गरुडपुराणम्/आचारकाण्डः/अध्यायः १०२

← आचारकाण्डः, अध्यायः १०१ गरुडपुराणम्
अध्यायः १०२
वेदव्यासः
आचारकाण्डः, अध्यायः १०३ →

                 ॥ याज्ञवल्क्य उवाच ॥
वानप्रस्थाश्रमं वक्ष्ये तच्छृण्वन्तु महर्षयः ॥
पुत्रेषु भार्यां निः क्षिप्य वनं गच्छेत्सहैव वा ॥ 102.1 ॥

वानप्रस्थो ब्रह्मचारी साग्निः सोपासनः क्षमी ॥
अफालकृष्टेनाग्नींश्च पितृदेवातिथींस्तथा ॥ 102.2 ॥

भृत्यांस्तु तर्पयेच्छ्मश्रुजटालोमभृदात्मवान् ॥
दान्तस्त्रिसवर्णस्नायी निवृत्तश्च प्रतिग्रहात् ॥ 102.3 ॥

स्वाध्यायवान्ध्यानशीलः सर्वभूतहितेरतः (तिः) ॥
अह्नो मासस्य मध्ये वा कुर्य्याद्वार्थपरिग्रहम् ॥ 102.4 ॥

कृतं त्यजेदाश्वयुजे युञ्जेत्कालं व्रतादिना ॥
पक्षे मासेथवाश्नीयाद्दन्तोलूखलिको भवेत् ॥ 102.5 ॥

चान्द्रायणी स्वपेद्भूमौ कर्म कुर्य्यात्फलादिना ॥
ग्रीष्मे पंचाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ 102.6 ॥

आर्द्रवासास्तु हेमन्ते योगाभ्यासाद्दिनं नयेत् ॥
यः कण्टकैर्वितुदति चन्दनैर्यश्च लिम्पति ॥
अक्रुद्धः परितुष्टश्च समस्तस्य च तस्य च ॥ 102.7 ॥

इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थधर्मनिरूपणं नाम द्वयधिकशततमोऽध्यायः ॥ 102 ॥