प्रमुखा विकल्पसूचिः उद्घाट्यताम्
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।


विकासशीलं जीवनं नाम नित्यं पाठपठनम् । तच्च पाठपठनं श्रवणपठनदर्शनचिन्तनै: भवति । प्रतिदिनम् अस्मान् परित: या: घटना: भवेयु: तासाम् अवलोकनेन अपि ज्ञानं भवेत् । केचन लघव: विषया: भवेयु:, परं तेषां विषये गभीरतया चिन्तयेम चेत् ,महान्त: पाठा: अवगता: भवेयु: । ये एवं पाठान् पठेयु:, ते एव विकासपथे अत्युन्नतं स्थानं प्राप्नुयु: । सामान्यजनानां यशस्वि-जनानां च मध्ये स्थित: भेद: एष: एव ।

बहुधा वयम् अस्मदीये कूपजगति अफलदरूपेण कालं यापयाम: । स: कूप: क्वचित् स्वकुटुम्बं भवेत्, स्वीय: कार्यालय: वा भवेत् । केनचित् सह कलह: इति विषय: अपि भवितुम् अर्हति ! य: तावत् लघुत: महत्तरं प्रति मनसा उत्तरोत्तरं क्रममाण: सन् विशालतरं जगत् प्रविशन् भवेत् स: वर्धिष्णु: जन: एव जीवने महत् साधयेत् ।

अत्र किञ्चन उदाहरणं प्रस्तूयते, यत्र असामान्ययो: पित्रो:, असाधारणस्य पुत्रस्य च दृष्टि:, चिन्तनं च जगद्विख्यातताया: कारणम् अभवत् । तादृश: ख्यातिमान् जन: अस्ति - श्रीमान् सुव्रतबाक्चि:, Mind Tree इत्यस्या: संस्थाया: प्रधाननिर्वाहकाधिकारी । स: बेङ्गलूरुनगरीये भारतीयप्रबन्धनसंस्थाने (I.I.M. इत्यत्र) 2006 तमस्य वर्षस्य कक्ष्यायां ‘सफलता’ इति विषये यत् भाषणं कृतवान् तत् सङ्क्षेपेण अत्र उल्लिख्यते, यच्च अस्माकं सर्वेषां नयनोन्मीलनकरम् अस्ति ।

Sunset Hopping.jpg

‘‘अहं कस्यचन सामान्यस्य सर्वकारिकर्मचारिण: पञ्चसु पुत्रेषु अन्तिम: । मम पिता उत्कलस्य कोराफुटजनपदस्य नियुक्त्यधिकारी (Employment Officer) आसीत् । स: जनपद: नितराम् अप्रगत: । भवन्त: अप्रगते: यावतीं कल्पनां कर्तुं शक्नुयु: तावती अप्रगतता अस्ति तत्र । तत्र न आसीत् विद्युत्, न वा समीपे क्वचित् प्राथमिक: विद्यालय: । जलनलिकात: जलं नैव प्रवहति स्म । तस्मात् अहम् अष्टवर्षपर्यन्तं विद्यालयं न गतवान् । मम शिक्षणं गृहे एव अभवत् । प्रतिवर्षं मम पितु: स्थानपरिवर्तनं भवति स्म । गृहस्य वस्तूनि कस्यचन जीप्यानस्य पृष्ठत: पूर्यन्ते स्म, येन क्लेशं विना स्थानात् स्थानं गन्तुं शक्यं स्यात् । मम माता अविलम्बेन गृहस्य सज्जीकरणे कुशला । तदानीन्तने पूर्ववङ्गे जाता सा कयाचित् विधवया संवर्धिता । मम पित्रा ऊढा सा विवाहसमये आसीत् उत्तीर्णदशमकक्ष्या ।

