गरुडपुराणम्/आचारकाण्डः/अध्यायः १३९

← आचारकाण्डः, अध्यायः १३८ गरुडपुराणम्
अध्यायः १३९
वेदव्यासः
आचारकाण्डः, अध्यायः १४० →

श्रीगरुडमहापुराणम् १३९
हरिरुवाच ।
सूर्यस्य कथितो वंशः सोमवंशं शृणुष्व मे ।
नारायणसुतो ब्रह्मा ब्रह्मणोऽत्रेः समुद्भवः ॥ १,१३९.१ ॥

अत्रेः सोमस्तस्य भार्या तारा सुरगुरोः प्रिया ।
सोमात्तरा बुधं जज्ञे बुधपुत्रः पुरूरवाः ॥ १,१३९.२ ॥

बुधपुत्रादथोर्वश्यां षट्पुत्रास्तु श्रुतात्मकः ।
विश्वावसुः शतायुश्च आयुर्धोमानमावसुः ॥ १,१३९.३ ॥

अमावसोर्भोमनामा भीमपुत्रश्च काञ्चनः ।
काञ्चनस्य सुहोत्रोऽभूज्जह्रुश्चाभूत्सुहोत्रतः ॥ १,१३९.४ ॥

जह्नोः सुमन्तुरभवत्सुमन्तोरपजापकः ।
बलाकाश्वस्तस्य पुत्रो बलाकाश्वात्कुशः स्मृतः ॥ १,१३९.५ ॥

कुशाश्वः कुशनाभश्चामूर्तरयो वसुः कुशात् ।
गाधिः कुशाश्वात्संजज्ञे विश्वामित्रस्तदात्मजः ॥ १,१३९.६ ॥

कन्या सत्यवती दत्ता ऋचीकाय द्विजाय सा ।
ऋचीकाज्जमदाग्निश्च रामस्तस्याभवत्सुतः ॥ १,१३९.७ ॥

विश्वामित्राद्देवरातमदुच्छन्दादयः सुताः ।
आयुषो नहुषस्तस्मादनेना रजिरम्भकौ ॥ १,१३९.८ ॥

क्षत्त्रवृद्धः क्षत्त्रवृद्धात्सुहोत्रश्चाभवन्नृपः ।
काश्यकाशौगृत्समदः सुहोत्रादभवंस्त्रयः ॥ १,१३९.९ ॥

गृत्समदाच्छौन कोऽभूत्काश्याद्दीर्घतमास्तथा ।
वैद्यो धन्वन्तरिस्तस्मात्केतुमांश्च तदात्मजः ॥ १,१३९.१० ॥

भीमरथः केतुमतो दिवोदासस्तदात्मजः ।
दिवोदासात्प्रतर्दनः शत्रुजित्सोऽत्र विश्रुतः ॥ १,१३९.११ ॥

ऋतध्वजस्तस्य पुत्रो ह्यलर्कश्च ऋतध्वजात् ।
अलर्कात्सन्नतिर्जज्ञे सुनीतः सन्नतेः सुतः ॥ १,१३९.१२ ॥

सत्यकेतुः सुनीतस्य सत्यकेतोर्विभुः सुतः ।
विभोस्तु सुविभुः पुत्रः सुविभोः सुकुमारकः ॥ १,१३९.१३ ॥

सुकुमाराद्धृष्टकेतुर्वोतिहोत्रस्तदात्मजः ।
वीतिहोत्रस्य भर्गोऽभूद्भर्गभूमिस्तदात्मजः ॥ १,१३९.१४ ॥

वैष्णवाः स्युर्महात्मान इत्येते काशयो नृपाः ।
पञ्चपुत्रशतान्यासन्रजेः शक्रेण संहृताः ॥ १,१३९.१५ ॥

प्रतिक्षत्त्रः क्षत्त्रवृद्धात्संजयश्च त दात्मजः ।
विजयः संजयस्यापि विजयस्य कृतः सुतः ॥ १,१३९.१६ ॥

कृताद्वृषधनश्चाभूत्सहदेवस्तदात्मजः ।
सहदेवाददीनोऽभूज्जयत्सेनोऽप्यदीनतः ॥ १,१३९.१७ ॥

जयत्सेनात्संकृतिश्च क्षत्त्रधर्मा च संकृतेः ।
यतिर्ययातिः संयातिरयातिर्विकृतिः क्रमात् ॥ १,१३९.१८ ॥

नहुषस्य सुताः ख्याता ययातेर्नृपतेस्तथा ।
यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ १,१३९.१९ ॥

द्रुह्युं चानुं च पूरुञ्च शर्मिष्ठा वार्षपार्वणी ।
सहस्रजीत्क्रोष्टुमना रघुश्चैव यदोः सुताः ॥ १,१३९.२० ॥

सहस्रजितः शतजित्तस्माद्वै हयहैहयौ ।
अनरण्यो हयात्पुत्रो धर्मो हैहयतोऽभवत् ॥ १,१३९.२१ ॥

धर्मस्य धर्मनेत्रोऽबूत्कुन्तिर्वै धर्मनेत्रतः ।
कुन्तेर्बभूत साहञ्जिर्महिष्मांश्च तदात्मजः ॥ १,१३९.२२ ॥

भद्रश्रेण्यस्तस्य पुत्त्रो भद्रश्रेणयस्य दुर्दमः ।
धनको दुर्दमाच्चैव कृतवीर्यश्च जानकिः ॥ १,१३९.२३ ॥

कृताग्निः कृतकर्मा च कृतौजाः सुमहाबलः ।
कृतवीर्यादर्जुनोऽभूदर्जुनाच्छूरसेनकः ॥ १,१३९.२४ ॥

जयध्वजो मधुः शूरो वृषणः पञ्च सव्रताः ।
जयध्वजात्तालजङ्घो भरतस्तालजङ्गतः ॥ १,१३९.२५ ॥

वृषणस्य मधुः पुत्त्रो मधोर्वृष्ण्यादिवंशकः ।
क्रोष्टोर्विजज्ञिवान्पुत्त्र आहिस्तस्य महात्मनः ॥ १,१३९.२६ ॥

आहेरुशङ्कुः संजज्ञेतस्य चित्ररथः सतः ।
शशबिन्दुश्चित्ररथात्पत्न्यो लक्षञ्च तस्य ह ॥ १,१३९.२७ ॥

दशलक्षञ्च पुत्राणां पृथुकीर्त्यादयो वराः ।
पृथुकीर्तिः पृथुजयः पृथुदानः पृथुश्रवाः ॥ १,१३९.२८ ॥

पृथुश्रवसोऽभूत्तम उशनास्तमसोऽभवत् ।
तत्पुत्रः शितगुर्नाम श्रीरुक्मकवचस्ततः ॥ १,१३९.२९ ॥

रुक्मश्च पृथुरुक्मश्च ज्यामघः पालितो हरिः ।
श्रीरुक्मकवचस्यैते विदर्भो ज्यामघात्तथा ॥ १,१३९.३० ॥

भार्यायाञ्चैव शैब्यायां विदर्भात्क्रथकौशिकौ ।
रोमपादो रोमपादाद्बभ्रुर्बभ्रोर्धृतिस्तथा ॥ १,१३९.३१ ॥

कौशिकस्य ऋचिः पुत्रः ततश्चैद्यो नृपः किल ।
कुन्तिः किलास्य पुत्रोऽभूत्कुन्तेर्वृष्णिः सुतः स्मृतः ॥ १,१३९.३२ ॥

वृष्णेश्च निवृतिः पुत्रो दशार्हे निवृतेस्तथा ।
दशार्हस्य सुतो व्योमा जीमूतश्च तदात्मजः ॥ १,१३९.३३ ॥

जीमूताद्विकृतिर्जज्ञे ततो भीमरथोऽभवत् ।
ततो मधुरथो जज्ञे शकुनिस्तस्य चात्मजः ॥ १,१३९.३४ ॥

करम्भिः शकुनेः पुत्रस्तस्य वै देववान्स्मृतः ।
देवक्षत्त्रो देवनतो देवक्षत्त्रान्मधुः स्मृतः ॥ १,१३९.३५ ॥

कुरुवंशो मधोः पुत्रो ह्यनुश्च कुरुवंशतः ।
पुरुहोत्रो ह्यनोः पुत्रो ह्यंशुश्च पुरुहोत्रतः ॥ १,१३९.३६ ॥

सत्त्वश्रुतः सुतश्चांशोस्ततो वै सात्त्वतो नृपः ।
भजिनो भजमानश्च सात्वतादन्धकः सुतः ॥ १,१३९.३७ ॥

महाभोजो वृष्णि दिव्यावन्यो देवावृधोऽभवत् ।
निमिवृष्णी भजमानादयुताजित्तथैव च ॥ १,१३९.३८ ॥

