गरुडपुराणम्/आचारकाण्डः/अध्यायः १४२

← आचारकाण्डः, अध्यायः १४१ गरुडपुराणम्
अध्यायः १४२
वेदव्यासः
आचारकाण्डः, अध्यायः १४३ →

श्रीगरुडमहापुराणम् १४२
ब्रह्मोवाच ।
विंशादीन्पालयामास ह्यवतीर्णो हरिः प्रभुः ।
दैत्यधर्मस्य नाशार्थं वेदधर्मादिगुप्तये ॥ १,१४२.१ ॥

मत्स्यादिकस्वरूपेण त्ववतारं करोत्यजः ।
मत्स्यो भूत्वा हयग्रीवं दैत्यं हत्वाजिकण्टकम् ॥ १,१४२.२ ॥

वेदानानीय मन्वादीन्पालयामास केशवः ।
मन्दरं धारयामास कूर्मो भूत्वा हिताय च ॥ १,१४२.३ ॥

क्षीरोदमथने वै द्यो देवो धन्वन्तरिर्ह्यर्भूत् ।
बिभ्रत्कमण्डलुं पूर्णममृतेन समुत्थितः ॥ १,१४२.४ ॥

आयुर्वेदमथाष्टाङ्गं सुश्रुताय स उक्तवान् ।
अमृतं पाययामास स्त्रीरूपी च सुरान्हरिः ॥ १,१४२.५ ॥

अवतीर्णो वराहोऽथ हिरण्याक्षं जघान ह ।
पृथिवीं धारयामास पालयामास देवताः ॥ १,१४२.६ ॥

नरसिंहोऽवर्तोर्णोऽथ हिरण्यकशिपुंरिपुम् ।
दैत्यान्निहतवान्वेदधर्मादीनभ्यपालयत् ॥ १,१४२.७ ॥

ततः परशुरामोऽभूज्जमदग्नेर्जगत्प्रभुः ।
त्रिः सप्तकृत्वः पृथिवीं चक्रे निः क्षत्त्रियां हरिः ॥ १,१४२.८ ॥

कार्तवीर्यं जघानाजौ कश्यपाय महीं ददौ ।
यागं कृत्वा महाबाहुर्महेन्द्रे पर्वते स्थितः ॥ १,१४२.९ ॥

ततो रामो भविष्णुश्च चतुर्धा दुष्टर्मदनः ।
पुत्रो दशरथाज्जज्ञे रामश्च भरतोऽनुजः ॥ १,१४२.१० ॥

लक्ष्मणश्चाथ शत्रुघ्नो रामभार्या च जानकी ।
रामश्च पितृसत्यार्थं मातृभ्यो हितमाचरन् ॥ १,१४२.११ ॥

शृङ्गवेरं चित्रकूटं दण्डकारण्यमागतः ।
नासां शूर्पणखायाश्च च्छित्त्वाथ खरदूषणम् ॥ १,१४२.१२ ॥

हत्वा स राक्षसं सीतापहारिरजनीचरम् ।
रावणं चानुजं तस्य लङ्कापुर्यां विभीषणम् ॥ १,१४२.१३ ॥

रक्षोराज्ये च संस्थाप्य सुग्रीवनुमन्मुखैः ।
आरुह्य पुष्पकं सार्धं सीतया पतिभक्तया ॥ १,१४२.१४ ॥

लक्ष्मणेनानुकूलेन ह्ययोध्यां स्वपुरीं गतः ।
राज्यं चकार देवादीन्पालयामास स प्रजाः ॥ १,१४२.१५ ॥

धर्मसंरक्षणं चक्रे ह्यश्वमेधादिकान्क्रतून् ।
सा महीपतिना रेमे रामेणैव यथासुखम् ॥ १,१४२.१६ ॥

रावणस्य गृहे सीता स्थिता भेजे न रावणम् ।
कर्मणा मनसा वाचा सा गता राघवं सदा ॥ १,१४२.१७ ॥

पतिव्रता तु सा सीता ह्यनसूया यथैव तु ।
पतिव्रताया माहात्म्यं शृणु त्वं कथयाम्यहम् ॥ १,१४२.१८ ॥

कौशिको ब्राह्मणः कुष्ठी प्रतिष्ठानेऽभवत्पुरा ।
तं तथा व्याधितं भार्या पतिं देवमिवार्चयत् ॥ १,१४२.१९ ॥

निर्भर्त्सितापि भर्तारं तममन्यत दैवतम् ।
भर्त्रोक्ता सानयद्वेश्यां शुल्कमादाय चाधिकम् ॥ १,१४२.२० ॥

पथि सूले तदा प्रोतमचौरं चौरशङ्कया ।
माण्डव्यमतिदुः खार्तमन्धकारेऽथ स द्विजः ॥ १,१४२.२१ ॥

पत्नीस्कन्धसमारूढश्चालयामास कौशिकः ।
पादावमर्शणत्क्रुद्धो माण्डव्यस्तमुवाच ह ॥ १,१४२.२२ ॥

सूर्योदये मृतिस्तस्य येनाहं चालितः पदा ।
तच्छ्रुत्वा प्राह तद्भार्या सूर्यो नोदयमेष्यति ॥ १,१४२.२३ ॥

ततः सूर्योदयाभावाद भवत्सततं निशा ।
बहून्यब्दप्रमाणानि ततो देवा भयं ययुः ॥ १,१४२.२४ ॥

ब्रह्माणं शरणं जग्मुस्तामूचे पद्मसम्भवः ।
प्रशाम्यते तेजसैव तपस्तेजस्त्वनेन वै ॥ १,१४२.२५ ॥

पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः ।
तस्य चानुदयाद्धानिर्मर्त्यानां भवतां तथा ॥ १,१४२.२६ ॥

तस्मात्पतिव्रतामत्रेरनसूयां तपस्विनीम् ।
प्रसादयत वै पत्नीं भानोरुदयकाम्यया ॥ १,१४२.२७ ॥

तैः सा प्रसादिता गत्वा ह्यनसूया पतिव्रता ।
कृत्वादित्योदयं सा च तं भर्तारमजीवयत् ।
पतिव्रतानसूयायाः सीताभूदधिका किल ॥ १,१४२.२८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दशावतारदृ नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः