गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १३६-१४०
← अध्यायाः १३१-१३५ | गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्) अध्यायाः १३६--१४० [[लेखकः :|]] |
अध्यायाः १४१-१४५ → |
अध्याय १३६ प्रारंभ :-
क उवाच ।
एकस्मिन्दिवसे देवो जगाद मुनिसत्तमम् ।
पराशरं महाभाग्यं परदुःखप्रपीडितः १
गजानन उवाच।
सिन्दूरेण तु दुष्टेन पीडितं सकलं जगत् ।
स्वाहास्वधावषट्कारैर्वर्जितं वेदघोषतः २
स्थानभ्रष्टा देवगणा भ्रष्टा ऋषिगणास्तथा ।
गजाननस्वरूपेण करिष्ये दुष्टनाशनम् ३
साधूनां पालनं चैव भूभारहरणं तथा ।
स्थापनं सर्वदेवानामानन्दं जगतोऽपि च ४
निधेहि मस्तके तात पाणिं मेऽभयदं शुभम् ।
अनुग्रहप्रसादात्ते हनिष्ये दुष्टदानवान् ५
मुनिरुवाच ।
आश्चर्यं परमं बाल बालभावात्प्रभाषसे ।
बालकः कौतुकाविष्टो याचते चन्द्रमण्डलम् ६
असाध्यं त्रिदशैः सर्वैः कर्म कर्तुं तथेच्छसि ।
यस्य श्वासेन गिरयः पतन्ति शतशो भुवि ७
पादाघातेन यस्याशु कम्पते भुवनत्रयम्।
कथं त्वं युध्यसे तेन बिसतन्तुशरीरवान् ८
चरित्वा नववर्षाणि पूर्णानि तव सांप्रतम् ।
ममानुग्रहमात्रेण त्वं चेच्छक्तो भविष्यसि ९
तदाऽयं निहितो हस्तो मस्तकेऽभयदायकः ।
क उवाच ।
ततो हर्षयुतो देवो नमस्कृत्य मुनिं तदा २.१३६.१०
जननीमपि दुर्गां च श्रीहरिं हरमेव च।
ययौ योद्धुं मूषकं तमारुह्य स गजाननः ११
अङ्कुशं परशुं पाशं कमलं च चतुर्भुजैः।
दधानो गर्जनेनाशु कम्पयन्भुवनत्रयम् १२
प्रज्वलंस्तेजसा स्वेन प्रलयानलसन्निभः ।
क्षणेन प्राप सिन्दूरनगरं स गजाननः १३
घूसृणेश्वरसान्निध्यात्सिद्धसिन्दूरवाडकम् ।
तत्रस्थः प्रशशासासौ सिन्दूरो भुवनत्रयम् १४
तदुत्तरे स्थितो देवो जगर्ज गर्जयन्दिशः ।
चुक्षुभुः सागराः सप्त विशीर्णा गिरयोऽपि च १५
श्रुत्वा निनादं तस्याशु सर्वदैत्याश्चकम्पिरे ।
मुमूर्च्छुर्भीरवः सर्वे केचिन्मृत्युमुपाययुः १६
सिन्दूरोऽपि मुमूर्च्छाशु क्षणेन प्रकृतिं ययौ ।
उवाच सेवकान्सर्वान्कोऽयं गर्जति दृश्यताम् १७
मूर्छा प्राप्ता मया कस्माद्यच्छब्देन पुरः कथम् ।
स्थास्यामि तत्परः स्थातुं कस्य शक्तिर्भविष्यति १८
ततस्ते सेवका जग्मुस्तदा बालसमीपतः ।
तद्रूपं ते निरीक्ष्यैव सिंहस्य करिणो यथा १९
बिभुश्चैव चकम्पुश्च केचिद्धैर्यात्तमब्रुवन् ।
कस्य त्वं कुत आयातः किमर्थं तव नाम किम् २.१३६.२०
सिन्दूरो विश्वसंहाररसिकः क्रोधसंयुतः।
श्रुत्वा ते क्रन्दितं सर्वं कम्पितं च ससिन्दुरम् २१
बालोऽपि बलवान्भासि चतुःपंचाद्विकोऽपि च ।
दृश्यसे सर्वसंहारकारणाय क्षमः क्षणात् २२
एवमाकर्ण्य तद्वाक्यं प्रोवाच स च तान्विभुः ।
अहं शिवसुतः ख्यातः पराशरगृहे वसन् २३
दृष्टसंहाररसिको भक्तपालनतत्परः।
नानावतारकुशलो ब्रह्मादीनामगोचरः २४
गजाननेति मे नाम युद्धं कर्तुं समागतः ।
स्वामिनं वोऽथ गच्छन्तु तस्मै सर्वं ब्रुवन्तु च २५
तस्मिन्हते मानसं मे तोषमेष्यति दुर्जये ।
क उवाच।
ततस्ते निर्ययुः शीघ्रं सिन्दूरं प्राब्रुवन्वचः २६
दूता ऊचुः ।
वयं शीघ्रतरं याताः पुरुष भवदाज्ञया ।
कृतान्तसदृशं तं तु दृष्ट्वा सर्वे च कम्पिता २७
ततोऽभवत्प्रतापेन तदग्रे प्राब्रुवाम च ।
ततस्तेन समाख्यातं निजं सर्वं समासतः २८
गजानननेति नामास्य शिवपुत्रत्वमेव च ।
दुष्टदैत्यविनाशाय साधूनां पालनाय च २९
सांप्रतम् तु त्वया सार्द्धं युद्धाय समुपागतः ।
स चतुर्वार्षिको बालो वल्गते बहुविस्तरम् २.१३६.३०
इदानीं स्वस्वभावेन जहि शत्रुं निजं लघुं ।
तव तु श्वासमात्रेण दूरे गच्छेदयं शिशुः ३१
यस्य ते दर्शनात्स्वामिंश्चकंपः शिवकादयः ।
तस्य ते गणना कास्ति बालकस्याल्पमेधसः ३२
क उवाच ।
एवं दूतवचः श्रुत्वा सिंदूरश्चिन्तयातुरः।
बभूव म्लानतुण्डश्च क्रोधारुणविलोचनः ३३
उद्वमन्नयनाद्वह्निं प्रलयानलसन्निभम् ।
उवाच दूतान्क्रोधेन हर्षेण च समन्वितः ३४
स उवाच ।
आश्चर्यं परमं दूता भवद्वचसि मेऽभवत ।
सिंहेन सह योद्धुं वै मशकः कथमेष्यति ३५
चतुर्वर्षेण बालेन योद्धव्यं किं मया सह ।
यूयं ततः कथं भीता न जाने तत्र कारणम् ३६
मयि क्रुद्धे जगन्नश्येत्तत्र का गणनाऽस्य ह ।
जगर्ज गर्जयन्व्योम दिशोऽपि विदिशोऽपि च ३७
धृत्वा शस्त्राणि चात्राणि निर्ययौ युद्धलालसः।
तत ऊचुरमात्यास्तं नमस्कृत्यासुराधिपम् ३८
सत्सु बलेष्वमात्येषु कथं ग्रासि स्वयं रणम् ।
वयं तं हि हनिष्यामः प्रतापात्तव दैत्यप ३९
समयार्थं महत्सैन्यं पाल्यते सोऽयमागतः ।
प्राणांस्त्यक्ष्यामहे सर्वे तव हेतोर्महाप्रभो २.१३६.४०
अनुजानीहि यास्यामो हन्तुं बालं रिपुं तव ।
सिन्दूर उवाच ।
यामि सर्वे प्रपश्यन्तु पौरुषं मम सैनिका ४१
इत्युक्त्वा प्रययो शीघ्रं बालं हन्तुं सुमुत्सुकः ।
स प्राप क्षणमात्रेण यत्र बालः स्थितोऽभवत् ४२ (६२१६)
इति श्रीगणेशपुराणे क्रीडाखण्डे बा० सिन्दूरनिर्गमो नाम षट्त्रिंशोत्तरशततमोऽध्यायः ॥१३६॥
अध्याय १३७ प्रारंभ :-
क उवाच ।
तं दृष्टवा बालकं प्राह सिन्दूरो मदगर्वितः ।
लज्जा मे जायते मन्द युध्यतो बालकेन ह १
याहि शीघ्रं गृहं बाल पिब मातुः स्तनं मुदा ।
वृथा मच्छरपातेन सद्यो मृत्युमुपैष्यसि २
पलायन्ते हि माँ दृष्ट्वा केशाद्यास्त्रि दिवौकसः।
मृते त्वयि तव स्नेहात्पितरौ ते मरिष्यतः ३
अतो गच्छ न मे स्वास्यं दर्शयस्व किशोरक।
यस्य मे तलघातेन ब्रह्माण्डं शतधा भवेत् ४
देव उवाच ।
सत्यमुक्तं त्वया दुष्ट न चेतसि विचारितम् ।
न ज्ञातं मम सामर्थ्यं रूपं वा विविधं त्वया ५
यस्य मे क्रोधदृष्ट्यैव भ्रष्टाः स्युः सुरनायकाः ।
स्वेच्छयाऽहं सृजे भावैस्त्रिभिरेव हरामि च ६
विश्वं चराचरं नानारूपवांस्तु युगे युगे।
भूमि भारं महाघोरं हरामि दुष्टनाशनात् ७
न लघुर्लघुतामेति पराक्रमयुतोऽपि चेत ।
अणुमात्रो दहेद्वह्निः सकलं नगरं महत्८
जिजीविषुश्चेद्गच्छ त्वं नत्वा मां निजमन्दिरम्।
मानिनो नैव निघ्नन्ति नतं च शरणागतम् ९
नो चेन्मच्छस्त्रपातेन स्वर्गलोकं गमिष्यसि।
हते त्वयि सुखं यास्ये त्वया यत्पीडितं जगत् २.१३७.१०
ब्रह्मणो वरदानेन मा गर्वं कुरु दैत्यराट्।
विपरीतं भवेत्सर्वं विपरीतं यथा पुरा ११
स्तम्भेऽवतीर्ण न्यहनद्धिरण्यकशिपुं विभुः ।
सुग्रीवेण हतो बन्धू राममाश्रित्य कालतः १२
विपरीता मतिर्जाता तवापि कालयोगतः।
अतिस्थूलो लघुतरो भाससे मम सांप्रतम् १३
धृत्वा धैर्यं च लज्जां च युद्धं कुरु मया सह।
क उवाच ।
एवमुक्त्वा दधाराशु विराड्रूपं गजाननः १४
ब्रह्माण्डादूर्ध्वमगमन्मस्तकश्चरणौ तथा।
पातालानि च सप्तानि भित्त्वा यातौ श्रुती दिशः १५
पश्यति स्म यदा दैत्यो बालं तं विश्वरूपिणम् ।
सहस्रशिरसं देवं सहस्राक्षं दिवो भुवम् १६
सहस्रपादं व्याप्याशु स्थितं व्याप्य दिशो दश ।
दिव्याम्बरं दिव्यगन्धं दिव्यालंकारभूषितम् १७
असंख्यसूर्यसदृशमसंख्यरूपिणं विभुम् ।
एवं दृष्ट्वा विराड्रूपं चकम्पे दैत्यमानसम् १८
धृत्वा धैर्यं पुनर्दैत्यो ययौ देवस्य सन्निधौ।
जगर्ज गर्जयन्व्योम दिशोऽपि विदिशोऽपि च १९
उद्यम्य खड्गं सहसा देवं हन्तुमियेष सः ।
ययौ तत्पुरतः क्रोधात्पतंगो ज्वलनं यथा २.१३७.२०
देव उवाच ।
नायं मूढो विजानीते स्वरूपं मम दुर्लभम् ।
अहमेव विमोक्ष्यामीत्युक्त्वा कण्ठे दधार तम् २१
ममर्द सिन्दुरं तं स कराभ्यां बलवत्तरम् ।
ततस्तदसृजांगानि विलिलिम्पारुणेन स जः२२
ततः सिन्दूरवदनसिन्दूरप्रिय एव च।
अभवज्जगतीख्यातो भक्तकामप्रपूरकः२३
सिन्दूरे निहते देवा मुदा पुष्पाण्यवाकिरन् ।
अवाद्यञ्जयवाद्यानि ननृतुश्चाप्सरोगणाः २४
आययुस्तत्र मुनयो वसिष्ठप्रमुखाः सुराः ।
ब्रह्माद्याः सकलाः शक्रपुरोगा वस्तुपाणयः २५
जयशब्दैर्नमः शब्दैः पूरयन्तो दिशो दश ।
ततः सर्वे भूमिपाला ययुस्तत्र मुदान्विताः २६
षोडशैरुपचारैस्तमानर्चुः परमेश्वरम् ।
गजाननं चतुर्बाहुं सर्वाभरणभूषितम् २७
दिव्याम्बरं दिव्यगन्धमाखुवाहनमीश्वरम् ।
प्रार्थयामासुरिन्द्राद्याः स्तोतुं त्वां न हि शक्नुमः २८
यत्र कुण्ठाश्चतुर्वेदा ब्रह्माद्याश्च मुनीश्वराः ।
त्वं कर्ता कारणं कार्यं रक्षकः पोषकोऽपि च २९
संहर्ता मोहनश्चास्य विश्वस्य ज्ञानदः क्वचित् ।
सरितः सागरा वृक्षाः पर्वताः पशवोऽखिलाः २.१३७.३०
वायुराकाश पृथिवी वह्निर्वारि त्वमेव च।
ब्रह्मा विष्णुः शिवः शक्रो मरुतो मुनयोऽपि च ३१
गन्धर्वाश्चारणाः सिद्धा यक्षराक्षसपन्नगा।
अप्सरःकिन्नरा देव त्वमेव स चराचरम् ३२
वयं धन्यायतो दृष्टः प्रत्यक्षं मोक्षसाधनः ।
सिन्दूरे तु हते देव सुखं प्राप्ताः सुरोत्तमाः ३३
राजानो मुनयो लोकाः स्वस्वकार्ये मुदारताः ।
भविष्यन्ति स्वधास्वाहावषट्काराश्रिताः क्रियाः ३४
नानावतारैः कुरुषे पालनं त्वं विशेषतः।
दुष्टानां नाशनं सद्यो भक्तानां कामपूरकः ३५
क उवाच ।
एवमुक्त्वा सुरास्तं तु व्यदधुः सर्व एव ते ।
प्रासादं रम्यशिखरं स्थापयित्वा गजाननम् ३६
यस्य दर्शनमात्रेण मुच्यते पातकाज्जनः ।
कुलानि तारयेत्सप्त स्मरणादस्य मानवः ३७
पूजयित्वा प्रणम्यैनं परितृप्तिं ययुः सुराः ।
ततस्तं मुनयः सर्वे पुपूजुः परमादरात् ३८
सिन्दूरहेति नामास्य चक्रुः सिन्दूरनाशनात् ।।
अतिसंतुष्टमनसो नत्वा जग्मुः स्वमाश्रमम् ३९
ततः सर्वे मुनिवरा नत्वा देवं सभक्तितः ।
पुपूजुः परमात्मानं नानाद्रव्यैरनेकशः २.१३७.४०
राजसदनमिति ते क्षेत्रं ख्यातिमुपैष्यति ।
वरेण्यस्तं विलोक्यैव निजपुत्रमबुध्यत ४१
यतो राज्ञां पदान्याशु हत्वा दैत्यं सुदारुणम् ।
दत्तानि भवता नाथ सिन्दूरं लोककण्टकम् ४२
दैत्यविमर्दन इति नाम ख्यातिमुपैष्यति ।
पुपूज तनयं स्नेहात्तदा दृष्टपराक्रमम् ४३
मुमोच स्नेहजं चाश्रु न शशाक प्रभाषितुम् ।
अतिगद्गदकण्ठत्वाद्रुरोद भृशदुःखितः ४४
वरेण्य उवाच ।
मूढभावेन संत्यक्तो विघ्नभीतेन पापिना ।
यं त्वां पूजयितुं याता ब्रह्म शक्रपुरोगमाः ४५
अनन्तकोटिब्रह्माण्डनायकं त्वां न विद्महे ।
कामधेनुं निधिंकल्पवृक्षं मूढो यथा त्यजेत् ४६
मायया मोहितस्तेऽहमत्यजं त्वां तथा गृहात् ।
क उवाच ।
इति तच्छुचमाकर्ण्य कृपया परमेश्वरः ४७
आलिलिंग वरेण्यं तं चतुर्बाहुभिरादरात् ।
उवाच परया भक्त्या वरेण्यनृपतिं विभुः ४८
देव उवाच ।
पुराकल्पे महारण्ये तपस्तप्तं सुदारुणम् ।
उभाभ्यां पक्वपर्णानि भक्षयित्वा वटस्य ह ४९
दिव्यवर्षसहस्रेण प्रसन्नोऽहं तदाऽभवम् ।
भवद्भ्यां हि वृतः पुत्रो न मोक्षो मूढभावतः २.१३७.५०
सोऽहं पुत्रत्वमापन्नो भूभारहरणाय च ।
सिन्दूरस्य वधं कर्तुं साधूनां पालनं तथा ५१
अन्यथा न शरीरं मे निराकारस्य साक्षिणः ।
वचनं तु कृतं सत्यं त्रैलोक्यस्यापि तोषणम् ५२
यास्येऽधुना निजं धाम न त्वं शोके मनः कृथाः ।
वरेण्य उवाच ।
संसारे बहुदुःखानि दृष्टानि दुःसहानि च ५३
इदानीं मोक्षमार्गं मे कृपया दिश दुःखहन् ।
साक्षात्कारे कथं बन्धस्तव स्याद्द्विरदानन ५४
येनोपदेशेन मुक्तिं यास्यामि तद्वदस्व मे ।
योगं तं येन संत्यक्षे कामं क्रोधं मृतेर्भयम् ५५
क उवाच ।
एवमाकर्ण्य तद्वाक्यं कृपया स गजाननः ।
उपवेश्य स्वासने तं हस्तं शिरसि चादधत् ५६
गणेशगीतां तस्मै स उपदेष्टुं प्रचक्रमे ।
निरस्य सर्वसंदेहान्विश्वरूपं प्रदर्श्य च ५७
गीतासारं स युद्ध्वैवः गणेशस्योपदेशतः ।
स्थाप्य राज्यममात्येषु तपसे वनमाययौ ५८
अतिवैराग्यसंयुक्तो दध्यौ तं च गजाननम् ।
आवर्तयत्सदा गीतामनन्यविषयकृती ५९
यथा जलं जले क्षिप्तं जलमेव हि जायते ।
तथा तद्ध्यानतः सोऽपि तन्मयत्वमुपाययौ २.१३७.६०
मुनिरुवाच ।
चतुरानन देवेश कृपया परया वद ।
गीतां तां तु गणेशस्य सर्वाज्ञानविनाशनीम् ६१ ( ६२७७ )
इति श्रीगणेशपुराणे क्रीडाखण्डे वरेण्योपदेशो नाम सप्तत्रिंशदधिकशततमोऽध्यायः ॥१३७॥
अध्याय १३८ प्रारंभ :-
क उवाच ।
एवमेव पुरा पृष्टः शौनकेन महात्मना ।
स सूतः कथयामास गीतां व्यासमुखाच्छ्रुताम् १
सूत उवाच ।
अष्टादशपुराणोक्तममृतं प्राशितं मया ।
ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् २
येनामृतमयो भूत्वा पुमान्ब्रह्मा मृतं यतः ।
योगामृतं महाभाग तन्मे करुणया वद ३
व्यास उवाच ।
अथ गीतां प्रवक्ष्यामि योगमार्गप्रकाशिनीम् ।
नियुक्ता पृच्छते सूत राज्ञे गजमुखेन या ४
वरेण्य उवाच ।
विघ्नेश्वर महाबाहो सर्वविद्याविशारद ।
सर्वशास्त्रार्थतत्वज्ञ योगं मे वक्तुमर्हसि ५
गजानन उवाच ।
सम्यग्व्यवसिता राजन्मतिस्तेऽनुग्रहान्मम ।
शृणु गीतां प्रवक्ष्यामि योगामृतमयीं नृप ६
न योगं योगमित्याहुर्योगो योगो न च श्रियः ।
न योगो विषयैर्योगो न च मात्रादिभिस्तथा ७
योगो यः पितृमात्रादेर्न स योगो नराधिप।
यो योगो बन्धुपुत्रादेर्यश्चाष्ट भूतिभिः सह ८
न स योगः स्त्रिया योगो जगदुद्भूतरूपया।
राज्ययोगश्च नो योगो न योगो गजवाजिभिः ९
योगो नेन्द्रपदस्यापि योगो योगार्थिनः प्रियः ।
योगो यः सत्यलोकस्य न स योगो मतो मम २.१३८.१०
शैवस्य योगो नो योगो वैष्णवस्य पदस्य च ।
न योगो भूप सूर्यत्वं चन्द्रत्वं न कुबेरता ११
नानिलत्वं नानलत्वं नामरत्वं न कालता ।
वारुण्यं न नैर्ऋत्यं योगो न सार्वभीमता १२
योगं नानाविधं भूप युज्जन्ति ज्ञानिनस्तु तम् ।
भवन्ति वितृषा लोके जिताहारा विरेतसः १३
पानयन्त्यखिलाल्लोकान्वशीकृतजगत्त्रयाः ।
करुणापूर्णहृदया बोधयन्ति च कांश्चन १४
जीवन्मुक्ता हृदे मग्नाः परमानन्दरूपिणि ।
निमील्याक्षीणि पश्यन्तः परं ब्रह्म हृदि स्थितम् १५
ध्यायन्तः परमं ब्रह्म चित्ते योगवशीकृतम्।
भूतानि स्वात्मना तुल्यं सर्वाणि गणयन्ति ते १६
येन केनचिदाच्छिन्ना येन केन चिदाहताः ।
येन केन चिदाकृष्टा येन केनाचिदाशिताः १७
करुणापूर्णहृदया भ्रमन्ति धरणीतले ।
अनुग्रहाय भूतानां जितक्रोधा जितेन्द्रियाः १८
देहमात्रभृतो भूप समलोष्ठाश्मकांचना ।
एतादृशा महाभागाः स्युश्चक्षुर्गोचराः प्रिय१९
तमिदानीमहं वक्ष्ये शृणु योगमनुत्तमम् ।
श्रुत्वा यं मुच्यते जन्तुः पापेभ्यो भवसागरात् २.१३८.२०
शिवे विष्णौ च शक्तौ च सूर्ये मयि नराधिप ।
याऽभेदबुद्धिर्योगः स सम्यग्योगो मतो मम २१
अहमेव जगद्यस्मात्सृजामि पालयामि च ।
कृत्वा नानाविधं वेषं संहरामि स्वलीलया २२
अहमेव महाविष्णुरहमेव सदाशिवः ।
अहमेव महाशक्तिरहमेवार्यमा प्रिय २३
अहमेको नृणां नाथो जातः पंचविधः पुरा ।
अज्ञानान्मां न जानन्ति जगत्कारणकारणम् २४
मत्तोऽग्निरापो धरणी मत्त आकाशमारुतौ ।
ब्रह्मा विष्णुश्च रुद्रश्च लोकपाला दिशो दश २५
वसवो मनवो गावो मुनयः पशवोऽपि च ।
सरितः सागरा यक्षा वृक्षाः पक्षिगणा अपि २६
तथैकविंशतिस्वर्गा नागाः सप्तवनानि च ।
मनुष्याः पर्वताः साध्याः सिद्धा रक्षोगणास्तथा २७
अहं साक्षी जगच्चक्षुरलिप्तः सर्वकर्मभिः ।
अविकारोऽप्रमेयोऽहमव्यक्तो विश्वगोऽव्ययः २८
अहमेव परं ब्रह्माव्ययानन्दात्मकं नृप ।
मोहयत्यखिलान्माया श्रेष्ठान्मन नरानमून् २९
सर्वदा षड्रविकारेषु तानि यं योजयेद्भृशम्।
हित्वाजापटलं जन्तुरनेकैर्जन्मभिः शनैः २.१३८.३०
विरज्य विन्दति ब्रह्म विषयेषु सुबोधतः ।
अच्छेद्यं शस्त्रसङघातैरदाह्यमनलेन च ३१
अक्लेद्यं प च वनैरशोष्यं मारुतेन च ।
अवध्यं वध्यमानेऽपि शरीरेऽस्मिन्नराधिप ३२
यामिमां पुष्पितां वाचं प्रशंसन्ति श्रुतीरिताम् ।
त्रयीवादरता मूढास्ततोऽन्यन्मन्वतोऽपि न ३३
कुर्वन्ति सततं कर्म जन्ममृत्युफलप्रदम् ।
स्वर्गैश्वर्यरता ध्वस्तचेतना भोगबुद्धयः ३४
संपादयन्ति ते भूयः स्वात्मना निजबन्धनम् ।
संसारचक्रं युंजन्ति जडाः कर्मपरा नराः ३५
यस्य यद्विहितं कर्म तत्कर्तव्यं मदर्पणम् ।
ततोऽस्य कर्मबीजानामुच्छिन्नाः स्युर्महांकुराः ३६
चित्तशुद्धिश्च महती विज्ञानसाधका भवेत् ।
विज्ञाने न हि विज्ञातं परं ब्रह्म मुनीश्वरैः ३७
तस्मात्कर्माणि कुर्वीत बुद्धियुक्तो नराधिप ।
न त्वकर्मा भवेत्कोऽपि स्वधर्मत्यागवांस्तथा ३८
जहाति यदि कर्माणि ततः सिद्धिं न विन्दति ।
आदौ ज्ञाने नाधिकारः कर्मण्येव स युज्यते ३९
कर्मणा शुद्धहृदयोऽभेदबुद्धिमुपैष्यति ।
स च योग: समाख्यातोऽमृतत्वाय हि कल्पते २.१३८.४०
योगमन्यं प्रवक्ष्यामि शृणु भूप तमुत्तमम् ।
पशौ पुत्रे तथा मित्रे शत्रौ बन्धौ सुहृज्जने ४१
बहिर्दृष्ट्या च समया हृत्स्थया लोकयेत्पुमान् ।
सुखे दुःखे तथामर्षे हर्षे भीतौ समो भवेत् ४२
रोगाप्तौ चैव भोगाप्तौ जये वा विजयेऽपि च ।
श्रियोऽयोगे च योगे च लाभालाभे मृतावपि ४३
समो मां वस्तुजातेषु पश्यन्नन्तर्बहिस्थितम्।
सूर्ये सोमे जले वह्नौ शिवे शक्तौ तथाऽनिले ४४
द्विजे हृदे महानद्यां तीर्थे क्षेत्रेऽघनाशिनि।
विष्णौ च सर्वदेवेषु तथा यक्षोरगेषु च ४५
गन्धर्वेषु मनुष्येषु तथा तिर्यग्भवेषु च।
सततं मां हि यः पश्येत्सोऽयं योगविदुच्यते ४६
संपरीहृत्य स्वार्थेभ्य इन्द्रियाणि विवेकतः ।
सर्वत्र समताबुद्धिः स योगो भूप मे मतः ४७
आत्मनात्मविवेकेन या बुद्धिर्दैवयोगतः ।
स्वधर्मासक्तचित्तस्य तद्योगो योग उच्यते ४८
धर्माधर्मौ जहातीह तथा त्युक्त उभावपि ।
अतो योगाय युञ्जीत योगो वैधेषु कौशलम् ४९
धर्माधर्मफले त्यक्त्वा मनीषी विजितेन्द्रियः।
जन्मबन्धविनिर्मुक्तः स्थानं संयात्यनामयम् २.१३८.५०
यदा ह्यज्ञानकालुष्यं जन्तोर्बुद्धिः क्रमिष्यति ।
तदाऽसौ याति वैराग्यं वेदवाक्यादिषु क्रमात ५१
त्रयीविप्रतिपन्नस्य स्थाणुत्वं यास्यते यदा।
परात्मन्यचला बुद्धिस्तदा स योगमाप्नुयात् ५२
मानसानखिलान्कामान्यदा धीमांस्त्यजेत्प्रिय ।
स्वात्मनि स्वेन संतुष्टः स्थिरबुद्धिस्तदोच्यते ५३
वितृष्णः सर्वसौख्येषु नोद्विग्नो दुःखसंगमे ।
गतसाध्वसरुड्रागः स्थिरबुद्धिस्तदोच्यते ५४
यथाऽयं कमठोऽङगानि संकोचयति सर्वतः ।
विषयेभ्यस्तथा खानि संकर्षेद्योगतत्परः ५५
व्यावर्तन्तेऽस्य विषयास्त्यक्ताहारस्य वर्ष्मिणः।
विना रागं च रागोऽपि दृष्ट्वा ब्रह्म विनश्यति ५६
विपश्चिद्यतते भूप स्थितिमास्थाय योगिनः ।
मन्थयित्वेन्द्रियाण्यस्य हरन्ति बलतो मनः ५७
युक्तस्तानि वशे कृत्वा सर्वदा मत्परो भवेत ।
संयतानीन्द्रियाणीह यस्य स कृतधीमतः ५८
चिन्तयानस्य विषयान्संगस्तेषूपजायते।
कामः संवर्धते तस्मात्ततः क्रोधोऽभिवर्द्धते ५९
क्रोधादज्ञानसंभूतिर्विभ्रमस्तु ततः स्मृतेः ।
भ्रंशात्स्मृतेर्मतेर्ध्वंसस्तद्ध्वंसात्सोऽपि नश्यति २.१३८.६०
विना द्वेषं च रागं च गोचरान्यस्त खैश्चरेत् ।
स्वाधीनहृदयो वश्यैः संतोषं स समृच्छति ६१
त्रिविधस्यापि दुःखस्य संतोषे क्षेपणं भवेत् ।
प्रज्ञया संस्थितश्चायं प्रसन्नहृदयो भवेत् ६२
विना प्रसादं न मतिर्विना मत्या न भावना ।
विना तां न शमो भूप विना तेन कुतः सुखम् ६३
इन्द्रियाश्वान्विचरतो विषयाननुवर्तते।
यन्मनस्तन्मतिं हन्यादश्व नावं मरुद्यथा ६४
या रात्रिः सर्वभूतानां तस्यां निद्राति नैव सः ।
न स्वपन्तीह ते यत्र सा रात्रिस्तस्य भूमिप ६५
सरितां पतिमायान्ति वनानि सर्वतो यथा ।
आयान्ति तं तथा कामाः स ना शान्तिं सदा लभेत् ६६
अतस्तानीह संरुद्ध्य सर्वतः खानि मानवः ।
स्वस्वार्थेभ्यः प्रधावन्ति बुद्धिरस्य स्थिरा तदा ६७
ममताऽहंकृती त्यक्त्वा सर्वान्कामांश्च यस्त्यजेत् ।
नित्यं ज्ञानरतो भूयाज्ज्ञानान्मुक्तिं प्रयास्यति ६८
एनां ब्रह्मधियं भूप यो विजानाति दैवतः ।
तुरीयावस्थां प्राप्यापि शीलान्मुक्तिं स ऋच्छति६९ (६३४६)
ॐतत्सदिति श्रीमद् गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थं शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखंडे बालचरिते श्रीगजाननवरेण्यसंवादे 'सांख्ययोगसारार्थं' योगोनाम प्रथमोध्याय ॥१॥ ॥१३८॥
अध्याय १३९ प्रारंभ :-
वरेण्य उवाच ।
ज्ञाननिष्ठा कर्मनिष्ठा द्वयं प्रोक्तं त्वया विभो ।
अवधार्य वदैकं मे निश्रेयसकरं नु किम् १
गजानन उवाच ।
अस्मिंश्चराचरे स्थित्यौ पुरोक्ते द्वे मया प्रिय ।
सांख्यानां बुद्धियोगेन वैधयोगेन कर्मणाम् २
अनारभ्भेण वैधानां निष्क्रियः पुरुषो भवेत् ।
न सिद्धिं याति संत्यागात्केवलात्कर्मणान् नृप ३
कदाचिदक्रियः कोऽपि क्षणं नैवावतिष्ठते ।
अस्वतन्त्रः प्रकृतिजैर्गुणैः कर्म च कार्यते ४
कर्मकारीन्द्रियग्रामं नियम्यास्ते स्मरन्पुमान् ।
तद्गोचरान्मन्दचित्तो धिगाचारः स भण्यते ५
तद्ग्रामं संनियम्यादौ मनसा कर्म चारभेत् ।
इन्द्रियैः कर्मयोगं यो वितृष्णः स परो नृप ६
अकर्मणः श्रेष्ठतमं कर्मानीच्छाकृतं तु यत् ।
वर्ष्मणः स्थितिरप्यस्याकर्मणो नैव सेत्स्यति ७
असमर्प्य निबध्यन्ते कर्म तेन जना मयि ।
कुर्वीत सततं कर्मांनाशोऽसंगो मदर्पणम् ८
मदर्थं यानि कर्माणि तानि बध्नन्ति न क्वचित् ।
सवासनमिदं कर्म बध्नाति देहिनं बलात् ९
वर्णान्सृष्ट्वाऽवदं चाहं सयज्ञांस्तान्पुरा प्रिय ।
यज्ञेन ऋध्यतामेष कामदः कल्पवृक्षवत् २.१३९.१०
सुरांश्चानेन प्रीणध्वं सुरास्ते प्रीणयन्तु नः ।
लभध्वं परमं स्थानन्योन्यप्रीणनात्स्थिरम् ११
इष्टा देवाः प्रदास्यन्ति भोगानिष्टान्सुतर्पिताः।
तैर्दत्तांस्तान्नर
स्तेभ्योऽदत्त्वा भुंक्ते स तस्करः १२
हुतावशिष्ट भोक्तारो मुक्ताः स्युः सर्वपातकैः ।
अदन्त्येनो महापापा आत्महेतोः पचन्ति ये १३
ऊर्जा भवन्ति भूतानि देवादन्नस्य संभवः ।
यज्ञांच्च देवसंभूतिस्तदुत्पत्तिश्च वैधतः १४
ब्रह्मणो वैधमुत्पन्नं मत्तो ब्रह्मसमुद्भवः ।
अतो यज्ञे च विश्वस्मिन्स्थितं मां विद्धि भूमिप १५
संसृतीनां महाचक्रं क्रामितव्यं विचक्षणैः ।
स मुदा प्राणिति भूपेन्द्रियक्रीडोऽधमो जन: १६
अन्तरात्मनि यः प्रीत आत्मारामोऽखिलप्रियः ।
आत्मतृप्तो नरो यः स्यात्तस्यार्थो नैव विद्यते १७
कार्याकार्यकृतीनां स नैवाप्नोति शुभाशुभे।
किंचिदस्य न साध्यं स्यात्सर्वजन्तुषु सर्वदा १८
अतोऽसक्तनया भूप कर्तव्यं कर्म जन्तुभिः ।
सक्तोऽगतिमवाप्नोति मामवाप्नोति तादृशः १९
परमां सिद्धिमापन्नाः पुरा राजर्षयो द्विजाः ।
संग्रहाय हि लोकानां तादृशं कर्म चारभेत् २.१३९.२०
श्रेयान्यत्कुरुते कर्म तत्करोत्यखिलो जनः ।
मनुते यत्प्रमाणं स तदेवानुसरत्यसौ २१
विष्टपे मे न साध्योऽस्ति कश्चिदर्थो नराधिप ।
अनालब्धश्च लब्धव्यः कुर्वे कर्म तथाप्यहम् २२
न कुर्वेऽहं यदा कर्म स्वतन्त्रोऽलसभावितः।
करिष्यन्ति मम ध्यानं सर्वे वर्णा महामते २३
भविष्यन्ति ततो लोका उच्छिन्नाः संप्रदायिनः ।
हन्ता स्यामस्य लोकस्य विधाता संकरस्य च २४
कामिनो हि सदा कामैरज्ञानात्कर्मकारिणः ।
लोकानां संग्रहायैतद्विद्धान्कुर्यादसक्तधीः २५
विभिन्नत्वमतिं जह्यादज्ञानां कर्मचारिणाम् ।
योगयुक्तः सर्वकर्माण्यर्पयेन्मयि कर्मकृत २६
अविद्यागुणसाचिव्यात्कुर्वकर्माण्यतन्द्रितः ।
अहंकारान्मन्दबुद्धिरहं कर्तेति योऽब्रवीत् २७
यस्तु वेत्त्यात्मनस्तत्त्वं विभागाद् गुणकर्मणोः ।
करणं विषये वृत्तमिति मत्वा न सज्जते २८
कुवन्ति सफलं कर्म गुणैस्त्रिभिर्विमोहिताः ।
अविश्वज्ञास्वात्मद्रुहो विश्वविन्नैव लङघयेत २९
नित्यं नैमित्तिकं तस्मान्मयि कर्मार्पयेद्बुधः ।
त्यक्त्वाऽहंममताबुद्धिं परां गतिमवाप्नुयात् २.१३९.३०
अनीर्ष्यन्तो ये मयोक्तमिदं शुभम् ।
अनुतिष्ठन्ति ये सर्वे मुक्तास्तेऽखिलकर्मभिः ३१
ये चैव नानुतिष्ठन्ति अशुभा हतचेतसः ।
ईर्ष्यमाणान्महामूढान्नष्टांस्तान्विद्धि मे रिपून् ३२
तुल्यं प्रकृत्या कुरुते कर्म यज्ज्ञानवानपि ।
अनुयाति च तामेव ग्रहस्तत्र मुधा मतः ३३
कामश्चैव तथा क्रोधः खानामर्थेषु जायते।
नैतयोर्वश्यतां यायादस्य विध्वंसकौ यतः ३४
शस्तोऽगुणो निजो धर्मः सांगदान्यस्य धर्मतः ।
निजे तस्मिन्मृतिः श्रेयः परत्र भयदः परः ३५
वरेण्य उवाच ।
पुमान्यत्कुरुते पापं स हि केन नियुज्यते ।
अकांक्षन्नपि हेरम्ब प्रेरितः प्रबलादिव ३६
श्रीगजानन उवाच ।
कामक्रोधौ महापापौ गुणद्वयसमुद्भवौ ।
नयन्तौ वश्यतां लोकान्विद्ध्येतौ द्वेषिणौ वरौ ३७
आवृणोति यथा माया जगद्वाष्पो जलं यथा ।
वर्षामेघो यथा भानुं तद्वत्कामोऽखिलांश्च रुट् ३८
प्रतिपत्तिमतो ज्ञान छादितं सततं द्विषा ।
इच्छात्मकेन तरसा दुष्पूरेण च शुष्मिणा ३९
आश्रित्य बुद्धिमनसी इन्द्रियाणि स तिष्ठति ।
तैरेवाच्छादितप्रज्ञो ज्ञानिनं मोहयत्यसौ २.१३९.४०
तस्मान्नियम्य तान्यादौ समनांसि नरो जयेत् ।
ज्ञानविज्ञानयोः शान्तिकरं पापं मनोभवम् ४१
अंतस्तानि पराण्याहुस्तेभ्यश्च परमं मनः ।
ततोऽपि हि परा बुद्धिरात्मा बुद्धेः परो मतः ४२
बुद्ध्वैवमात्मनात्मानं संस्तभ्यात्मानमात्मना ।
हत्वा शत्रुं कामरूपं परं पदमवाप्नुयात् ४३ ( ६३८९)
ॐतत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे 'कर्मयोगो' नाम द्वितीयोध्यायः ॥१॥१३९॥
अध्याय १४० प्रारंभ :-
श्रीगजानन उवाच ।
पुरा सर्गादिसमये त्रैगुण्यं त्रितनूरहम् ।
निर्माय चैनमवदं विष्णवे योगमुत्तमम् १
अर्यम्णे सोऽब्रवीत्सोऽपि मनवे निजसूनवे ।
ततः परम्परायातं विदुरेनं महर्षयः २
कालेन बहुना चायं नष्टः स्याच्चरमे युगे।
अश्रद्धेयो ह्यविश्वास्यो विगीतव्यश्च भूमिप ३
एनं पुराभवं योगं श्रुतवानसि मन्मुखात् ।
गुहयाद्गुहयतमं वेदहरस्यं परमं शुभम् ४
वरेण्य उवाच ।
सांप्रतं चावतीर्णोऽसि गर्भतस्त्वं गजानन ।
प्रोक्तवान्कथमेनं त्वं विष्णवे योगमुत्तमम ५
श्रीगजानन उवाच।
अनेकानि च ते जन्मान्यतीतानि ममापि च।
संस्मरे तानि सर्वाणि न स्मृतिस्तव वर्तते ६
मत्त एव महाबाहो जाता विष्ण्वादयः सुराः ।
मय्येव च लयं यान्ति प्रलयेषु युगे युगे ७
अहमेव परो ब्रह्मा महारुद्रोऽहमेव च ।
अहमेव जगत्सर्वं स्थावरं जंगमं च यत् ८
अजोऽव्ययोऽहं भूतात्माऽनादिरीश्वर एव च ।
आस्थाय त्रिगुणां मायां भवामि बहुयोनिषु ९
अधर्मोपचयो धर्मापचयो हि यदा भवेत् ।
साधून्संरक्षितुं दुष्टांस्तदात्तुं संभवाम्यहम् २.१४०.१०
उच्छिद्याधर्मानिचयं धर्मसंस्थापयाम्यहम् ।
हन्मि दुष्टांश्च दैत्यांश्च नानालीलाकरो मुदा ११
वर्णाश्रमान्मुनीन्साधून्पालये बहुरूपधृक् ।
एवं यो वेत्ति संभूतीम्मम दिव्यां युगे युगे १२
तत्तत्कर्म च वीर्यं च मम रूपं समासतः ।
त्यक्त्वाहं ममताबुद्धिं न पुनर्भूः स जायते १३
निरीहा निर्भयारोषा मत्परा मद्यपाश्रयाः ।
विज्ञान तपसा शुद्धा अनेके मामुपागताः १४
येन येन हि भावेन संसेवन्ते नरोत्तमाः ।
तथा तथा फलं तेभ्यः प्रयच्छाम्यव्ययः स्फुटम् १५
जनाः स्युरितरे राजन्मम मार्गानुयायिनः ।
तथैव व्यवहारं ते स्वेषु चान्येषु कुर्वते १६
कुर्वन्ति देवताप्रीतिं वाञ्छन्तः कर्मणां फलम् ।
प्राप्नुवन्तीह ते लोके शीघ्रं सिद्धिं हि कर्मजाम् १७
चत्वारो हि मया वर्णा रजःसत्त्वतमोंशतः ।
कर्मांशतश्च संसृष्टा मृत्युलोके मया नृप १८
कर्तारमपि मां तेषामकर्तारं विदुर्बुधाः ।
अनादिमीश्वरं नित्यमलिप्तं कर्मजैर्गुणैः १९
निरीहं योऽभिजानाति कर्म बध्नाति नैव तम्।
चक्रुः कर्माणि बुद्ध्वैवं पूर्वं पूर्वं मुमुक्षवः २.१४०.२०
वासनासहितादाद्यात्संसारकारणाद्दृढात् ।
अज्ञानबन्धनाज्जन्तुर्बुद्ध्वायं मुच्यतेऽखिलात् २१
तदकर्मं च कर्मापि कथयाम्यधुना तव।
यत्रदा मौनं गता मोहादृषयो बुद्धिशालिनः २२
तत्त्वं मुमुक्षुणा ज्ञेयं कर्माकर्मविकर्मणाम् ।
त्रिविधानीह कर्माणि सुनिन्नैषां गतिप्रिय २३
क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः ।
यस्य स्यात्स हि मर्त्येऽस्मिंल्लोके मुक्तोऽखिलार्थदृक् २४
कर्मांकुरवियोगेन यः कर्माण्यारभेन्नरः ।
तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम् २५
फलतृष्णाविहायस्यात्सदा तृप्तो विसाधनः।
उद्युक्तोऽपि क्रियां कर्तुं किंचिन्नैव करोति सः २६
निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः ।
केवलं वै गृहं कर्माचरन्नायाति पातकम् २७
अद्वन्द्वोऽमत्सरो भूत्वा सिद्धौसिद्ध्यौः समश्च यः ।
यथाप्राप्त्यीह संतुष्टः कुर्वन्कर्म न बध्यते २८
अखिलैर्विषयैर्मुक्तो ज्ञानविज्ञानवानपि ।
यज्ञार्थं
तस्य सकलं कृतं कर्म विलीयते२९
अहमग्निर्हविर्होता हुतं यन्मयि चार्पितम् ।
ब्रह्माप्तव्यं च तेनाथ ब्रह्मण्येव यतो रतः२.१४०.३०
योगिनः केचिदपरे दिष्टं यज्ञं वदन्ति च ।
ब्रह्माग्निरेव यज्ञो वै इति केचन मेनिरे ३१
संयमाग्नौ परं भूप इन्द्रियाण्युपजुह्वति ।
खाग्निष्वन्ये तद्विषयाञ्शब्दादीनुपजुह्वति ३२
प्राणानामिन्द्रियाणां च परे कर्माणि कृतत्स्नशः।
निजात्मरसिरूपेऽग्नौ ज्ञानदीप्ते प्रजुह्वति३३
द्रव्येण तपसा वापि स्वाध्याये नापि केचन ।
तीव्रव्रतेन यतिनो ज्ञानेनापि यजन्ति माम् ३४
प्राणेऽपानं तथा प्राणमपाने प्रक्षिपन्ति ये ।
रुद्ध्वा गतींश्चोभयोस्ते प्राणायामपरायणाः ३५
जित्वा प्राणान्प्राणगतीरुपजुह्वति तेषु च ।
एवं नाना यज्ञरता यज्ञध्वंसितपातकाः ३६
नित्यं ब्रह्म प्रयान्त्येते यज्ञाशेषामृताशिनः ।
अयज्ञकारिणो लोको नायमन्यः कुतो भवेत् ३७
कायिकादित्रिधाभूतान्यज्ञान्वेदे प्रतिष्ठितान् ।
ज्ञात्वा तानखिलान्भूप मोक्षसेऽखिलबन्धनात् ३८
सर्वेषां भूप यज्ञानां ज्ञानयज्ञः परो मतः ।
अखिलं लीयते कर्म ज्ञाने मोक्षस्य साधने ३९
तज्ज्ञेयं पुरुषव्याघ्रप्रश्नेन नतितः सताम् ।
शुश्रूषया वदिष्यन्ति सन्तस्तत्त्वविशारदाः २.१४०.४०
नानासंगान्जनः कुर्वन्नैकं साधुसमागमम् ।
करोति तेन संसारे बन्धनं समुपैति सः ४१
सत्संगाद्गुणसंभूतिरापदां लय एव च ।
स्वहितं प्राप्यते सर्वैरिह लोके परत्र च ४२
इतरत्सुलभं राजन्सत्संगोऽतीवदुर्लभः ।
यज्ज्ञात्वा न पुनर्बन्धमेति ज्ञेयं ततो यतः ४३
ततः सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।
अतिपापरतो जन्तुस्ततस्तस्मात्प्रमुच्यते ४४
विविधान्यपि कर्माणि ज्ञानाग्निर्दहति क्षणात् ।
प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात् ४५
न ज्ञानं समतामेति पवित्रमितरन्नृप ।
आत्मन्येवावगच्छन्ति योगात्कालेन योगिनः ४६
भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयात् ।
लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्यसौ ४७
भक्तिहीनो ऽश्रद्दधानः सर्वत्रसंशयी तु यः।
तस्य शं नापि विज्ञातमिह लोके न चापरे ४८
आत्मज्ञानरतं ज्ञाननाशिताखिलसंशयम ।
योगास्ताखिलकर्माणं बध्नन्ति भूप तानि न ४९
ज्ञानखड्गप्रहारेण संभूतामज्ञतां बलात्।
छित्त्वाऽन्तसंशयं तस्माद्योगयुक्तो भवेन्नरः २.१४०.५० (६४३९)
ओं तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थं शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखंडे बालचरिते श्रीगजाननवरेण्यसंवादे ब्रह्मार्पणयोगो नाम तृतीयोध्यायः ॥३॥१४०॥