गरुडपुराणम्/आचारकाण्डः/अध्यायः १२६

← आचारकाण्डः, अध्यायः १२५ गरुडपुराणम्
अध्यायः १२६
वेदव्यासः
आचारकाण्डः, अध्यायः १२७ →

श्रीगरुडमहापुराणम् १२६
ब्रह्मोवाच ।
येनार्चनेन वै लोको जगाम परमां गतिम् ।
तमर्चनं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् ॥ १,१२६.१ ॥

सामान्यमण्डलं न्यस्य धातारं द्वारदेशतः ।
विधातारं तथा गङ्गां यमुनां च महानदीम् ॥ १,१२६.२ ॥

द्वारश्रियं च दण्डं च प्रचण्डं वास्तुपूरुषम् ।
मध्ये चाधारशक्तिं च कूर्मं चानन्तमर्चयेत् ॥ १,१२६.३ ॥

भूमिं धर्मं तथा ज्ञानं वैरग्यैश्वर्यमेव च ।
अधर्मादींश्च चतुरः कन्दं नालं च पङ्कजम् ॥ १,१२६.४ ॥

कर्णिकां केसरं सत्त्वं राजसं तामसं गुणम् ।
सुर्यादिमण्डलान्येव विमलाद्याश्च शक्तयः ॥ १,१२६.५ ॥

दुर्गां गणं सरस्वतीं क्षेत्रपालं च कोणके ।
आसनं मूर्तिमभ्यर्च्य वासुदेवं बलं स्मरन् ॥ १,१२६.६ ॥

अनिरुद्धं महात्मानं नारायणमथार्चयेत् ।
हृदयादीनि चाङ्गानि शङ्खादीन्यायुधानि च ॥ १,१२६.७ ॥