शतजिच्च सहस्राजिद्बभ्रुर्देवो बृहस्पतिः ।
महाभोजात्तु भोजोऽभूत्तद्वृष्णेश्च सुमित्रकः ॥ १,१३९.३९ ॥

स्वधाजित्संज्ञकस्तस्मादनमित्राशिनी तथा ।
अनमित्रस्य निघ्नोऽभून्निघ्नाच्छत्राजितोऽभवत् ॥ १,१३९.४० ॥

प्रसेनश्चापरः ख्यातो ह्यनमित्राच्छिबिस्तथा ।
शिबेस्तु सत्यकः पुत्रः सत्यकात्सात्यकिस्तथा ॥ १,१३९.४१ ॥

सात्यकेः सञ्जयः पुत्रः कुलिश्चैव तदात्मजः ।
कुलेर्युगन्धरः पुत्रस्ते शैबेयाः प्रकीर्तिताः ॥ १,१३९.४२ ॥

अनमित्रान्वये वृष्णिः श्वफल्कश्चित्रकः सुतः ।
श्वफल्काच्चैवगान्दिन्यामक्रूरो वैष्णवोऽभवत् ॥ १,१३९.४३ ॥

उपमद्गुरथाक्रूराद्देवद्योतस्ततः सुतः ।
देववानुपदेवश्च ह्यक्रूरस्य सुतौ स्मृतौ ॥ १,१३९.४४ ॥

पृथुर्विपृथुश्चित्रस्य त्वन्धकस्य शुचिः स्मृतः ।
कुकुरो भजमानस्य तथा कम्बलबर्हिषः ॥ १,१३९.४५ ॥

धृष्टस्तु कुकुराज्जज्ञे तस्मात्कापोतरोमकः ।
तदात्मजो विलोमा च विलोम्नस्तुम्बुरुः सुतः ॥ १,१३९.४६ ॥

तस्माच्चदुन्दुभिर्जज्ञे पुनर्वसुरतः स्मृतः ।
तस्याहुकश्चाहुकी च कन्या चैवाहुकस्य तु ॥ १,१३९.४७ ॥

देवकश्चोग्रसेनश्च देवकाद्देवकी त्वभूत् ।
वृकदेवोपदेवाच सहदेवा सुरक्षिता ॥ १,१३९.४८ ॥

श्रीदेवी शान्तिदेवी च वसुदेव उवाह ताः ।
देववानुपदेवश्च सहदेवासुतौ स्मृतौ ॥ १,१३९.४९ ॥

उग्रसेनस्य कंसोऽभूत्सुनामा च वटादयः ।
विदूरथो भजमानाच्छूरश्चाभूद्विदूरथात् ॥ १,१३९.५० ॥

विदूरथसुतस्याथ सूरस्यापि शमी सुतः ।
प्रतिक्षत्त्रश्च शमिनः स्वयम्भोजस्तदात्मजः ॥ १,१३९.५१ ॥

हृदिकश्च स्वयम्भोजात्कृतवर्मा तदात्मजः ।
देवः शतधनुश्चैव शूराद्वै देवमीढुषः ॥ १,१३९.५२ ॥

दश पुत्रा मारिषायां वसुदेवादयोऽभवन् ।
पृथा च श्रुतदेवी च श्रुतकीर्तिः श्रुतश्रवाः ॥ १,१३९.५३ ॥

राजाधिदेवो शूराच्च पृथां कुन्तेः सुतामदात् ।
सा दत्ता कुन्तिना पाण्डोस्तस्यां धर्मानिलेन्द्रकैः ॥ १,१३९.५४ ॥

युधिष्ठिरो भीमपार्थो नकुलः सहदेवकः ।
माद्रयां नासत्यदस्त्राभ्यां कुन्त्यां कर्णः पुराभवत् ॥ १,१३९.५५ ॥

श्रुतदेव्यां दन्तवक्रो जज्ञे वै युद्धदुर्मदः ।
सन्तर्दनादयः पञ्च श्रुतकीर्त्याञ्च कैकयात् ॥ १,१३९.५६ ॥

राजाधिदेव्यां जज्ञाते विन्दश्चैवानुविन्दकः ।
श्रुतश्रवा दमघोषात्प्रजज्ञे शिशुपालकम् ॥ १,१३९.५७ ॥

पौरवी रोहीणा भार्या मदिरानकदुन्दुभेः ।
देवकीप्रमुखा भद्रा रोहिण्यां बलभद्रकः ॥ १,१३९.५८ ॥

सारणाद्याः शठश्चैव रेवत्यां बलभद्रतः ।
निशठश्चोल्मुको जातो देवक्यां षट्च जज्ञिरे ॥ १,१३९.५९ ॥

कीर्तिमांश्च सुषेणश्च ह्युदार्यो भद्रसेनकः ।
ऋजुदासो भद्रदेवः कंस एवावधीच्च तान् ॥ १,१३९.६० ॥

संकर्षणः सप्तमोऽभूदष्टमः कृष्ण एव च ।
षोडशस्त्रीसहस्राणि भार्याणाञ्चाभवन्हरेः ॥ १,१३९.६१ ॥

रुक्मिणी सत्यभामा च लक्ष्मणा चारुहासिनी ।
श्रेष्ठा जाम्बवती चाष्टौ जज्ञिरे ताः सुतान्बहून् ॥ १,१३९.६२ ॥

प्रद्युम्नश्चारुदेष्णश्च प्रधानाः साम्ब एव च ।
प्रद्युम्नादनिरुद्धोऽभूत्ककुद्मिन्यां महाबलः ॥ १,१३९.६३ ॥

अनिरुद्धात्सुभद्रायां वज्रो नाम नृपोऽभवत् ।
प्रतिबाहुर्वज्रसुतश्चारुस्तस्य सुतोऽभवत् ॥ १,१३९.६४ ॥

वह्निस्तु तुर्वसोर्वंशे वह्नेर्भर्गोऽभवत्सुतः ।
भर्गाद्भानुरभूत्पुत्रो भानोः पुत्रः करन्धमः ॥ १,१३९.६५ ॥

करन्धमस्य मरुतो द्रुह्योर्वंशं निबोध मे ।
द्रह्योस्तु तनयः सेतुरारद्धश्च तदात्मजः ॥ १,१३९.६६ ॥

आरद्धस्यैव गान्ध रो घर्मो गान्धारतोऽभवत् ।
घृतस्तु घर्मपुत्रोऽभूद्दुर्गमश्च घृस्य तु ॥ १,१३९.६७ ॥

प्रचेता दुर्गमस्यैव अनोर्वंशं शृणुष्व मे ।
अनोः सभानरः पुत्रस्तस्मा कालञ्जयोऽभवत् ॥ १,१३९.६८ ॥

कालञ्जयात्सृञ्जयोऽभूत्सृञ्जयात्तु पुरुञ्जयः ।
जनमेजयस्तु तत्पुत्रो महाशालस्तदात्मजः ॥ १,१३९.६९ ॥

महामना महाशालदुशीनर इह स्मृतः ।
अशीनराच्छिबिर्जज्ञे वृषदर्भः शिवेः सुतः ॥ १,१३९.७० ॥

महामनोजात्तितिक्षोः पुत्रोऽभूच्च रुषद्रथः ।
हेमो रुषद्रथाज्जज्ञे सुतपा हेमतोऽभवत् ॥ १,१३९.७१ ॥

बलिः सुतपसो जज्ञे ह्यङ्गवङ्गकलिङ्गकाः ।
अन्धः पैण्ड्रश्च बालेया ह्यनपानस्तथाङ्गतः ॥ १,१३९.७२ ॥

अनपानाद्दिविरथस्ततो धर्मरथोऽभवत् ।
रोमपादो धर्मरथाच्चतुरङ्गस्तदात्मजः ॥ १,१३९.७३ ॥

पृथुलाक्षस्तस्य पुत्रश्चम्पोऽभूत्पृथुलाक्षतः ।
चम्पपुत्रश्च हर्यङ्गस्तस्य भद्ररथः सुतः ॥ १,१३९.७४ ॥

बृहत्कर्मा सुतस्तस्य बृहद्भानुस्ततोऽभवत् ।
बुहन्मना बृहाद्भानोस्तस्य पुत्रो जयद्रथः ॥ १,१३९.७५ ॥

जयज्रथस्य विजयो विजयस्य धृतिः सुतः ।
धृतेर्धृव्रतः पुत्रः सत्यधर्मा धृतव्रतात् ॥ १,१३९.७६ ॥

तस्य पुत्रस्त्वधिरथः कर्णस्तस्य सुतोऽभवत् ॥ १,१३९.७७ ॥

वृर्षसेनस्तु कर्णस्य पुरुवंश्याञ्छणुष्व मे ॥ १,१३९.७८ ॥

इति श्रीगारुडे महुपाराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चन्द्रवंशवर्णनं नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः