प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः ११३ गरुडपुराणम्
अध्यायः ११४
वेदव्यासः
आचारकाण्डः, अध्यायः ११५ →

श्रीगरुडमहापुराणम् ११४
सूत उवाच ।
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः ।
कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥ १,११४.१ ॥

शोकत्राणं भयत्राणं प्रीतिविश्वासभाजनम् ।
केन रत्नांमदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १,११४.२ ॥

सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ १,११४.३ ॥

न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे ॥ १,११४.४ ॥

यदिच्छेच्छाश्वतीं प्रीतिं त्रीन्दोषान्परिवर्जयेत् ।
द्युतमर्थप्रयोगञ्च परोक्षे दारदर्शनम् ॥ १,११४.५ ॥

मात्रा स्वस्त्रा दुहित्रा वा न विविक्तासनो वसेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १,११४.६ ॥

विपरीतरतिः कामः स्वायतेषु न विद्यते ।
यथोपायो वधो दण्डस्तथैव ह्यनु वर्तते ॥ १,११४.७ ॥

अपि कल्पानिलस्यैव तुरगस्य महोदधेः ।
शक्यते प्रसरो बोद्धुं न ह्यरक्तस्ये चतसः ॥ १,११४.८ ॥

क्षणो नास्ति रहो नास्ति न स्ति प्रार्थयिता जनः ।
तेन शौनक नारीणां सतीत्वमुपजायते ॥ १,११४.९ ॥

एक वै सेवते नित्यमन्यश्चेतपि रोचते ।
पुरुषाणामलाभेन नारी चैव पतिव्रता ॥ १,११४.१० ॥

जननी यानि कुरुते रहस्यं मदनातुरा ।
सुतैस्तानि न चिन्त्यानि शीलविप्रतिपत्तिभिः ॥ १,११४.११ ॥

पराधीना निद्रा परदृदयकृत्यानुसरणं सदा हेला हास्यं नियतमपि शोकेन रहितम् ।
पणे न्यस्तः कायो विटजनखुरैर्दारितगलो बहूत्कण्ठवृतिर्जगति गणिक्राया बहुमतः ॥ १,११४.१२ ॥

अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।
नित्यं परोपसेव्यानि सद्यः प्राणहराणि षट् ॥ १,११४.१३ ॥

किं चित्रं यदि वेद (शब्द) शास्त्रकुशलो विप्रो भवेत्पण्डितः किं चित्रं यदि दण्डनीतिकुशलो राजा भवेद्धार्मिकः ।
किं चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी तच्चित्रं यदि निर्धनोऽपि पुरुषः पापं न कुर्यात्क्रचित् ॥ १,११४.१४ ॥

नात्मच्छिद्रं परे दद्याद्विद्याच्छिद्रं परस्य च ।
गूहेत्कूर्म इवाङ्गानि परभावञ्च लक्षयेत् ॥ १,११४.१५ ॥

पातालतलवा सिन्य उच्चप्राकारसंस्थिताः ।
यदि नो चिकुरोद्भेदाल्लभ्यन्ते कैः स्त्रियो न हि ॥ १,११४.१६ ॥

समधर्मा हि मर्मज्ञस्तीक्ष्णः स्वजनकण्टकः ।
न तथा बाधते शत्रुः कृतवैरो बहिः स्थितः ॥ १,११४.१७ ॥

स पण्डितो यो ह्यनुञ्जयेद्वै मिष्टेन बालं विनियेन शिष्टम् ।
अर्थेन नारीं तपसा हि देवान्सर्वांश्च लोकांश्च सुसंग्रहेण ॥ १,११४.१८ ॥

छलेन मित्रं कलुषेण धर्मं परोपतापेन समृद्धिभावनम् ।
सुखेन विद्यां पुरुषेण नारीं वाञ्छन्ति वै ये न च पण्डितास्ते ॥ १,११४.१९ ॥

फलार्थो फलिनं वृक्षं यश्छिन्द्याद्दुर्मतिर्नरः ।
निष्फलं तस्य वै कार्यां महादोषमवाप्नुयात् ॥ १,११४.२० ॥

सधनो हि तपस्वी च दूरतो वै कृतश्रमः ।
मद्यप स्त्री सतीत्येवं विप्र न श्रद्दधाम्यहम् ॥ १,११४.२१ ॥

न विश्वसेदविश्वस्ते मित्रस्यापि न विश्वसेत् ।
कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ १,११४.२२ ॥

सर्वभूतेषु विश्वासः सर्वभूतेषु सात्त्विकः ।
स्वबावमात्मना गूहेदेतत्साधोर्हि लक्षणम् ॥ १,११४.२३ ॥

यस्मिन्कस्मिन्कृते कार्ये कर्तारमनुवर्तते ।
सर्वथा वर्तमानोऽपि धैर्यबुद्धिन्तु कारयेत् ॥ १,११४.२४ ॥

वृद्धाः स्त्रियो नवं मद्यं शुष्कं मांसं त्रिमूलकम् ।
रात्रौ दधि दिवा स्वप्नं विद्वान्षट्परिवर्जयेत् ॥ १,११४.२५ ॥

विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ।
विषं कुशिक्षिता विद्या अजीर्णे भोजनं विषम् ॥ १,११४.२६ ॥

प्रियं गानमकुण्ठस्य नीचस्योच्चासनं प्रियम् ।
प्रियं दानं दरिद्रस्य भूनश्चतरुणी प्रिया ॥ १,११४.२७ ॥

अत्यम्बुपानं कठिनाशनञ्च धातुक्षयोवेगविधारणञ्च ।
दिवाशयो जागरणञ्च रात्रौ षड्भिर्नराणां निवसन्ति रोगाः ॥ १,११४.२८ ॥

बालातपश्चाप्यतिमैथुनञ्च श्मशानधूमः करतापनञ्च ।
रजस्वलावत्क्रनिरीक्षणञ्च सुदीर्घमायुर्ननु कर्षयेच्च ॥ १,११४.२९ ॥

शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥ १,११४.३० ॥

सद्यः पक्रघृतं द्राक्षा बाला स्त्री क्षीरभोजनम् ।
उष्णोदकं तरुच्छाया सद्यः प्राणहराणि षट् ॥ १,११४.३१ ॥

कूपादकं वटच्छाया नारीणाञ्च पयोधरः ।
शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥ १,११४.३२ ॥

त्रयो बलकराः सद्यो बालाभ्यङ्गसुभोजनम् ।
त्रयो बलहराः सद्यो ह्यध्वा वे मैथुनं ज्वरः ॥ १,११४.३३ ॥

शुष्कं मांसं पयो नित्यं भार्यामित्रैः सहैव तु ।
न भाक्तव्यं नृपैः सार्धं वियोगं कुरुते क्षणात् ॥ १,११४.३४ ॥

कुचेलिन दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्यभाषिणम् ।
सूर्योदये ह्यस्तमयेऽपि शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥ १,११४.३५ ॥

नित्यं छेदस्तृणानं धरणिविलखनं पादयोश्चापमार्ष्टिः दन्तानामप्यशौचं मलिनवसनता रूक्षता मूर्धजानाम् ।
द्वे सध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः स्वाङ्गे पीठे च वाद्यं निधनमुपनयेत्केशवस्यापि लक्ष्मीम् ॥ १,११४.३६ ॥

शिरः सुधौतं चरणौ सुमार्जितौ वराङ्गनासेवनमल्पभोजनम् ।
अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति षट् ॥ १,११४.३७ ॥

यस्य कस्य तु पुष्पस्य पाणाडरस्य विशेषतः ।
शिरसा धार्यमाणस्य ह्यलक्ष्मीः प्रतिहन्यते ॥ १,११४.३८ ॥

दीपस्य पश्चिमा छाया छाया शय्यासनस्य च ।
रजकस्य तु यत्तीर्थलक्ष्मीस्तत्र तिष्ठति ॥ १,११४.३९ ॥

बालातपः प्रेतधूमः स्त्री वृद्धा तरुणं दधि ।
आयुष्कामो न सेवेत तथा संमार्जनीरजः ॥ १,११४.४० ॥

गजाश्वरथधान्यानां गवाञ्चैव रजः शुभम् ।
अशुभं च विजानीयात्खरोष्ट्रजाविकेषु च ॥ १,११४.४१ ॥

गवां रजो धान्यरजः पुत्रस्याङ्गभवं रजः ।
एतद्रजो महाशस्तं महापातकनाशनम् ॥ १,११४.४२ ॥

अजारजः खररजो यत्तु संमार्जनीरजः ।
एतद्रजो महापापं महाकिल्बिषकारकम् ॥ १,११४.४३ ॥

शूर्पवातो नखाग्राम्बु स्नानवस्त्रमृजोदकम् ।
केशाम्बु मार्जनीरेणुर्हन्ति पुण्यं पुरा कृतम् ॥ १,११४.४४ ॥

विप्रयोर्विप्रवह्न्योश्च दम्पत्योः स्वामिनोस्तथा ।
अन्तरेण न गन्तव्यं हयस्य वृषभस्य च ॥ १,११४.४५ ॥

स्त्रीषु राजाग्निसर्पेषु स्वाध्याये शत्रुसेवने ।
भोगास्वादेषु विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ १,११४.४६ ॥

न विश्वसेदविश्वस्तं विश्वस्तं विश्वस्तं नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥ १,११४.४७ ॥

वैरिणा सह सन्धाय विश्वस्तो यदि तिष्ठति ।
स वृक्षाग्रे प्रसुप्तो हि पतितः प्रतिबुध्यते ॥ १,११४.४८ ॥

नात्यन्तं मृदुना भाव्यं नात्यन्तं कूरकर्मणा ।
मृदुनैव मृदुं हन्ति दारुणेनैव दारुणम् ॥ १,११४.४९ ॥

नात्यन्तं सरलैर्भाव्यं नात्यन्तं मृदुना तथा ।
सरलास्तत्र छिद्यन्ते कुब्जास्तिष्ठन्ति पादपाः ॥ १,११४.५० ॥

नमन्ति फलिनो वृक्षा नमन्ति गुणिनो जनाः ।
शुष्कवृक्षाश्च मूर्खाश्च भिद्यन्ते न नमन्ति च ॥ १,११४.५१ ॥

अप्रार्थितानि दुः खानि यथैवायान्ति यान्ति च ।
मार्जार इव लुम्पेत तथा प्रार्थयितार नरः ॥ १,११४.५२ ॥

पूर्वं पश्चाच्चरन्त्यार्ये सदैव बहुसम्पदः ।
विपरीतमनार्ये च यथेच्छसि तथा चर ॥ १,११४.५३ ॥

षट्कर्णो भिद्यते मन्त्रश्चतुः कर्णश्चधार्यते ।
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्त न बुध्यते ॥ १,११४.५४ ॥

तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ।
कोर्ऽथ पुत्रेण जातेन यो न विद्वान्न धार्मिकः ॥ १,११४.५५ ॥

एकेनापि सुपुत्रेण विद्यायुक्तेन धीमता ।
कुलं पुरुषसिंहेन चन्द्रेण गगनं यथा ॥ १,११४.५६ ॥

एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वनं सुवासितं सर्वं सुपुत्रेण कुलं यथा ॥ १,११४.५७ ॥

एको हि गुणवान्पुत्रो निर्गुणेन शतेन किम् ।
चन्द्रो हन्ति तमांस्येको न च ज्योतिः सहस्रकम् ॥ १,११४.५८ ॥

लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ १,११४.५९ ॥

जायमानो हरेद्दारान् वर्धमानो हरेद्धनम् ।
म्रियमाणो हरेत्प्राणान्नास्ति पुत्रसमो रिपुः ॥ १,११४.६० ॥

केचिन्मृगमुखा व्याघ्राः केचिद्व्याघ्रमुखा मृगाः ।
तत्स्वरूपपहिज्ञाने ह्यविश्वासः पदेपदे ॥ १,११४.६१ ॥

एकः क्षमावतां दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ १,११४.६२ ॥

एतदेवानुमन्येत भोगा हि क्षणभङ्गिनः ।
स्निग्धेषु च विदग्धस्य मतयो वै ह्यनाकुलाः ॥ १,११४.६३ ॥

ज्येष्ठः पितृसमो भ्राता मृते पितरि शौनक ।
सर्वेषां स पिता हि स्यात्सर्वेषामनुपालकः ॥ १,११४.६४ ॥

कनिष्ठेषु च सर्वेषु समत्वेनानुवर्तते ।
समापभोगजीवेषु यथैवं तनयेषु च ॥ १,११४.६५ ॥

बहूनामल्पसाराणां समवायो हि दारुणः ।
तृणैरावेष्टिता रज्जुस्तया नागोऽपि बध्यते ॥ १,११४.६६ ॥

अपहृत्य परस्वं हि यस्तु दानं प्रयच्छति ।
स दाता नरकं याति यस्यार्थास्तस्य तत्फलम् ॥ १,११४.६७ ॥

देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ १,११४.६८ ॥

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १,११४.६९ ॥

नाश्रन्ति पितरो देवाः क्षुद्रस्य वृषलीपतेः ।
भार्याजितस्य नाश्रन्ति यस्याश्चोपपतिर्गृहे ॥ १,११४.७० ॥

अकृजज्ञमनार्यञ्च दीर्धरोषमनार्जवम् ।
चतुरो विद्धि चाण्डालाञ्जात्या जायेत पञ्चमः ॥ १,११४.७१ ॥

नोपेक्षितव्यो दुर्बद्धि शत्रुरल्पोऽप्यवज्ञया ।
वह्निरल्पोऽप्यसंहार्यः कुरुते भस्मसाज्जगत् ॥ १,११४.७२ ॥

नवे वयसि यः शान्तः स शान्त इति मे मतिः ।
धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥ १,११४.७३ ॥

पन्थान इव विप्रेन्द्र सर्वसाधारणाः श्रियः ।
मदीया इति मत्वा वै न हि हर्षयुतो भवेत् ॥ १,११४.७४ ॥

चित्तायत्तं धातुवश्यं शरीरं चित्ते नष्टे धातवो यान्ति नाशम् ।
तस्माच्चित्तं सर्वदा रक्षणीयं स्वस्थे चित्ते धातवः सम्भवन्ति ॥ १,११४.७५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे चतुर्दशोत्तरशततमोऽध्यायः