गरुडपुराणम्/आचारकाण्डः/अध्यायः १३३

← आचारकाण्डः, अध्यायः १३२ गरुडपुराणम्
अध्यायः १३३
वेदव्यासः
आचारकाण्डः, अध्यायः १३४ →

श्रीगरुडमहापुराणम् १३३
ब्रह्मोवाच ।
अशोककलिका ह्यष्टौ ये पिबन्ति पुनर्वसौ ।
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥ १,१३३.१ ॥

त्वामशोक ! हराभीष्ट ! मधुमाससमुद्भव ।
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु ॥ १,१३३.२ ॥

(इत्यशोकाष्टमीव्रतम्) ।
ब्रह्मोवाच ।
शुक्लाष्टम्यामाश्वयुजे उत्तराषाढया युता ।
सा महानवमीत्युक्ता स्नानदानादि चाक्षयम् ॥ १,१३३.३ ॥

नवमी केवला चापि दुर्गां चैव तु पूजयेत् ।
महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् ॥ १,१३३.४ ॥

अयाचितादि षष्ठ्यादौ राजा शत्रुजयाया च ।
जपहोमसमायुक्तः कन्यां वा भोजयेत्सदा ॥ १,१३३.५ ॥

दुर्गेदुर्गे रक्षिणि स्वाहा मन्त्रोऽयं पूजनादिषु ।
दीर्घाकारादिमात्राभिर्नव देव्यो नमोऽन्तिकाः ॥ १,१३३.६ ॥

षड्भिः पदैर्नमः स्वाहा वषडादिहृदादिकम् ।
अङ्गुष्ठादिकनिष्ठान्तं न्यस्य वै पृजयेच्छिवाम् ॥ १,१३३.७ ॥

अष्टम्यां नव गेहानि दारुजान्येकमेव वा ।
तस्मिन्देवी प्रकर्तव्या हैमी वाराजतापि वा ॥ १,१३३.८ ॥

शूले खङ्गे पुस्तके वा पटे वा मण्डले (पे) यजेत् ।
कपालं खेटकं घण्टां दर्पणं तर्जनीं धनः ॥ १,१३३.९ ॥

ध्वजं डमरुकं पाशं वामहस्तेषु बिभ्रती ।
शक्तिं च मुद्गरं शूलं वज्रं खङ्गं तथाङ्कुशम् ॥ १,१३३.१० ॥

शरं चक्रं शलाकां च दुर्गामायुधसंयुताम् ।
शेषाः षोडशहस्तां स्युरञ्जनं डमरुं विना ॥ १,१३३.११ ॥

रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥ १,१३३.१२ ॥

नवमी चोग्रचण्डा च मध्यमाग्निप्रभाकृतिः ।
रोचना त्वरुणा कृष्णा नीलं धूम्रा च शुक्रका ॥ १,१३३.१३ ॥

पाता च पाण्डुरा प्रोक्ता आलीढं हरितं तथा ।
म (मा) हिषोऽस्य स खड्गाग्रप्रकचग्रहमुष्टिकः ॥ १,१३३.१४ ॥

जप्त्वा दशाक्षरीं विद्यां नासौ केनापि बध्यते ।
पञ्च (ञ्चा) दशाङ्गुलं खड्गं त्रिशूलं च ततो यजेत् ।
लिङ्गस्यां पूजयेद्वापि पादुकेऽथ जलेऽपि वा ॥ १,१३३.१५ ॥

विचित्रां रक्षयेत्पूजामष्टम्यामुपवासयेत् ।
पञ्चाब्दं महिषं बस्तं रात्रिशेषे च घातयेत् ॥ १,१३३.१६ ॥

विधिवत्कालिकालीति तदुत्थरुधिरादिकम् ।
नेरृत्यां पूतनां चैव वायव्यां पापराक्षसीम् ॥ १,१३३.१७ ॥

दद्याच्चरक्यै चैशान्यामाग्नेय्यां च विदारिकाम् ॥ १,१३३.१८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महानवमीव्रतं नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः