प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः १२३ गरुडपुराणम्
अध्यायः १२४
वेदव्यासः
आचारकाण्डः, अध्यायः १२५ →

श्रीगरुडमहापुराणम् १२४
ब्रह्मोवाच ।
शिवरात्रिव्रतं वक्ष्ये कथां वै सर्वकामदाम् ।
यथा च गौरी भूतेशं पृच्छति स्म परं व्रतम् ॥ १,१२४.१ ॥

ईश्वरौवाच ।
माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी ।
तस्यां जागरणाद्रुद्रः पूजितो भुक्तिमुक्तिदः ॥ १,१२४.२ ॥

कामयुक्तो हरः पूज्यो द्वादश्यामि केशवः ।
उपोषितैः पूजितः सन्नरकात्तरयत्तथा ॥ १,१२४.३ ॥

निषादश्चर्बुदे राजा पापी सुन्दरसेनकः ।
स कुक्रुरैः समायुक्तो मृगान्हन्तुं वनं गतः ॥ १,१२४.४ ॥

मृगादि कमसंप्राप्य क्षुत्पिपासार्दितो गिरौ ।
रात्रौ तडागतीरेषु निकुञ्जे जाग्रदास्थितः ॥ १,१२४.५ ॥

तत्रास्ति लिङ्गं स्वं रक्षञ्छरीरं चाक्षिपत्ततः ।
पर्णानि चापतन्मूर्ध्नि लिङ्गस्यैव न जानतः ॥ १,१२४.६ ॥

तेन धूलिनिरोधाय क्षिप्तं नीरं च लिङ्गके ।
शरः प्रमादेनैकस्तु प्रच्युतः करपल्लवात् ॥ १,१२४.७ ॥

जानुभ्यामवनीं गत्वा लिङ्गं स्प्टष्ट्वा गृहीतवान् ।
एवं स्नानं स्पर्शनं च पूजनं जागरोऽभवत् ॥ १,१२४.८ ॥

प्रातर्गृहागतो भार्यादत्तान्नं भुक्तवान्स च ।
काले मृतो यमभटैः पाशैर्बद्ध्वा तु नीयते ॥ १,१२४.९ ॥

तदा मम गणैर्युद्धे जित्वा मुक्तीकृतः स च ।
कुक्कुरेण सहैवाभूद्गणो मत्पार्श्वगोऽमलः ॥ १,१२४.१० ॥

एवमज्ञानतः पुण्यञ्ज्ञानात्पुण्यमथाक्षयम् ।
त्रयोदश्यां शिवं पूज्य कुर्यात्त नियमं व्रती ॥ १,१२४.११ ॥

प्रातर्देव ! चतुर्दश्यां जागरिष्याम्यहं निशि ।
पूजां दानं तपो होमं करिष्याम्यात्मशक्तितः ॥ १,१२४.१२ ॥

चतुर्दश्यां निराहारो भूत्वा शम्भो परेऽहनि ।
भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥ १,१२४.१३ ॥

पञ्चगव्यामृतैः स्नाप्य तत्काले गुरुं श्रितः ।
ओं नमो नमः शिवाय गन्धाद्यः पूजयेद्धरम् ॥ १,१२४.१४ ॥

तिलतण्डुलव्रीहींश्च जुहुयात्सघृतं चरुम् ।
हुत्वा पूर्णाहुतिं दत्त्वा शृणुयाद्गीतसत्कथाम् ॥ १,१२४.१५ ॥

अर्धरात्रे त्रियामे च चतुर्थे च पुनयर्जत् ।
मूलमन्त्रं तथा जप्त्वा प्रभाते तु क्षमापयेत् ॥ १,१२४.१६ ॥

अविघ्नेन व्रतं देव ! त्वत्प्रसदान्मयार्चितम् ।
क्षमस्व जगतां नाथ ! त्रैलोक्याधिपते हर ! ॥ १,१२४.१७ ॥

यन्मयाद्य कृतं पुण्यं यद्रुद्रस्य निवेदितम् ।
त्वत्प्रसादान्मया देव ! व्रतमद्य समापितम् ॥ १,१२४.१८ ॥

प्रसन्नो भव मे श्रीमन् गृहं प्रति च गम्यताम् ।
त्वदालोकनमात्रेण पवित्रोऽस्मि न संशयः ॥ १,१२४.१९ ॥

भोजयेद्ध्याननिष्ठांश्च वस्त्रच्छत्रादिकं ददेत् ।
देवादिदेव भूतेश लोकानुग्रहकारक ॥ १,१२४.२० ॥

यन्मया श्रद्धया दत्तं प्रीयतां तेन मे प्रभुः ।
इति क्षमाप्य च व्रती कुर्याद्वादशवार्षिकम् ॥ १,१२४.२१ ॥

कीर्तिश्रीपुत्रराज्यादि प्राप्य शैवं पुरं व्रजेत् ।
द्वादशेष्वपि मासेषु प्रकुर्यादिह जागरम् ॥ १,१२४.२२ ॥

व्रती द्वादश संभोज्य दीपदः स्वर्गमाप्नुयात् ॥ १,१२४.२३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवरात्रिव्रतं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः