गरुडपुराणम्/आचारकाण्डः/अध्यायः १०४

← आचारकाण्डः, अध्यायः १०३ गरुडपुराणम्
अध्यायः १०४
वेदव्यासः
आचारकाण्डः, अध्यायः १०५ →

              ॥याज्ञवल्क्य उवाच ॥
नरकात्पताकोद्भूतात्क्षयात्पापस्य कर्मणः ॥
ब्रह्महा श्वा खरोष्ट्रः स्याद्भेको यकः सुराप्यपि ॥ 104.1 ॥

स्वर्णचोरः कृमिः कीटः तृणादिर्गुरुतल्पगः ॥
क्षयरोगी श्यावदन्तः कुनखी शिपिविष्टकः ॥ 104.2 ॥

ब्रह्महत्याक्रमात्स्युश्च तत्सर्वं वा शिशोर्भवेत् ॥
अन्नहर्त्ता मयावी स्यान्मूको रागापहारकः ॥ 104.3 ॥

धान्यहार्य्यतिरिक्ताङ्गः पिशुनः पूतिनासिकः ॥
तैलाहारी तैलपायी पूतिवक्त्रस्तु सूचकः ॥ 104.4 ॥

ब्रह्मस्वं कन्यकां क्रीत्वा वने रक्षो भवेद्वृषः ॥
रत्नहृद्धीनजातः स्यात्पत्रशाकहरः शिखी ॥ 104.5 ॥

गुच्छं चुचुन्दरी हृत्वा धान्यहृन्मूषको भवेत् ॥
फलं कपिः पशून्हृत्वा त्वजा काकः पयस्तथा ॥ 104.6 ॥

मांसं गृध्रः पटं श्वित्री चीरीलवणहारकः ॥
यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् ॥ 104.7 ॥

जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥
ततो निष्कलुषीभूता कुले महति योगिनः ॥ 104.8 ॥

जायन्ते लक्षणोपेता धनधान्यसमन्विताः ॥ 104.9 ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तकर्मविपाकनिरूपणं नाम चतुरुत्तरशततमोऽध्यायः ॥ 104 ॥