पितरौ मम जीवनस्य आधारभूतान् आदर्शान् मयि संस्थापितवन्तौ । तस्य कारणेन अहम् अद्य एवम् अस्मि । सफलता नाम का इति अवगच्छामि च । जनपदीयनियुक्त्यधिकारिता-कारणेन मम पित्रे किञ्चन जीप्यानं दत्तम् आसीत् । कार्यालये यानस्थापनाय स्थलं न आसीत् इति कारणेन तद् यानम् अस्माकं गृहे स्थाप्यते स्म । कार्यालयगमनागमनाय मम पिता जीप्-यानस्य उपयोगं न अनुमन्यते स्म । जीप्यानं तावत् सर्वकारेण दत्त: ‘श्वेतगज:’ इति, तद् सर्वकारस्य, न तु मम इति च स: वदति स्म । ग्रामप्रदेशान् गन्तुम् एव तस्य उपयोग: इति आग्रहं कुर्वन् स: सामान्यदिनेषु कार्यालयं पादाभ्यामेव गच्छति स्म । अस्माभि: तस्मिन् याने न उपवेष्टव्यम् इति तस्य आदेश: आसीत् । यदि उपविष्टवन्त: स्याम तर्हि तत्, यानं यदा स्थितं स्यात् तदा एव । मया बाल्यकाले एव अधीत: प्रशासनविषयक: पाठ: अयम् । एतादृश: पाठ: महोद्योगप्रबन्धकै: कष्टेन एव पठ्यते, कैश्चित् न पठ्यते एव वा ।

तस्य जीप्यानस्य चालकाय अस्माभि: समुचित: आदर: दीयते स्म, यश्च आदर: पितु: कार्यालये अन्येभ्य: सर्वेभ्य: दीयेत । बालै: अस्माभि: स: नाम्ना न आह्वातव्य: इति वयं बोधिता: आस्म । यदा कदापि वैयक्तिकरूपेण, समूहे वा स: चालक: उल्लेखनीय: चेत् तस्य नाम्न: अग्रे ‘अग्रज’ इति शब्द: योजनीय: भवति स्म । यदा अहं ज्येष्ठ: भूत्वा कार्यानं क्रीतवान्, ‘राजु’नामक: चालकश्च यदा नियुक्त: तदा अहं मम पुत्रीद्वयं तमेव पाठं पाठितवान् । परिणामत: अग्रे गत्वा ते उभे अपि चालकं ‘राजु अंकल्’ इति निर्दिशत: स्म । किन्तु तयो: सख्य: तु एतद्भिन्नतया स्वगृहयानचालकम् उद्दिश्य ‘मम चालक:’ इति वदन्ति स्म । यदा अहं तादृशं शब्दप्रयोगं शृणोमि तदा विषण्ण: भवामि ।

मम कृते तु पाठ: स्पष्ट: आसीत्, महद्भ्य: जनेभ्य: यद् गौरवं दीयेत तदपेक्षया अधिकं गौरवं सामान्येभ्य: जनेभ्य: दातव्यम् इति । ज्येष्ठेषु यावान् आदर: दर्श्येत ततोऽपि अधिक: आदर: कनिष्ठेषु दर्शनीय: । अस्माकं दिनस्य प्रारम्भ: मृत्तिकया निर्मितां मातु: पाकचुल्लिकां परित: भवति स्म । तत्र न अनिल: भवति स्म, न वा विद्युच्चुल्लिका । प्रात:कालीन: कार्यकलाप: चायेन आरभ्यते स्म । चाये परिविष्टे पिता अस्मान् वदति स्म - ‘स्टेट्स्मन्’पत्रिकाया: (या च एकदिनात्मकेन विलम्बेन अस्माभि: प्राप्यते स्म) सम्पादकीयम् उच्चै: पठ्यताम् इति । वयं तद् पठाम: स्म अर्थम् अधिकतया अनवगच्छन्त: अपि । परन्तु तेन कार्येण जगत् कोराफुटजनपदत: विशालतरम् इति ज्ञानं भवति स्म । किञ्च अद्य मम यद् आङ्ग्ल-ज्ञानम् अस्ति तदपि तस्यैव फलम् । वार्तापत्रस्य उच्चै: पठनस्य अनन्तरं पिता वदति स्म - तद् सुन्दरतया पुटीकृत्य स्थापनीयम् इति । पिता अस्मान् सरलं पाठं पाठितवान् । स: वदति स्म - ‘‘वार्तापत्रं शौचालय: च तथा रक्षणीयौ, यथा तौ भवता द्रष्टुम् इष्येते ।’’ इतरेषां विषये अस्माकं चिन्तनं किं स्यात् इति विषये आसीत् स: पाठ: । वाणिज्यस्य आरम्भ: अन्त्यं च एतेन नियमेन एव भवति । बाला: वयं सर्वदैव वार्तापत्रेषु रेडियो ट्रान्सिस्टर् इत्यस्य विज्ञापना: दृष्ट्वा आकाङ्क्षाम: स्म - अस्मद्गृहे अपि तद् भवेत् इति । अन्येषां गृहे तद् वयं पश्याम: स्म । यदा तत्सम्बन्द्धा विज्ञापना दृश्येत तदा वयं पितरं पृच्छाम: स्म - ‘वयं तद् कदा प्राप्नुयाम ?’ इति । किन्तु पिता तु सर्वदा वदति स्म - ‘अस्मभ्यं तद् नावश्यकम्, यत: एतावता एव अस्मत्समीपे पञ्च सन्ति’ इति, परोक्षतया पञ्चानां पुत्राणां निर्देशनं कुर्वन् ! अस्माकं स्वीयं गृहं न आसीत् । यथा अन्येषां भवति तथा अस्मदीयं गृहं कदा भवेत् इति यदा यदा पृच्छ्यते स्म तदा तदा अपि तस्य उत्तरम् एतादृशम् एव भवति स्म - ‘मम तु पञ्च गृहाणि सन्ति एव’ इति । तस्य उत्तरं तदा अस्माकं सन्तोषाय न भवति स्म ।

The hunter of happiness.jpg

तथापि वयं ज्ञातवन्त: यत् भौतिकसम्पद: आधारेण वैयक्तिक्साफल्यस्य, सुखस्य च मापनं न करणीयम् इति ।

सर्वकारीयगृहाणां कदापि वृति: न भवति स्म । माता अहं च गुल्मादिकं स्वीकृत्य लघ्वीं वृत्तिं निर्मितवन्तौ । माता माध्याह्न-भोजनानन्तरं कदापि विश्रान्तिं न स्वीकरोति स्म । तस्या: पाकशालाया: उपकरणानि स्वीकृत्य वयं शिलामयस्य, पुत्तिकाग्रस्तस्यापि तस्य प्रदेशस्य खननं कृतवन्त: । वयं पुष्पसस्यानि आरोपितवन्त: । परं पुत्तिका: तानि नाशितवत्य: । माता चुल्लिकात: भस्म आनीय मृत्तिकया सह मिश्रितवती, पुनरपि सस्यानि आरोपितवती च । तानि जीवितानि, पुष्पितान्यपि अभवन् । परं तावता पितु: स्थानपरिवर्तनस्य आज्ञा आगता ।

केचन प्रतिवेशिन: मम मातरं पृष्टवन्त: - ‘‘किमर्थं भवती सर्वकारीयगृहस्य सुन्दरतासम्पादनाय तावन्तं परिश्रमं करोति, किमर्थं सस्यानि आरोपयति ? एतेषां फलानि तु अग्रिमनिवासी एव प्राप्नुयात्’’ इति । तदा माता उत्तरं दत्तवती - ‘‘अहं पूर्णविकसितानि पुष्पाणि न पश्येयम् इति विषय: मुख्य: न । मया मरुभूमौ अपि पुष्पं स्रष्टव्यम् । किञ्च, यदा कदापि मह्यं नूतनं स्थानं यत् दीयेत तत् प्राप्तिसमये यादृशं स्यात्, ततोऽपि सुन्दरं स्यात् त्यागसमये ’’ इति ।

स: एव सफलताविषयक: मम प्रथम: पाठ: । स्वनिमित्तं भवान् यां सृष्टि करोति सा मुख्या न, इतरेभ्य: भवान् भवत्पृष्ठत: यत् त्यजति तद् अधिकं महत्त्वभूतम् ।

तानि आसन् युद्धदिनानि । यथा देशे सर्वे आसन् तथा मम माता अपि देशप्रेमभरिता आसीत् । मम देशसेवाकार्यं तु - मात्रे प्रतिदिनं वार्तापत्रपठनम् एकम् एव । तत् अतिरिच्य कथं वा राष्ट्रकार्ये मम सहभागिता स्यात् इति अहं न जानामि स्म । अत: वार्तापत्रपठनस्य अनन्तरं प्रतिदिनं विश्वविद्यालयस्य जलागारस्य समीपं गच्छामि स्म । तस्मिन् जलागारे विषमिश्रणाय शत्रूणां गुप्तचरा: आगच्छेयु:, अपि च अहं तेषां विषये सावधान: भवेयम् इति कल्पना: कुर्वन् अहं तस्य जलागारस्य अध: घण्टा: यावत् प्रतीक्षे स्म । तेषु अन्यतमं गृह्णीयाम्, अपरस्मिन् दिने वार्तापत्रेषु मद्विषये लिख्येत इति दिवा-स्वप्नं पश्यामि स्म । मम दौर्भाग्येण युद्धसम्बद्धा: गुप्तचरा: निद्राणं तत् नगरं भुवनेश्वरम् उपेक्षितवन्त: । अत: कञ्चिदपि ग्रहीतुं मया अवसर: एव न लब्ध: । तथापि सा क्रिया मम कल्पना: उदघाटयत् ।

कल्पनाकरणमेव सर्वमपि । यदि वयं भविष्यत: कल्पनां कर्तुं शक्नुयाम तर्हि तस्य सृष्टि कर्तुं शक्नुयाम । यदि तस्य भविष्यत: सृष्टि कर्तुं शक्नुयाम तर्हि अन्ये तस्मिन् जीवितुं शक्नुयु: । एष: एव सफलताया: सार: ।

अग्रिमेषु वर्षेषु मातु: दृष्टिशक्ति: क्षीणा जाता । तथापि सा मयि तु महत्तरां दृष्टि निर्मितवती । यस्या: द्वारा अहम् अद्यापि जगत् पश्यन् अस्मि । अनन्तरवर्षेषु तस्या: दृष्टि: इतोऽपि असमीचीनतरा जाता इति हेतो: तस्या: नेत्रयो: शल्यक्रिया कृता । यदा शल्यक्रिया सम्पन्ना तदा प्राप्तदृष्टिशक्ति: सा आगत्य प्रथमवारं मां स्पष्टतया दृष्टवती । तदवसरे सा विस्मिता सती उक्तवती - ‘हे भगवन् ! एष: एतावान् श्वेत: इति अहं न जानामि स्म !’ इति । तस्या: तां प्रशंसां स्मारं स्मारम् अहम् अद्यापि आनन्दम् अनुभवामि । दृष्टिप्राप्ते: केषाञ्चित् सप्ताहानाम् अनन्तरम् एव तस्या: नेत्रयो: कश्चन रोग: जात:, तथा च नेत्रद्वयेऽपि अन्धत्वम् आगतम् । तद् 1969 तमं वर्षम् । सा मृता 2002 तमे वर्षे । तेषु 32 वर्षेषु अन्धतायुक्तजीवने सा कदापि स्वभाग्यविषये आक्षेपं न कृतवती ।

In the evening sun.jpg

सा अन्धनेत्राभ्यां किं पश्यतीति ज्ञातुं कुतूहलेन अहं तां कदाचित् पृष्टवान् - ‘भवती किम् अन्धकारं पश्यति ?’ इति ।

तदा सा उत्तरम् उक्तवती - ‘न । अहम् अन्धकारं न पश्यामि, पिहिताभ्यां नेत्राभ्याम् अपि प्रकाशं पश्यामि’ इति । यावत् सा अशीतिवर्षीया जाता तावत् सा प्रतिदिनं प्रात: योगाभ्यासं करोति स्म, स्वप्रकोष्ठं मार्जयति स्म, स्ववस्त्राणि स्वयमेव क्षालयति स्म च ।

मम दृष्ट्या तु - सफलता नाम स्वावलम्बनस्य भाव:, सा जगद्दर्शनविषयभूता न, अपि तु प्रकाशदर्शनरूपा ।

अनन्तरवर्षेषु अहं प्रवृद्ध:, अध्ययनं कृतवान्, औद्योगिकसंस्था: प्रविष्टवान्, स्वीयां जीवनरचनाम् आरब्धवान् च । सर्व-कारीयकार्यालये लिपिकाररूपेण मम उद्योगजीवनम् आरब्धम् । तत: अहं डि.जि.एम्.ग्रूप्.संस्थासु प्रबन्धनप्रशिक्षार्थी जात:, अन्ते यदा 1981 तमे वर्षे चतुर्थपरम्परासङ्गणकानि भारते आगतानि तदा ऋ.ग.उद्योग: मम जीवनस्य निर्णायकबिन्दु: अभवत् । सा वृत्ति: मां बहूनि स्थानानि अनयत्, अहं महद्भि: जनै: सह कार्यं कृतवान्, स्पर्धाह्वानकराणि कार्याणि कृतवान्, जगति सर्वत्र यात्रां कृतवान् च ।

1992 तमे वर्षे यदा अहम् अमेरिकादेशे आसं तदा मया ज्ञातं यत् मम ज्येष्ठभ्रातु: गृहे निवृत्तजीवनं यापयन् मम पिता अग्निना दग्ध: सन् देहल्यां सफदरजङ्गचिकित्सालयं प्रवेशित: इति । अहं तस्य सेवां कर्तुं भारतं प्रत्यागतवान् । स: कण्ठत: पादाग्रपर्यन्तं बद्धौषधवस्त्र: सन् कतिचन दिनानि गम्भीरावस्थायाम् आसीत् ।

सफदरजङ्गचिकित्सालय: तु तैलपबाधितं, मलिनम्, अमानवीयं च स्थलम् । ज्वलनविभागस्य अल्पसङ्ख्यका: अतिकार्यश्रान्ता: च अनुवैद्या: कष्टपीडिता: कष्टकारिका: च । एकस्मिन् दिने प्रात: पितु: सेवां कुर्वन् अहं रक्तकूपी रिक्ता जाता इति ज्ञात्वा, वायु: तस्य रक्तनाडीं प्रविशेत् इति भीत: सन् तत्रत्याम् अनुवैद्यां सूचित-वान् - रक्तकूपी परिवर्त्यताम् इति । सा तु निर्दाक्षिण्यरूपेण मातरं तद् कार्यं कर्तुम् उक्तवती । भयङ्करे तस्मिन् मृत्युरङ्गमञ्चे अहं खिन्न:, निराश:, क्रुद्ध: च आसम् । अन्ते सा मन: परिवर्त्य कूपीपरिवर्तनाय यदा आगतवती तदा मम पिता नेत्रे उद्घाट्य ताम् उद्दिश्य मन्दम् उक्तवान् - ‘किमर्थं भवती इतोऽपि गृहं न गता ?’ इति । अत्र कश्चन जन:, स्वयं मृत्युशय्यायां तिष्ठन् अपि स्वविषये अचिन्तयन् अतिकार्यश्रान्ताया: अनुवैद्याया: विषये चिन्तावान् आसीत् ! तस्य अचलं मन: दृष्ट्वा अहं विस्मित: जात: ।

तत्र अहं पाठं पठितवान् यत् इतरेषां विषये कियता चिन्तावता भवितुं शक्यते इत्यस्य सीमा एव नास्ति इति । समावेशनभावस्य सीमा सा एव, यावती अस्माभि: स्रष्टुं शक्येत । मम पिता अनन्तर-दिने दिवङ्गत: । स: कश्चन जन: आसीत् यस्य सफलता तावत् तदीयेन तत्त्वेन, यावदावश्यकं तावत: एव उपयोग: इत्येतेन तस्य गुणेन, तस्य वैश्विकचिन्तनेन, तस्य समावेशकभावेन च निरूपिता आसीत् । कस्यचन वर्तमाना परिस्थिति: यादृशी स्यात् चेदपि कष्टेभ्य: उपरि आरोहणसामर्थ्यम् एव सफलता नाम इति स: मां पाठितवान् । यदि इष्येत तर्हि स्वप्रज्ञां समीपवर्तिपरिवेषत: उपरि उन्नेतुं शक्येत भवता । भौतिकसुखसाधनानां सम्पादनम् एव सफलता न । मम पित्रा रेडियोट्रान्सिस्टर्क्रयणं गृहनिर्माणं वा कर्तुं न शक्तम् । अत: तेन साफल्यं न प्राप्तम् इति तु नास्ति । तस्य सफलता नाम तेन उपस्थापिता काचित् परम्परा, तेन अनुस्रियमाणानाम् आदर्शानां सातत्यं च । ते च आदर्शा: न्यूनवेतनवत: अज्ञातस्य च शासकीयकर्मचारिण: लघु जगत् अतिक्रम्य अवर्धन्त ।

