुद्धी राजामात्यौ सुदुःसहौ ।
न ब्राह्मणो यतिर्वापि तद्गृहे याति भिक्षितुम् ।।७।।
न राष्ट्रे नाम तस्यापि गृह्णाति प्रकृतेरपि ।
एकदा मृगयार्थं तौ यातः स्म गहनं वनम् ।।८।।
घ्नतः स्म मृगयूथानि पक्षियूथान्यनेकशः ।
तानि प्रापय्य नगरमश्वारूढो स्वयं पुनः ।।९।।
वैनायकं महास्थानं पथि तौ पश्यतः स्म ह ।
यस्मिन् विराजिते मूर्तिर्जीणा वैनायकी शुभा ।। 2.28.१ ०।।
स्थापिता रामपित्रा सा पुत्रार्थं कुर्वता तपः ।
भक्त्या साक्षात्करो यत्र देवदेवो विनायकः ।।१ १।।
दशाक्षरेण मन्त्रेण ध्यायता बहु वासरम् ।
दत्त्वा तस्मै वरान् देवो विधते वांछितानपि ।१२।।
ततो वसिष्ठहस्तेन तेनेयं स्थापिता दृढा ।
वरदेति च नामास्या वसिष्ठेन कृतं ततः।
अस्य दर्शनतो नृणां पुरूषार्थाश्चतुर्विधः ।
स्मरणात् पूजनाद्वापि सेत्स्यते नात्र संशयः ।। १३।।
एवं वसिष्ठवाक्येन स्थानं तद्भुवि पप्रथे ।
गणेशभजनेनास्य स्मरणेनार्चनेन च ।। १४।।
रामलक्ष्मणभरतः शत्रुघ्नसहिताः सुताः ।
जाता लोकेषु विख्याताः सर्वज्ञाः शूरसंमतः ।। १५।।
एवं दृष्ट्वा महारम्यं प्रासादं राजनिर्मितम् ।
उत्तरे तुरश्वपृष्टाद्राजामात्यौ पुपूजतुः ।। १६।।
पत्रैः पुष्पैर्नेमतुस्तं सर्वपापाहरं विभुम् ।
प्रदक्षिणी कृत्य विभुमीयतुः क्षणमात्रतः ।।१७।।
एतदेव परं पुण्यं दैवाज्जातं तयोस्तदा ।
एवं पापसमाचारौ राज्यं कृत्वाऽथ ममृतुः ।। १८।।
बध्वा पाशैर्याम्यदूतैर्नीतौ तौ शमनान्तिकम् ।
चित्रगुप्तं समाहूय पप्रच्छ स शुभाशुभम् ।। १९।।
तेनोक्तं न तयोरस्ति पुण्यलेशो रवेः सुत ।
पापानां गणना नास्ति दूतांश्चैवेदमब्रवीत् ।।2.28.२ ०।।
बध्यतां बध्यतामेतौ लोहदंडेन पात्यताम् ।
कुंडे वीचिमये पंक्ति सहस्रपरिवत्सरान् ।।२१।।
एकं- कस्मिन् क्रमेणैतौ कुंडे भुक्त्वाऽघसंचयान् ।
क्षिप्यतां मृत्युलोके च नीचयोनि गतावुभौ ।।२२।।
अनयोः पुण्यलेशोऽस्ति दूताः शृणुत तत्कृतिम् ।
प्रसंगादर्चितो दृष्टो देव आभ्यां गजाननः ।।२३।।
तेन पुण्येन सोऽप्येता वुद्धरिष्यती तत्र वै ।
एवमाकर्ण्य तद्वाक्यं दूतैर्बद्धौ हतौ दृढम् ।।२४।।
कुम्भीपाके शोणितोदे निरये रौरवेऽपि तौ ।
निक्षिप्तौ कालकूटे च क्रमशः शतवत्सरान् ।।२५।।
तामिस्रे चान्धतामिस्रे पूयशोणित कर्दमे ।
कंटके तु क्षतांगौ तौ संतप्ता तप्तवालुके ।।२६।।
विक्षतौ कृमिभिस्तत्र भृशं सूचीमुखैरुभौ ।
असिपत्रवने घोरे ततो नीतावुभावपि ।।२७।।
यत्र शस्त्राभि घातेन वर्ष्म भिद्यति तापिनाम् ।
ततस्तप्तशिलायां तौ निष्पिष्टौ घनघाततः ।।२८।।
भुंजंतौ नरकानेकविंशतिं बहुवासरम् ।
न दुःखं शक्यते वक्तुं शेषेणाशेषतस्तयोः ।।२९।।
एवं कृति सहस्त्राणि भुक्त्वा भोगाननेकशः ।
निस्तीर्णभोगौ तौ पापशेषेण भुवमागतौ ।।2.28.३ ०।।
एको जातः काकयोनौ कौशिकोऽभूत्परोऽपि च ।
तत एको दर्दुरोऽभूदपरः सरटोऽभवत् ।।३ १।।
तत एको विषधरोऽपरोऽभूद् वृश्चिकोऽपि च ।
तत्रापि कुर्वतः पापं नानालोकान्विदंशतः ।।३२।।
श्वमार्जारयोर्योनौ जातौ नकुल सूकरौ ।
वृकजम्बूकयोर्योनौ जातौ घोटकगर्दभौ ।।३३।।
तत उष्ट्र गजौ जातौ ततो नक्र महाझषौ ।
ततो व्याघ्रमृगौ जातौ ततो वृषभ माहिषौ ।।३४।।
एवं नानायोनिगतौ जातौ चांडालकीटकौ ।
राक्षसीभिल्लयोर्योनौ ततश्चान्ते समीयतुः ।।३५।।
पिंगाक्षो दुर्बुद्धिरिति नाम्ना ख्यातौ च भूतले ।
आजन्मकृतपापस्य कथ्यते बहुदोषता ।।३६।।
यदा तौ राजप्रकृती आस्तां पापरतो पुरा ।
एकं पुण्यं तयोरासीन् मृगयायां प्रसर्पतोः ।।३७।।
विनायकस्य नमनं दर्शनं च प्रदक्षिणा ।
अर्चनं फलपुष्पाद्यैस्तुष्ट आसीद् गजाननः ।।३८।।
अगाधं तत्तयोः पुण्यमासीत्तज्जन्म संचितम् ।
यदा पुरा राक्षसोऽसौ भीमं भक्षितुमागतः ।।३९।।
स आरूढः शमीवृक्षं तत्पत्राणि च मस्तके ।
पतितानि गणेशस्य तुष्टोऽभूत्स द्वयोरपि ।।2.28.४०।।
दिव्यदेहं तयोर्दत्त्वा स्वर्लोकं प्राप्रयद्विभुः ।
एतत्ते कथितं पूर्व जन्मकर्म मया तयोः ।।४१।।
शमीपत्रार्चनादेव तुष्टोऽभूत्स गजाननः ।
यथाऽयं स्थापितस्तेन वामनेन तदप्यहम्।।४२।।
कथयामि मुने सर्वं तदनुष्ठानमेव च ।
यथा च गणनाथोऽस्य प्रसन्नो वरदो भवत् ।।४३।। ( १२७५)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते भीमराक्षसयोर्जन्मवर्णनं नामाष्टाविंशतितमोऽध्यायः ।।२८।।