गरुडपुराणम्/आचारकाण्डः/अध्यायः १४

← आचारकाण्डः, अध्यायः १३ गरुडपुराणम्
अध्यायः १४
वेदव्यासः
आचारकाण्डः, अध्यायः १५ →

।।हरिरुवाच ।।
अथ योगं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् ।।
ध्यायिभिः प्रोच्यते ध्येयो ध्यानेन हरिरीश्वरः ।। 14.1 ।।

तच्छृणुष्व महेशान सर्वपापविनाशनम् ।।
विष्णुः सर्वेश्वरोऽनन्तः षड्भिर्भूपरिवर्जितः ।। 14.2 ।।

वासुदेवो जगन्नाथो ब्रह्मात्मास्म्यहमेव हि ।।
देहिदेहस्थितो नित्यः सर्वदेहविवर्जितः ।। 14.3 ।।

देहधर्म्मविहीनश्च क्षराक्षरविवर्जितः ।।
षड्विधेषु स्थितो द्रष्टा श्रोता घ्राता ह्यतीन्द्रियः ।। 14.4 ।।

तद्धर्म्मरहितः स्रष्टा नामगोत्रविवर्जितः ।।
मन्ता मनः स्थितो देवो मनसा परिवर्जितः ।। 14.5 ।।

मनोधर्म्मविहीनश्च विज्ञानं ज्ञानमेव च ।।
बोद्धा बुद्धिस्थितः साक्षी सर्वज्ञो बुद्धिवर्जितः ।। 14.6 ।।

बुद्धिधर्म्मविहीनश्च सर्वः सर्वगतो मनः ।।
सर्वप्राणिविनिर्मुक्तः प्राणधर्म्मविवर्जितः ।। 14.7 ।।

प्राणप्राणो महाशान्तो भयेन परिवर्जितः ।।
अहंकारादिहीनश्च तद्धर्म्मपरिवर्जितः ।। 14.8 ।।

तत्साक्षी तन्नियन्ता च परमानन्दरूपकः ।।
जाग्रत्स्वप्नसुषुप्तिस्थस्तत्साक्षी तद्विवर्जितः ।। 14.9 ।।

तुरीयः परमो धाता दृग्रूपो गुणवर्जितः ।।
मुक्तो बुद्धोऽजरो व्यापी सत्य आत्मास्म्यहं शिवः ।। 14.10 ।।

एवं ये मानवा विज्ञा ध्यायन्तीशं परं पदम् ।।
प्राप्नुयुस्ते च तद्रूपं नात्र कार्य्या विचारणा ।। 14.11 ।।

इति ध्यानं समाख्यातं तव शङ्कर सुव्रत ।।
पठेद्य एतत्सततं विष्णुलोकं स गच्छति ।। 14.12 ।।

।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ध्यानयोगो नाम चतुर्दशोऽध्यायः ।। 14 ।।