मम पितु: तु ब्रिटिश्प्रशासने महान् विश्वास: । स्वातन्त्र्योत्तरकालस्य भारतस्य राजनैतिकदलानां प्रशासनसामर्थ्यविषये तस्य संशय: आसीत् । तस्य दृष्ट्या तु ‘यूनियन् जाक्’ध्वजस्य अवतारणं दु:खदा घटना । मम माता तु साक्षात् तद्विरुद्धमतवती । यदा सुभाष-चन्द्रबोस: राष्ट्रियकाङ्ग्रेसदलं परित्यज्य ढाकाम् आगतवान् तदा, या विद्यालयच्छात्रा आसीत् सा मम माता, तस्मै पुष्पमालाम् अर्पितवती आसीत् । सा ‘खादि’तन्तुवयनम् अभ्यस्तवती आसीत्, छुरिका-खडादीनां प्रयोगस्य शिक्षणदायि भूगतान्दोलनं प्रविष्टवती आसीत् च । परिणामत: मम गृहे उभयो: अपि राजनैतिकदृष्टौ विविधता आसीत् । जगत्सम्बद्धेषु मुख्यभूतेषु विषयेषु वृद्धयो: तयो: मतभेद: आसीत् ।

ताभ्यां वयम् अभिप्रायभेदस्य शक्ते:, संवादस्य, चिन्तन-विविधतायां जीवनस्य च पाठं पठितवन्त: । सफलता नाम सैद्धान्तिक्या: अन्तिमस्थिते: निर्माणस्य सामर्थ्यं न, सा तु चिन्तनप्रक्रियाया:, संवादस्य च आरम्भकरणस्य, अग्रे नयनस्य कौशलम् ।

वर्षद्वयात् पूर्वं, द्व्यशीतितमे वयसि हृदयाघातेन पीडिता मम माता भुवनेश्वरस्य शासकीयचिकित्सालये शयाना आसीत् । अमेरिकायां द्वितीयकालावधौ कार्यं कुर्वाण: अहं तां द्रष्टुकाम: भारतम् आगतवान् । पक्षाघातेन चिकित्सालये ईलतया तिष्ठन्त्या तया सह अहं पक्षद्वयं यापितवान् । सा न स्वस्थतरा भवति स्म, न वा कापि प्रगति: दृश्यते स्म । अन्ते मया कार्यकरणाय प्रतिनिवर्तनीयम् अभवत् । तत: आप्रच्छनात् पूर्वम् अहं तां समालिङ्ग्य तस्या: कपोलं चुम्बितवान् । तस्यां पक्षाघातस्थितौ अपि मन्दस्वरेण सा भणितणती - ‘‘मां किमर्थं चुम्बसि ? गम्यतां, जगत् चुम्ब्यतां, जगत् आलिङ्ग्यताम्’’ इति ।

यस्या: जीवननदी स्वीययात्राया: अन्तं - जीवनमरणयो: सङ्गमस्थानं - प्राप्नुवती आसीत्, या महिला भारतं शरणार्थिरूपेण आगता, विधवया या संवर्धिता, या माध्यमिकशिक्षामात्रम् अधि-गतवती, यस्य अन्तिमवेतनं त्रिशतरूप्यकमात्रमितं स्यात् तादृशेन अनामिकेन सर्वकारीयकर्मचारिणा या परिणीता, यस्या: दृष्टिशक्ति: भाग्येन अपनीता, या च प्रतिपदम् अनानुकूल्यै: सह एव चलितवती सा मां भणति स्म - ‘गम्यतां, जगत् आलिङ्ग्यताम्’ इति !

मम विचारेण सफलता इत्येष: दृष्टिसम्बद्ध: विषय: । वेदनाया: तात्कालिकताया: उपरि स्थिते: विषय: । कल्पनाकरणविषय: । सामान्यजनानां सम्बन्धे संवेदनशीलत्वस्य विषय: । समावेशकभावस्य आचरणस्य विषय: । महत्तरजगता सह सम्बद्धताविषय: । वैयक्तिकतपस: विषय: । जीवने यावत् प्राप्येत तत: अपि अधिकस्य दानस्य विषय: । सामान्यजीविनां द्वारा असामान्यसफलताया: निर्माणविषय: । सर्वेभ्य: नमस्कार:, शुभकामना: च । भवद्भि: भगवत: वेग: प्राप्यताम् । गम्यतां, जगत् चुम्ब्यताम्, जगत् आलिङ्ग्यताम् ।’’

आधारःसम्पाद्यताम्

'सम्भाषणसन्देशः' - नवम्बर् २००९
लेखकः - च मू कृष्णशास्त्री